भारतश्रवणविध्यध्यायः ।

जनमेजय उवाच ।

भगवन्केन विधिना श्रोतव्यं भारतं बुधैः ।
फलं किं के च देवाश्च पूज्या वै पारणेष्विह ॥
देयं समाप्ते भगवन्किं च पर्वणिपर्वणि ।
वाचकः कीदृशश्चात्र एष्टव्यस्तद्ब्रवीहि मे ॥
वैशम्पायन उवाच ।
शृणु राजन्विधिमिमं फलं यच्चापि भारतात् ।
श्रुताद्भवति राजेन्द्र यत्त्वं मामनुपृच्छसि ॥
दिवि देवा महीपाल क्रीडार्थमवनिं गताः ।
कृत्वा कार्यमिदं चैव ततश्च दिवमागताः ॥
हन्त यत्ते प्रवक्ष्यामि तच्छृणुष्व समाहितः ।
ऋषीणां देवतानां च सम्भवं वसुधातले ॥
अत्र रुद्रास्तथा साध्या विश्वेदेवाश्च शाश्वताः ।
आदित्याश्चाश्विनौ देवौ लोकपाला महर्षयः ॥
गुह्यकाश्च सगन्धर्वा नागा विद्याधरास्तथा ।
सिद्धा धर्मः स्वयंभूश्च मुनिः कात्यायनो वरः ॥
गिरयः सागरा नद्यस्तथैवाप्सरसां गणाः ।
ग्रहाः संवत्सराश्चैव अयनान्यृतवस्तथा ॥
स्थावरं जङ्गमं चैव जगत्सर्वं सुरासुरम् ।
भातरे भरतश्रेष्ठ एकस्थमिह दृश्यते ॥
तेषां श्रुत्वा प्रतिष्ठानं नामकर्मानुकीर्तनात् ।
कृत्वाऽपि पातकं घोरं सद्यो मुच्येत मानवः ॥
इतिहासमिमं श्रुत्वा यथावदनुपूर्वशः ।
संयतात्मा शुचिर्भूत्वा पारं गत्वा च भारते ॥
तेषां श्राद्धानि देयानि श्रुत्वा भारत भारतम् ।
ब्राह्मणेभ्यो यथाशक्त्या भक्त्या च भरतर्षभ ॥
महादानानि देयानि रत्नानि विविधानि च ।
गावः कांस्योपदोहाश्च कन्याश्चैव स्वलङ्कृताः ॥
सर्वकामगुणोपेता यानानि विविधानि च ।
कभवनानि विचित्राणि भूमिर्वासांसि काञ्चनम् ॥
वाहनानि च देयानि हया मत्ताश्च वारणाः ।
शयनं शिबिकाश्चैव स्यन्दनाश्च स्वलंकृताः ॥
यद्यद्गृहे वरं किञ्चिद्यद्यदस्ति महद्वसु ।
तत्तद्देयं द्विजातिभ्य आत्मा दाराश्च सूनवः ॥
श्रद्धया परया युक्तं क्रमशस्तस्य पारगः ।
शक्तितः सुमना हृष्टः सुश्रूषुरविकल्पकः ॥
सत्यार्जवरतो दान्तः शुचिः शौचसमन्वितः ।
श्रद्धधानो जितक्रोधो यथा सिद्ध्यति तच्छृणु ॥
शुचिः शीलान्विताचारः शुक्लवासा जितेन्द्रियः ।
संस्कृतः सर्वशास्त्रज्ञः श्रद्दधानोऽनसूयकः ॥
रूपवान्सुभगो दान्तः सत्यवादी जितेन्द्रियः ।
दानमानगृहीतश्च कार्यो भवति वाचकः ॥
अविलम्बमनायस्तमद्रुतं धीरमुर्जितम् ।
असंसक्ताक्षरपदं स्वरभावसमन्वितम् ॥
त्रिषष्टिवर्णसंयुक्तमष्टस्थानसमीरितम् ।
