I.171

द्वितीयमाह्निकम्—प्रत्यक्षपरीक्षा


प्रत्यक्षलक्षणम्


एवं प्रमाणानां सामान्यलक्षणे, विभागे च निर्णीते सति,
अधुना विशेषलक्षणवर्णभावसर इति, सकलप्रमाणमूलभूतत्वेन
पूर्वपठितत्वेन ज्यैष्ठ्यात् प्रथमं प्रत्यक्षस्य लक्षणं प्रतिपादयितुमाह—


इन्द्रियार्थसन्निकर्षोत्पन्नं ज्ञानमव्यपदेश्यमव्यभि
चारि व्यवसायात्मकं प्रत्यक्षम् ॥ १-१-४ ॥


प्रत्यक्षमिति लक्ष्यनिर्देशः; इतरल्लक्षणम् । समानासमानजातीय
व्यवच्छेदो लक्षणार्थः । समानजातीयं प्रमाणतयाऽनुमानादि,
विजातीयं प्रमेयादि; ततो व्यवच्छिन्नं प्रत्यक्षस्य लक्षणमनेन
सूत्रेणोपपाद्यते ॥


सूत्रस्यायुक्तताऽऽक्षेपः


अत्र चोदयन्ति—इन्द्रियार्थसन्निकर्षोत्पन्नत्वादिविशेषणैः स्वरूपं
वा विशेष्यते ? सामग्री वा ? फलं वा ?


विभागे—चतुष्टयत्वेनेति शेषः ॥


समानेति । सजातीयविजातीयव्यावृत्तिः लक्षणस्य प्रयोजनमित्यर्थः ॥


चोदयन्तीति । अयमाशयः । अस्मिन् सूत्रे प्रत्यक्षं इति पदं
लक्ष्यवाचकम्, अत एव विशेष्यम् । प्रत्यक्षशब्दश्च अफलरूपे अकरणरूपे च
केवलज्ञाने, तादृशज्ञानकरणे इन्द्रियादौ, फलरूपे ज्ञाने च वर्तते । तदत्र प्रत्यक्षपदं
किं केवलज्ञानस्वरूपमात्रपरम् ? उत ज्ञानकरणपरम् ? उत फलभूतज्ञानपरम् ?
तत्राद्ये पक्षेऽव्याप्तिरतिव्याप्तिश्च । तदा हि अकरणस्याफलस्यैव च लक्षणमिदमिति
भवति । तथा च फलरूपज्ञाने, इन्द्रिये च प्रमाणत्वेन वर्णनीये लक्षणा
I.172

तत्र स्वरूपविशेषणपक्षे, यत् एवंस्वरूपं ज्ञानं तत् प्रत्यक्षमिति
तत्स्वरूपस्य विशेषितत्वात्, फलविशेषणानुपादानाच्च लक्षणम
व्याप्त्यतिव्याप्तिभ्यामुपहृतं स्यात् । अव्याप्तिस्तावत्—अतथाविधस्व
रूपस्य बोधस्य, इन्द्रियादेश्च निर्मलफलजनकतया लब्धप्रमाणभाव
स्यापि प्रामाण्यं नोक्तं भवेत् । अतिव्याप्तिश्च—तथाविधस्वरूपस्यापि
ज्ञानस्याकारकस्य, वा संस्कारकारिणो वा स्मृतिं जनयतो वा
संशयमादधानस्य वा विपर्ययमुत्पादयतो वा प्रमाणत्वं प्राप्नोति,
फलस्याविशेषितत्वात् ॥


तद्विशेषणाभिधाने पुनः—अश्रुतसूत्रान्तराध्याहारप्रसक्तिः,
अव्याप्तिश्च तदवस्थेति न स्वरूपविशेषणपक्षः ॥


नापि सामग्रीविशेषणपक्षः—तत्र हि—इन्द्रियार्थसन्निकर्षो
त्पन्नम्
इति इन्द्रियार्थसन्निकर्षोत्पन्नं सामग्र्यं इति व्याख्यातव्यम् ।
ज्ञानं, अव्यपदेश्यम्, अव्यभिचारि, व्यवसायात्मकमिति च तज्जनक
त्वादुपचारेण तथा साकल्यं वर्णनीयमिति क्लिष्टकल्पना ॥


समन्वयः । तथा चानेन सूत्रेण संग्राह्यानामप्यसंग्रहप्रसङ्गः । एवं प्रमाजनकस्य
यथाऽसंग्रहः तथा प्रमाऽजनकेऽतिव्याप्तिः । संस्कारादीनां प्रमात्वाभावेन
तज्जनकं हि न प्रमाणत्वेन संग्राह्यम् । एवं यत् करणं न किञ्चिदपि फलमादधाति
तदपि न प्रमाणत्वेन संग्राह्यम् । उक्तं तु स्वरूपलक्षणं तत्र वर्तत इत्यतिव्याप्तिः ॥


सामग्र्यमिति । कारणशब्दस्य कार्यशब्दवत्, सामग्रीशब्दस्य
सामग्र्यशब्दः प्रतिकोटिभूतः । एतदुक्तं भवति—प्रत्यक्षपदं यद्यपि करणव्युत्पत्त्या
सामग्रीपरं वक्तुं शक्यम्, परन्तु सामग्र्याः इन्द्रियार्थसन्निकर्षादिरूपायाः
तज्जन्यत्वासंभवेन ज्ञानरूपत्वाभावेन च इन्द्रियार्थसन्निकर्षोत्पन्नज्ञाननिष्ठकार्यता
निरूपकमिति व्याख्येयमिति ॥


I.173

फलविशेषणपक्षोऽपि न सङ्गच्छते—ज्ञानप्रत्यक्षशब्दयोः फल
करणवाचिनोः सामानाधिकरण्यप्रसङ्गात् । असमानाधिकरणप्रमाण
लक्षणप्रस्तावात् । प्रत्यक्षं प्रमाणमुच्यते । तच्च करणमिति वर्णितम् ।
ज्ञानं तु तदुपजनितं फलमिति कथमैकाधिकरण्यम् ? तस्मात् पक्ष
त्रयस्याप्ययुक्तत्वात् पक्षान्तरस्याप्यसंभवादयुक्तं सूत्रमिति ॥


सूत्रार्थसमर्थनम्


अत्रोच्यते—स्वरूपसामग्रीविशेषणपक्षौ तावत् यथोक्तदोषो
पहतत्वात् नाभ्युपगम्येते । फलविशेषणपक्षमेव संमन्यामहे । तत्र
च यत् वैय्यधिकरण्यं चोदितं, तत् यतः शब्दाध्याहारेण परिहरि
ष्यामः । यतः एवंविधविशेषणविशिष्टं ज्ञानाख्यं फलं भवति, तत्
प्रत्यक्षमिति सूत्रार्थः । इत्थं च न क्वचिदव्याप्तिरतिव्याप्तिर्वा, न
काचित् क्लिष्टकल्पना । यतः शब्दाध्याहारमात्रेण निरवद्यलक्षणोप
वर्णनसमर्थसूत्रपदसङ्गतिसंभवात् ॥


सामानाधिकरण्यप्रसङ्गादिति । फलविशेषणपक्षे ज्ञानपदं प्रत्यक्ष
पदं च सामान्यविशेषभावापन्नं, अत एव विशेषणविशेष्यभावापन्नं वाच्य
मित्यर्थः । अस्तु तथैव, का हानिः ? इत्यत्राह—असमानाधिकरणेति ।
पूर्वं प्रत्यक्षानुमानोपमानशब्दाः प्रमाणानि इत्युद्दिष्टानां खलु लक्षणमुच्यते ।
तत्र च सूत्रे करणवाच्यनुमानादिपदसमभिव्याहृतं प्रत्यक्षपदमपि करणपरमेव ।
एवं च फलवाचिनो ज्ञानपदस्य, करणवाचिनः प्रत्यक्षपदस्य च कथं विशेषण
विशेष्यभावरूपसामानाधिकरण्यसंभव इति भावः ॥


यतश्शब्दाध्याहारेणेति । एवमेव वाचस्पतिमिश्रा अपि—अत्र
यतः इत्यध्याहृत्य यत्तदोर्नित्याभिसम्बन्धात् तत् प्रत्यक्षम् इति प्रमाण
वाचिप्रत्यक्षपदं योजनीयम्
इति आहुः तात्पर्यटीकायाम् । निरवद्य
लक्षणोपवर्णनसमर्थानि यानि सूत्रघटकपदानि तेषां सङ्गतिसम्भवात्
नासाङ्गत्यमित्यर्थः ॥


I.174

स्वव्याख्याने बीजवर्णनम्


ननु समानाधिकरणे एव ज्ञानप्रत्यक्षपदे कथं न व्याख्यायेते ?
किं यतः शब्दाध्याहारेण ? उक्तमत्र—करणस्य प्रमाणत्वात्
ज्ञानस्य च तत्फलत्वात् फलकरणयोश्च स्वरूपभेदस्य सिद्धत्वात् ॥


तदत्र—


प्रमाणतायां सामग्र्याः तज्ज्ञानं फलमिष्यते ।

तस्य प्रमाणभावे तु फलं हानादिबुद्धयः ॥

प्रत्यक्षस्य प्रवृत्तिनिवृत्तिहेतुत्वाक्षेपः


ननु स्मृत्याद्यनेकबुद्धिव्यवधानसंभवात् कथमिन्द्रियार्थ
सन्निकर्षोत्पन्नमालोचनाज्ञानं हानादिफलं भवेत् ? तथा हि—
कपित्थादिजातीयमर्थं इन्द्रियादिसन्निकर्षादिसामग्रीत उपलभ्य
तद्गतं सुखसाधनत्वमनुस्मरति—एवंजातीयकेन मम पूर्वं सुखमुप
जनितमभूत्
इति । ततः स्मृत्यनन्तरं परामर्शज्ञानमस्योपजायते—
अयं स कपित्थजातीयः इति । तत उपादेयताज्ञानमुत्पद्यते—
यत एष सुखसाधनं कपित्थादिजातीयः पदार्थः, तस्मादुपादेयः
इति । अत्रान्तरे प्रथमस्येन्द्रियसन्निकर्षजन्मनः कपित्थालोचना
ज्ञानस्य नामापि नावशिष्यत इति कथमस्य तत्फलत्वमिति ॥


नन्विति । इदं करणलक्षणपरमिति विस्मृत्य एतत्सूत्रमात्रद्रष्टुरियमाशङ्का ॥


प्रमाणतायामित्यादि । प्रमाणपदं करणार्थकत्वे सामग्रीपरम् ।
भावार्थकत्वे प्रमितिपरम् । तत्राद्ये ज्ञानमेव फलम् । द्वितीये प्रवृत्तिनिवृत्त्यादि
निश्चयः फलमित्यर्थः ॥


आलोचनाज्ञानम्—साक्षात्काररूपं सविकल्पकज्ञानम् । हानादिफलं—
हानादिफलकम् । उपलभ्येति । इयमुपलब्धिरेव आलोचनाज्ञानम् । तद्गतं—
कपित्थगतम् । ततः इत्यस्य विवरणम्—स्मृत्यनन्तरमिति । परामर्श
ज्ञानमिति । इदमेव शास्त्रे कुत्रचित् विकल्प इत्युच्यते । एष कपित्थादिजातीय
इत्यन्वयः । कथमिति । हानोपादानादेरनुमानमूलकत्वात् इत्यर्थः ॥


I.175

प्रत्यक्षस्य प्रवृत्तिहेतुत्वे वाचस्पतिमतम्


अत्राचार्यास्तावदाचक्षते—साधु चोदितम् । सत्यम्, ईदृश
एवायं ज्ञानानां क्रमः । न वयं प्रथममालोचनाज्ञानस्य उपादानादिषु
प्रमाणतां ब्रूमः । तथा हि—प्रथममिन्द्रियार्थसन्निकर्षोत्पन्नमालोचना
ज्ञानं इन्द्रियार्थसन्निकर्षादिसामग्रीस्वभावस्य प्रत्यक्षस्य प्रमाणस्य
फलमेव, न तु स्वयं प्रमाणतां प्रतिलभते; स्मृतिजनकत्वात् ।
तदनन्तरं हि सुखसाधनत्वानुस्मृतिर्भवतीति सेयमनुस्मृतिरप्रमाण
फलमपि सती प्रत्यक्षं प्रमाणं संपद्यते, तथाऽयं कपित्थादिजातीयः
इतीन्द्रियविषयपरामर्शोत्पत्तौ इन्द्रियार्थसन्निकर्षेण सह व्याप्रिय
माणत्वात् ॥


स पुनः परामर्शप्रत्ययः प्रत्यक्षजनितः धूमज्ञानवत् अनुमानं
प्रमाणमुच्यते, परोक्षस्याग्नेरिव सुखसाधनसामर्थ्यस्य ततः अवगतेः ॥


प्रमाणतां—करणताम् । प्रत्यक्षस्य प्रमाणस्य—इन्द्रियाख्यस्य ।
स्मृतिजनकत्वादिति । प्रमाणं ह्यनुभवजनकम्; एवञ्च स्मृतिजनकत्वात्
आलोचनाज्ञानं इन्द्रियाख्यप्रमाणस्य फलमेव, न तु प्रमाणमित्यर्थः । अप्रमाण
फलमपि सती—प्रमाणफलं अभवत्यपि । साक्षात् इन्द्रियाद्यजन्यमपीत्यर्थः ।
ननु पूर्वानुभवजनितसंस्कारादुत्पन्नाया सुखसाधनत्वानुस्मृतेः कथं प्रत्यक्ष
प्रमाणत्वम् ? इति शङ्कायामाह—तथेति । नात्र स्मृतेः प्रत्यक्षप्रमाणत्वमुक्तं,
किन्तु अनुस्मृतेः । इदन्तांशे तस्याः प्रत्यक्षत्वं वर्तत एव इन्द्रियसापेक्षत्वात् ।
प्रत्यभिज्ञा ह्यनुस्मृतिः । प्रत्यभिज्ञा च प्रत्यक्षमेवेत्यर्थः । इन्द्रियेत्यादि ।
इन्द्रियविषयवस्तुविषयकपरामर्शेत्यर्थः ॥


स पुनरित्यादि । धूमज्ञानं यथा वह्न्यनुमितिहेतुः, तथा सोऽयं
कपित्थजातीयः
इति परामर्शः सुखसाधनसामर्थ्यानुमितिहेतुर्भवतीत्यर्थः ।
प्रत्यक्षजनितः—सुखसाधनत्वानुस्मृतिजनितः । परंपरया प्रत्यक्षजनितो वा ।
स्वानुभवजनित इति यावत् । तथा च उपादानादिषु सुखसाधनत्वानुस्मृतिः
प्रत्यक्षं प्रमाणं, परामर्शश्चानुमानरूपं प्रमाणमिति विवेकः । प्रकृते उपादेयं
वस्तु ऐन्द्रियिकं, अनुमानस्थले तु तत् परोक्षमिति विशेषः अनन्तरवाक्येषु स्पष्टः ॥
I.176

यद्यपि न काचिदतीन्द्रिया शक्तिरस्मन्मते विद्यते; तथाऽपि
स्वरूपसहकार्यादिदृष्टादृष्टकारणसमूहसन्निधानस्वभावमपि सामर्थ्य
मतीन्द्रियमेव ॥


तस्मादेष कपित्थादिजातीयोऽर्थः सुखसाधनमिति वह्निमत्पर्वत
प्रतीतिवत् तज्जातीयलिङ्गकमानुमानिकमिदं ज्ञानम् । तदिदमनुमान
फलमपि सुखसाधनत्वनिश्चयात्मकं ज्ञानं इन्द्रियविषये कपित्थादा
वुपादेयज्ञानं इन्द्रियार्थसन्निकर्षेण सह जनयत् प्रत्यक्षं प्रमाणं भवति ।
तदेव च हृदि व्यवस्थाप्य भाष्यकृत् वभाषे—यदा ज्ञानं वृत्तिः
तदा हानोपादानोपेक्षाबुद्धयः प्रमितिः
इति ॥


आलोचनाज्ञानं मुख्यं प्रमाणमेव


व्याख्यातारस्तु ब्रुवते—नायमीदृशो ज्ञानानां क्रमः; आद्य
मालोचनाज्ञानं सुखसाधनत्वानुस्मृतिं उपजनयतीति—सत्यम्—
स्मृत्या च तस्य विनश्यत्ता; विनश्यदवस्थं चेन्द्रियविषये कपित्थादौ
सुखसाधनत्वनिश्चयमादधाति, सुखसाधनत्वज्ञानमेव चोपादेयता
ज्ञानमुच्यते, नान्यत् । परामर्शस्तु न कश्चिदन्तराले संवेद्यते ।


ननु कथं सुखसाधनसामर्थ्यं भवन्मतेऽनुमेयम् ? अतीन्द्रियस्य शक्त्य
परपर्यायस्य सामर्थ्यस्यानभ्युपगमादिति आशङ्क्य समाधत्ते—यद्यपीत्यादि ।
अतीन्द्रियधर्माधर्मादिघटितत्वात् सामग्र्याः अतीन्द्रियमेव सामर्थ्यमित्यर्थः ॥


ननु तर्हि प्रवृत्तिहेतुः अनुमानमेवेति प्रत्यक्षस्य प्रवृत्तिहेतुत्वं न सिद्ध
मेवेत्यत्राह—तदिदमिति । अस्य ज्ञानेऽन्वयः । इन्द्रियविषय इति । इदं
ममोपादेयमिति हि उपादेयताज्ञानं; तच्च प्रत्यक्षकपित्थविषयमेवेति इन्द्रियार्थ
सन्निकर्षापेक्षा वर्तत एवेति हानोपादानयोः इन्द्रियं प्रमाणं भवत्येवेति ।
बभाष इति । प्रमाणविभागसूत्र इति शेषः । वृत्तिः—व्यापारः ॥


स्मृत्या—सुखसाधनत्वानुस्मृत्या । तस्य—आलोचनाज्ञानस्य ।
विनश्यत्ता—योग्यविभुविशेषगुणानां स्वोत्तरोत्पन्नगुणनाश्यत्वनियमादित्यर्थः ।
परामर्शः—सोऽयं कपित्थजातीयः इत्येवंरूपः पूर्वोक्तः । अन्तराले—
आलोचनाज्ञान-उपादेयताज्ञानयोर्मध्ये ॥


I.177

तदेव साध्यं दर्शितम् । इन्द्रियार्थसन्निकर्षजनितमुपादेयताज्ञान
फलकं अवकल्पते—इति किमसंवेद्यमानज्ञानकन्थाकल्पनेनेति ॥


ननु ! परामर्शोऽनुभूयत एव, न तु कल्प्यते । धूमज्ञानानन्तर
मविनाभावं यत्र धूमस्तत्राग्निः इत्यनुस्मृत्य पराभृशति तथा चायं
धूमः
इति । असति तु परामर्शे न लिङ्गज्ञानं लिङ्गिनि प्रमाणतां
प्रतिपद्येत; स्मरणजनकं हि तत् । न च स्मृतिजनकं प्रमाणमिष्यते ।
स्मरणानन्तरं च लिङ्गप्रतीतिर्भवन्ती नोपलभ्यानुवादेन भवेत्—
अयमग्निमान् इति ॥


अपि च तथा च कृतकः शब्दः इति यत् उपनयवचनमवय
वेषु पठ्यते, तस्य किं वाच्यं भविष्यति परामर्शापलापवादिनाम् ।
स्वप्रतिपत्तिवच्च परप्रतिपत्तिरवयवैर्जन्यते इति वक्ष्यामः । तस्माद
प्रत्याख्येयः परामर्श इति ॥


कल्पनायां खलु दोषः । अनुभवात् सिद्धौ न वयं अपराधिन इत्याशयवान्
शङ्कते—नन्विति । कुतः प्रमाणतां न प्रतिपद्येतेत्यत्र हेतुः—स्मरण
जनकमिति । तत्—लिङ्गज्ञानम् । लिङ्गज्ञानं हि एकसम्बन्धिज्ञानमपर
सम्बन्धिस्मारकम्
इतिरीत्या स्वव्यापकत्वरूपसम्बन्धिनः वह्नेः स्मृतिजनकं
सत् व्याप्तिस्मृतिजनकम् । स्मृतिजनकं च लिङ्गज्ञानं न प्रमाणं भवितुमर्हति,
अनुभवजनकस्यैव प्रमाणत्वात् । विवेचितं चैतत् पूर्वमेव । अतः पूर्वोत्पन्नं
लिङ्गज्ञानं न प्रमाणम् । किन्तु व्याप्तिस्मरणानन्तरमेव लिङ्गस्य प्रतीतिः
कल्पनीया । सैव लिङ्गपरामर्श इत्युच्यत इति मध्ये परामर्शकल्पनमावश्यक
मेवेति । उपलभ्येति । लिङ्गप्रतीतिः अयमग्निमान् इतिरीत्या अनुमेयं
वस्तु पूर्वमेव प्रदर्शयन्ती न भवेत्, किन्तु वह्निजातीयव्याप्यधूमजातीयवानयं
इत्येव भवेत् । न च तावता प्रकृतेष्टसिद्धिरिति भावः ॥


ननु परार्थानुमानमिदमुच्यते भवद्भिः । वयं तु स्वार्थानुमाने ब्रूमः इति
चेत् तत्राह—स्वप्रतिपत्तिवच्चेति ॥


I.178

परामर्शस्य अनपेक्षता


अत्र वदन्ति—


न तावदन्तरा कश्चित् परामर्शोऽनुभूयते ।

अनुमेयमितेः पूर्वं ऊर्ध्वं च नियस्मृतेः ॥ २ ॥

अत एवार्थमालोक्य विनैव हि दवीयसा ।

विलम्बेन व्यवस्यन्ति ग्रहणादिषु लौकिकाः ॥ ३ ॥

लिङ्गज्ञानं च विनश्यदवस्थमनुमेयप्रतीतौ व्याप्रियमाणं
प्रमाणतां प्रतिपत्स्यते । तत्कृतैवोपलभ्यानुवादेन लिङ्गबुद्धिर्भविष्यति ।
तस्मात् कपित्थादिपदार्थदर्शनस्य परामर्शसोपानमनारोहत एवो
पादेयज्ञानफलता वक्तुं युक्तेति ॥


