सत्तासमवायात् सत्त्वम् इति निराकरणपुरस्सर उत्पादादित्रययोगादेव सत्त्वव्यवस्थापनम्–
ननु उत्पाद-व्यय-ध्रौव्ययुक्तत्वेन जीवादिवस्तुनः सत्त्वे प्रत्येकम् उत्पादादेरपि अपरोत्पा
दादियोगात् सत्त्वेन भवितव्यम्, एवं च अनवस्था । स्वतः
तस्य सत्त्वे वस्तुनोऽपि स्वत एव सत्त्वमस्तु अलं तद्योगात्
सत्त्वकल्पनया; ए3082तदप्यसमीचीनम्; यतः सकलशून्यताम्,
वस्तुनोऽन्यतः सत्त्वं वा अभिप्रेत्य एवं पर्यनुयु3083ज्येत ? तत्र
आद्यः पक्षोऽयुक्तः; सकलशून्यतायाः प्रागेव3084 प्रपञ्चतः अपास्त
त्वात् । द्वितीयपक्षेऽपि उत्पादादेरन्यतः सत्तासम्बन्धात्, अर्थक्रियातः, तत्कारित्वात्, तत्क
रणयोग्यतातः, प्रमाणसम्बन्धाद्वा वस्तुनः सत्त्वं स्यात् ? तत्र न तावत् सत्तासम्बन्धात्;
अव्यापकत्वात् तस्य, सामान्य-विशेष-समवा3085येषु हि तत्सम्बन्धाऽभावेऽपि सत्त्वं संभवत्येव ।
न च यदभावेऽपि यद् भवति तत् तद्व्याप्यम् यथा अश्वाऽभावेऽपि भवन् रासभः न तद्व्याप्यः,
सत्तासम्बन्धाऽभावेऽपि भवति च सामान्यादिषु सत्त्वमिति ।
न च साधनविकलो दृष्टान्तः; तत्सम्बन्धाऽभावेऽपि परै तत्र सत्त्वस्याऽभ्युपगमात् । न
399
खलु सत्तासम्बन्धाद् यौगैः सामान्यादौ सत्त्वमिष्टम् त्रिषु पदार्थेषु सत्करी सत्ता
इति कृ3086तान्तव्याघाताऽनुषङ्गात् । न च तत्सत्त्वात् द्रव्यादिसत्त्वं विलक्षणम् अतः तदेव सत्ता
सम्बन्धनिबन्धनम् नान्यदित्यभिधातव्यम्; यतः किमिदं तत्सत्त्वस्य वैलक्षण्यं नाम–विल
क्षणप्रत्ययग्राह्यत्वम्, अबाधितत्वम्, गौणत्वं वा ? तत्र आद्यविकल्पोऽनुपपन्नः3087; ततः तस्य
विलक्षणप्रत्ययग्राह्यतया स्वप्नेऽपि प्रतीत्यभावात् । न खलु यथा गवादिभ्यो महिष्यादेः विल
क्षणप्रत्ययग्राह्यतया प्रतिप्राणि प्र3088तीतिः प्रसिद्धा, तथा द्रव्यादिसत्त्वात् सामान्यादिसत्त्व
स्यापि, भवतस्तु तथाप्रतीतिः स्वसिद्धान्ताऽऽग्रहग्रहाऽभिनिवेशनिबन्धना न वस्तुदर्शनबल
प्रवृत्ता घटादेः पुरुषा3089द्यद्वैतरूपताप्रतातिवत् । द्वितीयविकल्पोऽप्यनुपपन्नः; अबाधितत्वस्य
उभयत्राप्यविशेषात्, नहि सामान्यादिसत्त्ववत् द्रव्यादौ सत्त्वं केनचित् प्रमाणेन बाध्यते तस्या
ऽसत्त्वप्रसङ्गात् । अथ गौणत्वम् सामान्यादिसत्त्वस्य द्रव्यादिसत्त्वाद् वैलक्षण्यम्; ननु गौण
त्वमेव अस्य कुतः सिद्धम् ? भिन्नविशेषणत्वाऽभावाच्चेत्; नहि यथा द्रव्यादौ सत्तालक्षणभिन्न
विशेषणनिमित्तं सत्त्वम् तथा सामान्यादौ । न च अभिन्नविशेषणस्य मुख्यत्वं युक्तम् 3090भिन्न
