397
प्रकारा क्रिया कार्यक3076रणं सा इव । अविक्रियैव वा इति क्वचित् पाठः, तत्र अयमर्थः–
अविकारोऽपि न विरुद्ध्येत इति ।
विवृतिविवरणम्–
परमार्थैकत्वेऽपि इत्यादिना विक्रियैव वा इत्येतद्व्याचष्टे, शेषस्य सुगमत्वात् ।
परमार्थेन एकत्वेऽपि अभिन्नस्वभावत्वेऽपि, कस्य ? ज्ञानस्य
कथम्भूतस्य ? अनेकाऽर्थक्रियाकारिणः, अनेकार्थो नीलादिः
तस्य क्रिया परिच्छित्तिः तत्कारिणः, कुतः ? मिथ्याव्यवहारभेदात्, मिथ्या कल्पनाकल्पितो
व्यवहारः अनीलाद्याकारव्यावृत्त्या नीलाद्याकारसामान्यपरिकल्पनलक्षणः तस्य भेदात्
नानात्वात् । एतदुक्तं भवति–यदेव ज्ञानम् अनीलव्यावृत्त्या नीलाकारं सत् तत्परिच्छेदकं तदेव
अपीतादिव्यावृत्त्या पीताद्याकारं सत् पीतादेः परिच्छेदकम् इति । तस्य के कि कुर्वन्ति ?
इत्याह–प्रतिभासाः नीलाद्याकाराः तत्त्वं भेदाऽभेदात्मकं साधयन्ति । कथम्भूताः ? पर
स्परार्थसंवेदिनः अन्योन्यार्थग्राहिणः । तथाहि–य एव प्रतिभासो नीलं सवेत्ति स एव पीतं
रक्तं शुक्लम्, तथा य एव पीतं स एव नीलं रक्तं शुक्लम्, एवम् अन्यत्राऽपि योज्यम् । अन्यथा
युगपद् अहं नीलादिकं वेद्मि इति प्रतीतेरनुपपत्तेः, एवमर्थञ्च अनेकाऽर्थक्रियाकारिणः
इत्युक्तम् । अतः सिद्धो वर्त्तमानाऽर्थग्राही प्रतिभासः अतीताऽनागतार्थग्राही, त3077द्ग्राही च वर्त्त
मानार्थग्राहकः स्वव्यापकज्ञानापेक्षया । तथा च यदि वर्त्तमानग्रहणग्राह्यम् अतीतमनागतं
च तर्हि तद् वर्त्तमानमेव स्यात् तद्ग्रहणग्राह्यत्वात् प्रसिद्धवर्त्तमानवत् इति, तन्निरस्तम्;
नीलादिग्रहणग्राह्यस्य पीतादेरपि नीलादित्वप्रसङ्गात् । तथाहि–पीतादिकं नीलं नीलग्रहणग्राह्यत्वात्
अभिमतनीलवत्, प्रमाणबाधनम् उभयत्र तुल्यम् ।
एवं तावत् सौत्रान्तिकमतम् अनेकान्तनान्तरीयकं प्रदर्श्य साम्प्रतं योगाचारमतं तन्ना
न्तरीयकं प्रदर्शयन्नाह–
विवृतिः–चित्रनिर्भासिनः तत्त्वम् अविभाग3078ज्ञानस्य दृश्यं यदि क्रमेणाऽपि सद
सदात्मकं विवर्त्तेत ततः सिद्धम्–द्रव्यपर्यायात्मकम् उत्पाद-व्यय-ध्रौव्ययुक्तं वस्तु
तत्त्वम् अन्तर्वहिश्च प्रमेयम्, एकान्तस्य अनुपलब्धेः तदनेकान्तात्मा अर्थः इति ।
कारिकाव्याख्यानम्–
वहिर्मुखाकारतया हि ज्ञानं मिथ्या, सच्चेतनाद्याकारतया तु सत्यम् इत्येके । तान्
प्रति इदमुत्तरम्–मिथ्येतरात्मकम् इति । मिथ्या च
इतरः च आत्मा यस्य तत्तथोक्तम् । ग्राह्याका3079रात् तस्य