अपि च अनुमेयविषये वह्न्यादौ सुखसाधनत्वानुस्मृतिकृत
मुपादेयताज्ञानं तव न समस्त्येव । ततश्च तत्रापि तथा चायं
ज्वलनजातीयः
इतिपरामर्शो भवताऽभ्युपेय एव । स च
किंकरणकः ? इति निरूपणीयम् । न तावदिन्द्रियद्वारकः,
पावकस्य परोक्षत्वात् । शब्दोपमाने त्वाशङ्कितुमपि तत्र न युक्ते ।


अनुमेयमितिः—अनुमेयविषये मितिः, अनुमितिरिति यावत् । दवी
यसा—अधिकेन विलम्बेन विनैव—विलम्बं विनैव ग्रहणादिषु—उपादा
नादिषु, आदिना हानपरिग्रहः । तथा च प्रत्यक्षस्थले अनुमानस्थल इव न
विलम्बोऽनुभूयत इति ऐन्द्रियिकमेवोपादेयताज्ञानम् । अन्यथा अनुमित्यधीनो
पादेयताज्ञानात् प्रत्यक्षस्थले वैलक्षण्यं दुर्वचं स्यादिति ॥


तत्कृतैव—तादृशप्रमाणत्वकृतैव ॥


न समस्त्येवेति । प्रत्यक्षे प्रथमं वस्तुग्रहणमात्रं, सुखसाधनत्वनिर्णयश्च
परामर्शाधीन इति यथोच्यते, तथा अनुमितिस्थलेऽपि अनुमानेन धर्मिमात्रं
गृह्यते । इष्टसाधनत्वनिर्णयश्च पाश्चात्य इति खलु वक्तव्यम् । एवञ्चानुमित्या
हानोपादानादिकं न स्यादेवेति । नन्वेतदिष्टमेव, यतः तत्रानुमानान्तरद्वारैव
प्रवृत्त्यादिरित्यत्राह ततश्चेति । न युक्ते इति । शब्दस्योपस्थित्यभावेन,
उपमानस्य शक्तिग्राहकत्वेन चेति शेषः । ननु अग्नेः परोक्षत्वेऽपि प्रत्यक्षो धूम
एव प्रथमं वह्निं, ततस्तस्य सुखसाधनत्वं चावगमयतीति न दोष इति शंकते—
I.179

धूमाख्याल्लिङ्गादेव स उत्पद्यत इति चेत्—न—लिङ्गस्य परामर्शा
विषयीकृतस्यानुमेयमितिजनननैपुण्यानभ्युपगमात् । धूमावमर्शस्य
तदानीमतिक्रान्तत्वात् । तथा हि—प्रथमं लिङ्गज्ञानं, ततो व्याप्ति
स्मरणम्, ततो धूमपरामर्शः, ततो वह्निज्ञानम्, तेन धूमपरामर्शस्य
विनश्यत्ता, ततोऽग्नौ सुखसाधनत्वानुस्मरणम् । तदा च धूमपरा
मर्शस्य विनाश एवेति तस्मिन् विनष्टे न केवलो धूमस्तदानीमनल
परामर्शं जनयितुमुत्सहते ॥


अग्नौ सुखसाधनत्वानुस्मरणानन्तरं पुनः धूमज्ञानं इन्द्रिया
दुत्पद्यत इति चेत्—मैवम्—अननुभवात् । भवतु वा धूमज्ञानम्,
तथाऽपि धूमज्ञानानन्तरं पुनर्व्याप्तिस्मृतिः पुनः धूमपरामर्शश्चावश्यं
भवेत्, इत्यत्रान्तरे हुतभुजि सुखसाधनत्वानुस्मृतिरतिक्रान्तेति
तत्सहायपरामर्शन्यसुखसाधनत्वनिश्चयोत्पादो न स्यात् ।
सुखसाधनत्वानुस्मरणेन हि विनश्यदवस्थेन जन्यमानः प्रत्यक्ष
विषयोऽसौ दृष्ट इति ॥


धूमेति । लिङ्गस्य—लिङ्गस्वरूपस्य । अनभ्युपगमात् । परामृश्यमान
लिङ्गस्यैवानुमितिकरणत्वात् इत्यर्थः । ननु प्रथममेव परामर्शस्य निष्पन्नत्वेन
परामृश्यमानं लिङ्गमस्त्येवेति का हानिरित्यत्राह—धूमावमर्शस्येति । तदा—
सुखसाधनत्वानुस्मरणकाले । केवलः—परामर्शाविषयः । अनलपरामर्शे—
तथा चायं ज्वलनजातीयः इति परामर्शं उपादेयत्वहेतुभूतम् ॥


ननु पूर्वधूमज्ञानस्य नाशेऽपि ज्ञानान्तरं कल्प्यत इति शङ्कते—
अग्नाविति । इन्द्रियादिति । न हि स्मरणस्य मध्ये संभवः, तस्यो
द्बोधकाद्यपेक्षत्वादित्याशयः । अननुभवात् पुनः ज्ञानान्तरस्याननुभवात् ।
ननु फलबलेन कल्प्यताम्, अनुभवस्त्वतिसूक्ष्मः विना शपथं न हि निरसितुं
शक्य इत्यत्राह—भवतु वेति । व्याप्तिस्मृतिरिति । सुखसाधनत्वाकार
विशिष्टवह्निव्याप्तिस्मृतिरित्यर्थः । अतिक्रान्तेति—सुखसाधनत्वानुस्मृत्यनन्तरं
खलु पुनः धूमज्ञानादिपरंपरा कल्पितेति परामर्शकाले तादृशानुस्मृतिनाशोऽ
निवार्य एवेति भावः ॥


I.180

परामर्शस्य अवसरोऽपि नास्ति


अथ मन्यसे न तदानीं पुनर्धूमज्ञानव्याप्तिस्मरणतत्परामर्शो
त्पादादिज्ञानशृङ्खलाऽभ्युपेयते, किन्तु प्राक्तन एव धूमपरामर्शः
कृशानौ सुखसाधनत्वानुस्मरणानन्तरं स्मरिष्यते; तेन स्मृतिविषय
वर्तिना सता तथा चायमग्निजातीयः इति ज्वलनपरामर्शो
जनयिष्यते इति—एतदप्ययुक्तम्—अग्निज्ञानानन्तरं युगपत्स्मरण
द्वयोदयप्रसङ्गात्—तदैव सुखसाधनताऽनुस्मृतिः, तदैव धूम
परामर्शस्मृतिरिति । न हि क्रमोत्पादे किञ्चित्कारणमस्ति । ज्ञान
यौगपद्यं च शास्त्रे प्रतिषिद्धम् ॥


परामर्शस्य दुर्घटता


भवतु वा क्रमोत्पादः; तथाऽपि स्मरणद्वयसमनन्तरमुपजाय
मानः पावकपरामर्शो नोपलभ्यानुवादेन जायते । क्रमपक्षेऽपि च
वह्निज्ञानानन्तरं तद्गतसुखसाधनत्वानुस्मरणमेव पूर्वं भवेत्, ततो
धूमपरामर्शस्मरणम्, तेन तस्य विनश्यत्ता, ततोऽग्नौ तज्जातीयत्व
परामर्शः, तेन सुखसाधनत्वस्मृतेर्विनाश एवेति पुनरपि सा विनष्टा


स्मृतिविषयवर्तिनेति । सुखसाधनत्वाकारविशिष्टेन चेत्यर्थः । स्मरण
द्वयमित्युक्तं; किं तत् द्वयम् ? इत्यत्राह—तदैवेति । अग्निज्ञानानन्तरक्षण
एवेत्यर्थः । अस्तु तर्हि क्रमेणैव स्मरणद्वयोत्पत्तिरित्यत्राह—न हीत्यादि । अग्नि
ज्ञानानन्तरक्षणे सुखसाधनत्वस्मृतिस्तु सम्मत एव, धूमपरामर्शसंस्कारस्य सत्वेन
धूमपरामर्शस्मृतिरपि तदैव भवेदिति कथं क्रमः नियम्यत इति । ननु अस्तु
यौगपद्यं स्मृतिद्वयस्येत्यत्राह—ज्ञानेति । एतत्तत्त्वं च मनःप्रकरणे स्पष्टी
भविष्यति ॥


ननु संस्कारस्य सत्त्वमात्रान्न स्मरणोत्पत्तिः; किन्तु उद्बोधकसमवधानादेव ।
अदृष्टादीनामप्युद्बोधककोटिप्रविष्टत्वेन तत्समवधानाऽसमवधाने कार्यानुमेये
इति शङ्कायामाह—भवतु वेति । उपलभ्येति । अनुमितवह्निव्यक्त्यन्तर्भावेने
त्यर्थः । पूर्वं भवेदिति । अनलार्थिनः खलु धूमदर्शनात् वह्न्यनुमितिः ।
तस्य च प्रथमं सुखसाधनत्वस्मरणमेव जायेत । एवञ्च न प्रकृतेष्टसिद्धिरिति ।
I.181

सती सुखसाधनत्वनिश्चयजन्मनि न व्याप्रियेतेति । न च धूम
लिङ्गानुमितवह्निज्ञानानन्तरं धूमस्मरणमुचितम्, अनलमुपलभ्य हि
तद्गतसुखसाधनत्वमनुस्मरति लोकः, न धूममिति ।


तेनानुमानविषये परामर्शोऽतिदुर्घटः ।

प्रत्यक्षविषयेऽप्येवं, किमनेन शिखण्डिना ? ॥ ४ ॥

उपनयवाक्यस्य सार्थक्यम्


यत्पुनः—उपनयवचनमभिधेयरहितमप्रयोज्यं प्रसज्यत इति
परिचोदितम्—तत्—अवयविप्रसङ्ग एव १० आह्निके निरूप
यिष्यामः । तस्मादन्तरावर्तिनः परामर्शज्ञानस्याभावात् आद्यमालो
चनाज्ञानमेव हेयादिज्ञानफलं यथोक्तरीत्या भविष्यतीति ॥


सुखसाधनत्वनिश्चयः प्रत्यक्षरूपोऽपि भवत्येव


ननु च ! प्रत्यक्षफलमिह मीमांस्यं वर्तते, स चायं सुखसाधन
त्वाल्लिङ्गादुद्गम्यमानः आनुमानिक इति न प्रत्यक्षफलतामवलम्बते—
सत्यमेतत्—किन्तु सम्बन्धग्रहणसमये सुखसाधनत्वनिश्चयः प्रत्यक्ष
जनितोऽपि समस्ति, यतोऽनुमानं प्रवर्तते; महानसादौ धूमाग्नि-


निश्चयजन्मनि—निश्चयोत्पत्तौ । वस्तुतस्तु वह्निनिश्चयानन्तरं पुनः धूमस्मरण
कल्पनमप्ययुक्तमित्याह—न चेति । उपसंहरति—तेनेति । एवमिति ।
अनुमानस्थले मध्ये परामर्शमन्तराऽपि प्रवृत्तिनिर्वाहे प्रत्यक्षस्थलेऽपि किं
परामर्शकल्पनयेति भावः । शिखण्डिना—नपुंसकेन-प्रयोजनरहितेनेति यावत् ।
परामर्शेणेति शेषः ॥


अप्रयोज्यं—प्रयोक्तुमनर्हम् ॥


ननु अनुमानस्थले यथा तथा वाऽस्तु, प्रत्यक्षे तु न तथा वक्तुं शक्यमिति
शङ्कते—नन्विति । प्रत्यक्षस्य फलमिति विग्रहः । न हि सुखसाधनत्वं
प्रत्यक्षग्राह्यो धर्मः । प्रतिपुरुषं सुखस्य वैचित्र्येण, तस्य वस्तुधर्मत्वासंभवात् ।
अतः पूर्वं तज्जातीयं वस्तु सुखसाधनत्वेनानुभूय तज्जातीयत्वलिङ्गात् खलु
पुरोवर्तिनि सुखसाधनत्वं निश्चिनोति । अतस्तत्र परामर्शादिकमावश्यकमेवेति
शङ्काशयः । सत्यमिति । अयमाशयः—कुत्रचित् प्रत्यक्षस्थलेऽनुमाना
त्सुखसाधनत्वनिश्चयेऽपि सर्वत्राप्येवमिति न निर्बन्धः । अन्यथा तादृशानु
मितिहेतुभूतस्य व्याप्तिग्रहणस्यैव दुर्घटत्वात् । महानसादौ प्रत्यक्षतः
I.182

दर्शनवत् । अतः सम्बन्धग्रहणकालभाविनं सुखसाधनत्वनिश्चयं
चेतसि विधाय भाष्यकारस्तत्फलत्वंप्रत्यक्षज्ञानस्य वर्णितवान् इति ॥


प्रत्यक्षेण सुखसाधनत्वनिश्चयाक्षेपः, समाधानं च


ननु ! सम्बन्धग्रहणकालेऽपि सुखसाधनत्वशक्तेरतीन्द्रियत्वात्
कथं प्रत्यक्षगम्यता ? तज्जातीयत्वाल्लिङ्गादेव तदाऽपि तद्ग्रहणे
इष्यमाणे ततः पुनः सम्बन्धग्रहणादनवस्था । सुखादेव कार्यात्
तदा तदवगम इति चेत्, तदाऽपि नाज्ञातसम्बन्धमवगतिजनन
समर्थमिति तत्संबन्धग्रहणवेलायामपि शक्तिग्रहणे प्रत्यक्षस्या
क्षमत्वात् अनुमानान्तरापेक्षायामनवस्था तदवस्था—उच्यते—

न खल्वतीन्द्रिया शक्तिः अस्माभिरुपगम्यते ।

यया सह न कार्यस्य सम्बन्धज्ञानसंभवः ॥ ५ ॥

स्वरूपसहकारिसन्निधानमेव शक्तिः, सा च सुगमैव ॥


सिद्धान्ते शक्तेरैन्द्रियिकत्वसंभवः


ननु ! सहकारिणां मध्ये अदृष्टमप्यनुप्रविष्टम् । न च तत्
प्रत्यक्षगम्यम्, अतीन्द्रियत्वाद्धर्मस्येति साऽपि न सुगमा शक्तिः—
नैतत्—न धर्मादि शक्तित्वादतीन्द्रियम्; अपि तु तत् नैसर्गिकमेव ।
जगद्वैचित्र्येण तदनुमानं वक्ष्यामः । तदेवं तदितरसहकारिस्वरूप-


गृहीतव्याप्तिकस्यैव पर्वतादौ वह्न्यनुमितिसंभवः । यदि व्याप्तिग्रहणमप्य
नुमानात्, तर्ह्यनवस्था । अतः यत्रकुत्रचित् सुखसाधनत्वं प्रत्यक्षेण गृह्यत
एवेति वक्तव्यम् । तदभिप्रायेण भाष्यं प्रवृत्तमिति ॥


व्याप्त्याख्यसम्बन्धग्रहणकालेऽपि यद्यनुमानादेव सम्बन्धग्रहणं, तर्ह्यनव
स्येति दूषणं न युक्तम्, यतः प्रत्यक्षेण सम्बन्धग्रहणमेव न संभवतीति शङ्कते—
नन्विति । तदापि—सम्बन्धग्रहणकालेऽपि । ननु तज्जातीयत्वाल्लिङ्गान्न सुख
साधनत्वशक्त्यनुमानं, किन्तु सुखरूपकार्यादेव तत्कारणभूतशक्तेरनुमानं ब्रूम
इति शङ्कते—सुखादेवेति । अक्षमत्वात्—शक्तेरतीन्द्रियत्वेनेति शेषः ॥


साऽपि—अनतिरिक्ताऽपि । अस्य शक्तिरित्यत्रान्वयः । तदितरेति ।
अदृष्टादिकं कार्यसामान्यकारणम् । न तस्य प्रत्येकानुमानेन कारणत्वं ग्राह्यम्,
I.183

सन्निधानात्मिकायाः शक्तेः प्रत्यक्षग्राह्यत्वसंभवात् उपपन्नं तज्जा
तीयत्वलिङ्गस्य संबन्धग्रहणम् ॥


मानसप्रत्यक्षेण सुखसाधनत्वनिश्चयसंभवः


ननु ! कपित्थादिकार्यस्य सुखस्येदानीं न चक्षुर्ग्राह्यत्वमिति
तत्सम्बन्धिग्रहणाभावात् कथं चाक्षुषप्रत्ययगम्यः सम्बन्धः ? न
चाक्षुषगम्यः सम्बन्धः, किन्तु मानसप्रत्यक्षगम्यः ।


सुखादि मनसा बुध्द्वा कपित्थादि च चक्षुषा ।

तस्य कारणता तत्र मनसैवावगम्यते ॥ ६ ॥

मनसा सुखसाधनत्वग्रहणेऽतिप्रसङ्गपरिहारः


ननु च ! मनसा कपित्थादेः सुखसाधनत्वग्रहणाभ्युपगमे
बाह्यविषयप्रमितिषु मन एव निरङ्कुशं करणमिदानीं संवृत्तमिति कृतं
चक्षुरादिभिः । अतश्च न कश्चिदन्धो वा बधिरो वा स्यात्—
नैष दोषः—प्रथमप्रवृत्तसमनस्कवाह्येन्द्रियजनितविज्ञानविषयीकृत
वपुषो वाह्यस्य वस्तुनो मनोग्राह्यत्वाभ्युपगमात्, तस्यैव नियामक
त्वात् नोच्छृङ्खलमन्तःकरणं बाह्यविषये प्रवर्तते ॥


धर्मिग्राहकानुमानग्राह्यत्वात् । अतः तद्व्यतिरिक्तसहकारिसन्निधानमेवात्र ग्राह्यम् ।
तस्य च प्रत्यक्षत्वं संभवत्येवेति । सम्बन्धग्रहणमिति । प्रत्यक्षेणेति शेषः ॥


ननु कपित्थं हि चाक्षुषं, सुखं त्वचाक्षुषम् ? कथमुभयोः कार्यकारणभाव
रूपसम्बन्धः चक्षुर्गम्यः ? सम्बन्धिनोरग्रहणे च कथं सम्बन्धग्रहणमिति
शङ्कते—नन्विति । ननु मानसत्वं वा कथम् ? सुखस्य मानसत्वेऽपि
कपित्थस्य मानसत्वाभावात्, इत्यत्राह—सुखादीति ॥


कपित्थादेः—कपित्थादिनिष्ठस्य । कृतमित्यादि । सुखसाधनत्वं
हि कपित्थधर्मः, अत एव बाह्य इति तस्य मनसा ग्रहणे, तद्वदेव सर्वमपि
बाह्यं मनसा गृह्येत चेत् बाह्येन्द्रियाणि व्यर्थान्येवेति । अतश्चेति ।
चक्षुरिन्द्रियविनाशेऽपि मनसा रूपग्रहणे को वाऽन्धः स्यादित्यर्थः ।
समनस्केति । मनस्सहकृतेत्यर्थः । अयं भावः—मनः सर्वथा न बाह्ये विषये
I.184

सर्वत्र सुखसाधनत्वं न मानसं भवितुमर्हति


ननु च ! सम्बन्धग्रहणकाले यदि मानसेन प्रत्यक्षेण सुखसाध
नत्वावधारणं, तर्हि तत्काल इव व्यवहारकालेऽपि मानसप्रत्यक्ष एव
सुखसाधनत्वनिश्चयोऽस्तु, किं तज्जातीयत्वलिङ्गापेक्षणेनेति—
मैवम्—शब्दलिङ्गेन्द्रियाद्युपरतौ केवलमन्तःकरणं करणं कल्प्यते,
परिदृश्यमानायाः प्रतीतेरपह्नोतुमशक्यत्वात् । लिङ्गाद्युपायान्तर
संभवे तु यदि मन एव केवलं कारणमुच्यते तन्मानसमेवैकं प्रमाणं
स्यात्, न चत्वारि प्रमाणानि भवेयुरित्यलं प्रसङ्गेन ॥


तस्मात् सम्बन्धग्रहणकाले यत्तत्कपित्थादिविषयमक्षजं ज्ञानं
तत् उपादेयादिज्ञानफलमिति भाष्यकृतश्चेतसि स्थितम् । सुख
साधनत्वज्ञानमेवोपादेयादिज्ञानमित्युक्तम् ॥


प्रमाण-फलयोरभेदवादिमतम्


आह—किमर्थमयमीदृशः क्लेश आश्रीयते ? प्रमाणादभिन्नमेव
फलमस्तु ! तदेव चक्षुरादिजनितं कपित्थादिपदार्थदर्शनं विषय
प्रकाशेन व्याप्रियमाणमिवाभातीति करणमुच्यताम्, तदेव विषयानु
भवस्वभावत्वात् फलमिति कथ्यताम् । इत्थं च प्रमाणफले न
भिन्नाविकरणे भविष्यतः, अन्यत्र प्रमाणं, अन्यत्र फलमिति ।
तदुक्तम् प्रमाणसमुच्चये—९


सव्यापारप्रतीतित्वात् प्रमाणं फलमेव सत् इति ॥


प्रवर्तत इति न वक्तुं शक्यम्, घटादिविषयकस्मरणादीनामनुपपत्तेः । अतः
प्राथमिकग्रहणमेव केवलेन मनसा न संभवतीति वक्तव्यमिति प्रकृते न दोष इति ॥


व्यवहारकाले—हानोपादानादिव्यवहारकाले । गत्यन्तरासंभव एवायं
न्याय इत्याह—भैवमिति । इन्द्रियादीत्यादिना उपमानपरिग्रहः ॥


उपादेयादिज्ञानं—उपादेयत्व-हेयत्वप्रकारकज्ञानम् ॥


दिङ्नागोक्तमनुवदति—आहेति । ननु प्रमाणं च सिद्धरूपं, फलं तु
साध्यस्वरूपम् । तदुभयमेकं कथं भवेत् ? इत्यत्राह—तदेवेति । अस्य
दर्शनमित्यनेनान्वयः । विषयमुखतः दर्शनं करणं, स्वरूपतस्तु फलं भवती
त्यर्थः । सव्यापारेति । प्रमाणत्वोपचारस्तु निर्व्यापारे न विद्यते
I.185

तदिदमनुपपन्नम्—प्रमाणस्य स्वरूपहानिप्रसङ्गात् । करणं हि
प्रमाणमुच्यते—प्रमीयते चानेनेति । न च क्रियैव क्वचित् करणं
भवति । क्रियायां साध्यायां कारकं किमपि करणमुच्यते । तत्र यथा
दात्रेण चैत्रः शालिस्तम्बं लुनाति इति कर्तृकर्मकरणानि क्रियातो
भिन्नान्युपलभ्यन्ते, तथेहापि चक्षुषा घटं पश्यति इति दर्शनक्रियातः
पृथग्भाव एव तेषां युक्तः, न दर्शनं करणमेवेति । प्रमा, प्रमाणमिति
तु फले प्रमाणशब्दस्य साधुत्वाख्यानमात्रं; कृतिः, करणं इतिवत् ॥


प्रमाणफलयोः सामानाधिकरण्यं नाम किम् ?