विशेषण मुख्यम् अभिन्नविशेषणं गौणम् । इत्यभिधानात्; इ3091त्यप्यसत्;
अन्योन्याश्रयप्रसङ्गात्–सिद्धे हि सामान्यादिसत्त्वस्य सत्तालक्षणभिन्नविशेषणनिबन्धनत्वाऽभावे
गौणत्वसिद्धिः, तत्सिद्धौ च तन्निबन्धनत्वाऽभावसिद्धिरिति ।
एतेन द्रव्यादौ सत्त्वस्य मुख्यत्वमपि चिन्तितम्; इतरेतराश्रयाऽविशेषात्; तथाहि–सिद्धे
द्रव्यादौ सत्त्वस्य मुख्यत्वे सत्तालक्षणभिन्नविशेषणनिबन्धनत्वसिद्धिः, तत्सिद्धौ च तन्मुख्य
त्वसिद्धिरिति । न च कश्चिदबालिशः स्वरूपनिबन्धनं सत्त्वमुपचरितम्, अर्थान्तरभूतसत्तानि
बन्धनं तु मुख्यम् इति मन्यते । नहि यष्टौ यष्टित्वमुपचरितम्, पुरुषे तु मुख्यम् इति
प्रेक्षावान् मन्यते ।
किञ्च, सत्ता स्वयं सती अन्यस्य सत्त्वहेतुः स्यात्, असती वा ? यदि असती; कथं
स्वसम्बन्धेन अन्यस्य सत्त्वहेतुः ? यद् असत् न तत् स्वसम्बन्धेन अन्यस्य सत्त्वहेतुः यथा
खरविषाणम्, असती च सत्ता इति । अथ सती; किं स्वतः, सत्तान्तरसम्बन्धाद्वा ? यदि
स्वतः; तर्हि वस्तुनोऽपि स्वत एव सत्त्वमस्तु, कि तत्सम्बन्धात् सत्त्वकल्पनाप्रयासेन ? यत् सत्
तत् स्वात्मभूतेनैव सत्त्वेन यथा सामान्यविशेषसमवायाः, सन्ति च द्रव्यादीनि इति । अथ
सत्तान्तरसम्बन्धात्; तदा अनवस्था । ननु च अनवस्थाया बाधिकायाः सद्भावादेव सामान्य
विशेषसमवायेषु स्वतः सत्त्वमिष्यते द्रव्यादौ तु परतः तत्र तदभावात्, न खलु द्रव्यादौ
परतः सत्त्वे अनवस्था अवतरति–सत्तातो हि द्रव्यादीनां सत्त्वं सत्तायास्तु स्वतः इति; तद
400
प्यविचारितरमणीयम्; द्रव्यादीनामपि परतः सत्त्वे यत् सत् तत्स्वात्मभूतेनैव सत्त्वेन
इत्याद्यनुमानबाधस्य प्रतिपादितत्वात् ।
अतिप्रसङ्ग-वैय3092र्थ्यलक्षणबाधप्रसक्तेश्च; तथाहि–स्वरूपेण सतः सत्तासम्बन्धात् सत्त्वं
स्यात्, असतो वा ? न तावद् असत; अतिप्रसङ्गात्, यत् स्वरूपेण असत् न तत्र
सत्तासम्बन्धः तत्सम्बन्धात् सत्त्वं वा यथा गगनेन्दीवरे, स्वरूपेण असच्च परैरिष्टं द्रव्यादि
इ3093त्यनुमानबाधप्रसङ्गाच्च । अथ स्वरूपेण सत; तर्हि सत्तासम्बन्धवैयर्थ्यम्, यत् स्वयं सत्
न तत्र सत्तासम्बन्धात् सत्त्वम् यथा सत्तायाम्, स्वयं सच्च सत्तासम्बन्धात् प्रागपि सकलं
वस्तु इति । स्वयं सतोऽपि तत्सम्बन्धात् सत्त्वकल्पने सत्तायामपि तत्कल्पनप्रसङ्गात् सैव
अनवस्था । अथ न तत्र स्वयं सत्त्वं किन्तु सत्तासम्बन्धादेव, ननु कि तथैव सत्तया सम्बन्धात्
तत्र सत्त्वं स्यात्, तदन्तरेण वा ? यदि तथैव, तदा अन्योन्याश्रयः–सिद्धे हि तस्य सत्त्वे
