402 येन तेषामपि अपरोत्पादादियोगतः सत्त्वेन भवितव्यम् इत्यनवस्था3105 स्यात्, तत्तादात्म्येन तेषां
व्यवस्थितत्वात् ।


कुतः पुन उत्पादाद्यनेकान्तात्मकमेव वस्तु प्रमेयम् ? इत्याह–एकान्तस्य अनुलपब्धेः ।
यत एवं तत् तस्मात् अनेकान्तात्मा अर्थः । इति परिच्छेदार्थोपसंहारे इति ।


येनाऽशेपकुतर्कविभ्रमतमो निर्मूलमुन्मृलितम्,

स्फारागाधकुनीतिसार्थमरितो नि शेषनः शोपिता ।

स्याद्वादाऽप्र3106तिमप्रभूतकिरणै व्याप्त जगत् सर्वतः,

स श्रीमान् अकलङ्कभानुरसमो जीयात् जिनेन्द्रः प्रभुः ॥ १ ॥

इति प्रभाचन्द्रविरचिते न्यायकुमुदचन्द्रे लघीयस्त्रयालङ्कारे द्वितीयः परिच्छेदः ममाप्न ।
प्र॰ ४३०० ।

  1. अथ भिन्नारतर्हि प्रत्येक स्थित्यादीनां त्रिलक्षणत्वप्रसङ्ग सत्त्वात्, अन्यथा तदसत्त्वापत्ते,
    तया चानवस्थानान्न समीहितसिद्धिरिति कश्चित्, सोऽपि अनालोचितपदार्थस्वभाव, पक्षद्वयस्यापि
    कथञ्चिदिष्टत्वात्, तत्र तत कथशिदभेदोपगमे स्थित्यादीना स्थितिरेव उत्पद्यते सामर्थ्याद् विनश्यति च,
    विनाश एव तिष्ठति सामर्थ्याद् उत्पद्यते च, उत्पत्तिरेव नश्यति सामर्थ्यात्तिष्ठतीति च ज्ञायते त्रिल
    क्षणाज्जीवादिपदार्थादभिन्नाना स्थित्यादीना त्रिलक्षणत्वसिद्धे । एतेनैव ततस्तेषा भेदोपगमेऽपि त्रिलक्षणत्व
    सिद्धिरुक्ता ।
    अष्टसह॰ पृ॰ ११२ । सिद्धिवे॰ टी॰ पृ॰ १६९ ।

  2. –प्रतिघ– आ॰