यत्तु—न भिन्नाधिकरणे प्रमाणफले इत्थं भविष्यतः इति—
सेयमपूर्ववाचोयुक्तिः । किमत्राधिकरणं विवक्षितम् ? यदि ताव-


इत्युत्तरार्धं ज्ञेयम् । अत्रैवं वृत्तिः—व्यापारेण सह प्रतीतत्वादित्यर्थः । अत्र
प्रमाणत्वोपचारनिमित्तं प्रमाणफलमेव भवतीति प्रमाणप्रतीतिः फलम् । अत्र
बाह्यानां यथा प्रमाणात् फलं अर्थान्तरं तथा न भवति
इति । ज्ञानं
विनाऽर्थस्य, अर्थं विना ज्ञानस्य चाननुभवात् अन्यतरपारिशेष्ये आवश्यके
अन्तरङ्गेन ज्ञानेनैव सर्वनिर्वाहे, विषयाभिमुखं तदेव प्रमाणं, स्वामिमुखं तु
फलमिति हार्द आशयः ॥


प्रमाणफलयोर्भेदं सनिदर्शनमुपपादयति—तदिदमित्यादि । क्रियातः—
लवनरूपक्रियातः । तेषां—कर्तृकर्मकरणानाम् । ननु तर्हि करणार्थव्युत्पन्नस्य
प्रमाणपदस्य प्रमापदस्य च समानो निर्देशः कथमित्यत्राह—प्रमेति । साधु
त्वाख्यानमात्रमिति । फलेऽपि प्रमाणशब्दः प्रयुक्तः साधुरेव । न तावता
फलकरणयोरभेदसम्भवः । व्युत्पत्तिवैचित्र्येण एकस्य पदस्यार्थद्वयसाधारण्येऽपि
नार्थद्वयैक्यं संभवति । यथा—स्त्रियां क्तिन् इति सूत्रेण भावार्थक्तिनन्तः
कृतिशब्दः, ल्युट् च इतिविहितभावार्थकल्युडन्तकरणशब्देन समानार्थकोऽपि
करणार्थकल्युडन्तकरणशब्देन समानार्थो न हि भवति । तथा प्रकृतेऽपि
भावार्थकल्युडन्तप्रमाणशब्दस्य भावार्थकाङन्तप्रमाशब्दस्य च समानत्वेऽपि
करणार्थकल्युडन्तप्रमाणशब्दस्य न समानत्वमिति भावः ॥


यत्त्वित्यादि उक्तिदूषणम् । अयं सङ्ग्रहः—फलं करणं च भिन्नविषयकं
न भवतीत्यर्थः ? उत भिन्नाश्रयं न संभवतीत्यर्थः ? आद्ये इष्टापत्तिः ।
I.186

द्विषयः ? तदस्त्येवैकविषयत्वम् । यद्विषयं हि दर्शनम्, स एव
चक्षुरादेः करणस्य विषयः । आश्रयोऽस्त्वधिकरणमिति बौद्धगृहे
तावदवाचको ग्रन्थः । क्षणिकत्वेन सर्वकार्याणां निराधारत्वात् ॥


अस्मत्पक्षे तु भिन्नाश्रययोरपि फलकरणभावः पाककाष्ठयो
र्दृष्टः । तथा चक्षुर्ज्ञानयोरपि भविष्यतीति । क्वचित्तु भिन्नयोरपि
ज्ञानयोः फकरणत्वेन स्थितयोः लिङ्गलिङ्गिज्ञानयोरिव विशेषण
विशेष्यज्ञानयोरिव चैकात्म्याश्रवत्वमस्ति । न त्त्वनेन समानाश्रय
त्वेन प्रयोजनम्, चक्षुरादावनिर्वहणात् ॥


अथ एकफलनिष्पत्तौ व्यापासमानाश्रयत्वमुच्यते, तदपि
भवतु कारकान्तराणां; न तु फलस्वभावस्य ज्ञानस्य फलनिष्पत्तौ
व्यापारः संभवति ॥


यदपि सव्यापारप्रतीतित्वादित्युच्यते—तदपि प्रमाणफल
योर्भिन्नतामेव सूचयति । न हि स्वरूपनिष्पत्तौ सव्यापारत्व
मुपपद्यते; अपि तु पृथग्भूतफलनिर्वृत्तावेवेति ॥


इन्द्रियस्य ज्ञानस्य च एकविषयत्वात् । न द्वितीयः, बौद्धमते उभयाश्रयस्य
एकस्य वस्तुनः अनङ्गीकारात् इति ॥


ननु व्यधिकरणयोः प्रमाप्रमाणयोर्वा साध्यसाधनभावः कथमित्यत्राह—
अस्मत्पक्षे त्विति । एवं भिन्नाश्रययोः साध्यसाधनभावमुक्त्वा भिन्नविषययोः
समानाश्रययोरपि तमाह—क्वचिदिति । एकात्म्येति । एकात्मवृत्तित्वमिति
यावत् । किन्तु एतादृशं समानाश्रयत्वं निरुपयोगीत्याह—न त्वनेनेति ।
चक्षुरादामिति । भिन्नाधिकरणकर्याः चक्षुर्दर्शनयोः साधनसाध्यभावदर्शना
दित्यर्थः ॥


व्यापारसमानाश्रयत्वमिति । चक्षुर्दर्शनयोः भिन्नाधिकरणत्वेऽपि
तयोर्व्यापारस्य विषये समानत्वात् तत्कृतं सामानाधिकरण्यमस्त्येव । दर्शनस्य
तु विषयत्वं सम्बन्धः, चक्षुषस्तु संयोगस्सम्बन्ध इति विशेषः ॥


भिन्नतामेवेति । सव्यापारत्वनिर्व्यापारत्ववैलक्षण्यस्य भवतैवोक्त
त्वादित्याशयः ॥


I.187

प्रमाणफलयोरभेदः अनुभवविरुद्धः


ननु ! वस्तुस्थित्या फलमेव ज्ञानं, फलमपि तु भवत् विषयानु
भवं प्रति व्यापृतमिति । अयि मुग्धबुद्धे ! विषयानुभव एव ज्ञान
मुच्यते, न तु विषयानुभवः विषयानुभवे सव्यापारो भवति ॥


अथ मनुषे ? विषयाधिगमाभिमानः तस्मिन् सति भवतीति ?
कोऽयमभिमानो नाम ? विषयानुभवात् भिन्नः ? अभिन्नो वा ?
अभेदे सति, तस्मिन् सति भवतीत्यसङ्गता वाचो युक्तिः । भेदे
त्वस्मन्मतानुप्रवेशः ॥


अपि च ज्ञानं विषयाधिगमे व्यापृतमिति कृत्वा विषयाधि
गमाभिमानमुपजनयति ? उत विषयाधिगमस्वभावत्वादेव ? इति
विचारे विषयाधिगमात् पृथग्भूतस्य तत्र व्याप्रियमाणस्यानुपलंभात्
विषयाधिगमस्वभावमेव ज्ञानमवधार्यते । तत्कृतश्चाभिमान इति
फलमेव ज्ञानमवकल्पते न करणमिति । तथा च लोक फलत्वमेव
ज्ञानस्यानुमन्यते, न करणत्वम् । तथा ह्येवं वदति, चक्षुषा
पश्यामि, लिङ्गेन जानामीति; न तु ज्ञानेन जानामीति व्यपदिशन्
कश्चिद्दृश्यते ॥


विषयानुभव एवेति । न हि निर्विषयं किञ्चित् ज्ञानं क्वचिद्दृष्टमित्यर्थः ॥


विषयाधिगमः—सविषयत्वम् । तस्मिन् सति—सविषयतादशायाम् ।
सविषयत्वं खलु ज्ञानस्य ज्ञानत्ववत् कश्चन धर्मः । एवञ्च सविषयत्वाभावेऽपि
ज्ञानत्वं कुतो निवर्तेत । नैल्याभावेऽपि वटे घटत्ववत् अतश्च सविषयत्वकृतं
प्रमाणत्वं, ज्ञानत्वकृतं फलत्वमिति सिद्धं सामानाधिकरण्यमिति बौद्धाशयः ।
सिद्धान्ते तु सविषयं वस्तु करणं, तदभिमानः फलं इति चेत्, सिद्धं करण
फलत्वयोः वैयधिकरण्यमित्याशयः ॥


अपि च सविषयत्वं नैल्यादिवत् न निरूपितस्वरूपविशेषणधर्मः, किन्तु
कम्बुग्रीवादिवत् स्वरूपनिरूपकधर्मः । अतस्तदभावे तत् ज्ञानमेव न स्यात् ।
अतः फलकरणयोरैक्यं न संभवत्येवेति चाह—अपि चेत्यादिना ॥


I.188

ननु ! सत्स्वपि चक्षुरादिषु विषयज्ञानमनुपजनयत्सु न
करणं व्यपदिशति लोकः, जनयत्सु च व्यपदिशतीति लोके करणो
त्पादकत्वादेव तेषां करणत्वव्यपदेशः, न साक्षात् करणत्वादिति—
तदयुक्तम्—चक्षुराद्येव करणं, न तु तेनान्यत् करणमुपजन्यते ।
किं हि तदन्यत् करणम् ? ज्ञानमिति चेत्—कस्यां क्रियायां तत्
करणमिति परीक्ष्यतामेतत् । न ह्यात्मन्येव किञ्चित्करणं करणं
भवतीति ॥


यत्तु ज्ञानमनुपजनयति चक्षुरादौ न करणतामाचष्टे लोकः—
तद्युक्तमेव । न हि क्रियोत्पत्तावव्याप्रियमाणं करणं कारकं भवति ।
तेन चक्षुरादेर्ज्ञानक्रियामुपजनयतः करणत्वम्, ज्ञानस्य तु फलत्व
मेवेति युक्तस्तथा व्यपदेशः ॥


प्रमाणस्य प्रमाणत्वं तस्मादभ्युपगच्छताम् ।

भिन्नं फलमुपेतव्यं एकत्वे तदसंभवात् ॥ ७ ॥

ननु चक्षुषा पश्यामि इति व्यवहारः घटाद्यनुभववेलायामेव ।
अतश्च चक्षुषः करणत्वं घटादिदर्शनाधीनं जातमित्यौपाधिकमेव चक्षुरादेः
करणत्वमिति शङ्कते—नन्विति । यद्यपि ज्ञानजनकत्वकृतं चक्षुरादेः करणत्वं
ज्ञानशेषत्वात् ज्ञानाधीनं, तथापि नेदमौपाधिकम् । साधनं हि स्वतः साध्य
शेषभूतम् । दण्डादीनामपि हि घटकरणत्वं घटाधीनमेव, न तावता दण्डादेः
करणत्वमेव औपाधिकमिति वक्तुं शक्यं इत्याशयवान् समाधत्ते—तदयुक्त
मिति । न हीति । करणं किञ्चित् आत्मन्येव न हि करणं भवति इत्यन्वयः ।
अनुमितिदृष्ट्या करणभूतमपि लिङ्गज्ञानादिकं चक्षुरादिदृष्ट्या न करणं भवति,
अपि तु चक्षुषः फलमेव धूमदर्शनम् । अतः स्वस्मिन् स्वं करणं न भव
त्येवेत्यर्थः ॥


ननु तर्हि ज्ञानमजनयतः चक्षुरादेः करणत्वं न स्यात् । कार्यजनकं
हि करणमिति शङ्कामिष्टापत्त्या परिहरति—यत्त्वित्यादि । पाकक्रियां कुर्वति
सति पाचकोऽयमिति व्यवहारः इतरकाले तथा व्यवहारस्तु उपलक्षणतया,
स्वरूपयोग्यतया वा नेय इति भावः ॥


I.189

प्रमाणप्रमेयप्रमितीनामभेदनिरासः


यस्तु मूढतरः प्रमाणप्रमेयफलव्यवहारमेकत्रैव ज्ञानात्मनि
निर्वाहयितुमुद्यच्छति प्रमाणसमुच्चये ११

यदाभासं प्रमेयं तत् प्रमाणफलते पुनः ।

ग्राहकाकारसंवित्त्योः त्रयं, नातः पृथक् कृतम् ॥

इति—तमपवर्गाह्निके ज्ञानाद्वैतदलनप्रसङ्गेन दुराचारं निर्भर्त्सयिष्या
मह इत्यलं विस्तरेण । तस्मात् सुष्ठूक्तं—यदा ज्ञानं प्रमाणं,
तदा हानादिबुद्धयः फलम्
इति ॥


प्रत्यक्षलक्षणपरीक्षोपसंहारः


तदेवं फलविशेषणपक्षे यतः शब्दाध्याहारेण वाचकं सूत्रं—
यत इन्द्रियार्थसन्निकर्षोत्पन्नत्वादिविशेषणविशेषितं ज्ञानाख्यं
फलं भवति, तत् प्रत्यक्षमिति ॥


इन्द्रियार्थसन्निकर्षोत्पन्नम् इतिपदस्य प्रयोजनम्


तत्र इन्द्रियार्थसन्निकर्षोत्पन्नपदं अर्थानपेक्षजन्मनः स्मृत्यादि
ज्ञानस्य, अर्थजनितस्यापि च परोक्षविषयस्यानुमानादिज्ञानत्त्य
व्यवच्छेदार्थम् । अतः तज्जनकस्य न प्रत्यक्षता प्रसज्यते ॥


ननु इन्द्रियार्थसन्निकर्षोत्पन्नमिन्द्रियगत्यनुमानमप्यस्ति ।
तद्धि इन्द्रियार्थसन्निकर्षेण लिङ्गभूतेन जन्यते, देशान्तरप्राप्त्येव
तपनगमनानुमानमिति कथमनेन पदेनानुमानमपाक्रियते—


यस्तु मूढतरः—दिङ्नागादिः । यदाभासमिति । अत्र
वृत्तिः—'योगाचारास्तु बाह्यार्थमपलपन्तः ज्ञानस्यैवानादिवासनोपप्लावितः
नीलपीतादिविषयाकारः प्रमेयम्, स्वाकारः प्रमाणम्, स्वसंवित्तिः फलमिति
मन्यन्ते । यथाऽऽहुः—यदाभासं......पृथक्कृतम् इति ॥


तज्जनकस्य—स्मृत्यादिजनकस्य । प्रत्यक्षता—प्रत्यक्षप्रमाणता ॥


लिङ्गभूतेनेति । लिङ्गस्यानुमितिकरणत्वादित्यर्थः । मदीयं चक्षुः,
गमनशालि, दूरस्थेन घटेन संयुक्तत्वात्, इत्यनुमानाकारः । अत्र चानुमाने
I.190

नैतदेवम्—इन्द्रियेण स्वविषयसन्निकृष्टेन सता तत्रैव यद्विज्ञान
मुत्पद्यते तत् इन्द्रियार्थसन्निकर्षोत्पन्नमिह ब्रूमहे । न चेदृश
मिन्द्रियगत्यनुमानम् ॥


कुतो विशेषप्रतिलम्भ इति चेत्—उत्पन्नग्रहणादिति ब्रूमः ।
उत्पन्नग्रहणेन हि सन्निकर्षम्य कारकत्वं ख्याप्यते । तच्चापीन्द्रिय
विषयेऽर्थे ज्ञानमुत्पादयतो निर्वहति । इन्द्रियगत्यनुमाने तु न
सन्निकर्षं कारकमाहुः, अपि तु ज्ञापकम् । अत एव स्वग्रहणसापेक्षः
तदनुमानेऽ व्याप्रियते, न रूपादिप्रमिताविव तन्निरपेक्ष इति ॥


इन्द्रियार्थपदविवरणम्


इन्द्रियाणि घ्राणरसननयनस्पर्शनश्रोत्राणि पृथिव्यादिभूत
पञ्चकप्रकृतीनि वक्ष्यन्ते ८ आह्निके । अर्थास्तु गन्धरूपरसस्पर्शशब्दाः
गन्धत्वादिस्वजात्यवच्छिन्नाः, तदधिकरणानि पृथिव्यप्तेजांसि द्रव्याणि,
तदधिष्ठानाः सङ्ख्यादयो गुणाः, उत्क्षेपणादीनि कर्माणि, तद्वृत्तीनि


इन्द्रियार्थसन्निकर्ष एव हेतुरिति लिङ्गविधया इन्द्रियार्थसन्निकर्षजन्यत्वं
एतदनुमाने वर्तत इत्यर्थः । तत्रैवेति । यत्र इन्द्रियं संयुक्तं, तद्विषयकं ज्ञानं
अत्र विवक्षितम् । उक्तानुमाने तु इन्द्रियार्थयोः सन्निकर्षेण इन्द्रियगते
रनुमानं, न तु सन्निकर्षविषयस्येति । तथा च इन्द्रियार्थसन्निकर्षनिष्ठ
कारणतानिरूपितं यत् स्वविषयविषयकनिष्ठं कार्यत्वं तद्वदित्यर्थः ॥


विशेषेति । कार्यताविशेष इत्यर्थः । इन्द्रियार्थसन्निकर्षनिष्ठकारणता
निरूपितकार्यतावदिति सामान्यतोऽर्थस्तत्पदाद्भवति । तत् कथं कार्यतायां
इन्द्रियविषयविषयकनिष्ठत्वं लभ्यते ? इति शङ्कःशयः । ख्याप्यत इति ।
उत्पत्तिशब्दस्य तादृशकार्य एव मुख्यत्वात् । ज्ञापकमिति । हेतुः द्विविधः
कारकः, ज्ञापकश्च । आद्यः मुख्यः, दण्डात् घटः इत्यादौ । द्वितीयः गौणः, धूमात्
वह्निमान् इत्यादौ । एवञ्च इन्द्रियार्थसन्निकर्षस्य मुख्यं हेतुत्वं कारकत्वरूपं
स्वत प्राप्तमिति । अत एव—ज्ञापकत्वादेव । असौ—इन्द्रियार्थसन्निकर्षः ॥


भूतपञ्चकप्रकृतीनि—भूतपञ्चकसमवायिकारणकानि । अर्थाः—इन्द्रिय
विषयाः । पृथिव्यप्तेजांसीति । वायोः स्पर्शानुमेयत्वादेवमुक्तिः । तद्वृत्तीनि—
I.191

सामान्यानि, येषां स्पर्शनेन चक्षुषा ग्रहणं कणव्रतमते निरूपितं
तेऽर्थाः । प्रागुक्तश्चाभावोऽप्यर्थ एव; विचार्य गम्यमानत्वात् ॥


सन्निकर्षभेदः


सन्निकर्षस्त्विन्द्रियाणामर्थैः सह षट्प्रकारः । तत्र द्रव्यं
चक्षुषा त्वगिन्द्रियेण वा संयोगात् गृह्यते । तद्गतो रूपादिर्गुणः
संयुक्तसमवायात् । रूपत्वादिसामान्यानि संयुक्तसमवेतसम
वायात् गृह्यन्ते । चक्षुषा संयुक्तं द्रव्यं, तत्र समवेतं रूपं, रूपे च
समवेतं रूपत्वमिति । समवायाच्छब्दो गृह्यते । श्रोत्रमाकाश
द्रव्यम्, तत्र समवेतः शब्दः । शब्दत्वं समवेतसमवायात् गृह्यते;
श्रोत्राकाशसमवेते शब्दे तद्धि समवेतमिति । संयुक्तविशेषण
भावादभावग्रहणं व्याख्यातम् पु. १५० । इह घटो नास्तीति—
चक्षुषा संयुक्तो भूप्रदेशः, तद्विशेषणीभूतश्चाभाव इति ॥


सन्निकर्षसत्त्वे प्रमाणम्


ननु ! सन्निकर्षावगमे किं प्रमाणम् ? व्यवहितानुपलब्धिरिति
ब्रूमः । यदि ह्यसन्निकृष्टमपि चक्षुरादीन्द्रियं अर्थं गृह्णीयात्; व्यव
हितोऽपि ततोऽर्थ उपलभ्येत, न चोपलभ्यते; तस्मादस्ति सन्निकर्षः ॥


अव्यवधानमात्रं न प्रत्यक्षप्रयोजकम्


ननु ! अव्यवधानमेवास्तु, किं सन्निकर्षेण ?—मैवम्—


द्रव्यगुणकर्मवृत्तीनि । स्पर्शनेन—त्वगिन्द्रियेण । विचार्य गम्यमानत्वा
दिति—घटोऽस्ति न वेति संशये निर्णयार्थं प्रवर्तमानः घटं तदभावं वा
निश्चिनोति । अत्र यथा घटः पदार्थः, तथा घटाभावोऽपि पदार्थ एवेत्यर्थः ॥


आकाशद्रव्यं—आकाशरूपं द्रव्यम्; एवं श्रोत्राकाश इत्यत्रापि ॥


व्यवहितानुपलब्धिः—कुड्यादिव्यवहितवस्त्वनुपलब्धिः । सन्निकर्षाभावे
कुड्यव्यवहितस्याप्युपलब्धिप्रसंगः । व्यवहितः—कुड्यादिनेति शेषः ॥


ननु तर्हि अव्यवधानमेव प्रत्यक्षत्वप्रयोजकं कल्प्यतां, किं सन्निकर्षेण ?
न च कुड्यादिव्यवधानाभावेऽपि चक्षुर्निमीलनदशायां प्रत्यक्षापत्तिरिति शङ्क्यम्;
पक्ष्मचर्मण एव तत्र व्यवधानत्वात् इति शङ्कते—नन्विति । चक्षुरुन्मीलन
दशायां अनवधानात् प्रत्यक्षाभावस्तु मतद्वयेऽपि समान इति भावः ।
I.192