वाचयेद्वाचकः स्वस्थः स्वासीनः सुसमाहितः ॥
नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ।
देवीं सरस्वतीं(व्यासं) चैव ततो जयमुदीरयेत् ॥
ईदृशाद्वाचकाद्राजञ्श्रुत्वा भारत भारतम् ।
नियमस्थः शुचिः श्रोता शृण्वन्स फलमश्नुते ॥
पारणं प्रथमं प्राप्य द्विजान्कामैश्च तर्पयन् ।
आग्निष्टोमस्य यज्ञस्य फलं वै लभते नरः ॥
अप्सरोगणसंकीर्णं विमानं लभते महत् ।
प्रहृष्टः स तु देवैश्च दिवं याति समाहितः ॥
द्वितीयं पारणं प्राप्य सोतिरात्रफलं लभेत् ।
सर्वरत्नमयं दिव्यं विमानमधिरोहति ॥
दिव्यमाल्यांबरधरो दिव्यगन्धविभूषितः ।
दिव्याङ्गदधरो नित्यं देवलोके महीयते ॥
तृतीयं पारणं प्राप्य द्वादशाहफलं लभेत् ।
वसत्यमरसंकाशो वर्षाण्ययुतशो दिवि ॥
चतुर्थे वाजपेयस्य पञ्चमे द्विगुणं फलम् ।
उदितादित्यसंकाशं ज्वलन्तमनलोपमम् ॥
विमानं विबुधैः सार्धमारुह्य दिवि गच्छति ।
वर्षायुतानि भने शक्रस्य दिवि मोदते ॥
षष्ठे द्विगुणमस्तीति सप्तमे त्रिगुणं फलम् ।
कैलासशिखराकारं वैदूर्यमणिवेदिकम् ॥
परिक्षिप्तं च बहुधा मणिविद्रुमभूषितम् ।
विमानं समधिष्ठाय कामगं साप्सरोगणम् ॥
सर्वांल्लोकान्विचरते द्वितीय इव भास्करः ।
अष्टमे राजसूयस्य पारणे लभते फलम् ॥
चन्द्रोदयनिभं रम्यं विमानमधिरोहति ।
चन्द्ररश्मिप्रतीकाशैर्हयैर्युक्तं मनोजवैः ॥
सेव्यमानो वरस्त्रीणां चन्द्रात्कान्ततरैर्मुखैः ।
मेखलानां निनादेन नूपुराणां च निःस्वनैः ॥
अङ्के परमनारीणां सुखसुप्तो विबुध्यते ।
नवमे क्रतुराजस्य वाजिमेधस्य भारत ॥
काञ्चनस्तंभनिर्यूहवैदूर्यकृतवेदिकम् ।
जांबूनदमयैर्दिव्यैर्गवाक्षैः सर्वतो वृतम् ॥
सेवितं चाप्सरःसङ्घैर्गन्धर्वैर्दिविचारिभिः ।
विमानं समधिष्ठाय श्रिया परमया ज्वलन् ॥
दिव्यमाल्यांबरधरो दिव्यचन्दनरूषितः ।
मोदते दैवतैः सार्धं दिवि देव इवापरः ॥
दशमं पारणं प्राप्य द्विजातीनभिवन्द्य च ।
किङ्किणीजालनिर्घोषं पताकाध्वजशोभितम् ॥
रत्नवेदिकसम्बाद्यं वैदूर्यमणितोरणम् ।
हेमजालपरिक्षिप्तं प्रवालवलभीमुखम् ॥
गन्धर्वैर्गीतकुशलैरप्सरोभिश्च शोभितम् ।
विमानं सुकृतावासं सुखेनैवोपपद्यते ॥
मुकुटेनाग्निवर्णेन जांबूनदविभूषिणा ।
दिव्यचन्दनदिग्धाङ्गो दिव्यमाल्यविभूषितः ॥
दिव्याँल्लोकान्विचरति दिव्यैर्भोगैः समन्वितः ।
विबुधानां प्रसादेन श्रिया परमया युतः ॥
