398 विवेक स तु तस्मिन् प्रतिभासमानेऽपि न प्रतिभासते भ्रान्तेः इत्यपरे । ग्राह्यग्राहकसंवेद
नात्मकत्वात् भेदाऽभेदात्मकं तत्
इत्यन्ये । तान् प्रति इदमाह–दृश्यादृश्य भेदेतरात्म
कम् ।
कि तत् ? चित्तम् ज्ञानं कर्तृ एकं तत्त्वं जीवादि सदसदात्मकं भावेतररूपं
साधयति, स्वतः आत्मना इति ।


विवृतिविवरणम्–


कारिकां विवृण्वन्नाह–चित्रनिर्भासिनः इत्यादि । चित्रः शबलः मिथ्येतरादिस्वभा
वाऽपेक्षया यो निर्भासः स यस्य अस्ति तस्य तत्त्वं स्वरूप3080म् ।
कस्य ? अविभागज्ञानस्य दृश्यम् उपलभ्यं यदि क्रमेणा
ऽपि
न केवलम् अक्रमेण सदसदात्मकं विवर्त्तेत तत्त्वम् इति सम्बन्धः । उक्तार्थोपसंहार
माह–ततः इत्यादि । यत एवं ततः तस्मात् सि3081द्धं निश्चितम् द्रव्यपर्यायात्मकं वस्तुतत्त्वं
प्रमेयम् ।
पुनरपि किं विशिष्टम् ? उत्पादव्ययध्रौव्ययुक्तम् । क्व ? अन्तर्बहिश्च ।


सत्तासमवायात् सत्त्वम्
इति निराकरणपुरस्सर उत्पादादित्रययोगादेव सत्त्वव्यवस्थापनम्–


ननु उत्पाद-व्यय-ध्रौव्ययुक्तत्वेन जीवादिवस्तुनः सत्त्वे प्रत्येकम् उत्पादादेरपि अपरोत्पा
दादियोगात् सत्त्वेन भवितव्यम्, एवं च अनवस्था । स्वतः
तस्य सत्त्वे वस्तुनोऽपि स्वत एव सत्त्वमस्तु अलं तद्योगात्
सत्त्वकल्पनया; ए3082तदप्यसमीचीनम्; यतः सकलशून्यताम्,
वस्तुनोऽन्यतः सत्त्वं वा अभिप्रेत्य एवं पर्यनुयु3083ज्येत ? तत्र
आद्यः पक्षोऽयुक्तः; सकलशून्यतायाः प्रागेव3084 प्रपञ्चतः अपास्त
त्वात् । द्वितीयपक्षेऽपि उत्पादादेरन्यतः सत्तासम्बन्धात्, अर्थक्रियातः, तत्कारित्वात्, तत्क
रणयोग्यतातः, प्रमाणसम्बन्धाद्वा वस्तुनः सत्त्वं स्यात् ? तत्र न तावत् सत्तासम्बन्धात्;
अव्यापकत्वात् तस्य, सामान्य-विशेष-समवा3085येषु हि तत्सम्बन्धाऽभावेऽपि सत्त्वं संभवत्येव ।
न च यदभावेऽपि यद् भवति तत् तद्व्याप्यम् यथा अश्वाऽभावेऽपि भवन् रासभः न तद्व्याप्यः,
सत्तासम्बन्धाऽभावेऽपि भवति च सामान्यादिषु सत्त्वमिति ।


न च साधनविकलो दृष्टान्तः; तत्सम्बन्धाऽभावेऽपि परै तत्र सत्त्वस्याऽभ्युपगमात् । न

  1. –पकम् श्र॰

  2. –द्धमेकं निश्चितम् आ॰

  3. इत्यप्यस– ब॰, ज॰, भा॰, श्र॰


  4. युज्यते
    श्र॰यथोत्पादादय सन्त परोत्पादादिभिर्विना । तथा वस्तु न चेत् केन अनवस्थादि निवा
    र्यते ॥ २ ॥ इत्यसत् सर्वथा तेषा वस्तुन सदसिद्धित ।
    तत्त्वार्थश्लो॰ पृ॰ ४३४ । अष्टसह॰ पृ॰
    ११२ ।

  5. पृ॰ १३३ ।

  6. –वायानां सत्तासम्बन्धामावेऽपि भा॰, श्र॰सत्तायोगाद् विना सन्ति
    यथा सत्तादयस्तथा । सर्वेऽर्था देशकालाश्च सामान्यं सकल मतम् ॥
    न्यायविनि॰ १ । १५२ । पृ॰
    ३७८ पू॰ । सत्तासम्बन्ध इष्टश्चेद् वस्तूना लक्षण न तत् । असिद्धे समवायादे कथ वाऽन्योऽन्यलक्ष
    णम् ॥ ४१८ ॥
    तत्त्वस॰ ।