इन्द्रियाणां कारकत्वेन प्राप्यकारित्वात् । संसृष्टं च कारकं फलाय
कल्पत इति कल्पनीयः संसर्गः । एतच्च इन्द्रियपरीक्षायां निपुणं निर्णे
ष्यते ८ आह्निके इति नेह विविच्यते । रसस्पर्शनयोश्च स्पष्टं प्राप्य
कारित्वमुपलभ्यते इति तत्सामान्यादिन्द्रियान्तरेष्वपि कल्पनीयमिति ॥


ननु ! एवं सत्यर्थाक्षिप्तः कारकत्वादेव सन्निकर्ष इति स्वकण्ठेन
कस्मादुच्यते ? षड्विधत्वज्ञापनार्थमित्युक्तम् ॥


उत्पन्नग्रहणेन इन्द्रियार्थयोर्ज्ञानजनकत्वं दर्शयति । तत्र
इन्द्रियं करणत्वेन जनकम्, अर्थस्तु कर्मत्वेन ॥


ननु ! अर्थस्य ज्ञानजनकत्वं कुतोऽवगम्यते ? तद्विषयज्ञानो
त्पादादेव । स्वतस्साकारत्वस्य निराकृतत्वात् ४१-४२ पु.
प्रकारान्तरेण प्रतिकर्मव्यवस्थाया असिद्धेः ॥


ननु ! प्रयोजनमेतत्, प्रमाणं पृष्टोऽसि, तद्ब्रूहि—उच्यते—
एतदेव प्रमाणम्—अन्यस्यापि वीरणादेः कर्मकारकस्य कटादि
कार्योत्पत्तौ प्रत्यक्षानुपलंभप्रतिपन्नाभ्यामन्वयव्यतिरेकाभ्यां यथा


कारकत्वेनेति । न हि क्रियावेशमन्तरा कारकत्वं निर्वहतीत्यर्थः । संसृष्टं—
स्वविषयेणेति शेषः ।


ननु सन्निकर्षमन्तरा इन्द्रियाणां कारकत्वमेव यदि न भवति, तर्हि
इन्द्रियोत्पन्नम् इत्येबालं, किमर्थं इन्द्रियार्थसन्निकर्षोत्पन्नम् इति—इति
शङ्कते—नन्विति । सन्निकर्षः अर्थाक्षिप्त इत्यन्वयः । अर्थाक्षिप्तः—
अर्थादेव सिद्धः—अन्यथाऽनुपपत्त्या सिद्ध इति यावत् । स्वकण्ठेन—
स्ववाचकशब्देन । अत्र स्वशब्दः सन्निकर्षपरः । षड्विधत्वेत्यादि ।
प्रमेयानुरोधात् खलु इन्द्रियषट्ककल्पनमिति भावः ॥


अथ उत्पन्नपदप्रयोजनमाह—उत्पन्नप्रहणेनेति । तदनन्तरत्वादिकं
विहायेति शेषः । एतेन अर्थानां काल्पनिकत्वं निरस्तमित्याशयः ॥


शङ्कते नन्विति । कुतः—कथम् ? तद्विषयेति । अर्थविषयके
त्यर्थः । प्रतिकर्मव्यवस्था—प्रतिनियतविषयव्यवस्था । एतद्विस्तरस्तु
नवमाह्निके द्रष्टव्यः ॥


प्रमाणं पृष्टोऽसीति । न तु प्रयोजनमिति शेषः । वीरणं—
तृणविशेषः । प्रत्यक्षानुपलंभेति । दर्शनादर्शनेत्यर्थः । स्वानुभवैकवेद्यत्वे
I.193

कारणत्वमवधार्यते, तथाऽर्थस्यापि ज्ञानोत्पत्तौ । यथा हि देव
दत्तार्थी कश्चित् गृहं गतः, तत्रासन्निहितं न पश्यति देवदत्तम्,
क्षणान्तरे चैनमायान्तं पश्यति, तत्रान्वयव्यतिरेकाभ्यां देवदत्त
सदसत्त्वानुवर्तिनौ ज्ञानोत्पादानुत्पादाववधार्य मानसेन प्रत्यक्षेण
चन्दनसुखवदस्य तत्कारणतां प्रतिपद्यते ॥


ननु ! वीरणकटयोः पृथगुपलंभात् युक्त एष न्यायः, अर्थस्तु
ज्ञानात् पृथक् न कदाचिदुपलभ्यत इति दुरधिगमौ तत्रान्वय
व्यतिरेकौ—उच्यते—अयमेव पृथगुपलंभः, यदसन्निहितेऽर्थे न
तद्विषयमबाधितं ज्ञानमुत्पद्यत इति । तदलमस्मिन्नवसरे ज्ञानवाद
गर्भचोद्योद्विभावयिषया; भविष्यत्येतदवसरे ९ आह्निके इति ॥


उत्पन्न पदप्रयोजनम्


यथा चेन्द्रियाणां करणानां अन्वयव्यतिरेकाभ्यां ज्ञानकारणत्वं,
एवमर्थस्य कर्मणोऽपीत्युत्पन्नग्रहणेन दर्शितम् ॥


सुखादयोऽपि मानसप्रत्यक्षविषयाः


ननु ! इन्द्रियार्थसन्निकर्षोत्पन्नपदेन सुखादिविषयं प्रत्यक्षं न
सङ्गृहीतम्—न न सङ्गृहीतम्—मनस इन्द्रियत्वात्, सुखादेरर्थस्य


चन्दनसुखदृष्टान्तः । अस्य—विषयस्य । यथा चन्दनसुखं मानसप्रत्यक्षवेद्यं,
तथा विषयस्य प्रत्यक्षकारणत्वं स्वानुभवसिद्धमित्यर्थः ॥


सहोपलंभनियमात् अभेदो नीलतद्धियोः इति वदन् पृच्छति—
नन्विति । वीरणं—तृणविशेषः । यदि ज्ञानार्थयोर्भेदः, तर्हि कुत्रचित् ज्ञानं
जातं अर्थं व्यभिचरेदिति भावेन—अबाधितमिति । यथा चेत्यादि ।
अर्थस्य ज्ञानजनकत्वं कथमवगम्यते ? इति पृच्छता हि, इन्द्रियाणां ज्ञानजनकत्वं
संभवति इत्यङ्गीकृतम् । तत्र यत् प्रमाणं तदेवात्रापीति भावः ॥


न सङ्गृहीतमिति । सूत्रे घ्राणरसनचक्षुस्त्वक्छ्रोत्राणि भूतेभ्यः इति
कथनात् एभिरिन्द्रियैः सुखादेरग्रहणात्, इन्द्रियार्थसन्निकर्षजन्यत्वं सुख
I.194

तद्ग्राह्यत्वात् । भौतिकघ्राणादीन्द्रियधर्मवैलक्षण्यात्तु मनसस्तद्वर्गे
परिगणनं न कृतमिति ॥


सन्निकर्षाणामुपयोगप्रकारः


तच्चेदं प्रत्यक्षं चतुष्टय-त्रय-द्वयसन्निकर्षात् प्रवर्तते । तत्र बाह्ये
रूपादौ विषये चतुष्टयसन्निकर्षात् ज्ञानमुत्पद्यते—आत्मा मनसा
संयुज्यते, मन इन्द्रियेण, इन्द्रियमर्थेनेति । सुखादौ तु त्रयसन्नि
कर्षात् ज्ञानमुत्पद्यते, तत्र चक्षुरादिव्यापाराभावात् । आत्मनि तु
योगिनः द्वयोरात्ममनसोरेव संयोगात् ज्ञानमुपजायते; तृतीयस्य
ग्राह्यस्य ग्राहकस्य वा तत्राभावात् । तस्मात् सुखादिज्ञानसङ्ग्र
हात् इन्द्रियार्थसन्निकर्षोत्पन्नमिति युक्तमुक्तम् । आत्ममनसोस्तु
सदपि ज्ञानजनकत्वमिह न सूत्रितम्, सर्वप्रमाणसाधारणत्वात् ॥


ज्ञानपदप्रयोजनम्


ज्ञानग्रहणं विशेष्यनिर्देशार्थम् । तस्य हि इन्द्रियार्थसन्नि
कर्षोत्पन्नत्वादीनि विशेषणानि । तान्यसति विशेष्ये कस्य विशेष
णानि स्युरिति ॥


अथवा सुखादिव्यावृत्त्यर्थं ज्ञानपदम् । इन्द्रियार्थसन्निकर्षोत्पन्नं
हि सुखमपि भवति । तत्र तज्जनकं कारकचक्रं प्रमाणं मा भूत्,
ज्ञानजनकमेव प्रमाणं यथा स्यादिति ज्ञानग्रहणम् ॥


प्रत्यक्षे नास्तीत्यव्याप्तिरित्यर्थः । ननु यदि मनः इन्द्रियं, तर्हि इन्द्रियसूत्रे कुतः
न पठितमित्यत्राह—भौतिकेति । वैलक्षण्योपपादकतया भौतिकेपदम् ॥


आत्मेति । आत्ममनैन्द्रियार्थानां चतुर्णामत्र सन्निकर्षः । त्रयेति ।
आत्मा, मनः, सुखादिरिति त्रयं बोध्यम् । योगिन इति । यद्यप्यहंप्रत्यये
सर्वेषामपि स्वात्मा विषयीभवत्येव, अथापि यथाऽवस्थितात्मसाक्षात्कारः
योगिनामेव । अन्यथा सर्वेषामपि तत्त्वज्ञानित्वप्रसङ्गः ॥


अव्याप्त्यतिव्याप्त्यसंभवान्यतमवारणायैव पदप्रयोगः लक्षणवाक्ये युक्त
इत्याशयेनाह—अथवेति । सुखमपि भवतीति । अन्ततः तस्यापि
मनस्सन्निकर्षजन्यत्वादित्यर्थः ॥


I.195

सुखादीनां ज्ञानरूपत्वाक्षेपः


अत्र शाक्याश्चोदयन्ति—न ज्ञानपदेन सुखादिव्यवच्छेदः कर्तुं
युक्तः, शक्यो वा; सुखादीनामपि ज्ञानस्वभावत्वात् । ज्ञानस्यैवामी
भेदाः, सुखं दुःखं इच्छा द्वेषः प्रयत्न इति । कारणाधीनो हि
भावानां भेदो भवितुमर्हति । समानकारणानामपि तु भेदेऽभिधीय
माने न कारणकृतं पदार्थानां नियतं रूपमिति तदाकस्मिकत्व
प्रसङ्गः । तदुक्तम् प्रमाणवार्तिकं—3-251

तदतद्रूपिणो भावाः तदतद्रूपहेतुजाः ।

तत्सुखादि किमज्ञानं विज्ञानाभिन्नहेतुजम् इति ।

तस्मात्, ज्ञानरूपाः—सुखादयः—तदभिन्नहेतुजत्वात्—इति ॥


सुखादीनां ज्ञानरूपत्वनिराकरणम्


तदिदमनुपपन्नम्—प्रत्यक्षविरुद्धत्वाद्धेतोः । सुखादिसंवेद्य
मानमानन्दादिरूपतयाऽनुभूयते, ज्ञानं विषयानुभवस्वभावतयेति
प्रत्यक्षसिद्धभेदत्वात् कथमभेदे अनुमानं क्रमते ?


सुखादिकं ज्ञानस्यैवाकारविशेष इति वादिनो बौद्धस्य मतमुपक्षिपति—
अत्रेति । ज्ञानस्यैवामी भेदा इति । तथा च प्रमाणवार्तिकं—सुखदुःखाभि
लाषादिभेदा बुद्धय एव ताः
3-449 इति । अत्र युक्तिमाह—कारणाधीन
इति । नियतं रूपं—तत्तद्वस्तुप्रतिनियतः आकारः । तदाकस्मिकत्वप्रसङ्गः—
कार्यवैलक्षण्यस्य निर्हेतुकत्वापत्तिः । तदतदिति । यथासंख्यमन्वयः ।
तद्रूपहेतुजाः तद्रूपिणो भावाः, अतद्रूपहेतुजाः अतद्रूपिणो भावाश्च भवन्ति ।
मृत्पिण्डजातीयादुत्पन्नं मृज्जातीयं, तद्विजातीयाच्चोत्पन्नं कार्यं तद्विजातीयमेव
भवति । एवञ्च यादृशेन कारणेन आत्ममनस्संयोगादिना ज्ञानमुत्पद्यते,
तादृशेनैव कारणेनोत्पद्यमानं सुखादि अज्ञानं—ज्ञानविलक्षणं भवति किम् ?
तदभिन्नहेतुजत्वात्—ज्ञानेन साकं अभिन्नहेतुजत्वात्; ज्ञानहेतुजातीय
हेतुजन्यत्वादिति यावत् ॥


कार्ययोः वैलक्षण्यस्यानुभवसिद्धत्वात् तदभिन्नहेतुजत्वं नास्तीत्युपपाद
यति—सुखादीति । ज्ञानं हि बाह्यं विषयमपि क्रोडीकरोति, न तथा सुखम् ॥


I.196

अत एवेदमपि न वचनीयम्—एकमेवेदं संविद्रूपं हर्षविषादा
द्यनेकाकारविवर्तं पश्यामः, तत्र यथेष्टं संज्ञाः क्रियन्तामिति—
संविदो विषयानुभवस्वभावतयैव प्रतिभासात्, सुखादेश्च विषयानु
वस्वभावस्यानुस्यूतस्याप्रतिभासात् । ज्ञानमेव विषयग्रहणरूपं
प्रकाशते; न सुखं, दुःखं वा ॥


यस्तु सुखज्ञानं दुःखज्ञानमिति प्रतिभासः, सः ज्ञानस्वभाव
मेदकृत एव, संशयज्ञानं विपर्ययज्ञानमितिवत्—उक्तमत्र—
संशयविपर्ययादौ विषयानुभवस्वभावत्वमनुस्यूतमवभाति । संशयो
हि विषयग्रहणात्मकोऽनुभूयते, अनिश्चितं तु विषयं गृह्णाति । विपर्य
योऽपि विषयग्रहणात्मक एव, विपरीतमसन्तं वा विषयं गृह्णाति ।
न तु विषयग्रहणस्वभावं सुखं दुःखं चानुभूयते । अतः अन्य एवायं
ग्राह्यैकस्वभावः आन्तरो धर्मः सुखदुःखादिरिति घटज्ञानव
द्विषयतयैव ज्ञानं भिनत्ति, न स्वभावभेदेन संशयज्ञानवदिति ॥


ज्ञानसुखादयः न स्वप्रकाशाः


तत्रैतत् स्यात्—स्वप्रकाशत्वात् सुखादेः न ग्राह्यैकस्वभाव
त्वम् । अतश्च ग्राह्यग्रहणोभयस्वभावत्वात् ज्ञानमेव तदिति—मैवं
वोचः—स्वप्रकाशत्वं ज्ञानेऽपि प्रतिक्षिप्तम् पु. 41, प्रतिक्षेप्स्यते
९ आह्निके च । तत् कुतः सुखादौ भविष्यति । न हि ग्रहण
स्वभावं कश्चित् सुखमनुभवति ज्ञानवदिति ॥


अत एव—ज्ञानसुखयोः सर्वथा विलक्षणत्वादेव । ननु न ज्ञानमेव सुखं,
किन्तु ज्ञानस्याकारभेदः; अतः प्रतिभासभेदो युक्त इत्यत्राह—सुखादेरिति ।
यथा हि मृदाकारविशेषे घटे मृदयम् इति प्रतिभासः, तथा ज्ञानस्य आकार
भूतं यदि सुखं, तर्हि विषयानुभवस्वभावं प्रतीयेतेत्यर्थः ॥


अनुस्यूताकारप्रतिभासं शङ्कते—यस्त्विति । समाधत्ते—उक्तमिति ।
ग्राह्यैकस्वभावः—विषयमात्ररूपः । अवधारणेन ज्ञानवत् विषयित्वं व्यवच्छिद्यते ।
घटज्ञानवदिति । सुखज्ञानमिति हि घटज्ञानमितिव्यवहारतुल्यमित्यर्थः ॥


स्वप्रकाशत्वस्यैव निर्वचनं—ग्राह्यग्रहणोभयस्वभावत्वादिति ।
विषयाणां घटादीनां ज्ञानेनैव भानम् । ज्ञानस्य तु स्वत एव । अतः ज्ञानं
I.197

सुखादयः ज्ञानेनैव गृह्यन्ते


ननु ! अस्य प्रकाशत्वानभ्युपगमे सुखादेरुत्पादानुत्पाद
योरविशेषात् सर्वदा सुखित्वं, न कदाचिद्वा स्यात्—इति—


नैतदेवम्—उत्पन्नमेव सपदि सुखं गृह्यते ज्ञानेनेति कथमनु
त्पन्नान्न विशिष्यते । प्रत्युत स्वप्रकाशसुखवादिनामेष दोषः,
स्वप्रकाशसुखोत्पादात् तेनैव स्वप्रकाशेन सुखेनान्योऽपि सुखी
स्यात्, स्वप्रकाशस्य दीपादेः सर्वान् प्रत्यविशिष्टत्वात् । क्वचित्
सन्ताने स्वप्रकाशसुखोत्पादात् तेनैव स्वप्रकाशेन अन्योऽपि सुखी
स्यात्, यस्यापि सुखं नोत्पन्नमिति ॥


किञ्च किमेकं एव ज्ञानं सर्वसुखदुःखाद्यशेषाकारभूषित
मिष्यते ? उत किञ्चित्सुखात्मकं, किञ्चिद्दुःखात्मकमिति ?


आद्ये पक्षे, सर्वाकारखचितज्ञानोपजननादेकस्मिन्नेव क्षणे
परस्परविरुद्धसुखदुःखादिधर्मप्रबन्धसंवेदनप्रसङ्गः ॥


उत्तरस्मिंस्तु, किञ्चित्सुखज्ञानं, किञ्चिद्दुःखज्ञानमिति यत्किञ्चि
दसुखदुःखखचितं विषयानुभवस्वभावमपि ज्ञानमनुभूयमानमेषितव्य-


विषयमिव आत्मानमपि विषयीकरोति । इदमेव स्वप्रकाशत्वम् । उत्पन्नं
हि सुखं स्वयं गृह्यत एव ॥


अविशेषादिति । उत्पन्नस्य हि सुखादेः स्वतो भानं न संभवति, अस्व
प्रकाशत्वात् । ज्ञानेन ग्रहणाङ्गीकारे तस्यापि ज्ञानस्य—अस्वप्रकाशत्वेन ज्ञानान्त
रगवेषणात् अनवस्था । अतः उत्पादानुत्पादयोरविशेष एवेति । सुखित्वमिति ।
स्यात् इत्याकर्षः । कदाचिद्वा इत्यनन्तरं सुखित्वं इत्यनुषङ्गः । तथा च
सदैकरूपत्वमेवात्मनः स्यादित्यर्थः ॥


ननु द्वित्वादिवद्भवतु, का हानिः ? इत्यत्राह—किञ्चेति ॥


आद्य इत्यादि । आद्यपक्षे एकमेव ज्ञानं; द्वितीये तु नानाज्ञानम् ।
किञ्चित् ज्ञानं सुखात्मकं, अन्यच्च किंचित् ज्ञानं दुःखात्मकमित्यर्थः ॥


असुखदुःखखचितं—सुखदुःखाखचितं—उदासीनस्वभावम् । एषित
व्यमेवेति । सर्वमपि सुखदुःखान्यतरोपरक्तमेव भवतीति न हि प्रतिज्ञातुं
I.198

मेव । तच्च न स्वच्छम्; अपि तु केनचिद्धटादिना विषयेणोपरक्तं,
अन्वयव्यतिरेकाभ्यां च घटाद्युपजननापायेऽपि बोधस्वभावमनु
वर्तमानं प्रतीयते । तदिदानीं सुखज्ञानमप्यनुभूयमानं सुखेन
विषयभावजुषा घटादिनेवोपरज्यते इति गम्यते, न स्वरूपेणैव
सुखात्मकम्; ततो भिन्नरूपस्य बोधमात्रस्वभावस्य ज्ञानस्यान्यदा
दृष्टत्वादिति । तस्मात् न बोधरूपाः सुखादयः ॥


ज्ञानसुखयोः सजातीयकारणजन्यत्वं नास्त्येव


अभिन्नहेतुजत्वादिति चायमसिद्धो हेतुः; समवायिकारणस्या
त्मनः, असमवायिकरणस्य चात्ममनस्संयोगस्य चाभेदेऽपि निमित्त
कारणस्य सुखत्वज्ञानत्वादेर्भिन्नत्वात् ॥


ननु सुखोत्पादात्पूर्वमनाश्रयं सुखत्वसामान्यं कथं तत्र
स्यात् ? कश्चास्य सुखहेतुभिः कारकैः संसर्गः ? असंसृष्टं वा कथं
कारकं स्यात् ?—उच्यते—सर्वगतानि सामान्यानि साधयिष्यन्त
५ आह्निके इति सन्ति तत्रापि सुखत्वादीनि । योग्यतालक्षण एव चैषां
सुखहेतुभिः कारकैः संसर्गः, धर्माधर्मवत् । धर्माधर्मौ हि सर्वस्य
प्राणिनां सुखदुःखहेतोः जायमानस्य शाल्यादेः कार्यस्य कारणम् ।


शक्यमिति भावः । स्वच्छं—विषयानुपरक्तम् । विषयानुपरक्तस्य ज्ञानत्वा
संभवादिति हेतुरूह्यः । अपि त्वित्यादि । एतदुक्तं भवति । ज्ञानं हि
घटादिना विषयेणोपरक्तं घटज्ञानं, पटज्ञानं इत्यादिना व्यवह्नियते । घटज्ञाने
पटस्य पटज्ञाने घटस्य चाविषयीकरणेनान्वयव्यतिरेकाभ्यां हि घटस्य ज्ञानस्य
च भेदः सिद्ध्यत्येव । एवमेव हि सुखाद्युपरक्तं ज्ञानं सुखज्ञानमित्यनुभूयते ।
तत्रापि घट-ज्ञानयोरिव सुख-ज्ञानयोर्भेद आवश्यक एव, सुखदुःखानुप
रक्तस्य ज्ञानस्यानुभवादिति । अन्यदा—सुखदुःखानुपरागकाले ॥