अथ वर्षगणानेवं स्वर्गलोके महीयते ।
ततो गन्धर्वसहितः सहस्राण्येकविंशतिम् ॥
पुरंदरपुरे रम्ये शक्रेण सह मोदते ।
दिव्ययानविमानेषु लोकेषु विविधेषु च ॥
दिव्यनारीगणाकीर्णो निवसत्यमरो यथा ।
ततः सूर्यस्य भवने चन्द्रस्य भवने तथा ॥
शिवस्य भवने राजन्विष्णोर्याति सलोकताम् । एवमेतन्महाराज नात्र कार्या विचारणा ।
श्रद्दधानेन वै भाव्यमेवमाह गुरुर्मम ।
वाचकस्य तु दातव्यं मनसा यद्यदिच्छति ॥
हस्त्यश्वरथयानानि वाहनानि विशेषतः ।
कटके कुण्डले चैव ब्रह्मसूत्रं तथा परम् ॥
वस्त्रं चैव विचित्रं च गन्धं चैव विशेषतः ।
देववत्पूजयेत्तं तु विष्णुलोकमवाप्नुयात् ॥
अतः परं प्रवक्ष्यामि यानि देयानि भारते ।
वाच्यमाने तु विप्रेभ्यो राजन्पर्वणिपर्वणि ॥
जातिं देशं च सत्यं च माहात्म्यं भरतर्षभ ।
धर्मं वृत्तिं च विज्ञाय क्षत्रियाणां नराधिप ॥
स्वस्ति वाच्य द्विजानादौ ततः कार्ये प्रवर्तिते ।
समाप्ते पर्वणि ततः स्वशक्त्या पूजयेद्द्विजान् ॥
आदौ तु वाचकं चैव वस्त्रगन्धसमन्वितम् ।
विधिवद्बोजयेद्राजन्मधुपायसमुत्तमम् ॥
ततो मूलफलप्रायं पायसं मधुसर्पिषा ।
आस्तीके भोजयेद्राजन्दद्याच्चैव गुडौदनम् ॥
अपूपैश्चैव पूपैश्च मोदकैश्च समन्वितम् ।
सभापर्वणि राजेन्द्र हविष्यं भोजयेद्द्विजान् ॥
आरण्यके मूलफलैस्तर्पयेत्तु द्विजोत्तमान् ।
अरणीपर्व चासाद्य जलकुम्भान्प्रदापयेत् ॥
तर्पणानि च मुख्यानि वन्यमूलफलानि च ।
सर्वकामगुणोपेतं विप्रेभ्योऽन्नं प्रदापयेत् ॥
विराटपर्वणि तथा वासांसि विविधानि च ।
उद्योगे भरतश्रेष्ठ सर्वकामगुणान्वितम् ॥
भोजनं भोजयेद्विप्रान्गन्धमाल्यैरलङ्कृतान् ।
भीष्मपर्वणि राजेन्द्र दत्त्वा यानमनुत्तमम् ॥
ततः सर्वगुणोपेतमन्नं दद्यात्सुसंस्कृतम् ।
द्रोणपर्वणि विप्रेभ्यो भोजनं परमार्चितम् ॥
शराश्च देया राजेन्द्र चापान्यसिवरास्तथा ।
कर्णपर्वण्यपि तथा भोजनं सार्वकामिकम् ॥
विप्रेभ्यः संस्कृतं सम्यग्दद्यात्संयतमानसः ।
शल्यपर्वणि राजेन्द्र मोदकैः सगुडौदनैः ॥
अपूपैस्तर्पणैश्चैव सर्वमन्नं प्रदापयेत् ।
गदापर्वण्यपि तथा मुद्गमिश्रं प्रदापयेत् ॥
स्त्रीपर्वणि तथा रत्नैस्तर्पयेत्तु द्विजोत्तमान् ।
घृतौदनं पुरस्ताच्च ऐषीके दापयेत्पुनः ॥
ततः सर्वगुणोपेतमन्नं दद्यात्सुसंस्कृतम् ।
