209 प्रतिपत्तव्यम् । विरुद्धा च प्रमाणस्यैव फलरूपता; न हि एकस्य एकदा स्वात्मापेक्षया करण
रूपता फलरूपता चोपपन्ना विरुद्धयोर्धर्मयोः सकृदेकत्र समावेशाऽसंभवात्, अतः प्रमाण
फलयोर्भेद एव ज्यायान् । विशेष1750णज्ञानं हि प्रमाणं विशेष्यज्ञानं फलम्, तयोश्च कथमभेदः ?
विभिन्नसामग्रीप्रभवतया विभिन्नविषयतया च भेदस्यैवोपपत्ते; ययोर्विभिन्नसामग्रीप्रभवत्वं
विभिन्नविषयत्व1751ञ्च तयोर्भेदः यथा घटपटज्ञानयोः, विभिन्नसामग्रीप्रभव1752त्वं विभिन्नविषयत्व
ञ्च विशेषण-विशेष्यज्ञानयोरिति । नचायमसिद्धो हेतुः; विभिन्ना हि विशेपणज्ञानोत्पत्तौ विशे
पणाऽक्षसन्निकर्षलक्षणा सामग्री, विभिन्ना च विशेष्यद्रव्यादिज्ञानोत्पत्तौ तदिन्द्रियसन्निकर्षलक्षणा
सामग्री । विषयभेदस्तु तज्ज्ञानयोः सुप्रसिद्ध एव, अन्योन्यविलक्षणयोः विशेपण-विशेष्ययो
स्तदालम्बनत्वात् ।


प्रमाणफलयो सर्वथा भेदप्रतिविधानपूर्विका कथञ्चित्तादात्म्यसिद्धि–


अत्र प्रतिविधीयते । यत्तावत्–प्रमाणफलयोः भेदे साध्ये कारकत्वात् इति साधनमुक्तम्1753;
तदसमीचीनम्; यतोऽतः किमनयोः कथञ्चिद्भेदः साध्येत,
सर्वथा वा ? यदि कथञ्चित्; सिद्धसाध्यता, अज्ञाननिवृत्तेः
प्रमाणधर्मतया हानोपादानादेश्च तत्कार्यतया प्रमाणात् कथञ्चि
द्भेदाऽभ्युपगमात् । द्विविधं1754 हि प्रमाणस्य फलम्–ततो भिन्नम्,
अभिन्नञ्चेति । तत्र अभिन्नम् अज्ञाननिवृत्तिः तद्धर्मत्वा1755त् । यो यद्धर्मः स ततोऽभिन्नः यथा
प्रदीपात् स्व-परप्रकाशः, प्रमाणधर्मश्च अज्ञाननिवृत्तिः स्वपररूपव्यामोहविच्छेदलक्षणा

  1. यदा निर्विकल्पक सामान्यविशेषज्ञानं प्रमाणम् तदा द्रव्यादिविषयं विशिष्टं ज्ञानं प्रमिति इत्यर्थ ।
    यदा निर्विकल्पक सामान्यविशेषज्ञानमपि प्रमारूपमर्थप्रतीतिरूपत्वात् तदा तदुत्पत्तावविभक्तमालोचनमात्रं
    प्रत्यक्षम्विशेष्यज्ञानं हि विशेषणज्ञानस्य फलम् विशेषणज्ञानं न ज्ञानान्तरफलम्यदा निर्विकल्पकं
    सामान्यविशेषज्ञानं फलं तदा इन्द्रियार्थसन्निकर्ष प्रमाणम्, यदा विशेष्यज्ञानं फलं तदा सामान्यविशेषालोचनं
    प्रमाणम् इत्युक्तं तावत् । सम्प्रति हानादिबुद्धीना फलत्वे विशेष्यज्ञानं प्रमाणमित्याह
    प्रश॰ कन्दली
    पृ॰ १९९ । मीमासाश्लो॰ सू॰ ४ श्लो॰ ७०–७३ ।

  2. –त्वं वा आ॰

  3. –त्वं विषय– आ॰

  4. पृ॰ २०८
    पं॰ १० ।

  5. उपेक्षा फलमाद्यस्य शेषस्यादानहानधी । पूर्वा वाऽज्ञाननाशो सर्वस्यास्य स्वगोचरे ॥ १०२ ॥
    आप्तमीमासा । प्रमाणस्य फलं साक्षादज्ञानविनिवर्त्तनम् । केवलस्य सुखोपेक्षे शेषस्यादानहानधीः
    ॥ २८ ॥
    न्यायावतार । उपेक्षा अज्ञाननाशो वा फलम् सर्वार्थसि॰ १ । १० । प्रमाणस्य फलं
    साक्षात् सिद्धि स्वार्थविनिश्चयः ।
    सिद्धिवि॰ टी॰ पृ॰ १२६ पू॰ । प्रमाणस्य फलं तत्त्वनिर्णयादानहा
    नधी । निःश्रेयसं परं वेति केवलस्याप्युपेक्षणम् ॥
    न्यायवि॰ ३ । ९० । पृ॰ ५९६ । हानादिवेदनं
    भिन्नं फलमिष्टं प्रमाणतः । तदभिन्नं पुन स्वार्थाज्ञानव्यावर्तनं समम् ॥ ४२ ॥
    तत्त्वार्थश्लो॰ पृ॰ १२७ ।
    अज्ञाननिवृत्तिर्हानोपादानोपेक्षाश्च फलम् । प्रमाणाद्भिन्नमभिन्नञ्च । परीक्षामुख ५ । १, २ । प्रमाणनय॰
    ६ । १ । २२ । प्रमाणमीमासा १ । १ । ३५, ३९, ४१, ४२ ।

  6. क्रियाकरणयोरैक्यविरोध इति चेदसत् ।
    धर्मभेदाभ्युपगमाद्वस्त्वभिन्नमितीप्यते ॥
    प्रमाणवा॰ ३ । ३१८ ।