प्रमाणप्रवेशे प्रत्यक्षपरिच्छेदः ।


सिद्धि1प्रदं प्रकटिताखिलवस्तुतत्त्वमानन्दमन्दिरमशेषगुणैकपात्रम् ।

श्रीमज्जिनेन्द्रम2कलङ्कमनन्त3वीर्यमानम्य लक्षणपदं प्रवरं प्रवक्ष्ये ॥ १ ॥

यज्ज्ञानोदधिमध्यमुन्नतमिदं विश्वं प्रपञ्चाञ्चि4तम्,

प्राप्याभाति विचित्ररत्ननिचयप्रख्यं प्रभाभासुरम् ।

श्रीचिन्तामणिसुप्र5भेन्दुसदृशः शास्त्रप्रबन्धश्चिरम्,

जीयात्सोऽत्र कु6तर्कदर्पदलनो भव्याब्जतेजोनिधिः ॥ २ ॥

माणिक्यनन्दिप7दमप्रतिमप्रबोधम्, व्याख्याय बोधनिधिरेष पुनः प्रबन्धः ।

प्रारभ्यते सकलसिद्धिविधौ8 समर्थे, मूले प्रकाशितजगत्त्रयवस्तुसार्थे ॥ ३ ॥

2
बोधः कोप्यसमः समस्तविषयः प्राप्याऽकलङ्कं प9दम्,

जातस्तेन समस्तवस्तुविषयं व्याख्यायते तत्पद10म् ।

किन्न श्रीगणभृत् जिनेन्द्रपदतः प्राप्तप्रभावः स्वयम्,

व्याख्यात्यप्रतिमं वचो जिनपतेः सर्वात्मभा11षात्मकम् ॥ ४ ॥

येषां12 न्यायमहोद13धौ प्रतरणे वाञ्छास्ति सद्धीमताम्,

नौतुल्यं निखिलार्थसाधनमिदं प्रारभ्यते तान् प्रति ।

14ये तु स्वान्ततमस्तरङ्गतरलावर्तभ्रमभ्रामिताः,

ते दोषेक्षणतत्पराः पदमपि प्राप्तुं न तत्र क्षमाः ॥ ५ ॥

  1. प्रमेयकमलमार्त्तण्डस्य प्रारम्भोऽपि अनेनैव ग्रन्थकृता सिद्धेर्धाम महारिमोहहननम् इत्यादिना
    कृत । पूज्यपादेनापि सिद्धिरनेकान्तात् इति सूत्रेण जैनेन्द्रव्याकरणं प्रारब्धम् । आदौ सकारप्रयोग
    सुखद, तथा च सहौ सुखदाहदौ अलं॰ चि॰ १ । ४९ । मङ्गलार्थम्–माङ्गलिक आचार्यो महत
    शास्त्रौघस्य मङ्गलार्थं सिद्धशब्दम् आदित प्रयुङ्क्ते
    । पात॰ महाभा॰ पृ॰ ५७ ।

  2. जिनेन्द्रविशेषणम्,
    लघीयस्त्रयकर्त्तुर्नाम च ।

  3. जिनेन्द्रविशेषणम् । अकलङ्कविरचितगूढाभिसन्धिप्रकरणानां ख्यातनामा ज्ञाता,
    सिद्धिविनिश्चयप्रकरणस्य टीकाकारश्च, तथा च गूढमर्थमकलङ्कवाड्मयागाधभूमिनिहितं तदर्थिनाम् ।
    व्यञ्जयत्यमलमनन्तवीर्यवाग् दीपवर्त्तिरनिशं पदे पदे ।
    न्यायविनि॰ वि॰ पृ॰ १, तथा ४७६ पू॰ ।

  4. –ञ्चार्चि– ब॰, –ञ्चान्वि– भा॰

  5. न्यायकुमुदचन्द्रकर्त्तुर्नाम । प्रभेन्दुभवनम् इत्यादि, प्रमेयक॰
    पृ॰ १ ।

  6. कुतर्कतर्कद– ज॰

  7. परीक्षामुखम् ।

  8. –विधे– ज॰

  9. प्रकरणम् ।

  10. सविवृतिलघीयस्त्रयम् ।

  11. तथाच तव वागमृतं श्रीमत्सर्वभाषास्वभावकम् बृहत्स्व॰
    श्लो॰ ९६ । गम्भीरं मधुरं मनोहरतरं दोषैरपेतं हितम्, कण्ठौष्ठादिवचोनिमित्तरहित नो वातरोधोद्गतम् ।
    स्पष्टं तत्तदभीष्टवस्तुकथक नि शेषभाषात्मकम्, दूरासन्नसम समं निरुपमं जैनं वच पातु न
    ॥ २९ ॥
    समव॰ स्तो॰ । सर्वभाषापरिणता जैनी वाचमुपास्महे । काव्यानुशा॰ श्लो॰ १ ।

  12. ये नूनं प्रथ
    यन्ति नोऽसमगुणा
    इत्यादिना प्रमेयकमलमार्त्तण्डेऽपि स्मृतो दुर्जन । वादिराजोऽपि अमुमेव अनुसरति;
    तथाहि–येषामस्ति गुणेषु सस्पृहमतिर्ये वस्तुसारं विदु–इत्यादि, न्याय वि॰ वि॰

  13. –धिप्र– भा ।

  14. यत्तु- आ॰, ब॰, ज॰