403

प्रमाणप्रवेशे तृतीयः परोक्षपरिच्छेदः ।


प्रत्यक्षं प्रतिपाद्य लक्षणफलस्वार्थान्वितं तत्त्वतः,

स्पष्टार्थप्रतिपत्तिशून्य3107मधुना व्याख्यायते तच्छ्रुतम् ।

प्रामाण्यं पुनरस्य3108 यैस्तु कु3109मतध्वान्ताभिभूतेक्षणैः,

नेष्टं तैर्ननु3110 वि3111प्रकृष्टविषयज्ञानाय दत्तं जलम् ॥ १ ॥

अथेदानीं परोक्षस्वरूपप्ररूपणायाह–


ज्ञा10163
  1. अस्पष्टम् ।

  2. श्रुतस्य ।

  3. कुमति– आ॰, ब॰

  4. निश्चयेन ।

  5. अतीन्द्रियज्ञानाय ।

  6. अनया कारिकया मतिः स्मृति संज्ञा चिन्ताऽभिनिबोध इत्यनर्थान्तरम् तत्त्वार्थसू॰ १ । १३ इति
    सूत्रार्थं समन्वेति । तुलना–मतिस्मृत्यादयः शब्दयोजनमन्तरेण न भवन्तीत्येकान्तो न यतस्तत्र
    संकीर्येरन् । तदेकान्ते पुनर्न क्वचित् स्युः तन्नामस्मृतेरयोगात्, अनवस्थानादेः ।
    सिद्धिवि॰ पृ॰ १००
    A. ।
    अनन्तवीर्यविद्यानन्दाभयदेवाद्याचार्याभिप्रायेण शब्दयोजनात् प्राक्कालभाविना मतिस्मृत्यादीना
    मतिज्ञानेऽन्तर्भावः तदुत्तरकालभाविना तु तेषा श्रुतेऽन्तर्भावः इति । तथा च तेषा ग्रन्थाः–ननु
    मत्यादिकं सर्वमभिघानपुरस्सरमेव स्वार्थं प्रत्येति इति शब्दश्रुत एवान्तर्भावोऽस्य, तथा च तच्चिन्तने
    एवास्य चिन्ता भविष्यतीति पृथगिह चिन्तनमनर्थकमिति चेदत्राह–शब्दयोजनम् इत्यादि । मतिस्मृ
    त्यादयः शब्दयोजनमन्तरेण न भवन्ति किन्तु तद्योजने सति भवन्ति इत्येवमेकान्तो न, यत एव एकान्तात्
    तत्र अन्तर्भाव्येरन् इत्यर्थः । यत इति वा आक्षेपे नैव संकीर्येरन् । विपक्षे वाधकमाह–तदेकान्त इत्यादि ।
    स चासौ एकान्तश्च तस्मिन् अङ्गीक्रियमाणे पुनः न क्वचित् वहिरन्तर्वा स्युः मतिस्मृत्यादयः । कुत एत
    दित्यत्राह–तन्नाम इत्यादि । यस्य नाम्नो योजनात् मतिस्मृत्यादयः तत् तन्नाम इत्युच्यते तस्य स्मृतेर
    योगात् ।
    सिद्धिवि॰ टी॰ पृ॰ १००A. । संप्रति श्रुतस्वरूपप्रतिपादकमकलंकग्रन्थमनुवादपुरस्सरं