सत्तया सम्बन्धसिद्धि, तत्सिद्धौ3094 च सत्त्वसिद्धिरिति । तदन्तरात् स3095त्त्वसिद्धौ च अनवस्था;
तथाहि–सत्तान्तरेणाऽपि सम्बन्ध वस्तुनःसत्त्वे सिद्धे सिद्ध्येत्, तत्सत्त्वसिद्धिश्च अपरसत्ता
न्तरेण सम्बन्धात् इति । तन्न अर्थान्तरभूतसत्तासम्बन्धात् सत्त्वम् अर्थानां घटते ।
नापि अर्थक्रियात; तेभ्यो भिन्नत्वात् तस्याः । यद् यतो भिन्नं न ततः तस्य सत्त्वं
सिद्ध्यति यथा घटात् पटस्य, अर्थेभ्यो भिन्ना च अर्थक्रिया इति । न च अर्थेभ्योऽस्या
भिन्नत्वमसिद्धम्; पूर्वोत्तरकालभावित्वेन अस्याः ततो भेदप्रसिद्धेः । पू3096र्वसिद्ध एव हि भावो
यत्र कुत्रचिद् अर्थक्रियायां व्याप्रियते । अन्योन्याश्रय3097श्च–सिद्धे हि पूर्वम् अर्थस्य सत्त्वे उत्तर
कालभाविन्याः तस्याः सिद्धिः, तत्सिद्धौ च तथाविधस्याऽर्थस्य सत्त्वसिद्धिरिति । एतेन अर्थ
क्रियाकारित्वात् तत्सत्त्वं प्रत्याख्यातम्; यतः अर्थक्रियाकारित्वम् अर्थक्रियाहेतुत्वमुच्यते, तच्च
सत एव युक्तमित्यन्योन्याऽऽश्रयः–सिद्धे हि सत्त्वे अर्थक्रियाकारित्वसिद्धि, ततश्च सत्त्व
सिद्धि इति । निरन्वयवि3098नाशित्वे चार्थानाम् अर्थक्रियाकारित्वं प्रपञ्चतः प्रागेव प्रत्युक्तम् ।
तत्करणयोग्यताऽपि एतेन प्रतिव्यूढा; प्रतिक्षणविनाशिन्यर्थे अर्थक्रियाकारित्वाऽस
म्भवे तत्करणयोग्यतायाः नितरामसंभवात् । किञ्च, अर्थक्रियादिकं स्वयं सत् अन्यस्य सत्त्व
हेतुः, असद्वा ? पक्षद्वयेऽपि सत्त्वाऽसत्त्वपक्षोक्तदोषा द्रष्टव्याः । तन्न अर्थक्रियादेरपि अर्थानां
सत्त्वसिद्धिः ।
401
नापि प्रमाण3099सम्बन्धात्; भाववद् अभावेऽपि अस्य गतत्वात ततश्च अभावस्यापि भाव
वत् सद्रूपताप्रसङ्गः तत्सम्बन्धाऽविशेपात् । अथ तदविशेषेऽपि यस्य प्रमाणसम्बन्धेन सत्त्वं
बोध्यते स एव सन् नाऽन्यः; कथमेवं प्रमाणसम्बन्धः सत्त्वलक्षणम् ? किञ्च, यदि तत्सम्ब
न्धात् प्रागपि अर्थानां सत्त्वं सिद्धं स्यात्, तदा स्यादयं परिहारः न च तत्सिद्धम्; तत्स
म्बन्धेन अर्थानां सत्त्वकल्पनावैयर्थ्यप्रसङ्गात् । परस्पराश्रयश्च–प्रमाणसम्बन्धात् सत्त्वम्, सतश्च
प्रमाणसम्बन्धः इति ।
किञ्च, तत्सम्बन्धः3100 स्वयं सन्, असन् वा ? यदि असन्; कथं तत्सम्बन्धात् कस्यचित्
सत्त्वम् अतिप्रसङ्गात् ? अथ स3101न्; किं स्वतः, अपरप्रमाणसम्बन्धात्, अन्यतो वा कुत
श्चित् ? यदि स्वतः; पदार्थैः किमपराद्धं येन एषां स्वतः सत्त्वं नेष्यते ? अपरप्रमाणसम्ब
न्धात्तु तत्सत्त्वे अनवस्था । अन्यतोऽपि–प्रमेयसम्बन्धात्, निमित्तान्तराद्वा तत्सत्त्वं स्यात् ?
