अध्यायः 005

वैशंपायनेन जनमेजयंप्रति भीष्मद्रोणादीनां स्वस्वसुकृतफलत्वेन स्वर्गभोगानन्तरं स्वैस्स्वैरंशिभिः सहैक्यप्राप्तिकथनम् ॥ 1 ॥ जनमेजयेन यज्ञान्ते सबहुमानमास्तिकादिप्रेषणपूर्वकं तक्षशिलातो हास्तिनमेत्य प्रजापालनपूर्वकं सुखनिवासः ॥ 2 ॥ सौतिना शौनकादीन्प्रति जनमेयाय वैशम्पायनोक्तभारतकथनसमापनपूर्वकं भारतमहिमप्रशंसनम् ॥ 3 ॥

जनमेजय उवाच ।

भीष्मद्रोणौ महात्मानौ धृतराष्ट्रश्च पार्थिवः ।
विराटद्रुपदौ चोभौ शङ्खश्चैवोत्तरस्तथा ॥
धृष्टकेजुर्जयत्सेनो राजा चैव स सत्यजित् ।
दुर्योधनसुताश्चैव शकुनिश्चैव सौबलः ॥
कर्णपुत्राश्च विक्रान्ता राजा चैव जयद्रथः ।
घटोत्कवादयश्चैव ये चान्ये नानुकीर्तिताः ॥
ये चान्ये कीर्तिता वीरा राजानो दीप्तमूर्तयः ।
स्वर्गे कालं कियन्तं ते तस्थुस्तदपि शंस मे ॥
आहोस्विच्छाश्वतं स्थानं तेषां तत्र द्विजोत्तम ।
अन्ते वा कर्मणां कां ते गतिं प्राप्ता नरर्षभाः ॥
एतदिच्छाम्यहं श्रोतुं प्रोच्यमानं द्विजोत्तम ।
तपसा हि प्रदीप्तेन सर्वं त्वमनुपश्यति ॥
सौतिरुवाच ।
इत्युक्तः स तु विप्रर्षिरनुज्ञातो महात्मना । व्यासेन तस्य नृपतेराख्यातुमुपचक्रमे ।
वैशम्पायन उवाच ।
गन्तव्यं कर्मणामन्ते सर्वेषां मनुजाधिप । शृणु गुह्यमिदं राजन्देवानां भरतर्षभ ।
यदुवाच महातेजा दिव्यचक्षुः प्रतापवान् ॥
मुनिः पुराणः कौरव्य पाराशर्यो महाव्रतः ।
अगाधबुद्धिः सर्वज्ञो गतिज्ञः सर्वकर्मणाम् ॥
तेनोक्तं कर्मणामन्ते प्रविशन्ति स्विकां तनुम् ॥
वसूनेव महातेजा भीष्मः प्राप महाद्युतिः ।
अष्टावेव हि दृश्यन्ते वसवो भरतर्षभ ॥
बृहस्पतिं विवेशाथ द्रोणो ह्यङ्गिरसां वरम् ।
कृतवर्मा तु हार्दिक्यः प्रविवेश मरुद्गणान् ॥
सनत्कुमारं प्रद्युम्नः प्रविवेश यथागतम् ।
धृतराष्ट्रो धनेशस्य लोकान्प्राप दुरासदान् ॥
धृतराष्ट्रो सहिता गन्धारी च यशस्विनी ।
पत्नीभ्यां सहितः पाण्डुमहेन्द्रसदनं ययौ ॥
विराटद्रुपदौ चोभौ धृष्टकेतुश्च पार्थिवः ।
निशठाक्रूरसाम्बाश्च भानुः कण्वो विदूरथः ॥
भूरिश्रवाः शलश्चैव भूरिश्च पृथिवीपतिः ।
कंशश्चैवोग्रसेनश्च वसुदेवस्तथैव च ॥
उत्तरश्च सह भ्रात्रा शङ्खेन नरपुङ्गवः ।
विश्वेषां देवतानां ते विविशुर्नरसत्तमाः ॥
[वर्चा नाम महातेजाः सोमपुत्रः प्रतापवान् ।
सोभिमन्युर्नृसिंहस्य फल्गुनस्य सुतोऽभवत् ॥
स युद्ध्वा क्षत्रधर्मेण यथा नान्यः पुमान्क्वचित् ।] विवेश सोमं धर्मात्मा कर्मणोन्ते मरारथः ॥
