210 इति । न हि सर्वथा भेदे अभेदे वा धर्म-धर्मिभावो घटते विरोधात्; तथाहि–ययोः सर्वथा
भेद न तयोर्धर्म-धर्मिभाव यथा सह्य-विन्ध्ययो, सर्वथा भेदश्च धर्म-धर्मिणोः भवद्भिरभि
प्रेत इति । तथा, यत्र सर्वथाऽभेद न तत्र धर्म-धर्मिभावः यथा धर्मधर्मिणोरन्यतरस्वरूपे,
सर्वथाऽभेदश्च धर्म-धर्मिणोर्भवद्भिरिष्ट इति । अत सर्वथाभेदा1756ऽभेदपक्षे तयो तद्भावाऽनु
पपत्ते कथञ्चिद्भेद एव ज्यायान्, साधकतमस्वभावतया हि ज्ञानस्य प्रमाणता अज्ञाननिवृ1757त्त्या
त्मकतया च फलरूपता इति । साधकतमस्वभावता च अस्य स्वपरग्रहणव्यापार एव तद्ग्रह
णाऽभिमुख्यलक्षण । ज्ञानं हि स्वकारणकलापादुपजायमानं स्वार्थग्रहणव्यापारलक्षणोप
योगरूपं सत् स्वार्थव्यवसायरूपतया प1758रिणमते । इत्थं कथञ्चिदभेदेऽपि अनयो कार्यकारण
भावो न विरुद्ध्यते । तथा च एकस्य एकदास्वात्मापेक्षया क1759रणरूपता फलरूपता1760 चानुपपन्ना
इत्याद्ययुक्तम्, एकस्यापि अपेक्षाभेदाद् अनेककारकरूपतोपपत्ते, यथा वृक्षस्तिष्ठति, वृक्षेण
कृतम्, वृक्षादपेतम्, वृक्षं पश्य
इत्यादौ, एवं प्रमाणस्यैकस्यापि साधकतम-स्वपररूपव्यामोहवि
च्छेदलक्षण-अज्ञाननिवृत्तिस्वभावाऽपेक्षया प्रमाणरूपता फलरूपता च न विरोधमध्यास्ते ।


ननु च अज्ञाननिवृत्ति ज्ञानमेव, न च तदेव तस्यैव कार्य युक्तं विरोधात्, अतः कथमस्या
प्रमाणफलत्वं स्यात् ? इत्यप्यविचारितरमणीयम्, यतः अज्ञाननिवृत्तेः स्वार्थव्यवसायपरिणति
लक्षणाया स्वार्थग्रहणव्यापारलक्षण-उपयोगरूपप्रमाणेन कार्यत्वाऽविरोधात्, साधकतमांशस्य
इतरांशात् कथञ्चिद्भेदप्रतिपादनात् ।


किञ्च, धर्मरूपताम्, धर्मिरूपतां वा1761 अभ्युपगम्य अज्ञाननिवृत्तिः ज्ञानमेव इत्यभ्युपगम्येत ?
यदि धर्मिरूपताम्, तत्रापि कि1762मपेक्षया अज्ञाननिवृत्ते धर्मित्वं परिकल्प्येत–ज्ञानापेक्षया, धर्मा
न्तराऽपेक्षया वा ? प्रथमपक्षे तन्निवृत्ते धर्मित्वम्, ज्ञानस्य तु धर्मत्वम् इति वैपरीत्यमाया
तम्, न चैतद्युक्तं तस्याः तदाश्रितत्वात् । यद् यदाश्रितं न तस्य स्वाश्रयापेक्षयैव धर्मित्वं दृष्टम्
यथा सुख-रूपादे, ज्ञानाश्रिता च अज्ञाननिवृत्तिः इति, अतः कथस्या धर्मित्वम् ? निय
मेन अस्या पराश्रितायाः धर्मस्वभावत्वस्यैव उपपत्तेः तल्लक्षणत्वात्तस्य । अथ धर्मान्तरापे
क्षया; तदा ज्ञानापेक्षया किमस्या स्यात् ? धर्मरूपता चेत्; कथमेवम् ज्ञानमेव अज्ञाननि
वृत्ति
इति अभेदाऽभिधानं युज्यते ? ज्ञानस्य अज्ञाननिवृत्तिः धर्मः इति भेदाऽभिधानस्यैव
उपपन्नत्वात्, न खलु उपचारादन्यत्र धर्म-धर्मिणोरभेदाऽभिधानं युक्तम् अतिप्रसङ्गात् ।


किञ्च, असौ कार्या, अकार्या वा स्यात् ? यदि अकार्या; सर्वत्र सर्वदा सत्त्वप्रसङ्गात् सर्व

  1. भेदैकान्ते पुनर्न स्यात् प्रमाणफलतागति । सन्तानान्तरवत् स्वेष्टेऽप्येकत्रात्मनि संविदो
    ॥ ४५ ॥
    तत्त्वार्थश्लो॰ पृ॰ १२८ । अभेदे तद्व्यवहारानुपपत्ते । भेदे तु आत्मान्तरवत्तदनुपपत्तेः ।
    परीक्षामुख ६ । ६७, ७१ ।

  2. –निवृत्त्यात्मना च श्र॰

  3. परिणमति ब॰, ज॰

  4. करणता आ॰,
    भा॰ ।

  5. –ता वानुपपत्तेः ब॰, ज॰

  6. आ॰

  7. किमपेक्ष्य आ॰, भा॰