सुखत्वज्ञानत्वादेरिति । अयमाशयः—दण्डचक्रसलिलकुलालमृदादिभि
स्सजातीयैरेव कारणैरुपजायमानोऽपि एको घटो भवति, अपरः मणिकः, अन्यः
शरावः । तत्र हि स्वरूपभेदापादकः जातिभेद एव कार्यभेदनियामकः ।
तद्वदत्रापि । न च तत्र मृदयमित्येकाकारानुवृत्तिः दृश्यत एवेति वाच्यम्;
द्रव्यसमवायिकारणके गुणे तादृशद्रव्यत्वानुवृत्तेरदर्शनात् इति ॥


सुखत्वसामान्यं—सुखत्वरूपा जातिः । तत्र—सुखरूपकार्योत्पत्तिस्थले
एषां—सुखत्वादिजातीनाम् । सुखदुःखहेतोः शाल्यादेर्जायमानस्येत्यन्वयः ।
I.199

तयोश्च तत्कारणैः बीजक्षितिजलादिभिस्सह योग्यतैव संसर्गः ।
एवं सुखत्वादीनामपि स्यात् । तस्मात् निमित्तकारणभेदात्
भिन्नानि ज्ञानसुखादीनि कार्याणि ॥


निमित्तकारणान्यत्वमपि कार्यस्य भेदकम् ।

विलक्षणा हि दृश्यन्ते घटादौ पाकजा गुणाः ॥ ८ ॥

अपि च ज्ञानमिच्छन्ति न सर्वे ज्ञानपूर्वकम् ।

सुखदुःखादि सर्वं तु विषयज्ञानपूर्वकम् ॥ ९ ॥

विषयानुभवोत्पाद्याः यत्रापि न सुखादयः ।

तत्रापि तेषामुत्पत्तौ कारणं विषयस्मृतिः ॥ १० ॥

क्वचित्तु सङ्कल्पोऽपि सुखस्य कारणतां प्रतिपद्यते । तस्मात्
सर्वं सुखादि ज्ञानपूर्वकमेव ॥


तादृशशाल्याद्युत्पत्त्यर्थमिति भावः । यद्वा सुखदुःखहेतोरिति पञ्चम्यन्तम् ।
तयोः—धर्माधर्मयोः ॥


घटादाविति । पाकजगुणान् प्रति घटो हि समवायिकारणम् ।
अपि चेत्यादि । ज्ञानं हि स्वोत्पत्तौ पूर्वं घटादिविषयमपेक्षते, न ज्ञानान्तरम् ।
सुखमपि यदि ज्ञानरूपं तर्हि स्वोत्पत्तौ विषयमपेक्षेत । लोके तु सुखं पूर्वं अनुकूलत्व
ज्ञानमेवापेक्षते । एवञ्च सुखं, न ज्ञानरूपं, ज्ञानजन्यत्वादिति । ननु
विषयज्ञाने जातेऽपि कुत्रचित् सुखानुत्पत्त्या न तयोः कार्यकारणभाव इति चेत्—
सुखादीनां ह्युत्पत्तौ न विषयज्ञानमात्रं हेतुः, किन्त्वनुकूलत्वस्मरणमपि । एत
दभावाच्च न विषयज्ञानमात्रात् सुखाद्युत्पत्तिरिति । यद्यपि सिद्धान्ते ज्ञानात्
ज्ञानान्तरोत्पत्तिरिष्यते । अथापि न सर्वं ज्ञानं ज्ञानसापेक्षं, अनुव्यवसाय एक
एव ज्ञानापेक्षः । सुखं तु सर्वं ज्ञानापेक्षमेवेत्यस्ति ज्ञानसुखयोर्विशेषः ।
नन्वेवमपि ज्ञानानां द्विक्षणावस्थायित्वनियमेन सर्वत्रापि पूर्वज्ञानापेक्षा उत्तर
ज्ञानस्य वर्तत एवेति चेत्—इदमपि धारावाहिज्ञानस्थल एव । न हि तत्रापि
बौद्धमत इव ज्ञानात् ज्ञानान्तरोत्पत्तिः; किन्तु स्वकारणादेव । एवञ्च ज्ञानस्य न
नियमेन ज्ञानान्तरापेक्षा, सुखस्य त्वस्त्येवेति ज्ञानसुखयोर्वैलक्षण्यं दुरपह्नवमिति ।
अनुपदमेव च स्पष्टीकृतं इदं ग्रन्थकारेण ॥


सङ्कल्पः—मनोवृत्तिः, अभिमान इति यावत् । ज्ञानपूर्वकमेव, न
तु विषयपूर्वकमिति एवकारार्थः ॥


I.200

ज्ञानमपि ज्ञानपूर्वकमेवेति चेत्—न—उपरिष्टान्निराकरिष्य
माणत्वात् । न हि गर्भादौ मदमूर्छाद्यनन्तरं वा ज्ञानमुपजायमानं
ज्ञानान्तरपूर्वकं भवतीति वक्ष्यामः ७ आह्निके । तेन ज्ञानसुखा
दीनां वैलक्षण्योपपादनात् सुखादिनिवृत्त्यर्थं ज्ञानग्रहणमर्थवत् ॥


अव्यभिचारिपदेन न ज्ञानपदवैय्यर्थ्यम्


ननु ! एवमपि न ज्ञानग्रहणेन कृत्यम्, अव्यभिचारिपदादेव
सुखादिव्यवच्छेदस्य सिद्धत्वात् । व्यभिचाराव्यभिचारौ हि ज्ञानस्य
धर्मौ, न सुखादेः । अतस्तदुपादानात् तद्धर्मयोगि ज्ञानं लभ्यत
एव । किं ज्ञानग्रहणेन ? नैतदेवम्—सुखस्यापि सव्यभिचारस्य
दृष्टत्वात् । किं पुनस्सुखं व्यभिचारवत् दृष्टम् ? यदेतत् परदारा
भिमर्शादिनिषिद्धाचरणसंभवं सुखं, तद्व्यभिचारि ॥


ज्ञानवत् सुखमपि व्यभिचरितं अस्त्येव


ननु ! सुखस्य कीदृशो व्यभिचारः ? ज्ञानस्यापि कीदृशो
व्यभिचारः ?


अतस्मिंस्तथाभावः—सुखस्यापि अतस्मिंस्तथाभाव एव ॥


किं परपुरन्ध्रीपरिरंभसंभवं सुखं सुखं न भवति ? किं शुक्ति
कायां रजतज्ञानं ज्ञानं न भवति ?


ज्ञानं भवति, किन्तु मिथ्या—इदमपि सुखं भवति, किन्तु
मिथ्या ॥


ज्ञानमपीति । बौद्धमते उत्तरज्ञानं प्रति पूर्वक्षणिकविज्ञानस्य कारणत्वात्,
सिद्धान्तेऽपि कुत्रचित्तथाऽङ्गीकारादिति भावः ॥


तद्धर्मयोगि—व्यभिचाराव्यभिचारधर्मयोगि । किं—कीदृशम् ॥


लोके ह्यनुभूयमानं सुखं कदाप्यसुखं न भवतीति कथं सुखस्य व्यभिचार
इति शंकां ज्ञानप्रतिबन्दिदानेन निराकरोति—नन्वित्यादिना । अत्र पूर्ववाक्यं
आक्षेपः—उत्तरवाक्यं समाधानम् । एवमुत्तरत्रापि ॥


I.201

ननु ! न सुखं मिथ्या, तदपि ह्यानन्दस्वभावमेव—यद्येवं शुक्ति
कायां रजतज्ञानमपि न मिथ्या, तदपि हि विषयानुभवस्वभावमेव ॥


ननु ! विषयानुभवस्वभावमपि तज्ज्ञानं विषयं व्यभिचरति—
सुखमपि तर्हीदमानन्दस्वभावमपि स्वहेतुं विषयं व्यभिचरत्येव ॥


किमसुखसाधनेन तज्जनितम् ? ज्ञानमपि किं अज्ञानसाधनेन
जनितम् ?


ननु ! ज्ञानं ज्ञानसाधनेन जनितं असत्येन प्रत्यक्षबाधितेन
रजतादिना—सुखमपि सुखसाधनेन जनितं असत्येन तु शास्त्र
बाधितेन परवनितादिना ॥


किं परवनितादि न सत्यम् ? तत्रापि ज्ञानजनकं न सत्यम् ?


असत्यं, प्रत्यक्षबाधितत्वात्; परवनिताद्यपि सुखसाधन
मसत्यं, शास्त्रबाधितत्वात् ॥


ननु ! शास्त्रेण किमत्र बाध्यते ? ज्ञानेऽपि प्रत्यक्षेण किं बाध्यते ?


विषयो मिथ्येति ख्याप्यते; शास्त्रेणापि सुखस्य हेतुर्भिथ्येति
ख्याप्यते ॥


किं स विषयस्सुखहेतुर्न भवति ? यथा त्वेष विषयः कलुषस्य
ज्ञानस्य हेतुः, तथा सोऽपि कलुषस्य कटुविपाकस्य सुखस्य हेतुरिति
तथाविधं सुखमपि व्यभिचारि भवत्येवेत्यलमतिकेलिना ॥


तस्मात् समानन्यायत्वात् सुखे व्यभिचारिताऽस्तीति
अव्यभिचारिपदात् ज्ञानं न लभ्यते ॥


तदपि—परदारोपभोगजसुखमपि । ज्ञानसाधनेनेत्यस्य विशेषणं
असत्येनेत्यादि । एवं सुखसाधनेनेत्यत्रापि ॥


ज्ञानजनकं—शुक्तिकादि । निरधिष्ठानस्तु भ्रमः नास्त्येव ॥


अलमिति । अयमत्र सारः । अन्यथाख्यातिरेव सिद्धान्ते, न त्वसत्ख्यातिः ।
एवञ्च शुक्तौ इदं रजतमित्यादौ रजतं न सर्वथा मिथ्या, आपणे सत्त्वात् ।
किन्तु तादात्विकप्रत्यक्षजनकत्वविशिष्टवेषेणैव मिथ्यात्वम् । एवञ्च परदारादेरपि
बलवदनिष्टाननुबन्धित्वविशिष्टसुखसाधनत्वविशिष्टवेषेणापि तथात्वमेवेति ॥


I.202

व्यवसायात्मकम् इति पदेन सुखादिव्यावृत्तिशङ्का


अपर आह—किमनेन डिम्भकलहेन ? मा भूदव्यभिचारिपदात्
स्य लाभः ! तथाऽपि व्यवसायात्मकपदात् लभ्यत एव ज्ञानम् ।
न हि सुखदुःखादयो व्यवसायात्मकाः भवन्ति, किन्तु ज्ञानमेव
तथाविधमिति ॥


संशयव्यवच्छेदार्थं तत्पदमिति चेत्—सत्यम्—सुखादि
व्यवच्छेदमपि कर्तुमलमेव भवति, व्यवसायात्मकत्वस्य सुखादिष्व
संभवादिति ॥


ज्ञानपदप्रयोजननिगमनम्


तदेवं सिद्धेऽपि सुखादिव्यवच्छेदे कर्तव्यमेव ज्ञानग्रहणम्,
विशेष्यनिर्देशार्थत्वात् । तस्य हि सर्वाण्यमूनि विशेषणान्युपात्तानि
तदनुपादाने निरालम्बनानि भवेयुः । श्रोतुश्च बुद्धिर्न समाधीयेतेति ।
तेन बलाद्गम्यमानमेव कर्तव्यमेव ज्ञानग्रहणम् । अर्थाक्षिप्तस्यावचने
प्रत्यक्षं प्रत्यक्षमित्येतावन्मात्रमभिधेयं स्यात्; अन्यदर्थाल्लभ्यत एव ।
तस्मात् धर्मिनिर्देशार्थं युक्तं ज्ञानपदम् ॥


अव्यपदेश्यपदप्रयोजनम्


शब्दानामर्थसंस्पर्शित्वं शाक्यमतनिरासेन साधयिष्यत
३ आह्निके इति शब्दानुप्रवेशवशेन व्यपदेश्यं नाम ज्ञानमुपपद्यत
इति तद्व्यवच्छेदार्थमव्यपदेश्यपदम् ॥


तथाविधं—व्यवसायात्मकम् ॥


तत्पदं—व्यवसायात्मकपदम् । २३० पुटे एतदुपपाद्यते । ततश्च प्रयोजना
न्तराय तदुपात्तं, न तु सुखव्यावृत्तये इति भावः । अस्तु तत्, तेनैवेदमपि
निरस्तं भवत्वित्याह—सत्यमिति । कर्तुभलमिति—तत्पदमित्याकर्षः ॥


उपात्तानि सर्वाण्यमूनि विशेषणानीत्यन्वयः । बलादेव गम्यमान
मित्यन्वयः । न तु स्वरसतो टिति प्रतीयत इति भावः । एवकारः
अप्यर्थको वा । यथाकथञ्चिदर्थात्प्राप्तिमात्रेण वैयर्थ्यापादने अनिष्टप्रसङ्गमाह—
अर्थाक्षिप्तस्येति । अवचने आपाद्यमाने इति शेषः ॥


I.203

भाष्योक्तं अव्यपदेश्यपदप्रयोजनम्


तत्र वृद्धनैयायिकास्तावदाचक्षते—व्यपदिश्यत इति व्यप
देश्यं शब्दकर्मतापन्नं ज्ञानमुच्यते । यत् इन्द्रियार्थसन्निकर्षादुत्पन्नं
सत् विषयनामधेयेन व्यपदिश्यते—रूपज्ञानं रसज्ञानमिति, तत्
व्यपदेश्यं ज्ञानं प्रत्यक्षफलं प्रत्यक्षं मा भूदिति अव्यपदेश्यग्रहणम्—
तदिदमनुपपन्नम्-न हि नामधेयव्यपदेश्यत्वमप्रामाण्यकारणं भवति ।
यदि हि तत् रूपज्ञानं रसज्ञानं च विषयाव्यभिचारि, निस्संशयं च
तत् कथमप्रमाणफलमुच्यते । व्यभिचारादिदोषयोगे वा पदान्तरेण
तत्प्रतिक्षेपात् किमव्यपदेश्यपदेन ?


प्रमाणफलं च तद्विज्ञानं इदानीं किंप्रमाणप्रभवं भवतु ? न
प्रत्यक्षफलम्, एतत्पदप्रतिक्षिप्तत्वात् । नानुमानादिजन्यम्, तद्वै
लक्षण्यात् । नास्ति किञ्चित् पञ्चमं प्रमाणम् । असङ्ग्रहोऽस्य
लक्ष्यस्य लक्षणेनेति प्रज्ञाप्रमादः । तस्मादपव्याख्यानमेतत् ॥


वृद्धनैयायिकाः—वात्स्यायनमहर्षयः । शब्दकर्मतापन्नं—नामधेय
शब्देनाभिलप्यमानम् । अव्यपदेश्यग्रहणं इत्यनन्तरं इतिकरणं द्रष्टव्यम् ।
तथा च शब्दानुविद्धस्य प्रत्यक्षस्य वारणाय अव्यपदेश्य पदमिति भावः ।
पदान्तरेण—अव्यभिचारिपदेन ॥


ननु न तस्याप्रामाण्यमुक्तं, किन्तु तस्यात्रालक्ष्यत्वमात्रं चेत् तत्राह—
प्रमाणफलमिति । किं प्रमाणेति । अयमर्थः—यदि चतत् ज्ञानं
अव्यपदेश्यपदेन व्यावर्त्यते, तर्हीदं ज्ञानं किं रूपमिति वक्तव्यम् । प्रत्यक्षरूपत्वं
तु निराकृतमेव । अनुमानादिरूपत्वं तु सुतरां न संभवति । अतः ज्ञानलक्षणा
प्रत्यासत्तिवशात् शब्दस्य प्रत्यक्षे भानं तत्र वक्तव्यम् । एवञ्च सुरभि चन्दनं
इतिवत् अलौकिकलौकिकसन्निकर्षाभ्यामुत्पन्नं एकं ज्ञानं तदिति वक्तव्यम् । तथा
च तदपि लक्ष्यमेव अन्यत्र कुत्राप्यनन्तर्भावात् ॥


भाष्यकृतस्तु—सूत्रे इन्द्रियार्थसन्निकर्षपदोपादानेन इदं सूत्रं केवल
लौकिकसन्निकर्षजन्यप्रत्यक्षलक्षणपरमेव । न ह्यलौकिकः सन्निकर्षः इन्द्रियार्थ
सम्बन्धरूपः । अतश्च लौकिकालौकिकसन्निकर्षद्वयजन्यस्य शब्दानुविद्ध
I.204

अव्यपदेश्यपदस्य मतान्तरेण प्रयोजनवर्णनम्


व्यवच्छेद्यान्तरमव्पदेश्यपदस्य वर्णयाञ्चक्रुराचार्याः । शब्दा
र्थेषु स्थविरव्यबहारवः व्युत्पद्यमानो जनः संशयावगमसमये
संज्ञोपदेशकादयं पनस उच्यत इति वृद्धोदीरितात् वाक्यात्
पुरोवस्थितशाखादिमन्तमर्थं पनसशब्दवाच्यतया जानाति । तदस्य
ज्ञानमिन्द्रियजमपि न केवलेन्द्रियकरणकं भवितुमुचितम्, असति
संज्ञोपदेशिनि शब्दे तदनुत्पादात् । तेन शब्देन्द्रियाभ्यां संभूय
जनितत्वात् उभयजमिदं ज्ञानं व्यपदेशाज्जातमिति व्यपदेश्यमुच्यते ।
तत् अव्यपदेश्यपदेन व्युदस्यते ॥


न चेदं पञ्चमं प्रमाणमवतरति, किन्तु शाब्दमिवैतदनुमन्यते
लोकः तथा च—कथं पुनर्जानीते भवान् पनसोऽयमिति ? इति पृष्टः
प्रतिवक्ति—मम देवदत्तेनाख्यातं, पनसोऽयमिति इति । न पुनरेवं
विस्मृत्यापि व्रवीति चक्षुषा मया प्रतिपन्नं, पनसोऽयमुच्यत इति


प्रत्यक्षस्य प्रमाणत्वेऽपि वा नात्र लक्ष्यत्वमिति तस्य अव्यपदेश्यपदेनैव
व्यावृत्तिर्वक्तव्येत्याशयः । ननु तर्हि तस्य कुत्रान्तर्भाव इति चेत्, यत्र कुत्रापि
वा यथावं भवतु । अन्यथा हि ईश्वरप्रत्यक्षस्य नित्यस्य इन्द्रियार्थसन्निकर्ष
जन्यत्वाभावेनाव्याप्त्यापत्त्या तस्यालक्ष्यतायां वाच्यायां, तस्य कुत्रान्तर्भाव
इत्यपि प्रश्नः समुदेत्येव । समाधिस्तु तुल्यैव—इत्याशयः ॥


स्थविरः—वृद्धः । संज्ञोपदेशात्—संज्ञासंज्ञिसम्बन्धज्ञापकात् ।
अस्य वाक्यादित्यत्रान्वयः । अयमत्र भावः—श्रुतपनसपदेन पुरुषेण वृक्ष
सामान्ये प्रत्यक्षतो गृहीते कोऽयं वृक्षः इति संशये सति विशेषसंज्ञाबोधकशब्द
श्रवणवशात् पनसशब्दवाच्यत्वप्रकारकं पुरोवर्तिवृक्षविशेष्यकं च अयं पनसः
इति ज्ञानं जायते । नेदं केवलं प्रत्यक्षं, शब्दश्रवणस्याप्यपेक्षणात् । अतः
शब्द-इन्द्रियोभयजज्ञानव्यावृत्त्यर्थं अव्यपदेश्यपदमिति ॥


ननु इन्द्रिय-संस्काराभ्यां जातं प्रत्यभिज्ञानं यथा प्रत्यक्षं, तथेदमपि कुतो
न स्यात् ? यदिदं ज्ञानं न प्रत्यक्षं तर्हि कुत्रान्तर्भाव इति आशङ्क्य शाब्देऽ
न्तर्भावं वदति—न चेत्यादि । तथा च प्रतिवक्ति इत्यन्वयः ।
I.205

इति । तत् इन्द्रियान्वयव्यतिरेकानुविधाने सत्यपि शब्द एवात्र
करणम् ॥


अत एव सूत्रकृता शब्दलक्षणं वर्णयता नेन्द्रियानुप्रवेशप्रति
षेधाय किमपि विशेषणमुपरचितम्; उपदेशः शब्दः इत्येतावदेव
लक्षणमभिहितम् । अतश्चेन्द्रियानुप्रवेशेऽपि शाब्दतामस्य मन्यते
सूत्रकारः ॥


इह पुनः अव्यपदेश्यविशेषणपदोषादानेन शब्दानुप्रवेशप्रति
षेधात् न प्रत्यक्षमेतत् ज्ञानम् । तस्मादेवंविधव्यपदेश्य वज्ञान
व्यवच्छेदार्थमव्यपदेश्यपदमिति ॥


उक्तमतनिराकरणम्


तदेतत् व्याख्यातारो नानुमन्यन्ते—यद्युभयजं ज्ञानं अव्यप
देश्यपदेन व्युदस्यते, तदपि नाप्रमाणम्, अप्रमाणलक्षणातीतत्वा
दिति, प्रमाणं भवत् कस्मिन् अनुविशतामिति चिन्त्यम्—


ननु ! शाब्दमिदं ज्ञानं तद्भावानुविधानतः ।

भवत्वक्षजमप्येतत् तद्भावानुविधानतः ॥ ११ ॥

शाब्दं चोभयजं चेति विरुद्धमभिधीयते ।

प्रमाणान्तरमेव स्यात् इत्थं तदपि पूर्ववत् ॥ १२ ॥

तत्—तस्मात् । शब्द एवेति । प्रत्यभिज्ञायां हि संस्कारसहकृतमिन्द्रियं
करणमिति तत् प्रत्यक्षमुच्यते । तथाऽत्रापि इन्द्रियसहकृतः शब्द एव करणमिति
शाब्द एवायम् ॥


अत एव—कुत्रचित् शाब्दबोधविशेषे अंशतः इन्द्रियस्याप्यपेक्षणादेव ॥


शब्देन्द्रियोभयजन्यं प्रदर्शितं ज्ञानं कथं शाब्दम् ? एवं सति तस्य
प्रत्यक्षत्वमपि यदि निराक्रियते तर्हि पञ्चममेव ज्ञानमेतत् स्यात् । अत इदं
प्रत्यक्षमेवेति न तद्व्यावृत्त्यर्थं अव्यपदेश्यपदोपादानमिति युक्तमिति समाधत्ते—
तदेतदिति । अव्यपदेश्यपदेनेति । अव्यभिचारिपदेन वारणे हि तस्य
व्यभिचारित्वात् अप्रामाण्यमिति स्यात् । नेदानीं, तस्याव्यभिचरितत्वात् ॥


पूर्वोक्तमनुवदति—नन्विति । तद्भावः—इन्द्रियसद्भावः । पूर्ववत्—
भाष्यकारपक्षोक्तशब्दानुविद्धप्रत्ययवत् ॥


I.206

ननु ! लोकः शाब्दतामस्य व्यपदिशति—देवदत्तेनाख्यातं
पनसोऽयमिति
इति व्यवहारादित्युक्तम् । अहो ! लोकवत्सलः
श्रद्दधानो महानुभावः ! न खलु लोकस्य व्यपदेशैकशरणा वस्तु
स्थितयो भवन्ति । लोको हि यथारुचि व्यपदिशति । नानामुनि
जनसाधारणमपि तीर्थं नन्दिकुण्डमिति किं न श्रुतवान् भवान् ?