आविवेश रविं कर्णो निहतः पुरुषर्षभ ।
द्वापरं शकुनिः प्राप धृष्टद्युम्नस्तु पावकम् ॥
धृतराष्ट्रात्मजाः सर्वे यातुधानान्प्रपेदिरे ।
धर्ममेवाविशत्क्षत्ता राजा चैव युधिष्ठिरः ॥
अनन्तो भगवान्देवः प्रविवेश रसातलम् ।
पितामहनियोगाद्वै यो योगाद्गामधारयत् ॥
यः स नारायणो नाम देवदेवः सनातनः ।
तस्यांशो वासुदेवस्तु कर्मणोन्ते विवेश ह ॥
षोडशस्त्रीसहस्राणि वासुदेवपरिग्रहाः ।
अमज्जंस्ताः सरस्वत्यां कालेन जनमेजय ॥
तत्र त्यक्त्वा शरीराणि दिवमारुरुहुः पुनः ।
ताश्चैवाप्सरसो भूत्वा वासुदेवमुपाविशन् ॥
हतास्तस्मिन्महायुद्धे ये वीरास्तु महारथाः ।
घटोत्कचादयश्चैव देवान्यक्षांश्च भेजिरे ॥
दुर्योधनसहायाश्च राक्षसा येऽनुकीर्तिताः ।
प्राप्तास्ते क्रमशो राजन्सर्वलोकाननुत्तमान् ॥
भवनं च महेन्द्रस्य कुबेरस्य च धीमतः ।
वरुणस्य तथा लोकान्विविशुः पुरुषर्षभाः ॥
एतत्ते सर्वमाख्यातं विस्तरेण महाद्युते ।
कुरूणां चरितं कृत्स्नं पाण्डवानां च भारत ॥
सौतिरुवाच ।
एतच्छ्रुत्वा द्विजश्रेष्ठात्स राजा जनमेजयः ।
विस्मितोऽभवदत्यर्थं यज्ञकर्मान्तरेष्वथ ॥
ततः समापयामासुः कर्म तत्तस्य याजकाः ।
आस्तिकश्चाभवत्प्रीतः परिमोक्ष्य भुजङ्गमान् ॥
ततो द्विजातीन्सर्वास्तान्दक्षिणाभिरतोषयत् ।
पूजिताश्चापि ते राज्ञा ततो जग्मुर्यथागतम् ॥
विसर्जयित्वा विप्रांस्तान्राजाऽपि जनमेजयः ।
हृष्टस्तक्षशिलायाः स पुनरायाद्गचाह्वयम् ॥
एतत्ते सर्वमाख्यातं वैशम्पायनकीर्तितम् ।
व्यासाज्ञया समाज्ञातं सर्पसत्रे नृपस्य हि ॥
पुण्योऽयमितिहासाख्यः पवित्रं चेदमुत्तमम् ।
कृष्णेन मुनिना विप्र निर्मितं सत्यवादिना ॥
सर्वज्ञेन विधिज्ञेन धर्मज्ञानवता सता ।
अतीन्द्रियेण शुचिना तपसा भावितात्मना ॥
ऐश्वर्ये वर्तता चैव साङ्ख्ययोगवता तथा ।
नैकतन्त्रविबुद्धेन दृष्ट्वा दिव्येन चक्षुषा ॥
कीर्तिं प्रथयता लोके पाण्डवानां महात्मनाम् ।
अन्येषां क्षत्रियाणां च भूरिद्रविणतेजसाम् ॥
`क्रीडां च वासुदेवस्य देवदेवस्य शाङ्गिणः । विश्वेषां देवभागानां जन्मसायुज्यमेव च ॥ '
य इदं शृणुयाद्विद्वान्पर्वसु द्विजसत्तमः ।
धूतपाप्मा जितस्वर्गो ब्रह्मभूयाय गच्छति ॥
कार्ष्णं वेदमिमं सर्वं शृणुयाद्यः समाहितः ।
ब्रह्महत्याकृतं पापं तत्क्षणादेव नश्यति ॥
यश्चेदं श्रावयेच्छ्राद्धे ब्राह्मणान्पादमन्ततः ।