यदि प्रमेयसम्बन्धात्; इतरेतराश्रयः । अथ निमित्तान्तरात्; तर्हि सर्वत्र तस्यैव अव्यभिचा
रिणः स3102त्त्वहेतुत्वमस्तु किं प्रमाणसम्बन्धकल्पनया ? तच्च उत्पादव्ययध्रौव्ययुक्तत्वात् नान्यद्
भवितुमर्हति ।
किञ्च, सिद्धे अध्यक्षादिरूपे प्रमाणे तत्सम्बन्धेन अर्थानां सत्त्वसिद्धिर्युक्ता, तत्सिद्धिश्च
इन्द्रियार्थसम्बन्धादिसामग्रीतो भविष्यति, एवञ्च चक्रकप्रसङ्गः; तथाहि–सिद्धे प्रत्यक्षादि
प्रमाणे तत्सम्बन्धेन इन्द्रियार्थानां सत्त्वसिद्धिः, तत्सिद्धौ च सत्यां तत्सम्बन्धादिप्रमाणसामग्री
सिद्धिः, तस्यां सत्यां प्रत्यक्षादिप्रमाणसिद्धिरिति ।
किञ्च, प्रमाणसम्बन्धेन अर्थानां सत्त्वं क्रियते, ज्ञाप्यते वा ? न तावत् क्रियते; ततः
प्रागपि अर्थानां लब्धात्मलाभत्वात्, यतः प्रागपि यत् लब्धात्मलाभं न तस्य सत्त्वं तेन क्रियते
यथा3103 पुत्रात्प्रागपि लब्धात्मलाभस्य पितुः पुत्रेण, प्रमाणात् प्रागपि लब्धात्मलाभाश्च घटादयो
भावा इति । अथ ज्ञाप्यते; न किञ्चिदनिष्टम्, प्रमाणसाध्यत्वात् प्रमेयव्यवस्थायाः, नहि
प्रमाणमन्तरेण प्रमेयव्यवस्था युक्ता अतिप्रसङ्गात् । तदेवम् अन्यतो वस्तुनः सत्त्वाऽनुपपत्तेः
उ3104त्पादव्ययध्रौव्ययुक्तत्वेनैव अस्य सत्त्वं प्रतिपत्तव्यम् । न च उत्पादादयो वस्तुनो भिन्नाः
402
येन तेषामपि अपरोत्पादादियोगतः सत्त्वेन भवितव्यम् इत्यनवस्था3105 स्यात्, तत्तादात्म्येन तेषां
व्यवस्थितत्वात् ।
कुतः पुन उत्पादाद्यनेकान्तात्मकमेव वस्तु प्रमेयम् ? इत्याह–एकान्तस्य अनुलपब्धेः ।
यत एवं तत् तस्मात् अनेकान्तात्मा अर्थः । इति परिच्छेदार्थोपसंहारे इति ।
- ↩
-
–
↩
युज्यते श्र॰ । यथोत्पादादय सन्त परोत्पादादिभिर्विना । तथा वस्तु न चेत् केन अनवस्थादि निवा
र्यते ॥ २ ॥ इत्यसत् सर्वथा तेषा वस्तुन सदसिद्धित । तत्त्वार्थश्लो॰ पृ॰ ४३४ । अष्टसह॰ पृ॰
११२ । -
पृ॰ १३३ ।
↩ -
–वायानां सत्तासम्बन्धामावेऽपि भा॰, श्र॰ । सत्तायोगाद् विना सन्ति
↩
यथा सत्तादयस्तथा । सर्वेऽर्था देशकालाश्च सामान्यं सकल मतम् ॥ न्यायविनि॰ १ । १५२ । पृ॰
३७८ पू॰ । सत्तासम्बन्ध इष्टश्चेद् वस्तूना लक्षण न तत् । असिद्धे समवायादे कथ वाऽन्योऽन्यलक्ष
णम् ॥ ४१८ ॥ तत्त्वस॰ । -
