401

नापि प्रमाण3099सम्बन्धात्; भाववद् अभावेऽपि अस्य गतत्वात ततश्च अभावस्यापि भाव
वत् सद्रूपताप्रसङ्गः तत्सम्बन्धाऽविशेपात् । अथ तदविशेषेऽपि यस्य प्रमाणसम्बन्धेन सत्त्वं
बोध्यते स एव सन् नाऽन्यः; कथमेवं प्रमाणसम्बन्धः सत्त्वलक्षणम् ? किञ्च, यदि तत्सम्ब
न्धात् प्रागपि अर्थानां सत्त्वं सिद्धं स्यात्, तदा स्यादयं परिहारः न च तत्सिद्धम्; तत्स
म्बन्धेन अर्थानां सत्त्वकल्पनावैयर्थ्यप्रसङ्गात् । परस्पराश्रयश्च–प्रमाणसम्बन्धात् सत्त्वम्, सतश्च
प्रमाणसम्बन्धः इति ।


किञ्च, तत्सम्बन्धः3100 स्वयं सन्, असन् वा ? यदि असन्; कथं तत्सम्बन्धात् कस्यचित्
सत्त्वम् अतिप्रसङ्गात् ? अथ स3101न्; किं स्वतः, अपरप्रमाणसम्बन्धात्, अन्यतो वा कुत
श्चित् ? यदि स्वतः; पदार्थैः किमपराद्धं येन एषां स्वतः सत्त्वं नेष्यते ? अपरप्रमाणसम्ब
न्धात्तु तत्सत्त्वे अनवस्था । अन्यतोऽपि–प्रमेयसम्बन्धात्, निमित्तान्तराद्वा तत्सत्त्वं स्यात् ?
यदि प्रमेयसम्बन्धात्; इतरेतराश्रयः । अथ निमित्तान्तरात्; तर्हि सर्वत्र तस्यैव अव्यभिचा
रिणः स3102त्त्वहेतुत्वमस्तु किं प्रमाणसम्बन्धकल्पनया ? तच्च उत्पादव्ययध्रौव्ययुक्तत्वात् नान्यद्
भवितुमर्हति ।


किञ्च, सिद्धे अध्यक्षादिरूपे प्रमाणे तत्सम्बन्धेन अर्थानां सत्त्वसिद्धिर्युक्ता, तत्सिद्धिश्च
इन्द्रियार्थसम्बन्धादिसामग्रीतो भविष्यति, एवञ्च चक्रकप्रसङ्गः; तथाहि–सिद्धे प्रत्यक्षादि
प्रमाणे तत्सम्बन्धेन इन्द्रियार्थानां सत्त्वसिद्धिः, तत्सिद्धौ च सत्यां तत्सम्बन्धादिप्रमाणसामग्री
सिद्धिः, तस्यां सत्यां प्रत्यक्षादिप्रमाणसिद्धिरिति ।


किञ्च, प्रमाणसम्बन्धेन अर्थानां सत्त्वं क्रियते, ज्ञाप्यते वा ? न तावत् क्रियते; ततः
प्रागपि अर्थानां लब्धात्मलाभत्वात्, यतः प्रागपि यत् लब्धात्मलाभं न तस्य सत्त्वं तेन क्रियते
यथा3103 पुत्रात्प्रागपि लब्धात्मलाभस्य पितुः पुत्रेण, प्रमाणात् प्रागपि लब्धात्मलाभाश्च घटादयो
भावा इति । अथ ज्ञाप्यते; न किञ्चिदनिष्टम्, प्रमाणसाध्यत्वात् प्रमेयव्यवस्थायाः, नहि
प्रमाणमन्तरेण प्रमेयव्यवस्था युक्ता अतिप्रसङ्गात् । तदेवम् अन्यतो वस्तुनः सत्त्वाऽनुपपत्तेः
10163

  1. किन्त्वबाधितसद्बुद्धिगम्यता सत्त्वमिष्यते । न्यायमं॰ पृ॰ ४५३ ।

  2. –न्धः लक्ष्यते च
    स्वयं
    भां॰, श्र॰

  3. सन् एव किं ब॰, ज॰

  4. सत्त्वे हे– श्र॰

  5. –था सुतात् श्र॰

  6. द्रव्यं
    हि नित्यमाकृतिरनित्यासुवर्णं कयाचिदाकृत्या युक्तं पिण्डो भवति, पिण्डाकृतिमुपमृद्य रुचकाः क्रियन्ते,
    रुचकातिकृमुपमृद्य कटकाः क्रियन्ते, कटकाकृतिमुपमृद्य स्वस्तिकाः क्रियन्ते, पुनरावृत्तः सुवर्णपिण्डः पुन
    रपरया आकृत्या युक्तः खदिराङ्गारसदृशे कुण्डले भवतः, आकृतिरन्या अन्या च भवति द्रव्यं पुनस्तदेव,
    आकृत्युपमर्देन द्रव्यमेवावशिष्यते ।
    पात॰ महाभा॰ १ । १ । १ । योगभा॰ ४ । १३ । घटमौलिसुव
    णार्थो नाशोत्पादस्थितिष्वयम् । शोकप्रमोदमाध्यस्थ्यं जनो याति सहेतुकम् ॥ ५९ ॥
    आप्तमी॰ । वर्ध
    मानकभङ्गे च रुचकः क्रियते यदा । तदा पूर्वार्थिनः शोकः प्रीतिश्चाप्युत्तरार्थिनः ॥ २१ ॥ हेमार्थिनस्तु