अक्षय्यमन्नपानं वै पितॄंस्तस्योपतदिष्ठते ॥
अह्ना यदेनः कुरुते इन्द्रियैर्मनसाऽपि वा ।
महाभारतमाख्याय सर्पपापैः प्रमुच्यते ॥
[यद्रात्रौ कुरुते पापं ब्राह्मणः स्त्रीगणैर्वृतः ।
महाभारतमाख्याय पूर्वां सन्ध्यां प्रमुच्यते ॥
महत्त्वाद्भारवत्त्वाच्च महाभारतमुच्यते ।
निरुक्तमस्य यो वेद सर्वपापैः प्रमुच्यते ॥
अष्टादशपुराणानि धर्मशास्त्राणि सर्वशः ।
वेदाः साङ्गास्तथैकत्र भारतं चैकतः स्थितम् ॥
श्रूयतां सिंहनादोऽयमृषेस्तस्य महात्मनः ।
अष्टादशपुराणानां कर्तुर्वेदमहोदधेः ॥
त्रिभिर्वर्षैर्महत्पुण्यं कृष्णद्वैपायनः प्रभुः ।
अखिलं भारतं चेदं चकार भगवान्मुनिः ॥
[आकर्ण्य भक्त्या सततं जयाख्यं भारतं महत् । श्रीश्च कीर्तिस्तथा विद्या भवन्ति सहिताः सदा ॥]
धर्मे चार्थे च कामे च मोक्षे च भरतर्षभ ।
यदिहास्ति तदन्यत्र यन्नेहास्ति न कुत्रिचित् ॥
"वाच्यते यत्र सततं जयाख्यं भारतं महत् ।
श्रीश्व कीर्तिश्च विद्या च भवन्ति मुदिताः सदा ॥
भारतस्य तु वक्तारं ब्रह्मर्षि च महागुरुम् ॥
वैशंपायनमारोप्य स्वर्णभद्रासनं तदा ॥
जनमेजयादिराजान आस्तिकाद्या द्विजातयः ।
धर्मदत्तादिवैश्याश्च सोम्यवंश्यादिशूद्रकाः ॥
प्रयुतं चायुतं चेति सहस्रं शतमित्यपि ।
दशकं चेति निष्काणामानर्चुस्तं महागुरुम् ॥
निष्काणां दशकं दत्त्वा मृतपुत्रोऽमृतप्रजः ।
ऊष्मादिव्याधियुक्तश्च शतं दत्त्वा निरामयः ॥
सहस्रदानात्संतानहीनः संतानपुत्रवान् ।
आयुरारोग्यमैश्वर्यं भेजुस्तेऽन्नं च पुत्रकान् ॥
सुवर्णं रजतं रत्नं सर्वाण्याभरणानि च ।
सर्वोपकरणैर्युक्तं निधिनिक्षेपसंयुतम् ॥
इष्टकाभित्तिसंयुक्तमग्निबाधादिवर्जितम् । देवपूजाग्निहोत्रादिपाठार्थगृहसंयुतम् ।
सान्तर्बहिस्संवरणं सप्रासादं सगोगृहम् ॥
व्यष्ट्या समष्ट्या वा दद्यात्स्वर्गारोहणपर्वणि ।
निवृत्तिकामो दद्याच्चेत्पुनर्जन्म न विद्यते ॥
सकामश्चेद्ब्रह्मकल्पं सुकं ब्रह्मगृहे वसेत् ॥
पुराणमुखतो यस्माद्वेदान्तज्ञानमाप्यते ।
स तेन गुरुराख्यातस्तत्पूजा हीशपूजनम् ॥
भारतस्य तु वक्तारं श्रोतारं लेखकांस्तदा ।
प्रपूजयन्ति संहृष्टाः सिद्धाश्च परमर्षयः ॥
महाभारतवक्तारं नार्चयन्तीह ये नराः । तेषां सर्वक्रियाहानिर्भवेद्देवाः शपन्ति च ॥'
जयो नामेतिहासोऽयं श्रोतव्यो जयमिच्छता ।
राज्ञा राजसुतैश्चैव गर्भिण्या चैव योषिता ॥
[स्वर्गकामो लभेत्स्वर्गं जयकामो लभेज्जयम् ।