हन्त ! तर्हि सूत्रकाराशयमनुसरन्तः शाब्दमिदं ज्ञानं प्रति
पद्यामहे; यदयं सूत्रकारः प्रत्यक्षे शब्दानुप्रवेशव्यवच्छेदाय विशेषण
मिदमुपदिशति, शब्दे तु नेन्द्रियव्युदासाय किञ्चिद्विशेषणमुपादत्ते, स
पश्यति कारणान्तरानुप्रवेशेऽपि शाब्दमेतत् ज्ञानमिति । उच्यते—


मनुवत् सूत्रकारोऽपि न धर्मस्योपदेशकः ।

येनैतदनुरोधेन तस्य ब्रूयाम शाब्दताम् ॥ १३ ॥

वस्तुस्थित्या तु निरूप्यमाणमिन्द्रियान्वयव्यतिरेकानुविधायि
त्वादिदं विज्ञानं न प्रत्यक्षफलतामतिवर्तते । ततश्च व्युदस्यमानं
प्रमाणान्तरतामेव स्पृशेत् ॥


स्वमतेन अव्यपदेश्यपदप्रयोजनकथनम्


तस्मादुभयजज्ञानव्युदासानुपपत्तितः ।

व्याख्या भङ्ग्यन्तरेणास्य पदस्येयं विधीयते ॥ १४ ॥

असम्भवदोषव्यवच्छेदार्थमव्यपदेश्यपदोपादानम् । एवं हि
परो मन्यते—सति लक्ष्ये लक्षणवर्णनमुचितम् । इह तु


अहो इत्यादि । तेन हि व्यवहारेण संज्ञासंज्ञिसम्बन्धनिश्चयमात्रं, न तु
पनसप्रत्यक्षं तज्जन्यमित्यबधेयम् । इदं च उत्तरत्र २२० पु. स्पष्टीभविष्यति ॥


सूत्रस्वारस्यानुरोधेनास्य शाब्दत्वं ब्रूम इति पूर्वोक्तमेवानुवदति—
हन्तेत्यादि । सः—एवं वदन् सूत्रकारः । पश्यति—अभिप्रैतीति यावत् ।
मनुवदित्यादि । अयं भावः—शब्दैकसमधिगम्ये धर्मादौ शब्देन यथा
बोध्यते, तथैव प्रतिपत्तव्यम् । प्रत्यक्षविषयवस्तुविषयकविचारे तु यथाप्रमाणं
शब्दो नेय इति । व्युदस्यमानं—प्रत्यक्षेऽनन्तर्भाव्यमानम् ॥


I.207

लक्ष्यमाणं प्रत्यक्षमिन्द्रियार्थसन्निकर्षोत्पन्नं नाम न किञ्चिदस्ति ।
गौरित्यादिज्ञानानां शब्दावच्छिन्नवाच्यविषयत्वेन शाब्दत्वात् ।
इह हि विषयव्यतिरेकेण ज्ञानानामतिशयो दुरुपपादः, बोध
स्वभावस्य सर्वान् प्रत्यविशिष्टत्वात् । तत्र यथा दण्डीति शुक्ल
इति वा प्रत्ययो विशेषणावच्छिन्नविशेष्यविषयतया सातिशयत्व
मश्नुते, तथा गौरित्यादिप्रत्ययोऽपि वाचकावच्छिन्नवाच्यविषयत्वात्
सातिशयत्वं भजते; शब्दावच्छिन्नवाच्यविषयत्वाच्च शाब्द एष
प्रत्ययः, तद्व्यतिरिक्तकरणकार्यत्वानुपपत्तेः ॥


न हीन्द्रियकरणकमिदं ज्ञानं भवितुमर्हति, चक्षुषो विशेषणा
विषयत्वात्, विशेष्ये च श्रोत्रस्यासामर्थ्यात् । न च युगप
दिन्द्रियद्वयद्वारकमेकमुत्पद्यमानं ज्ञानं क्वचित् दृष्टम् ॥


तत्रैतत्स्यात्—मानसमिदं ज्ञानं सुगन्धिबन्धूकबोधवद्भविष्यति ।
उक्तमत्र—शब्दलिङ्गादिकरणान्तरव्यापारविरतौ कार्यमुपजायमानं
केवलमनःकरणमिति कल्प्यते, न तत्संभवेऽपि । तथा हि सति


अतिशयः—विशेषः । विशेषणेत्यादि । दण्डिनं शुक्लं च पुरुषं-दृष्ट्वा
कदाचित् दण्डीति, कदाचित्तु शुक्ल इति बुद्धिर्जायते । तत्र बुद्ध्योर्भेदः न
स्वरूपतः, उभयोरपि ज्ञानत्वात् । नापि विशेष्यभेदात्; तदभावात् । अत विशे
षणभेदादेव । शब्दश्च सर्वत्र विशेषणतया भासत एव । एवञ्च शब्दावच्छिन्नविष
यत्वात् ज्ञानानां शब्दैरेव सातिशयत्वं वक्तव्यमिति शाब्दमेव सर्वं ज्ञानम् इति ॥


ननु प्रत्यक्षे विषयस्यापि भानात्, तदंशे इन्द्रियापेक्षणात् प्रत्यक्षं तत्
कुतो न स्यात् इत्यत्राह—न हीत्यादि । विशेषणाविषयत्वात्—
शब्दाग्राहकत्वात् । विशेष्ये—घटादौ । ननु एवमपि विशेषण
विशेष्ययोरुभयोरपि इन्द्रियग्राह्यत्वमस्त्येवेति इन्द्रियद्वयजन्यं तत् ज्ञानं कुतः
प्रत्यक्षं न भवतीत्यत्राह—न चेति । युगपदिन्द्रियद्वयेन मनसस्सन्निकर्षा
संभवादित्यर्थः । युगपज्ज्ञानानुत्पत्तिर्मनसो लिङ्गम् इति हि सूत्रम् ॥


शङ्कते—तत्रेति । मानसमिति । सुरभि चन्दनमित्यादिप्रतीतिरपि
दृष्टान्ततया बोध्या । समाधत्ते—उक्तमिति । तत्संभवे—शब्दादिकरणा
न्तरसंभवे । तथा हि सति—शब्दादिकरणान्तरसन्निधानेऽपि केवलमानस
I.208

मानसमेवैकं प्रमाणं स्यादिति । अस्ति चात्र शब्द एव करणम् ।
स हि सहस्रकिरणवदात्मानं च विषयं च प्रकाशयति इति ।
तस्मादिन्द्रियविषयेऽपि गौरित्यादिज्ञानमुत्पद्यमानं शाब्दमेवे
त्यवधार्यते ॥


अतीतोऽपि शब्दः ज्ञानगोचरो भवेदेव


ननु ! सङ्केतावगमसमये गौरित्यादिशब्दः श्रुत आसीत् । स
इदानीमतिक्रान्त इति कथं तत्कृत एष प्रत्ययः स्यात्—उच्यते—
तदानीमश्रूयमाणस्य शब्दस्य स्मृत्यारूढस्य तत्प्रत्ययहेतुत्वात् ॥

तच्छ्रुतावपि किं सर्वे वर्णाः प्रत्यक्षगोचराः ।

विशेषः कोऽन्त्यवर्णेन गृहीतेन स्मृतेन वा ॥ १५ ॥

तदेवं स्मृतिविषयीकृतशब्दजनित एष प्रत्यय इत्यभ्युपेतव्यः ।
यथा परोक्षेऽपि शब्द उच्चरित आत्मानं प्रकाशयति, अर्थं च; तथा
प्रत्यक्षे विषये स एव स्मर्यमाणः आत्मानमर्थं च प्रकाशयतीति
वाचकावच्छिन्नवाच्यप्रतिभासश्चैवंविधासु बुद्धिषु नूनमेषितव्यः ।
यथाऽऽह भट्टःसंज्ञित्वं केवलं परम् इति ॥


संज्ञित्वमिति मत्त्वर्थीयप्रत्ययान्तादुत्पन्नः भावप्रत्ययः
संबन्धमाचष्टे । संज्ञासंज्ञिसंबन्धः संज्ञित्वमिति । 'कृत्तद्धितसमासेषु


त्वाङ्गीकारे । ननु विशेष्यांशे इन्द्रियस्यापेक्षणात् कथं शब्द एव
इतीत्यत्राह—स हीति । एवदुक्तं भवति । शब्दो हि श्रूयमाणः अर्थमप्युप
स्थापयेदेव । न तथा चक्षुः अर्थेन साकं शब्दमुपस्थापयेत् । एवञ्च
शब्देनैव विषयभानस्यापि निर्वाहे माऽस्त्विन्द्रियापेक्षा । शब्दविवर्ता एव
ह्यर्था इति ॥


तत्कृतः शब्दजन्यः । स्मृतेन शब्देन ज्ञानजनने मानसमेवेदं
संवृत्तमित्यत्राह—तच्छ्रुतावपीत्यादि । अयमर्थः—शब्दा हि द्विक्षणाव
स्थायिनः । अन्तिमवर्णश्रवणकाले पूर्वपूर्ववर्णा नष्टा एव । एवञ्च नष्टानां
वर्णानां स्मरणादेव बोधः सर्वत्र अनेकवर्णकपदस्थले वाच्य इति नायं दोष
इति । परोक्षेऽपीति । विषय इति शेषः ॥


I.209

सम्बन्धाभिधानं भावप्रत्ययेन' हरिटीका इत्याभियुक्तस्मरणात् ।
संज्ञा च शब्दः । सोऽयं शब्दविशिष्टार्थप्रतिभास उक्तो भवति ॥


न च शब्दानुसन्धानरहितः कश्चित् प्रत्ययो दृश्यते,
अनुल्लिखितशब्दकेष्वपि प्रत्ययेष्वन्ततः सामान्यशब्दसमुन्मेषसंभ
वात्, तदुल्लेखव्यतिरेकेण प्रकाशात्मिकायाः प्रतीतेरनुत्पादात् ।
तथाऽऽह भर्तृहरिः—

न सोऽस्ति प्रत्ययो लोके यश्शब्दानुगमादृते

अनुविद्धमिव ज्ञानं सर्वं शब्देन गृह्यते ॥ वाक्यपदीयं-1-24

इति । तस्मात् प्रत्यक्षस्य लक्ष्यस्याभावात् कस्येदं लक्षणमुप
क्रान्तमिति असंभवदोषमाशङ्क्याह सूत्रकारः—अव्यपदेश्यमिति ॥


अव्यपदेश्यपदेन शब्दानुवेधपक्षनिरासप्रकारः


यदिदं अविदितपदपदार्थसम्बन्धस्य ज्ञानमुत्पद्यते, विदित
सम्बन्धस्यापि वा यत् प्रथमाक्षसन्निपातसमय एव ज्ञानमनुल्लिखित
शब्दकं शब्दानुस्मरणे हेतुभूतमुपजायते, तत् अशब्दम्—अशब्दाव
च्छिन्नविषयमव्यपदेश्यमिन्द्रियार्थसन्निकर्षैककरणमविकल्पं प्रत्य
क्षम् । न च शब्दकृता बुद्धीनां प्रकाशस्वभावता, स्वत एव


ननु अज्ञातवाचकपदानां बालानामपि घटादिप्रत्यक्षं जायत एव । तत्
कथं सर्वत्र शब्दानुवेधः ? इत्यत्राह—न चेत्यादि । सामान्येति ।
अन्ततः वस्त्वादिशब्दानां भानादित्यर्थः । ननु वस्त्वादिपदमप्यजानानां
स्तनन्धयानां, पश्वादीनां च प्रत्यक्षे का गतिरिति चेत्, तत्रापि सूक्ष्मः शब्दः
भायात् कामम् । अथवा तेषां भ्रमादीनामिव लक्ष्यतैव मा भूत् ।
परीक्षकप्रत्यक्षस्यैव लक्ष्यत्वात् । अधिकमन्यत्र ॥


अविदितपदपदार्थसम्बन्धस्येति । स्तनन्धयादेरित्यर्थः । पूर्वोक्त
दिशा परीक्षकाणां प्रत्यक्षमेव लक्ष्यभूतमित्यङ्गीकारेऽप्याह—विदितसम्बन्ध
स्यापीति । अशब्दावच्छिन्नविषयं—शब्दानवच्छिन्नवस्तुविषयकम् । अत
एव—इन्द्रियार्थसन्निकर्षैककरणमिति । स्वत एव—शब्दानुवध
I.210

तासामेवंरूपत्वात् । न च निर्विकल्पकसमये यत्किञ्चिदिदमित्यादि
सामान्यशब्दोल्लेखः कोऽपि कैश्चिदनुभूयते । तस्मात् गौरि
त्यादिज्ञानानां शाब्दत्वेऽपि तथाविधस्य ज्ञानस्य लक्ष्यस्य
सद्भावात् न व्यर्थं लक्षणमित्येवमसंभवदोषनिराकरणार्थमव्यप
देश्यपदमिति ॥


गौरित्यादिज्ञानानां न शाब्दत्वम्


तदेतदाचार्या न क्षमन्ते । न गौरित्यादिज्ञानमिन्द्रियार्थ
सन्निकर्षोत्पन्नमपि इदं शाब्दमिति वक्तुं युक्तम् । न चात्र
शब्दावच्छिन्नार्थः प्रकाशते, तथाविधार्थग्रहणे कारणाभावात् ।
विशेष्यार्थप्रमितौ तावत् शब्दः करणम् । विशेषणीभूतस्य तु
शब्दस्य ग्रहणे किं करणमिति निरूप्यताम् । न श्रोत्रम्, विरम्य
व्यापारासंवेदनात् । सम्बन्धग्रहणादूर्ध्वं च स्मर्यमाणशब्दयोज
नया जायमाने गौरित्यादिज्ञाने श्रोत्रं करणमाशङ्कितुमपि न युक्तम् ।
नापि मनः बाह्यकरणनिरपेक्षं बाह्ये विषये धियमाधातुमलम्,
अन्धाद्यभावप्रसङ्गात् ॥


ननु शब्द एव करणमित्युक्तम्, तत् किमपरकरणाशङ्कनेन ?
मैवम्—एकस्य कारकस्य एकस्यामेव क्रियायां कर्मकरणभावा
नुपपत्तेः । सवितृप्रकाशवत् इति चेत्, न, क्रियाभेदात् ।


मन्तराऽपि । एवं रूपत्वात्—प्रकाशस्वरूपत्वात् । अनुल्लिखितशब्दकेष्वपि
इत्युक्तं प्रतिवक्ति—न चेति । तथाविधस्य—शब्दाननुविद्धस्य प्रत्यक्षस्य ॥


गौरित्यादिज्ञानानां...शाब्दत्वात् इत्युक्तिरेवायुक्तेतिवादिनो मतमाह—
तदेतदिति । न युक्तं इत्यन्वयः । विरम्येति । विशेष्यग्रहणाय
प्रवृत्तस्य इन्द्रियान्तरव्यापारस्य विच्छित्तिं विना श्रोत्रेन्द्रियव्यापारो न हि
भवेत्, विच्छित्तिस्तु नानुभूयत इत्यर्थः । आशङ्कितुमपीति । शब्दस्मरणे
सर्वथा श्रोत्रानपेक्षणादित्यर्थः । अन्धादीति । विनैव चक्षुः मनसैव
रूपादिग्रहणसंभवादिति हेतुः ॥


कर्मकरणभावेत्यादि । शब्दो हि प्रतीतौ विशेषणतया भासते इति
कर्मत्वं सिद्धम्, तर्हि तस्यैव करणत्वं कथमित्यर्थः । सवित्रिति । सूर्य
I.211

यत्रासौ करणं, न तत्र कर्म; यत्र वा कर्म, न तत्र करणमिति ।
घटादिविषयप्रमितिजन्मनि करणमेव तरणिप्रकाशः, न कर्म;
तद्ग्रहणकाले तु कर्मैवासौ, न करणम् ॥


किं तर्हि तत्र करणमिति चेत्, केवलमेव चक्षुरिति ब्रूमः ।
आलोकग्रहणे चक्षुषः प्रकाशान्तरनिरपेक्षत्वात् कथमेवमिति
चेत्, अपर्यनुयोज्या हि वस्तुशक्तिः । घटादिग्रहणे चक्षुरुद्योत
मपेक्षते, नोद्योतग्रहण इति कमनुयुञ्ज्महे । सोऽयं सूर्यप्रकाशः
प्रकाशान्तरनिरपेक्षचक्षुरिन्द्रियप्रथमगृहीतः चिरमवतिष्ठमानः
तदिन्द्रियग्राह्य एव विषये गृह्यमाणे करणतामुपयातीति युक्तम् ॥


शब्दस्तु क्षणिकः श्रोत्रेन्द्रियग्राह्यः तदितरपरिच्छेद्ये विषये
तदवगमक्रियायां करणीभूय, भूयस्तस्यामेव क्रियायां कथमिव
कर्मभावमनुभवेत् । शब्दो हि धूमादिवदुपाय एव, नोपेयः । स उपाय
त्वात् प्रथमं गृह्यतां नाम; नोपेयग्रहणकाले पुनर्ग्रहणमर्हति—
धूमवदेवेति । एवं स्मर्यमाणोऽपि शब्दो यत्रार्थप्रतीतिकारणं
तत्रापि प्रथमं शब्दस्मरणं, ततः शब्दार्थसम्प्रत्ययो भवति । न तरां
तत्रार्थप्रतीतिवेलायां शब्दग्रहणं संभाव्यते । तस्मात् नास्ति
वाचकविशेषितवाच्यप्रतिभासः ॥


सन्निप्रकाशो हि स्वप्रत्यक्षे स्वयमेव हेतुः, एवञ्च स्वस्य कर्मत्वं करणत्वं च
सिद्धमेवेति । क्रियाभेदमुपपादयति—यत्रेत्यादि । तद्ग्रहणकाले—प्रकाश
ग्रहणकाले । घटादिग्रहणकाले तु करणमेवेत्यर्थः ॥


तत्र—प्रकाशग्रहणे । केवलं—प्रकाशनिरपेक्षम् । कथमेवं—घटादयो
हि प्रकाशसापेक्षेणेन्द्रियेण गृह्यन्ते, प्रकाशस्तु प्रकाशनिरपेक्षेणैवेन्द्रियेण गृह्यत
इति कथमित्यर्थः । नन्वथाऽपि स्वग्रहणकाले कर्मणः प्रकाशस्य घटादिग्रहणं प्रति
वा कथं करणत्वम् ? घटग्रहणकाल एव प्रकाशग्रहणस्यावश्यकत्वात् । एवञ्च
प्रकाशघटयोः एकदैव ग्रहणेन प्रकाशस्य तदैव कर्मत्वं करणत्वं चावर्जनीयमिति
शङ्कां, कालभेदेन क्रियाभेदमुपपादयन्नपाकरोति—प्रथमगृहीत इत्यादि ॥


शब्दे तु न तथा कालभेदेन क्रियाभेदोपपादनं संभवतीत्याह—शब्दस्तु
क्षणिक इति ॥


I.212

अपि च गौरित्यादिज्ञानं इन्द्रियार्थसन्निकर्षान्वयव्यतिरेकानु
विधायि प्रसभं तत्कथं शाब्दमित्युच्यते ॥


शब्दस्मरणसापेक्षं यस्योत्पादकमिन्द्रियम् ।

तदेव यदि ते शाब्दं अहो नैयायिको भवान् ! ॥ १६ ॥

ऐन्द्रियिकप्रत्यक्षेऽपि शब्दभानसंभवः


ननु ! शब्दावच्छिन्नमर्थं न चक्षुःश्रोत्रयोः अन्यतरदपि करणं
ग्रहीतुमलमित्युक्तम् । भोः साधो ! चक्षुरेवैनं ग्रहीष्यतीति कथं न ब्रूषे ?


ननु ! नाविषये युक्तमिन्द्रियस्य प्रवर्तनम् ।

तेन शब्दविशिष्टार्थज्ञानं नेन्द्रियजं ब्रुवे ॥ १७ ॥

मरीचिषु जलज्ञानं कथमिन्द्रियजं तव ?