शान्तिपर्वण्यपि तथा हविष्यं भोजयेद्द्विजान् ॥
आश्वमेधिकमासाद्य भोजनं सार्वकामिकम् ।
तथाऽऽश्रमनिवासे तु हविष्यं भोजयेद्द्विजान् ॥
मौसले सार्वगुणिकं गन्धमाल्यानुलेपनम् ।
महाप्रास्थानिके तद्वत्सर्वकामगुणान्वितम् ॥
स्वर्गपर्वण्यपि तथा हविष्यं भोजयेद्द्विजान् ।
हरिवंशसमाप्तौ तु सहस्रं भोजयेद्द्विजान् ॥
गामेकां निष्कसंयुक्तां ब्राह्मणाय निवेदयेत् ।
तदर्धेनापि दातव्या दरिद्रेणापि पार्थिव ॥
प्रतिपर्वसमाप्तौ तु पुस्तकं वै विचक्षणः ।
सुवर्णेन च संयुक्तं वाचकाय निवेदयेत् ॥
हरिवंशे पर्वणि च पायसं तत्र भोजयेत् ।
पारणेपारणे राजन्यथावद्भरतर्षभ ॥
समाप्य सर्वाः प्रयतः संहिताः शास्त्रकोविदः ।
शुभे देशे निवेश्याथ क्षौमवस्त्राभिसंवृताः ॥
शुक्लांबरधरः स्रग्वी सुचिर्भूत्वा स्वलङ्कृतः । अर्चयेत् यथान्यायं गन्धमाल्यैः पृथक्पृथक् ।
संहितापुस्तकान्राजन्प्रयतः सुसमाहितः ।
भक्ष्यैर्माल्यैस्च पेयैश्च कामैश्च विविधैः शुभैः ॥
हिरण्यं च सुवर्णं च दक्षिणामथ दापयेत् ।
सर्वत्र त्रिपलं स्वर्णं दातव्यं प्रयतात्मना ॥
तदर्धं पादशेषं वा वित्तशाठ्यविवर्जितम् ।
यद्यदेवात्मनोऽभीष्टं तत्तद्देयं द्विजातये ॥
सर्वथा तोषयेद्भक्त्या वाचकं गुरुमात्मनः ।
देवताः कीर्तयेत्सर्वा नरनारायणौ तथा ॥
ततो गन्धैश्च माल्यैश्च स्वलङ्कृत्य द्विजोत्तमान् ।
तर्पयेद्विविधैः कानैर्दानैश्चोच्चावचैस्तथा ॥
अतिरात्रस्य यज्ञस्य फलं प्राप्नोति मानवः ।
प्राप्नुयाच्च क्रतुफलं तथा पर्वणिपर्वणि ॥
वाचको भरतश्रेष्ठ व्यक्ताक्षरपदस्वरः ।
भविष्यं श्रावयेद्विद्वाञ्भारतं भरतर्षभ ॥
भुक्तवत्सु द्विजेन्द्रेषु यथावत्सम्प्रदापयेत् ।
वाचकं भरतश्रेष्ठ भोजयित्वा स्वलंकृतम् ॥
वाचके परितुष्टे तु शुभा प्रीतिरनुत्तमा ।
ब्राह्मणेषु तु तुष्टेषु प्रसन्नाः सर्वदेवताः ॥
ततो हि वरणं कार्यं द्विजानां भरतर्षभ ।
सर्वकामैर्यथान्यायं साधुभिश्च पृथग्विधैः ॥
इत्येषि विधिरुद्दिष्टो मया ते द्विपदांवर ।
श्रद्दधानेन वै भाव्यं यन्मां त्वं परिपृच्छसि ॥
भारश्रवणे राजन्पारणे च नृपोत्तम ।
सदा यत्नवता भाव्यं श्रेयस्तु परमिच्छता ॥
भारतं शृणुयान्नित्यं भारतं परिकीर्तयेत् ।
भारतं भवने यस्य तस्य हस्तगतो जयः ॥
भारतं परमं पुण्यं भारते विविधाः कथाः ।