गर्भिणी लभते पुत्रं कन्यां वा बहुभागिनीम् ॥
अनागतश्च मोक्षश्च कृष्णद्वैपायनः प्रभुः ।
संदर्भं भारतस्यास्य कृतवान्धर्मकाम्यया ॥
षष्टिं शतसहस्राणि चकारान्यां स संहिताम् ।
त्रिंशच्छतसहस्राणि देवलोके प्रतिष्ठितम् ॥
पित्र्ये पञ्चदशं ज्ञेयं यक्षलोके चतुर्दश ।
एकं शतसहस्रं तु मानुषेषु प्रभाषितम् ॥
नारदोऽश्रावयद्देवानसितो देवलः पितॄन् ।
रक्षोयक्षाञ्शुको मर्त्यान्वैशम्पायन एव तु ॥
इतिहासमिमं पुण्यं महार्थं वेदसंमितम् ।
व्यासोक्तं श्रूयते येन कृत्वा ब्राह्म्णमग्रतः ॥
स नरः सर्वकामांश्च कीर्तिं प्राप्येह शौनक ।
गच्छेत्परमिकां सिद्धिमत्र मे नास्ति संशयः ॥
भारताध्ययनात्पुण्यादपि पादमधीयतः । श्रद्धया परया भक्त्या श्राव्यते चापि येन तु ।
य इमां संहितां पुण्यां पुत्रमध्यापयच्छुकम् ॥
मातापितृसहस्राणि पुत्रदारशतानि च ।
संसारेष्वनुभूतानि यान्ति यास्यन्ति चापरे ॥
हर्षस्थानसहस्राणि भयस्थानशतानि च ।
दिवसेदिवसे मूढमाविशन्ति न पण्डितम् ॥
ऊर्ध्वबाहुर्विरौम्येष न च कश्चिच्छृणोति मे ।
धर्मादर्थश्च कामश्च स किमर्थं न सेव्यते ॥
न जातु कामान्न भयान्न लोभा- द्धर्मं त्यजेज्जीवितस्यापि हेतोः ।
नित्यो धर्मः सुखदुःखे त्वनिथ्ये जीवो नित्यो हेतुरस्य त्वनित्यः ॥
इमां भारतसावित्रीं प्रातरुत्थायः यः पठेत् ।
स भारतफलं प्राप्य परं ब्रह्माधिगच्छति ॥
कयथा समुद्रो भगवान्यथा हि हिमवान्गिरिः ।
ख्यातावुभौ रत्ननिधी तथा भारतमुच्यते ॥
कार्ष्णं देवमिमं विद्वाञ्श्रावयित्वाऽर्थमश्नुते । इदं भारतमाख्यानं यः पठेत्सुसमाहितः ।
स गच्छेत्परमां सिद्धिमिति मे नास्ति संशयः ॥
द्वैपायनोष्ठपुटनिस्सृतमप्रमेयं पुण्यं पवित्रमथ पापहरं शिवं च ।
यो भारतं समधिगच्छति वाच्यमानं किं तस्य पुष्करजलैरभिषेचनेन ॥
यो गोशतं कनकशृङ्गमयं ददाति विप्राय वेदविदुषे सुबहुश्रुताय ।
पुण्यां च भारतकथां सततं शृणोति तुल्यं फलं भवति तस्य च तस्य चैव ॥]
"यद्यदिष्टतमं कामं लभते श्रद्धयाऽन्वितः ।
शृणुयान्मुदितो भूत्वा आस्तिको बुद्धिसंयुतः ॥
वासुदेवं स्मरन्विद्वान्पुण्डरीकायतेक्षणम् ।
इतिहासमिमं पुण्यं महार्थं वेदसंमितम् ॥
श्रावयेद्यस्तु वर्णादीन्कृत्वा ब्राह्मणमग्रतः ।
सर्वपापविशुद्धात्मा शुचिस्तद्गतमानसः ॥
इह कीर्तिं महत्प्राप्य भोगवान्सुखमश्नुते ।
व्यासप्रसादेन पुनः स्वर्गलोकं स गच्छति ॥
