स्वर्गारोहणपर्व

श्रीः

अध्यायः 001

स्वर्गं गतेन युधिष्ठिरेण तत्र महासमुच्छ्रयेण शोभमानदुर्योधनदर्शनम् ॥ 1 ॥ तथा तदुस्कर्षासहिष्णुतया तदीयदोषो द्धाटनेन तेन सह स्वन स्वर्गवासानभिरोचननिवेदनपूर्वकं नारदंप्रति स्वस्य भ्रात्रादिदिदृक्षानिवेदनम् ॥ 2 ॥

श्रीवेदव्यासाय नमः ।
नारायणं नस्कृत्य नरं चैव नरोत्तमम् ।
देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् ॥
जनमेजय उवाच ।
स्वर्गं त्रिविष्टपं प्राप्य मम पूर्वपितामहाः ।
पाण्डवा धार्तराष्ट्राश्च कानि स्थानानि भेजिरे ॥
एतदिच्छाम्यहं श्रोतुं सर्वविच्चासि मे मतः ।
महर्षिणाऽभ्यनुज्ञातो व्यासेनाद्भुतकर्मणा ॥
वैशम्पायन उवाच ।
स्वर्गं त्रिविष्टपं प्राप्य तव पूर्वपितामहाः ।
युधिष्ठिरप्रभृतयो यदकुर्वत तच्छृणु ॥
स्वर्गं त्रिविष्टपं प्राप्य धर्मराजो युधिष्ठिरः ।
दुर्योधनं श्रिया जुष्टं ददर्शासीनमासने ॥
भ्राजमानमिवादित्यं वीरलक्ष्म्याऽभिसंवृतम् ।
देवैर्भ्राजिष्णुभिः साध्यैः सहितं पुण्यकर्मभिः ॥
ततो युधिष्ठिरो राजा दुर्योधनममर्षितः ।
सहसा सन्निवृत्तोऽभूच्छ्रियं दृष्ट्वा सुयोधने ॥
ब्रुवन्नुच्चैर्वचस्तान्वै नाहं दुर्योधनेन वै ।
सहितः कामये लोकाँल्लब्धेनादीर्घदर्शिना ॥
यत्कृते पृथिवी सर्वा सुहृदो बान्धवास्तथा ।
हतास्माभिः प्रसह्याजौ किल्ष्टैः पूर्वं महावने ॥
द्रौपदी च सभामध्ये पाञ्चाली धर्मचारिणी ।
पर्याकृष्टाऽनवद्याङ्गी पत्नी नो गुरुसन्निधौ ॥
अस्ति देवा न मे कामः सुयोधनमुदीक्षितुम् ।
तत्राहं गन्तुमिच्छामि यत्र ते भ्रातरो मम ॥
नैवमित्यब्रवीत्तं तु नारदः प्रहसन्निव ।
स्वर्गे निवासे राजेन्द्र विरुद्धं चापि नश्यति ॥
युधिष्ठिर महाबाहो मैवं वोचः कथञ्चन ।
दुर्योधनं प्रति नृपं शृणु चेदं वचो मम ॥
एष दुर्योधनो राजा पूज्यते त्रिदशैः सह । सद्भिश्च राजप्रवरैते इमे स्वर्गवासिनः ।
वीरलोकगतिं प्राप्ता युद्धे हुत्वाऽऽत्मनस्तनुम् ।
यूयं सर्वे सुरसमा येन युद्धेन बाधिताः ॥
स एष क्षत्रधर्मेण स्थानमेतदवाप्तवान् ।
भये महति योऽभीतो बभूव पृथिवीपतिः ॥
न तन्मनसि कर्तव्यं पुत्र यद्द्यूतकारितम् ।
द्रौपद्याश्च परिक्लेशं न चिन्तयितुमर्हसि ॥
ये चान्येऽपि परिक्लेशा युष्माकं ज्ञातिकारिताः ।
संग्रामेष्वथवाऽन्यत्र न तान्संस्मर्तुमर्हसि ॥
समागच्छ यथान्यायं राज्ञा दुर्योधनेन वै ।
स्वर्गोऽयं नेह वैराणि भन्ति मनुजाधिप ॥
नारदेनैवमुक्तस्तु कुरुराजो युधिष्ठिरः ।
भ्रातॄन्पप्रच्छ मेधावी वाक्यमेतदुवाच ह ॥
यदि दुर्योधनस्यैते वीरलोकाः सनातनाः ।
अधर्मज्ञस्य पापस्य पृथिवीसुहृदद्रुहः ॥
यत्कृते पृथिवी नष्टा सहसा सनरद्विपा ।
वयं च मन्युना दग्धा वैरं प्रतिचिकीर्षवः ॥
ये ते वीरी महात्मानो भ्रातरो मे महाव्रताः । सत्यप्रतिज्ञा लोकस्य शूरा वै सत्यवादिनः ।
तेषामिदानीं के लोका द्रष्टुमिच्छामि तानहम् ॥
कर्णं चैव महात्मानं कौन्तेयं सत्यसङ्गरम् ।
धृष्टद्युम्नं सात्यकिं च धृष्टद्युम्नस्य चात्मजान् ॥
ये च शस्त्रैर्वधं प्राप्ताः क्षत्रधर्मेण पार्थिवाः ।
क्वनु ते पार्थिवान्ब्रह्मन्नैतान्पश्यामि नारद ॥
विराटद्रुपदौ चैव धृष्टकेतुमुखांश्च तान् । शिखण्डिनं च पाञ्चाल्यं द्रौपदेयांश्च सर्वशः ।
अभिमन्युं च दुर्धर्षं द्रष्टुमिच्छामि नारद ॥ ॥

इति श्रीमन्महाभारते स्वर्गारोहणपर्वणि प्रथमोऽध्यायः ॥ 1 ॥

7-1-1 त्रीणि विष्टपानि भुवनानि फलोत्कर्षवशाद्यत्रान्तर्भवन्ति तादृशं स्वर्गं प्राप्य ॥ 7-1-6 तत इति । स्वर्गेऽप्यमर्षो दुस्त्यज इति संस्काराणां प्राबल्यमुक्तम् ॥ 7-1-9 हताः अस्माभिः संधिरार्षः ॥ 7-1-11 विरुद्धं वैरादिकं नश्यति अन्तर्धीयते ॥ 7-1-20 सुहृद इत्यदन्तः शब्दः ॥

श्रीः