सदिति यतो द्रव्यगुणकर्मसु सा सत्ता । वैशेसू॰ १ । २ । ७ ।
↩ -
–न्नः तस्य श्र॰ ।
↩ - ↩
- ↩
- ↩
- ↩
-
–वैयर्थ्यबाधकप्र– ब॰, ज॰ । द्रव्यगुणकर्मणा स्वरूपसत्त्वोपगमे सत्तासमवायस्य वैयर्थ्यात्
↩
सामान्यादिवत्, सामान्यादीना वा सत्तासम्बन्धप्रसंगाद् द्रव्यादिवत् । तेषा स्वरूपसत्वानुपगमे कूर्मरोमा
दिभ्यो विशेषाऽभावात् । अष्टसह॰ पृ॰ २२१ । - ↩
-
–द्धौस– आ॰ ।
↩ - ↩
-
पूर्वसि– श्र॰ ।
↩ -
–यः सि– आ॰ ।
↩ -
–
↩
विनाशत्वे आ॰ । -
किन्त्वबाधितसद्बुद्धिगम्यता सत्त्वमिष्यते । न्यायमं॰ पृ॰ ४५३ ।
↩ - ↩
- ↩
-
सत्त्वे हे– श्र॰ ।
↩ -
–था सुतात् श्र॰ ।
↩ -
द्रव्यं
↩
हि नित्यमाकृतिरनित्यासुवर्णं कयाचिदाकृत्या युक्तं पिण्डो भवति, पिण्डाकृतिमुपमृद्य रुचकाः क्रियन्ते,
रुचकातिकृमुपमृद्य कटकाः क्रियन्ते, कटकाकृतिमुपमृद्य स्वस्तिकाः क्रियन्ते, पुनरावृत्तः सुवर्णपिण्डः पुन
रपरया आकृत्या युक्तः खदिराङ्गारसदृशे कुण्डले भवतः, आकृतिरन्या अन्या च भवति द्रव्यं पुनस्तदेव,
आकृत्युपमर्देन द्रव्यमेवावशिष्यते । पात॰ महाभा॰ १ । १ । १ । योगभा॰ ४ । १३ । घटमौलिसुव
णार्थो नाशोत्पादस्थितिष्वयम् । शोकप्रमोदमाध्यस्थ्यं जनो याति सहेतुकम् ॥ ५९ ॥ आप्तमी॰ । वर्ध
मानकभङ्गे च रुचकः क्रियते यदा । तदा पूर्वार्थिनः शोकः प्रीतिश्चाप्युत्तरार्थिनः ॥ २१ ॥ हेमार्थिनस्तु
n402 माध्यस्थ्य तस्माद्वस्तु त्रयात्मकम् ॥ २२ ॥ न नाशेन विना शोको नोत्पादेन विना सुखम् । स्थित्या विना
न माध्यस्यं तेन सामान्यनित्यता ॥ २३ ॥ मी॰ श्लो॰ पृ॰ ६१९ । -
अथ भिन्नारतर्हि प्रत्येक स्थित्यादीनां त्रिलक्षणत्वप्रसङ्ग सत्त्वात्, अन्यथा तदसत्त्वापत्ते,
↩
तया चानवस्थानान्न समीहितसिद्धिरिति कश्चित्, सोऽपि अनालोचितपदार्थस्वभाव, पक्षद्वयस्यापि
कथञ्चिदिष्टत्वात्, तत्र तत कथशिदभेदोपगमे स्थित्यादीना स्थितिरेव उत्पद्यते सामर्थ्याद् विनश्यति च,
विनाश एव तिष्ठति सामर्थ्याद् उत्पद्यते च, उत्पत्तिरेव नश्यति सामर्थ्यात्तिष्ठतीति च ज्ञायते त्रिल
क्षणाज्जीवादिपदार्थादभिन्नाना स्थित्यादीना त्रिलक्षणत्वसिद्धे । एतेनैव ततस्तेषा भेदोपगमेऽपि त्रिलक्षणत्व
सिद्धिरुक्ता । अष्टसह॰ पृ॰ ११२ । सिद्धिवे॰ टी॰ पृ॰ १६९ ।