1

प्रथमे नयप्रवेशे

प्रमाणप्रवेशे प्रत्यक्षपरिच्छेदः ।


सिद्धि1प्रदं प्रकटिताखिलवस्तुतत्त्वमानन्दमन्दिरमशेषगुणैकपात्रम् ।

श्रीमज्जिनेन्द्रम2कलङ्कमनन्त3वीर्यमानम्य लक्षणपदं प्रवरं प्रवक्ष्ये ॥ १ ॥

यज्ज्ञानोदधिमध्यमुन्नतमिदं विश्वं प्रपञ्चाञ्चि4तम्,

प्राप्याभाति विचित्ररत्ननिचयप्रख्यं प्रभाभासुरम् ।

श्रीचिन्तामणिसुप्र5भेन्दुसदृशः शास्त्रप्रबन्धश्चिरम्,

जीयात्सोऽत्र कु6तर्कदर्पदलनो भव्याब्जतेजोनिधिः ॥ २ ॥

माणिक्यनन्दिप7दमप्रतिमप्रबोधम्, व्याख्याय बोधनिधिरेष पुनः प्रबन्धः ।

प्रारभ्यते सकलसिद्धिविधौ8 समर्थे, मूले प्रकाशितजगत्त्रयवस्तुसार्थे ॥ ३ ॥

  1. प्रमेयकमलमार्त्तण्डस्य प्रारम्भोऽपि अनेनैव ग्रन्थकृता सिद्धेर्धाम महारिमोहहननम् इत्यादिना
    कृत । पूज्यपादेनापि सिद्धिरनेकान्तात् इति सूत्रेण जैनेन्द्रव्याकरणं प्रारब्धम् । आदौ सकारप्रयोग
    सुखद, तथा च सहौ सुखदाहदौ अलं॰ चि॰ १ । ४९ । मङ्गलार्थम्–माङ्गलिक आचार्यो महत
    शास्त्रौघस्य मङ्गलार्थं सिद्धशब्दम् आदित प्रयुङ्क्ते
    । पात॰ महाभा॰ पृ॰ ५७ ।

  2. जिनेन्द्रविशेषणम्,
    लघीयस्त्रयकर्त्तुर्नाम च ।

  3. जिनेन्द्रविशेषणम् । अकलङ्कविरचितगूढाभिसन्धिप्रकरणानां ख्यातनामा ज्ञाता,
    सिद्धिविनिश्चयप्रकरणस्य टीकाकारश्च, तथा च गूढमर्थमकलङ्कवाड्मयागाधभूमिनिहितं तदर्थिनाम् ।
    व्यञ्जयत्यमलमनन्तवीर्यवाग् दीपवर्त्तिरनिशं पदे पदे ।
    न्यायविनि॰ वि॰ पृ॰ १, तथा ४७६ पू॰ ।

  4. –ञ्चार्चि– ब॰, –ञ्चान्वि– भा॰

  5. न्यायकुमुदचन्द्रकर्त्तुर्नाम । प्रभेन्दुभवनम् इत्यादि, प्रमेयक॰
    पृ॰ १ ।

  6. कुतर्कतर्कद– ज॰

  7. परीक्षामुखम् ।

  8. –विधे– ज॰