भारतं सेव्यते देवैर्भारतं परमं पदम् ॥
भारतं सर्वशास्त्राणामुत्तमं भरतर्षभ ।
भारतात्प्राप्यते मोक्षस्तत्त्वमेतद्ब्रवीमि तत् ॥
महाभारतमाख्यानं क्षितिं गां च सरस्वतीम् ।
ब्राह्मणान्केशवं चैव कीर्तयन्नावसीदति ॥
वेदे रामायणे पुण्ये भारते भरतर्षभ ।
आदौ चान्ते च मध्ये च हरिः सर्वत्र गीयते ॥
यत्र विष्णुकथा दिव्याः श्रुतयश्च सनातनाः ।
तच्छ्रोतव्यं मनुष्येण परं पदमिहेच्छता ॥
एतत्पवित्रं परममेतद्धर्मनिदर्शनम् ।
एतत्सर्वगुणोपेतं श्रोतव्यं भूतिमिच्छता ॥
कायिकं वाचिकं चैव मनसा समुपार्जितम् ।
तत्सर्वं नाशमायाति तमः सूर्योदये यथा ॥
अष्टादशपुराणानां श्रवणाद्यत्फलं भवेत् ।
तत्फलं समवाप्नोति वैष्णवो नात्र संशयः ॥
स्त्रियश्च पुरुषाश्चैव वैष्णवं पदमाप्नुयुः ।
स्त्रीभिश्च पुत्रकामाभिः श्रोतव्यं वैष्णवं यशः ॥
दक्षिणा चात्र देया वै निष्कपञ्चसुवर्णकम् ।
वाचकाय यथाशक्त्या यथोक्तं फलमिच्छता ॥
स्वर्णशृङ्गीं च कपिलां सवत्सां वस्त्रसंवृताम् ।
वाचकाय च दद्याद्धि आत्मनः श्रेय इच्छता ॥
अलङ्कारं प्रदद्याच्च पाण्योर्वै भरतर्षभ ।
कर्णस्याभरणं दद्याद्धनं चैव विशेषतः ॥
भूमिदानं समादद्याद्वाचकाय नराधिप ।
भूमिदानसमं दानं न भूतं भविष्यति ॥
शृणोति श्रावयेद्वाऽपि सततं चैव यो नरः ।
सर्वपापविनिर्मुक्तो वैष्णवं पदमाप्नुयात् ॥
पितॄनुद्धरते सर्वानेकादशसमुद्धवान् ।
आत्मानं ससुतं चैव स्त्रियं च भरतर्षभ ॥
दशांशश्चैव होमोपि कर्तव्योत्र नराधिप ।
इदं मया तवाग्ने च प्रोक्तं सर्वं नरर्षभ ॥ ॥

इति श्रीमन्महाभारते शतसाहस्र्यां संहितायां वैयासिक्यां हरिवंशोक्तभारतश्रवणविधावध्यायः ॥ स्वर्गारोहणपर्व सम्पूर्णम् ॥ 18 ॥ श्रीमन्महाभारतं सम्पूर्णम् ॥ ---------- इदं स्वर्गारोहणपर्व कुम्भघोणस्थेन टी.आर्.कृष्णाचार्येण टी.आर्.व्यासाचार्येण च मुम्बय्यां निर्णयसागरमुद्रायन्त्रे मुद्रापितम् । शकाब्दाः 1832 सन 1910. अनेन मुद्रणेन श्रीमद्धनुमद्भीममध्वान्तर्गतरामकृष्णवेदव्यासात्मकलक्ष्मीहयग्रीवः प्रीयताम् । -----------

18-6-1x यद्यप्ययध्यायो दाक्षिणात्यकोशेषु क्वापि न दृश्यते तथापि "भगवन्नित्यादिः पलाध्यायो व्यासेन हरिवंशान्ते उक्तः अत्र श्रोतृप्ररोचनार्थमुक्त" इति नीलकण्ठीयव्याख्यानोक्तप्रयोजनायैवास्माभिरपीह स्थापितः ॥