399 खलु सत्तासम्बन्धाद् यौगैः सामान्यादौ सत्त्वमिष्टम् त्रिषु पदार्थेषु सत्करी सत्ता
इति कृ3086तान्तव्याघाताऽनुषङ्गात् । न च तत्सत्त्वात् द्रव्यादिसत्त्वं विलक्षणम् अतः तदेव सत्ता
सम्बन्धनिबन्धनम् नान्यदित्यभिधातव्यम्; यतः किमिदं तत्सत्त्वस्य वैलक्षण्यं नाम–विल
क्षणप्रत्ययग्राह्यत्वम्, अबाधितत्वम्, गौणत्वं वा ? तत्र आद्यविकल्पोऽनुपपन्नः3087; ततः तस्य
विलक्षणप्रत्ययग्राह्यतया स्वप्नेऽपि प्रतीत्यभावात् । न खलु यथा गवादिभ्यो महिष्यादेः विल
क्षणप्रत्ययग्राह्यतया प्रतिप्राणि प्र3088तीतिः प्रसिद्धा, तथा द्रव्यादिसत्त्वात् सामान्यादिसत्त्व
स्यापि, भवतस्तु तथाप्रतीतिः स्वसिद्धान्ताऽऽग्रहग्रहाऽभिनिवेशनिबन्धना न वस्तुदर्शनबल
प्रवृत्ता घटादेः पुरुषा3089द्यद्वैतरूपताप्रतातिवत् । द्वितीयविकल्पोऽप्यनुपपन्नः; अबाधितत्वस्य
उभयत्राप्यविशेषात्, नहि सामान्यादिसत्त्ववत् द्रव्यादौ सत्त्वं केनचित् प्रमाणेन बाध्यते तस्या
ऽसत्त्वप्रसङ्गात् । अथ गौणत्वम् सामान्यादिसत्त्वस्य द्रव्यादिसत्त्वाद् वैलक्षण्यम्; ननु गौण
त्वमेव अस्य कुतः सिद्धम् ? भिन्नविशेषणत्वाऽभावाच्चेत्; नहि यथा द्रव्यादौ सत्तालक्षणभिन्न
विशेषणनिमित्तं सत्त्वम् तथा सामान्यादौ । न च अभिन्नविशेषणस्य मुख्यत्वं युक्तम् 3090भिन्न
विशेषण मुख्यम् अभिन्नविशेषणं गौणम् ।
इत्यभिधानात्; इ3091त्यप्यसत्;
अन्योन्याश्रयप्रसङ्गात्–सिद्धे हि सामान्यादिसत्त्वस्य सत्तालक्षणभिन्नविशेषणनिबन्धनत्वाऽभावे
गौणत्वसिद्धिः, तत्सिद्धौ च तन्निबन्धनत्वाऽभावसिद्धिरिति ।


एतेन द्रव्यादौ सत्त्वस्य मुख्यत्वमपि चिन्तितम्; इतरेतराश्रयाऽविशेषात्; तथाहि–सिद्धे
द्रव्यादौ सत्त्वस्य मुख्यत्वे सत्तालक्षणभिन्नविशेषणनिबन्धनत्वसिद्धिः, तत्सिद्धौ च तन्मुख्य
त्वसिद्धिरिति । न च कश्चिदबालिशः स्वरूपनिबन्धनं सत्त्वमुपचरितम्, अर्थान्तरभूतसत्तानि
बन्धनं तु मुख्यम्
इति मन्यते । नहि यष्टौ यष्टित्वमुपचरितम्, पुरुषे तु मुख्यम् इति
प्रेक्षावान् मन्यते ।


किञ्च, सत्ता स्वयं सती अन्यस्य सत्त्वहेतुः स्यात्, असती वा ? यदि असती; कथं
स्वसम्बन्धेन अन्यस्य सत्त्वहेतुः ? यद् असत् न तत् स्वसम्बन्धेन अन्यस्य सत्त्वहेतुः यथा
खरविषाणम्, असती च सत्ता इति । अथ सती; किं स्वतः, सत्तान्तरसम्बन्धाद्वा ? यदि
स्वतः; तर्हि वस्तुनोऽपि स्वत एव सत्त्वमस्तु, कि तत्सम्बन्धात् सत्त्वकल्पनाप्रयासेन ? यत् सत्
तत् स्वात्मभूतेनैव सत्त्वेन यथा सामान्यविशेषसमवायाः, सन्ति च द्रव्यादीनि इति । अथ
सत्तान्तरसम्बन्धात्; तदा अनवस्था । ननु च अनवस्थाया बाधिकायाः सद्भावादेव सामान्य
विशेषसमवायेषु स्वतः सत्त्वमिष्यते द्रव्यादौ तु परतः तत्र तदभावात्, न खलु द्रव्यादौ
परतः सत्त्वे अनवस्था अवतरति–सत्तातो हि द्रव्यादीनां सत्त्वं सत्तायास्तु स्वतः इति; तद

  1. सदिति यतो द्रव्यगुणकर्मसु सा सत्ता । वैशेसू॰ १ । २ । ७ ।

  2. –न्नः तस्य श्र॰

  3. प्रति
    पत्तिः
    ब॰, ज॰

  4. –षाद्वैत– ब॰, ज॰

  5. सत्ताविशे– ब॰, ज॰

  6. इत्यसत् आ॰, ब॰, ज॰