एतद्विदित्वा सर्वं तु सर्ववेदार्थविद्भवेत् । पूजनीयश्च सततं माननीयो भवेद्द्विजः ॥" ॥

इति श्रीमन्महाभारते शतसाहस्र्यां संहितायां वैयासिक्यां स्वर्गारोहणपर्वणि पञ्चमोऽध्यायः ॥ 5 ॥ ॥ समाप्तं स्वर्गारोहणपर्व ॥ 18 ॥ इति श्रीमन्महाभारतं समाप्तम् ॥ ---------------

7-5-8 न शक्यं कर्मिणामन्ते सर्वेण मनुजाधिप । प्रकृतिं किंनु सम्यक्ते पृच्छैषा सम्प्रयोजितेतिय ज्ञ. पाठः ॥ 7-5-36 विधिज्ञेन दैवज्ञेन । अतीन्द्रियेणेन्द्रियाण्यतिक्रान्तेन ॥ 7-5-38 सर्वेषां तृतीयान्तानां निर्मितमित्यनेनान्वयः । अन्येषामपि कीर्तिवासुदेवस्य क्रीडां च प्रथयतेति सम्बन्धः ॥ 7-5-40 यश्चेदं श्रावयेद्विद्वान्सदा पर्वणिपर्वणि । ब्रह्मभूयाय कल्पते । इति झ.पाठः ॥ 7-5-41 ब्रह्महत्यादिप्पपानां कोटिस्तस्य विनश्यति इति झ.पाठः । 7-5-42 अन्ततो निकटे ॥ 7-5-43 आख्याय पश्चात्संध्यां प्रमुच्यत इति झ.पाठः । तत्र महाभारतस्याल्पमपि पश्चिमायां संध्यायां पठ्यते चेद्दिनकृतं पापं नश्यति । एवं प्रातः संध्यायां रात्रिकृतमित्यर्थः ॥ 7-5-45 निरुक्तं नामनिर्वचनं ॥ 7-5-48 त्रिभिर्वर्षैरिदं पूर्णमिति झ.पाठः ॥ 7-5-50 चकारचतुष्टयादधर्मादिचतुष्टयमप्यत्रोक्तं हानार्तमिति बोध्यम् ॥ 7-5-64 श्रोतव्यो मोक्षमिच्छता । ब्राह्मणेन च राज्ञा च गार्भिण्या इति पाठः ॥ 7-5-66 अनागतोऽनागन्तुको नित्यसिद्ध इतियावत् । एवंविधो यो मोक्षः कैवल्यं तदेव स्वरूपं यस्य स मोक्षः । यद्वा मोक्तुमिच्छन् । मुचोऽकर्मिकस्य गुणो वेति सनि गुणोऽभ्यासलोपश्च । मुमुक्षुरित्यर्थः । लोकहित इति भावः ॥ 7-5-67 अन्यां वेदचतुष्टयसंहिताभ्यः पृथग्भूतां तदर्थवतीम् ॥ 7-5-70 श्रूयते येन यः शृणोतीत्यर्थः । उभयत्र विभक्तिव्यत्यय आर्षः ॥ 7-5-72 भारताध्ययनादिति सार्धश्लोकः । यः व्यासः इमां संहितां शुकं पुत्रं अध्यापयत् । तस्य अधीयतो भारताख्यमितिहासं स्मरतः । स्मृत्वा च ग्रन्थरूपेण प्रणयतः । भक्त्या परया श्रद्धया च व्यास एव पूज्यस्तस्य वाक्यं प्रमाणमेवेत्यास्तिक्यबुद्द्या येन पुंसा इदं श्राव्यते सु पुण्यात् पुण्यकरात् अपि पादं श्लोकपादं ग्रन्थपादं वा भारतस्याध्ययनात्परमिकां सिद्धिं गच्छेदिति पूर्वेणान्वयः । व्यासे श्रद्धां बद्ध्वा भारतमध्येव्यभित्यर्थः ॥ 7-5-73 संध्यायां भारतं पठनीयमित्युक्तं तत्र पठनायोग्यं भारतसारसंप्रहं चतुः श्लोकीरूपमाह मातेति ॥

श्रीः