तत्रापि हि न तोयेन सन्निकर्षोऽस्ति चक्षुषः ॥ १८ ॥

ननु ! च स्मृत्युपारूढं उदकं तत्र गृह्यते ।

इहापि स्मृत्युपारूढः शब्दः कस्मान्न गृह्यते ! ॥ १९ ॥

ननु ! शब्दो न नेत्रस्य कदाचिदपि गोचरः ।

प्रसभमुच्यते इत्यन्वयः । शब्दस्मरणसापेक्षमिन्द्रियं यस्योत्पादक
मित्यन्वयः । नैयायिक इति । विचारचतुर इति यावत् । अथवा
एकदेशिभिः पूर्वं गौरित्यादिज्ञानानां शाब्दत्वेऽपि इत्यनेन शब्दानुवेधस्य
कुत्रचिदङ्गीकारादेकदेशी वा नैयायिकः ॥


पूर्वं न हीन्द्रियकरणकमिदं इत्यादिनोक्तमाशङ्क्य समाधत्ते—
नन्वित्यादिना ॥


अविषये—स्वाविषये—स्वेन गृहीतुमशक्य इति यावत् । विशेष्य
विशेषणयोरुभयोरपि इन्द्रियेण, तत्रापि एकेनैव ग्रहणमिति नायं नियम इति
स्फुटयितुं सिद्धान्ती पृच्छति—मरीचिष्विति । पूर्वपक्षी समाधत्ते—
नन्विति । ममापि तथैवेत्याह—तत्रापीति । स्मृत्युपारूढं—स्मृत्यु
पस्थापितम् । कदाचिदपीति । मरीचिर्हि चक्षुर्योग्यः, शब्दस्तु न तथेत्यस्ति
वैषम्यमित्यर्थः । इदं वैषम्यमप्रयोजकं, चक्षुर्योग्यमपि सर्वं सर्वत्र न हि
भासते, तत्र असतोऽपि घटस्य तत्र भानप्रसङ्गात् । अतः इन्द्रिय
I.213

असन्निहितमप्यम्बु किं वा भवति गोचरः ? ॥ २० ॥

ननु ! एकेन्द्रियवादः स्यात् चक्षुषा शब्दवेदने ।

अत्रापि सर्वबोधः स्यात् असन्निहितवेदने ॥ २१ ॥

प्रत्यक्षं इन्द्रियासन्निकृष्टवस्तुविषयकमपि भवति


ननु च ! मरीचिजलज्ञानं भ्रान्तमिति कथमिह दृष्टान्ती
क्रियते ?


कथमस्य भ्रान्तत्वम् ? किमनिन्द्रियजत्वात् ? उत व्यभि
चारित्वात् ? तत्रानिन्द्रियजत्वेनास्य भ्रान्ततायां इन्द्रियार्थसन्नि
कर्षोत्पन्नपदेनैव निरासात् अव्यभिचारिपदमनुपादेयमिति ।
तदुपादानात् व्यभिचारित्वेनास्य भ्रान्तत्वमिति नूनमिदमिन्द्रियज
मसन्निहितसलिलज्ञानमभ्युपगन्तव्यम् ॥

यथा चाविषये तस्मिन् नीरे नयनजा मतिः ।

तथा वाचकसंस्पृष्टे वाच्ये किमिति नेष्यते ? ॥ २२ ॥

यथा च तव कालादि नीरूपमपि चाक्षुषम् ।

तथा शब्दानुरक्तोऽपि किमित्यर्थो न चाक्षुषः ? ॥ २३ ॥

एवं हि इन्द्रियव्यतिरेकानुविधानमत्र न बाधितं भविष्यति ।


ननु ! चाक्षुषतां शब्दे न जीवन् वक्तुमुत्सहे ।

त्यजैनं वाचकोपेतवाच्यावगमदुर्ग्रहम् ॥ २४ ॥

सन्निकृष्टमेव भासत इति वक्तव्यम् । तच्च मरीचिषु शब्दे च समानम् । अतः
ज्ञानलक्षणाप्रत्यासत्त्यैवोभयमपि निर्वाह्यमिति न पर्यनुयोगावकाश इति
समाधत्ते—असन्निहितमित्यादिना ॥


अविषये—इन्द्रियासन्निकृष्टे । तस्मिन् नीरे—मरीचिकाजले ।
कालादीति । इदानीं घट इत्यादाविति शेषः । इन्द्रियेत्यादि । इन्द्रिया
भावेऽपि जायमानत्वं न प्रत्यक्षत्वबाधकम् । विशेष्येन्द्रियसन्निकर्षेणैव
प्रत्यक्षत्वनिर्वाहात्, प्रत्यभिज्ञावदिति । एवञ्च भ्रान्तिज्ञानस्य, इन्द्रिया
सन्निकृष्टभानांशमात्रे प्रकृतोदाहरणमिति भावः । प्रसभमुष्यते इति स्वोक्ति
सत्यापयति—नन्विति । समाधत्ते—त्यजेति । दुर्ग्रहः—दुराग्रहः ॥


I.214

गौरयम् इत्यादिज्ञानानां शाब्दत्वासंभवः


अपि चामुष्य शाब्दत्वे सम्बन्धग्रहणं कथम् ?

न चागृहीतसम्बन्धः शब्दो भवति वाचकः ॥ २५ ॥

निर्विकल्पकविज्ञानविषये न च तद्ग्रहः ।

शाब्दपक्षे तु निक्षिप्तं भवता सविकल्पकम् ॥ २६ ॥

सम्बन्धः शक्यते बोद्धुं न च मानान्तराद्विना ।

शाब्दज्ञानेन तद्बोधे भवेदन्योन्यसंश्रयः ॥ २७ ॥

न च शब्दोपरक्तेऽर्थे सम्बन्धं बुद्ध्यते जनः ।

गोशब्दवाच्यो गोशब्द इति हि ग्रहणं भवेत् ॥ २८ ॥

वाच्यस्य हि गवादेः गोशब्दविशेषितस्य वाच्यत्वात् वाच्योऽर्थ
इव गोशब्दोऽपि वाच्यतामवलम्बते ॥


यदि च स्वानुरागेण वाचकात् वाच्यवेदनम् ।

लिङ्गादपि भवेत् बुद्धिः स्वावच्छेदेन लिङ्गिनि ॥ २९ ॥

अथ धूमान्वितत्वेन न वह्निरवगम्यते ।

इहापि शब्दयोगेन गवादिर्नैव गम्यते ॥ ३० ॥

सम्बन्धः—शक्तिः । निर्विकल्पेत्यादि । अयं भावः—सविकल्पकः
सर्वोऽपि हि भवतां शब्दानुबिद्ध एव । तत्र शब्दस्य शक्तिग्रहणं न निर्विकल्प
केन, तस्य बालमूकादिविज्ञानसदृशत्वात् । नापि सविकल्पकान्तरेण,
अनवस्थानात् । नापि तेनैव, आत्माश्रयात् । नापि वाक्यादिना सम्बन्धबोधः,
सम्बन्धज्ञाने जाते वाक्यप्रयोगः, वाक्यप्रयोगे सति सम्बन्धज्ञानमित्यन्योन्या
श्रयात् । अतः गौरयं इत्यादिः न शाब्दप्रत्यय इति । अनुभवविरोधश्च;
वाच्यस्य—अर्थस्य हि गोशब्दविशेषितस्यैव भानमिति गोशब्दविशिष्टस्य
गोशब्दवाच्यत्वे विशेषणस्य गोशब्दस्यापि गोशब्दवाच्यत्वप्रसङ्ग इति ॥


यदि चेत्यादि । वाचकात्—शब्दात् वाच्यस्य वेदनं—बोधनं स्वानु
रागेण—स्वोपरक्तत्वेन—स्वावच्छिन्नत्वेनैव यदि इत्यन्वयः । शब्दः स्वावच्छिन्न
मेवार्थं बोधयेद्यदीति शङ्कार्थः । प्रतिबन्द्या समाधत्ते—लिङ्गादपीति ।
शङ्कते—अथेति । समाधत्ते—इहापीति । ननु वाच्यत्वं हि वस्तुधर्मः,
वस्तुनो वाच्यत्वात् । अतः वस्तुनो भाने तद्धर्मस्यापि भानं युक्तमिति नेयं,
I.215

न चास्ति वस्तुनो धर्मो वाच्यता नाम कश्चन ।

यदि स्यात्, निर्विकल्पेऽपि प्रतिभासेत रूपवत् ॥ ३१ ॥

अर्थासंस्पर्शिनः शब्दान् कथयन् दुष्टसौगतः ।

प्रत्यक्षास्त्रेण भेत्तव्यः स कथं हन्यते त्वया ॥ ३२ ॥

प्रत्यक्षविषये वृत्तिः शब्दानां भवतः कुतः ?

तेषां यद्विषये वृत्तिः तद्धि शाब्दीकृतं त्वया ॥ ३३ ॥

सर्वत्र वाचकभानाङ्गीकारे शब्दविवर्तवादावतारः स्यात्


अपि च—विषयभेदेन प्रतिभासभेदो भवतीति दुराशया
शब्दविशिष्टमर्थं निर्विकल्पात् सविकल्पस्य विषयमधिकं पश्यति
भवान् ! अनेनैव च वर्त्मनाऽवतरन् परं शब्दाध्यासं न पश्यतीति
कोऽयं व्यामोहः ? स त्वं वचनीयोऽसि संवृत्तः—मधु पश्यसि
दुर्बुद्धे ! प्रपातं नैव पश्यसि
इति ॥


तस्मात् गौरिति विज्ञानं प्रत्यक्षमवधार्यताम् ।

शब्दस्मरणसापेक्षचक्षुरिन्द्रियनिर्मितम् ॥ ३४ ॥

प्रतिबन्दी युक्तेतिशङ्कां परिहरति—न चेत्यादिना । रूपवत्—वस्तुस्वरूपवत् ।
अथवा, विशिष्टबुद्धिं प्रति विशेषणज्ञानस्य कारणत्वात् प्राथमिके निर्विकल्पके
नीलरूपादिग्रहणानन्तरमेव नीलो घटः इति प्रतीत्या, रूपपदं नीलादिपरं वा ।
अथ शब्दानुविद्धसर्वप्रत्ययवादे बाधकमाह—अर्थेति । अर्थशून्यस्यापि
शशशृङ्गादिशब्दस्य दर्शनात्, सर्वोऽपि शब्दः तथा कुतो न स्यात् इति वादी
बौद्धः—शब्दं विनाऽपि घटाद्यर्थानां प्रत्यक्षसिद्धत्वात् अर्थाः नापलपितुं शक्याः
इति खलु निग्राह्यः । एवञ्च प्रत्यक्षसिद्धं कञ्चनार्थं प्रसाध्य तत्र शब्द
प्रवृत्तिरुपवर्णनीया । प्रत्यक्षस्यापि भवता शाब्दत्वं यद्यङ्गीक्रियते, तर्हि
शब्दप्रतीतिरेवार्थप्रतीतिर्जातेति शब्दातिरिक्तार्थसद्भावे भवता प्रमाणं दुरुपपादं
स्यात् ॥


अनेनैवेति । यदि सविकल्पकं सर्वमपि शब्दानुविद्धमेव तर्हि तथैव
वाक्यपदीयोक्तदीशा शब्दाध्यासप्रसङ्ग । त्यर्थः । प्रपातः—प्रपातस्तु तटो
I.216

मानसत्वं तु यद्यस्य नेष्यते युक्तमेव तत् ।

तद्भावानुविधायित्वात् बाह्येन्द्रियजमेव तत् ॥ ३५ ॥

सविकल्पके शब्दानुवेधाभावे निर्विकल्पकादवैलक्षण्यापादनम्


अत्र पुनः प्रवराः प्राहुः—ननु ! एवं गौरित्यादिबोधेषु वाचका
वच्छिन्नवाच्यप्रतिभासे सर्वप्रकारमपाक्रियमाणे प्रथमाक्षसन्निपात
समयसमासादितसद्भावनिर्विकल्पकवेदनवैलक्षण्यं कथमेषां भवेत् ।
न हि विषयातिशयमन्तरेण प्रतिभासातिशयो भवितुमर्हति । दण्डीति
दण्डविशिष्टः पुरुषः प्रतिभासते, इतरथा न केवलपुरुषप्रतीतेरेषा
प्रतीतिर्विशिष्यत । उभयप्रतिभासेऽपि न दण्डपुरुषाविति
प्रतीतेः । विशेषणविशेष्यभावस्य नियामकत्वात् ॥


पूर्वापरचिरक्षिप्रक्रमाद्यवगमेष्वपि ।

दिक्कालादिविशिष्टोऽर्थः स्फुरत्यतिशयग्रहात् ॥ ३६ ॥

प्रत्यक्षः किं स कालादिः ? प्रतीतिं पृच्छ, किं मया ?

गृह्यते तद्विशिष्टोऽर्थः, स च नेत्येतदद्भुतम् ॥ ३७ ॥

भृगुः । मधुग्रहणलोभात् अधस्स्थितं महागर्तमपि न जानासीत्युपहासः ।
तद्भावः—बाह्येन्द्रियसद्भावः ॥


सर्वप्रकारं इति क्रियाविशेषणम् । विषयातिशयः—विषयवैलक्षण्यम् ।
एषा—दण्डविशिष्टपुरुषविषयिणी । न विशिष्येतेत्यन्वयः । दण्डपुरुषोभय
विषयत्वमेव प्रत्येकविषयकप्रतीतेर्वैलक्षण्यमित्यपि न युक्तमित्याह—उभयेति ।
दण्डपुरुषाविति प्रतीतेः दंण्डीति प्रतीतिर्न विशिष्येतेत्यन्वयः । किं तर्हि तत्र
नियामकमित्यत्राह—विशेषणेत्यादि ॥


पूर्वापरशब्दौ दैशिकपरत्वापरत्वपरौ । चिरक्षिप्रशब्दौ कालिकपरत्वा
परत्वपरौ । क्रमः—कारणकार्ये । दिक्कालसमवायानां यथासंख्यं निदर्शनम् ।
एतादृशप्रत्ययेष्वपि अन्ततः तत्तत्कालादीनां वा विशेषणतया भानादस्त्येव
विषयवैलक्षण्यमिति । मयेति । पृष्टेनेति शेषः । कालादिविशिष्टोऽर्थः
गृह्यते, स तु कालादिः न गृह्यत इत्येतदत्यद्भुतम् । विशेषणाग्रहणे कथं
तद्विशिष्टबुद्धिः स्यादित्याशयः । दिक्कालयोः प्रत्यक्षत्वं वक्ष्यति अनुमान
परीक्षायाम् ॥


I.217

कालवत् समवायोऽपि प्रत्यक्षः


एतेन समवायेऽपि प्रत्यक्षत्वं प्रकासितम् ।

इहेति तन्तुसम्बन्द्धपटप्रत्ययदर्शनात् ॥ ३८ ॥

अयं पट इति प्रत्ययात् इह तन्तुषु पट इति विलक्षण एष
प्रत्ययः । तन्तुपटसम्बन्धस्य विशेषणस्याप्रत्यक्षतायां न केवलपट
प्रत्ययात् विशिष्येतेति ॥


सामग्रीभेदमात्रान्न प्रतीतिभेदः


अथ मतं—उपायभेदात् प्रतीतिभेदो भवति; दूराविदूरदेश
व्यवस्थितस्थाण्वादिपदार्थप्रतीतिवत्, संस्कृतासंस्कृताक्षकरण
विषयबोधवद्वेति—तदसांप्रतम्—उपायभेदेऽपि तद्भेदासिद्धेः ।
उपायो बुद्धावतिशयमादधाति, न विषये ॥


विषयावगतिसमये च न बुद्धिरवभातीति नैयायिकाः ।
तदयमतिशयः यदधिकरणः, सा न प्रतिभासते बुद्धिः; यच्च
तदानीमवभासते विषयः, तत्रातिशयो नास्ति; दृश्यते चातिशय
संवेदनमिति सङ्कटः पन्थाः । न च दूराविदूरदेशवर्तिनि पदार्थे
प्रतीतिरुपायभेदात् भिद्यते । साऽपि हि विषयभेदादेव भिद्यते ॥


केवल पटप्रत्ययादिति । एष प्रत्यय इत्यनुकर्षः ॥


सिद्धान्तिच्छायया-शङ्कते—अथ मतमिति । देशस्यापि प्रतीत्युपाय
त्वात्—दूरेत्यादि । भेदासिद्धिमुपपादयति—उपाय इति । वह्निविषयकमेव
प्रत्यक्षमनुमानं च, न हि तत्र विषये विशेषः इत्यर्थः ॥


ननु बुद्ध्यधीनमेव विशेषं—अन्ततः प्रत्यक्षत्वपरोक्षत्वादिरूपं—विषये
ब्रूमः—इति चेत्—तत्राह—विषयेति । न ह्येकस्मिन्नेव समये ज्ञानार्थयोः
प्रतिभासः संभवी, अननुभवात् । लोके अयं घट इत्यादिप्रतिभासकाले, अयं
अर्थस्य आकारः, अयं ज्ञानस्येति न विविच्यानुभूयते । अतोऽयमन्यतर
प्रतिभास एवेति, अर्थप्रतीतिकाले न ज्ञानप्रतीतिः, ज्ञानप्रतीतिकाले च
नार्थप्रतीतिः, आकारद्वयाप्रतीतेरिति अभ्युपगन्तव्यमित्यर्थः । इदं सर्वमभ्युप
गम्योक्तमित्याह—न चेति ॥


I.218
दूराद्धि वस्तुसामान्यं धर्ममात्रोपलक्षितम् ।

अदूरतस्तु विस्पष्टविशेषमवसीयते ॥ ३९ ॥

यथा माधेन वर्णितम् शिशुपालवधे १-३


चयस्त्विषामित्यवधारितं पुरा

ततः शरीरीति विभाविताकृतिम् ।

विभुर्विभक्तावयवं पुमानिति

क्रमादमुं नारद इत्यबोधि सः इति ॥

क्रियान्तराणां वैचित्र्ये यद्वा तद्वाऽस्तु कारणम् ।

भेदो ज्ञानक्रियायास्तु कर्मभेदनिबन्धनः ॥ ४० ॥

उपायभेदादेव निर्विकल्पकसविकल्पकवैलक्षण्यम्


तदेतदाचार्याः प्रतिसमादधते—न विषयभेदादेव प्रतिभास
भेदः, किन्तु उपायभेदात् भवत्येव ॥


यच्च चोदितम्—विषयप्रतिभासकाले तत्प्रतिभासाप्रतिभासात्
अतिशयवचने सङ्कटः पन्था इति—तदविदितनैयायिकदर्शनस्यैव
चोद्यम् । ज्ञानोत्पाद एव विषयस्य प्रत्यक्षतेति नो दर्शनं, न ज्ञान
ग्रहणमिति । तत्र यथा पुरुष इति निरतिशयज्ञानमात्रोत्पादे
तावन्मात्रविषयप्रत्यक्षता भवति, न तत्र ज्ञानं प्रकाशते, अगृह्य
माणेऽपि ज्ञाने विषय एव प्रतिभासते; एवं दण्डीति, शुक्लवासा
इति विशेषणज्ञानाभ्युपायवशात् सातिशयप्रत्ययजनने तदग्रहणे
स एव विषयोऽवभासते इति कियानेष सङ्कटः पन्थाः ! तथा च


धर्ममात्रेति । धर्मसामान्येत्यर्थः । ननु छेदनभेदनादिक्रियासु
उपायाधीन एव भेदो दृष्ट इति शङ्कायामाह—क्रियान्तराणामिति ॥


उपायभेदादेव इत्यन्वयः ॥


तत्प्रतिभासेति । अर्थविषयकज्ञानप्रतिभासेत्यर्थः । न ज्ञानेति ।
ज्ञानं स्वयं गृहीतमेवार्थं प्रत्याययतीति नेत्यर्थः । एवञ्च ज्ञानाप्रतिभासेऽपि
विषयप्रतिभासाङ्गीकारे न बाधकमित्यर्थः । तदेवोपपादयति—तत्रेति ।
निरतिशयेति । दण्डी पुरुष इति ज्ञानापेक्षयेत्यर्थः । तावन्मात्रेति ।
पुरुषमात्रेत्यर्थः । तदग्रहणे—प्रत्ययाग्रहणे । स एव—सातिशय एव—दण्डोपरक्त

I.219

दण्डीति पुरुषप्रवणैव मतिः । को दण्डी पुरुषः ? कः पुरुषो दण्डी ?
इति सामानाधिकरण्येन निस्सन्दिग्धस्य पुंस एव प्रतिभासात् ।
एवं दण्डिनं भोजय, दण्डिने देहीति भोजनादिकार्ययोगित्वं न दण्डे
दृश्यते, अपि तु पुंस्येव ॥


विशिष्टबुद्धेः विशेष्यप्रवणत्वम्


ननु ! दण्डी पर्वतमारोहतीति दण्डेऽपि कार्यान्वयो दृश्यते
लोके; वेदेऽपि दण्डी मैत्रावरुणः प्रैषानन्वाह इति प्रैषानुवंचनस्य
वचनान्तरतः प्राप्तेः दण्डविधानार्थमेतद्वाक्यं भवति । यथा
लोहितोष्णीषा ऋत्विजः प्रचरन्ति इति श्येनादौ ऋत्विजां प्रकृति
वद्भावेन प्राप्तानां लोहितोष्णीषविधानमात्रमेतत् भवति—उच्यते—
भवत्वेवं, किन्तु, दण्डमबलम्ब्य पुरुषः पर्वतमाहति, न दण्डो
निश्चेतनः । वेदेऽपि दण्डपाणिः पुरुषः प्रेषाननुभाषत, न दण्डः;
न लोहिता उष्णीषाश्चरन्ति, किन्तु अन्यपदार्थीभूता ऋत्विज एवेति
सर्वत्र विशेष्यप्रवणैव मतिः । उभयप्रतिपादने तु दण्डपुरुषाविति
स्यात्, न दण्डीति ॥


विशेषणविशेष्यभावस्य नियामकत्वादिति चेत्, सेयं विशेष्य
प्रवणा मतिरुक्तैव, भवति, विशेषणस्य विशेषणत्वेनैवोपसर्जन
त्वात् । दण्डः अस्य अस्तीति पुरुष एवोच्यते, न दण्डपुरुषौ ॥


एवं पूर्वापरादिप्रत्ययाः, चिरक्षिप्रादिप्रत्ययाः, इह तन्तुषु पट
इत्यादिप्रत्ययाश्च दिक्कालसमवायग्राहिणः । त इमे दिक्काल
समवायाः सामग्र्यन्तर्गतास्सन्तः प्रत्ययातिशयमादधति, न तद्विषयी
भवन्ति पटादिद्रव्यवत् ॥


दण्ड्येवेति यावत् । पुरुषप्रवणैवेति । न तु दण्डप्रवणेत्यर्थः । तत्र
प्रमाणमाह—को दण्डीत्यादि ॥


लोहितोष्णीषा इत्यस्य बहुव्रीहित्वात्—अन्यपदार्थीभूता इति ।
उभयप्रतिपादने—विशेषणविशेष्ययोरुभयोरपि समप्राधान्येन प्रतिपादने ॥


दिक्-काल-समवायाः—यथासंख्यं उक्तप्रतीतित्रयविषयाः । सामग्र्य
न्तर्गता इति । तेषां तत्र विषयत्वादित्यर्थः । न तद्विषयीभवन्ति—
केवलघटप्रतीत्यपेक्षया इह इदानीं घटः इति प्रतीतेर्वैलक्षण्यात् ॥


