208 प्रतिभासभेदानाम् इति । प्रतिभासभेदाः बुद्धेर्नीलादय आकारविशेषाः तेषाम् 1745पयन् अभ्यु
पगच्छन्, क्रमवर्तिनामपि क्रमेण वर्त्तितुं शीलानामपि तथा अशक्यविवेच1746नत्वप्रत्यासत्तिप्रका
रेण, केवलस्य अभिन्न1747योग-क्षेमप्रत्यासत्तिप्रकारस्य सन्तानान्तरज्ञानैर्व्यभिचारात् एकत्वं प्रति
पत्तुमर्हति ।
केषाम् ? इत्यत्राह–हर्षविषादादीनाम् इति । अतः अस्मात् तदेकत्वात् अनेका
न्तसिद्धिः
प्रत्येया, प्रत्येयम् इत्यनेन वक्ष्यमाणेन जातलिङ्गपरिणामेन सम्बन्धात् ।


ननु प्रमाणफलयो क्रमभाविनोर्भेदात् सन्तानान्तरवत् तद्भावो न प्राप्नोति इति चेत्,
अत्राह–प्रमाण इत्यादि । अतः इत्यनुवर्तते अतो न्यायात् प्रमाणफलयोः अवग्रहेहयोः
ईहाऽवाययो अवायधारणयो क्रमभावेऽपि तादात्म्यम् कथञ्चिदेकत्वम् ।


प्रमाणफलयो सर्वथाभेदवादिनो नैयायिकस्य पूर्वपक्ष–


ननु प्रमाणफलयोस्तादात्म्यमनुपपन्नम् प्रमाणविरोधात्, तथा1748हि–प्रमाणम् आत्मव्यतिरिक्त
क्रियाकारि कारकत्वात्, यत् कारकं तद् आत्मव्यतिरिक्तक्रिया
कारि प्रतिपन्नम् यथा कुठारादि, कारकञ्च प्रमाणम्, तस्माद्
आत्मव्यतिरिक्तक्रियाकारि इति । तथा, प्रमाण स्वतो विभिन्नफ
लविधायि करण1749त्वात्, यत् करणं तत् स्वतो विभिन्नफलविधायि
प्रसिद्धम् यथा वास्यादि, करणञ्च प्रमाणम्, तस्मात् स्वतो विभिन्नफलविधायि इति । न चायं
साध्यविकलो दृष्टान्त, न हि करणं वास्यादि स्वात्मनि क्रियां कुर्वद् दृष्टम्, न च अकुर्वत
करणत्वं युक्तम् अतिप्रसङ्गात्, तस्मात् स्वतो विभिन्नं फलं कर्त्तरि कर्मणि वा कुर्वत् करणं

  1. उपनयन् श्र॰

  2. –चनप्रत्या–भा॰, ब॰, ज॰

  3. प्रतिक्षण विषयपरिच्छेदलक्षणो योग,
    तदर्थक्रियाऽनुष्ठानलक्षणश्च क्षेम परिपालनरूप।
    हेतुबि॰ टी॰ पृ॰ ५६ ।

  4. यदा सन्निकर्षस्तदा
    ज्ञान प्रमितिः, यदा ज्ञानं तदा हानोपादानोपेक्षाबुद्धय फलम् ।
    न्यायभा॰ १ । ३ । तत्र सामान्य
    विशेषेषु स्वरूपालोचनमात्रं प्रत्यक्ष प्रमाणम् प्रमिति द्रव्यादिविषय ज्ञानम् अथवा सर्वेषु पदार्थेषु
    चतुष्टयसन्निकर्षादवितथमव्यपदेश्य यज्ज्ञानमुत्पद्यते तत्प्रत्यक्ष प्रमाणम् प्रमिति गुणदोषमाध्यस्थ्यद
    र्शनमिति ।
    प्रशस्त॰ भा॰ पृ॰ १८७ । सर्वञ्च प्रमाण स्वविषय प्रति भावसाधन प्रमिति प्रमाणम्
    इति, विषयान्तर प्रति करणसाधनं प्रमीयतेऽनेन इति प्रमाणम् । यदि भावसावन प्रमाणशब्द किं फलं
    विषयस्याधिगतत्वात् ? उक्तं फल हानादिबुद्धय इति ।
    न्यायवा॰ १ । ३ । पृ॰ २९ ।

  5. करणं
    हि प्रमाणमुच्यते प्रमीयतेऽनेन इति । न च क्रियैव क्वचित् करण भवति, क्रियाया साध्याया कारक किंमपि
    करणमुच्यते यथा दात्रेण चैत्र शालिस्तम्बं लुनाति इति कर्तृकर्मकरणानि क्रियातो भिन्नान्युपलभ्यन्ते
    तथेहापि चक्षुषा घटं पश्यतीति दर्शनक्रियात पृथग्भाव एव तेषा युक्तो न दर्शनं करणमेव इति । प्रमा प्रमा
    णमिति तु फले प्रमाणशब्दस्य साधुत्वाख्यानमात्रम् कृति करणमितिवत् तेन चक्षुरादे ज्ञानक्रियामुपजन
    यत करणत्वं-ज्ञानस्य फलत्वमेवेति युक्तः तथाव्यपदेश
    न्यायम॰ पृ॰ ७० । स्वातिरिक्तेत्यादिना
    शंकरस्वामी प्रमाणयति–स्वातिरिक्तक्रियाकारि प्रमाणं कारकत्वत वास्यादिवत् ॥ १३५३ ॥
    तत्त्वस॰ ।