सम्यग्विषयवता हि प्रमाणेन भवितव्यम्, समीचीनश्च विषयः प्रमाणस्य यादृशो भवति,
तं दर्शयन् प्रकृतमर्थञ्चोपसंहरन्नाह–


तद्द्रव्यपर्यायात्माऽर्थो बहिरन्तश्च तत्त्वतः ॥ ७ ॥

विवृतिः–भेदाऽभेदैकान्तयोरनुपलब्धेः अर्थस्य सिद्धिः अनेकान्तात् । नान्तर्बहिर्वा
स्वलक्षणं सामान्यलक्षणं वा परस्पराऽनात्मकं प्रमेयं यथा मन्यते परैः; द्रव्यपर्याया
त्मनोऽर्थस्य बुद्धौ प्रतिभासनात् । न केवलं साक्षात्करणम् एकान्ते न संभवति,
अपि तु–