I.220

एवं पतनाद्यनुमेयगुरुत्वादिकारणभेदजनिताः गुरुः पाषाणः
इत्यादिप्रत्ययाः परोक्षविशेषणं विशष्यमवलम्बन्ते इत्यलं विस्तरेण ॥


तस्मात् गौरित्यादिज्ञानं न वाचकावच्छिन्नवाच्यविषयम् ।
अतश्च न शाब्दं तत् । अपि तु सुस्पष्टं प्रत्यक्षमेव । तस्मिंश्च लक्ष्ये
सति लक्षणवैयर्थ्यशङ्काकरणाभावात् नासंभवदोषनिराकरणार्थ
मव्यपदेश्यपदम् ॥


स्वमतेन अव्यपदेश्य पदप्रयोजनवर्णनम्


किमर्थं तर्हीदमस्तु ? उक्तमाचार्वैः—उभयजज्ञानव्यवच्छेदार्थ
मिति ॥


वाचकावच्छिन्नवाच्यविषयकं ज्ञानं शाब्दमेव


ननु ! तदपि प्रत्यक्षमेवेति; अनपोह्यमुक्तम् । पुरोवस्थित
गवादिपदार्थस्वरूपमात्रग्रहणनिष्ठितसामर्थ्यमत्र प्रत्यक्षम् । गोशब्द
वाच्यतायां तु संज्ञाकर्मोपदेशी शब्द एव प्रमाणम् ॥


यद्यपि शब्दार्थसम्बन्धपरिच्छेदे गत्यन्तरमपि संभवति; तथापि
यत्र तावत् संज्ञिनं निर्दिश्य संज्ञा वृद्धैरुपदिश्यते—गोशब्दवाच्योऽयं,
पनसशब्दवाच्योऽयमिति, तत्र तद्वाच्यतापरिच्छेदे स एव करणम् ॥

अत एव च लोकोऽपि शाब्दत्वमिह मन्यते ।

शब्दोपरचितापूर्वज्ञानातिशयतोषितः ॥ ४१ ॥


अतीन्द्रियस्यापि अनुमितस्य विशेषणतया भानं युक्तमित्याह—एवमिति ।
परोक्षविशेषणमिति बहुव्रीहिः । परोक्षार्थस्य प्रत्यक्षे भानं तु ज्ञानलक्षणया
प्रत्त्यासत्त्या, मनसा वेति वक्ष्यते ॥


उभयजं—शब्देन्द्रियजं पूर्वमुपपादितं अयं पनसः इति ज्ञानम् ॥


अनपोह्यं—निह्नोतुमशक्यम् । अनपोह्यत्वं विषयांश एवेत्याह—पुर
इति । पदाथस्वरूपेति । विशेष्यस्वरूपेति यावत् ॥


गत्यन्तरम्—ज्ञानलक्षणप्रत्यासत्तिरूपम्, मन एव वा । सः—शब्दः ॥


उभयजज्ञानं यदि न प्रत्यक्षं, तर्हि किंरूपमित्यत्राह—अत इत्यादि ।
शाब्दत्वे हेतुः—शब्दोपरचितेत्यादि । इदं च लोकस्य विशेषणम् ।
I.221

तच्छब्दवाच्यताज्ञप्तिः विना संज्ञोपदेशिनः ।

शब्दान्नेति स एवात्र सत्यप्यक्षे प्रकर्षभाक् ॥ ४२ ॥

अतः सूत्रकृताऽप्यत्र शब्दातिशयदर्शिना

व्यधायि तद्व्यवच्छेदः न तु धर्मोपदेशिना ॥ ४३ ॥

तस्मात् उभयजज्ञानव्यवच्छेदार्थमेवेदं पदमिति ॥


भाष्योक्तस्य अव्यपदेश्य पदप्रयोजनस्य समर्थनम्


अन्ये तु मन्यन्ते—यदि सङ्केतग्रहणकाले भाविनः संज्ञोपदेशक
वचनजनितस्योभयजज्ञानस्य व्यवच्छेदकमिदं वर्ण्यते पदम्, तदा
तद्व्यवहारकालेऽपि यत् अयं गौः इति सङ्केतग्रहणकालानुभूत
देवदत्ताद्युदीरितसंज्ञोपदेशकवचनस्मरणपूर्वकं विज्ञानमुत्पद्यते,
तदप्युभयजमेवेति कथमनेन न व्युदस्यते ॥


ननु ! तत्र शब्दस्मरणं कारणं, न शब्दः । सङ्केतकालेऽपि शब्द
स्मरणमेव कारणम् । न हि क्रमभाविनो वर्णा युगपदनुभवितुं पार्यन्ते ।


एतदेवोपपादयति—तदिति । संज्ञोपदेशिनः—वृद्धस्य शब्दाद्विना
तच्छब्दवाच्यताज्ञप्तिः शब्दात् न, इति—इति हेतोरित्यन्वयः । प्रकर्ष
इति । प्रकर्षो हि कालदेशपुरुषविशेषाद्यपेक्षक इत्यर्थः । तथा चायं शाब्द
एवेति भावः । न तु धर्मोपदेशिनेति । धर्मो हि न तर्कनिर्णेयः ।
अतस्तत्र यथाशास्त्रज्ञवचनं अङ्गीकार एव युक्तः । अयं तु न तादृशः,
अतोऽस्ति विचारस्यावकाश इति पूर्वं पु. २०६ उक्तस्योत्तरमिदम् ॥


नन्वेवं सति, ज्ञानलक्षणप्रत्त्यासत्त्या शब्दोपस्थितौ तद्विशिष्टं यत्
गौरयम् इत्यादिज्ञानं तदपि शाब्दमेव स्यात् । न ह्यनुपदमुक्तात् वृद्धो
दीरितवाक्यविशेषणकादस्य विशेषः ! अतः तद्व्यवच्छेदार्थमेवेदं लक्षणमित्युच्यता
मित्याशङ्कतां मतमाह—अन्ये त्विति । तद्व्यवहारः—सङ्केतव्यवहारः ॥


न शब्द इति । प्रकृते तु श्रूयमाण एव शब्दो विशेषणतामश्नुते, तत्र
तु स्मृत इत्यस्ति विशेष इत्याशयः । पुनरप्यवैलक्षण्यमेवोपपादयति—
सङ्केतेति । न हि पार्यन्त इति । शब्दानां द्विक्षणावस्थायित्वादित्याशयः ।
I.222

अन्त्यवर्णे तु गृह्यमाणे स्मर्यमाणे वा किं शब्दव्यापारो
विशिष्यते ?


ननु ! व्यवहारकाले गवादिनामधेयपदमात्रमेव स्मर्यमाण
मिन्द्रियेण सह सविकल्पप्रत्ययोदये व्याप्रियते । सङ्केतकाले तु
संज्ञोपदेशिवृद्धवाक्यं—इति चेत्—मैवम्—व्यवहारकालेऽपि संज्ञो
पदेशकं वृद्धवाक्यमेव स्मर्यते, तदस्मरणे तच्छब्दवाच्यताऽनव
गमात् । अस्य गौरिति नाम देवदत्तेनोपदिष्टमासीत् इत्येवमनु
स्मृत्य गोशब्दवाच्यतयैवं व्यवहरतीति वाक्यस्मरणजमेवेदं
ज्ञानम्—

तस्मादस्यापि तद्वाक्यं संज्ञाकर्मोपदेशकम् ।

हेतुतामुपयातीति शाब्दमेतदपीप्यताम् ॥ ४४ ॥

एवमस्त्विति चेत् शान्तमेवं सति तपस्विनाम् ।

नैयायिकानामुत्पन्नं प्रत्यक्षं सविकल्पकम् ॥ ४५ ॥

यत्र मार्गान्तरेणापि सङ्केतज्ञानसंभवः ।

तत्राप्यनेन न्यायेन शाब्दता न निवर्तते ॥ ४६ ॥

नैयायिकानां च सविकल्पप्रत्यक्षमयाः प्राणाः । तस्मान्नोभयजस्य
शाब्दत्वं ज्ञानस्य वक्तव्यम् ॥


ननु व्यवहारकाले कृत्स्नस्यापि शब्दस्य स्मरणं, प्रकृते तु अन्तिमवर्णोऽनुभूयत
एवेत्याशङ्कायामाह—अन्त्यवर्णे त्विति । किं विशिष्यत इति । न हि
अन्तिमवर्णग्रहणमात्रं बोधजनकं, किं तु तेन कृत्स्नवर्णस्मरणेन पदोपस्थित्या खलु
बोधो निर्वाह्यः । तथा च को विशेष इत्याशयः ॥


पुनरपि सिद्धान्ती वैलक्षण्यमुपपादयति—नन्विति । तदस्मरणे—
वृद्धवाक्यास्मरणे ॥


अस्य—प्रत्ययस्य । इष्टापत्तौ बाधकमाह—शान्तमिति । सविकल्पकं
प्रत्यक्षं शान्तमित्यर्थः । कुत इत्यत्राह—यत्रेत्यादि । वाच्यत्वं हि केवलान्वयि ।
अतः सविकल्पकं सर्वं वाचकावच्छिन्नमेवेति शाब्दमेव स्यात् । सविकल्पक
प्रत्यक्षहानौ च नैयायिकमतमेवोच्छिद्येत । नैयायिकाः खलु भेदवादिनः ।
I.223

सम्बन्धाधिगमस्तु नानाप्रमाणकः । तत्र स्वे स्वे विषये
तत्तत्प्रमाणं प्रवर्तते । यथाऽऽहं भट्टः सम्बन्धः त्रिप्रमाणकः
श्लो. वा. सम्ब. परि—१४१ इति । तस्मान्नैकस्य शब्दस्य भारः आरोप
णीयः । प्रत्यक्षं तु सङ्केतग्रहणकालेऽपि स्वविषयग्राहकमिति
नोभयजज्ञानव्यवच्छेदपंक्षो निरवद्यः । तस्माद्वरं जरन्नैयायिक
कथितशब्दकर्मतापन्नज्ञानव्यवच्छेदपक्ष इति स एवाश्रीयताम् । तत्र
तावत् कर्मणि कृत्ये कृते व्यपदेश्यशब्दो यथार्थतरो भवति ॥


शब्देन्द्रियजज्ञानस्य न पञ्चमप्रमाणत्वम्


ननु ! तत्र चोदितं; न तादृशं ज्ञानमप्रमाणं, न पञ्चमं प्रमाण
मिति—सत्यम्—अयन्तु तेषामाशयः । रूपादिविषयग्रहणाभिमुखं हि


भेदश्च सविकल्पविषयः । निर्विकल्पस्य वस्तुद्वयविषयकत्वाभावात् । अतश्च
सविकल्पप्रत्यक्षहानौ भेदवादिनो नैयायिकस्य प्राणोच्छेद एवेति ॥


नानाप्रमाणकः—प्रत्यक्षानुमानादिप्रमाणकः । ननु कथमेकस्मिन्नेव
विषये एकदैव नानाप्रमाणप्रवृत्तिरित्यत्राह—स्वे स्वे इति । सम्बन्ध इति ।
अर्थानुवादोऽयम् । वृद्धव्यवहाराच्छक्तिग्रहणोपपादनप्रकरणगतमिदम् । तथा
हि—शब्दवृद्धाभिधेयांश्च प्रत्यक्षेणात्र पश्यति । श्रोतुश्च प्रतिपन्नत्वमनुमानेन
चेष्टया । अन्यथाऽनुपपत्त्या च बुद्ध्येच्छक्तिं द्वयाश्रिताम् । अर्थापत्त्याऽव
बुद्ध्यन्ते संबन्धं त्रिप्रमाणकम्
इति वार्तिकम् । अयमर्थः—व्युत्पित्सुर्बालः,
वाचकं शब्दं, तत्प्रयोक्तारं प्रयोजकवृद्धं, तदर्थं च गवादिकं प्रत्यक्षेणेव जानाति;
तत्र शब्दं श्रोत्रेण, इतरौ चक्षुपेति विशेषः । अनन्तरं स एव व्युत्पित्सुः
गवानयनादौ प्रवर्तमानस्य श्रोतुः—प्रयोज्यवृद्धस्य अर्थज्ञानं गवानयनादिव्यापारे
णानुमिनोति । ततः अस्य शब्दस्यास्मिन्नर्थे शक्तिमन्तरा अर्थज्ञानमेव न
स्यादित्यर्थापत्त्या वाच्यवाचकभावरूपां शक्तिं गृह्णाति । एवं शक्तिज्ञानस्य प्रत्यक्ष
अनुमान-अर्थापत्त्यधीनत्वेऽपि अर्थापत्तिरभ्यर्हिततम उपायः । न हि
हेतूनां सर्वेषां दण्डचक्रभ्रमणादीनामेकरूपमेव हेतुत्वं संभवति । अत एव
त्रिप्रमाणकम् इत्युक्तम् । अत्र यद्यपि अर्थापत्तिर्नातिरिक्तं प्रमाणं, अथापि
प्रमाणमेवेति न विरोधः । भारः—शक्तिग्राहकत्वम् । जरन्नैयायिकाः—
भाष्यकाराः । कृत्ये—अर्हे कृत्यतृचश्च इत्युक्तकृत्यप्रत्यये । यथार्थ
तरः—शब्दकर्मकत्वादन्वर्थः ॥


तेषां—भाष्यकाराणाम् ॥


I.224

तदक्षजं ज्ञानं प्रमाणं फलं वोच्यते । यदा तु तदेव शब्देनोच्यते
रूपज्ञानं रसज्ञानमिति, तदा रूपादिज्ञानविषयग्रहणव्यापारलभ्यां
प्रमाणतामपहाय शब्दकर्मतापत्तिकृतां प्रमेयतामेवावलम्बत इति न
तस्यां दशायां तत्प्रमाणमिति कुतः पञ्चमप्रमाणप्रसङ्ग इति ॥


मतान्तरेण अव्यपदेश्य पदप्रयोर्जनवर्णनम्


अपर आह—सविकल्पकस्य शब्दसङ्कल्पकस्य शब्दसंसर्ग
सापेक्षजन्मनः प्रत्यक्षज्ञानस्य शाब्दतां पूर्ववदाशङ्क्य तस्यैवशाब्दतां
दर्शयत्यव्यपदेश्यपदेन सूत्रकारः । प्रत्यक्षमेव तत् ज्ञानम्, इन्द्रिया
न्वयव्यतिरेकानुविधायित्वात्, अव्यपदेश्यं—अशाब्दमित्यर्थः ॥


स्पष्टत्वात् वाचकाभावात् इन्द्रियानुविधानतः ।

लोकस्य सम्मतत्वाच्च प्रत्यक्षमिदमिष्यते ॥ ४७ ॥

शब्दानुस्मृतिजत्वेऽपि न शाब्दं ज्ञानमीदृशम् ।

शब्दस्मृतिः सहायः स्यात् इन्द्रियस्य प्रदीपवत् ॥ ४८ ॥

निर्विकल्पकस्य सूत्रारूढत्वोपपादनम्


नन्वेवं सविकल्पस्य प्रत्यक्षत्वे प्रसाधिते ।

नेदानीं सङ्गृहीतं स्यात् प्रत्यक्षं निर्विकल्पकम् ॥ ४९ ॥

यस्तु शब्दानुवेधेन शाब्दत्वं सविकल्पके ।

कश्चिदाशङ्कते, तस्य प्रतिशब्दोऽयमुच्यते ॥ ५० ॥

यत्र शब्दानुवेधेऽपि प्रत्यक्षं ज्ञानमिष्यते ।

तत्र तत्स्पर्शशून्यस्य तथात्वे का विचारणा ॥ ५१ ॥

निर्विकल्पकवत्तस्मात् प्रत्यक्षं सविकल्पकम् ।

समग्रहीच्च तदिदंपदेनानेन सूत्रकृत् ॥ ५२ ॥

स्पष्टत्वात्—इतरप्रमाणापेक्षया संशयावकाशविरलत्वात् स्पष्टत्वम् ।
वाचकाभावात्—वाचकभानरहितत्वात् । यस्त्विति । अस्य आशङ्कते
इत्यनेनान्वयः । प्रतिशब्दः—प्रत्युत्तरम् । सविकल्पकस्यैव प्रत्यक्षत्वे निर्विक
ल्पकस्य प्रत्यक्षत्वं कैमुतिकसिद्धमित्याह—यत्रेति । यत्र—सविकल्पके । तत्र—
निर्विकल्पके । तत्स्पर्शः—शब्दभानम् । निर्विकल्पकस्य प्रत्यक्षत्वं कैमुतिक
सिद्धमिति तस्य दृष्टान्तत्वाभिधानम् ॥


I.225
इत्याचार्यमतानीह दर्शितानि यथाऽऽगमम् ।

यदेभ्यः सत्यमाभाति सभ्यास्तदवलम्ब्यताम् ॥ ५३ ॥

अव्यभिचारि पदप्रयोजनम्


अव्यभिचारिग्रहणं व्यभिचारिज्ञानव्यवच्छेदार्थम् । यथा—
ग्रीष्मे तपति ललाटन्तपे तपने तन्मरीचिषु चतुरमूषरभुवमभिहत्य
समुत्फलितेषु तरङ्गाकारधारिषु यत् वारिज्ञानं, तत् अतस्मिंस्त
दितिग्रहणात् व्यभिचारि भवति । तत् अनेन पदेन व्यवच्छिद्यते,
न तत् प्रत्यक्षमिति ॥


तत्र निर्विकल्पकमपि प्रथमनयनसन्निपातजं ज्ञानमुदक
विकल्पकज्ञानजनकं उदकग्राह्येव न यथा, तथा तथागताः
कथयन्ति । मरीचिविषयमविकल्पकं ज्ञानं उदकविकल्पकजननात्
अप्रमाणमिति । निर्विकल्पावस्थायामविचारयत एव प्रथमो
न्मीलितचक्षुषो झटिति सलिलप्रतिभासात् ॥


चतुरं इति प्रतिफलनक्रियायाः विशेषणम्, अभिहननस्य वा । न तत्
प्रत्यक्षमिति । प्रत्यक्षप्रमाणस्य खलु लक्षणमुच्यत इत्यर्थः ॥


ननु मरीचिषु प्रथमाक्षपातजं हि ज्ञानं निर्विकल्परूपं प्रमाणमेवेति
कथमुच्यते तस्य व्यावृत्त्यर्थं अव्यभिचारीतिविशेषणमित्यत्राह—तत्रेति ।
प्रथमनयनसन्निपातजमपीत्यन्वयः । उदकग्राह्येव नेति । न ह्युदकेन
साकं चक्षुषस्सन्निकर्षः, किन्तु मरीचिभिरेवेति हेतुः । ननु तर्हि मरीचि
विषयकं तज्ज्ञानं कथमप्रमाणमित्यत्राह—मरीचीत्यादि । अन्यथा हि
उदकसन्निकर्षजोदकज्ञानस्य मरीचिसन्निकर्षजोदकज्ञानस्य च वैलक्षण्यमेव
दुर्वचं स्यादित्याशयः । वस्तुतस्तत्र निर्विकल्पमपि न मरीचिविषयकमित्याह—
निर्विकल्पेति । अविचारयत इति प्रथमाक्षसन्निपातजत्वोपपादनाय ॥


I.226

अथवा वाचकोल्लेखपूर्विका अपि संविदः नैवेन्द्रियार्थजन्यत्वं
जहति इत्युपपादितम् । तस्मात् सविकल्पकमविकल्पकं वा यत्
अतस्मिंस्तदिति ज्ञानमुत्पद्यते तत् व्यभिचारि । तच्चेह व्यावर्त्य
मिति ॥


इन्द्रियार्थसन्निकर्षोत्पन्नपदेनैव भ्रमव्यावृत्तिशङ्का, समाधानं च


ननु ! मरीचिषु जलज्ञानमविद्यमानसलिलावभासित्वात्
अतिन्द्रियार्थसन्निकर्षजम् । अतश्चेन्द्रियार्थसन्निकर्षोत्पन्नपदेन
तद्व्युदाससिद्धेः किमव्यभिचारिपदेन ? नैतदेवम्—


तस्येन्द्रियार्थजन्यत्वं सिद्धं तद्भावभावतः ।

न ह्यनुन्मीलिताक्षस्य मरौ सलिलवेदनम् ॥ ५४ ॥

अर्थोऽपि जनकस्तस्य, विद्यते नासतः प्रथा ।

भ्रमस्थले विषयभानप्रकारचिन्ता


तदालम्बनचिन्तां तु त्रिधाऽऽचार्याः प्रचक्रिरे ॥ ५५ ॥

कैश्चिदालम्बनं तस्मिन् उक्तं सूर्यमरीचयः ।

निगूहितनिजाकाराः सलिलाकारधारिणः ॥ ५६ ॥

तुष्यत्वित्यादिन्यायेनाह—अथवेति । वाचकोल्लेखेत्यादि । मरीचिकां
पश्यन्नपि भ्रान्तः उदकमिदं इति खलु जानाति । अतः अतस्मिंस्तद्रूपत्वं
दुरपह्नवमेवेत्याशयः ॥


तद्भावभावतः—इन्द्रियार्थसन्निकर्षे सत्येबोत्पादात् । किं ततः ?
इत्यत्राह—अर्थोऽपीति । असदर्थविषयकत्वमेव कुतो न स्यादित्यत्राह—
विद्यत इति । प्रथा-प्रकाशः, प्रतीतिरिति यावत् ॥


उक्तं इति विधेयप्राधान्यात्कथनम् ॥


ननु स्वासाधारणाकारतिरोभावमात्रेणान्याकारस्य कथं तत्र भानम् ?
न हि सलिलेन्द्रियसन्निकर्षस्तत्रोपपादयितुं शक्य इति शङ्कायामाह—
I.227

तत्र तरङ्गादिसामान्यधर्मग्रहणे सति न स्थाणुपुरुषवत्
उभयविशेषाः स्मरणपथमवतरन्ति । न च सन्निहितमरीचिविशेषाः
स्मरणपथमवतरन्ति । किन्तु पूर्वोपलब्धविरुद्धसलिलवर्तिनो
विशेषाः । तत्स्मरणाच्च स्थगितेषु स्वविशेषेषु मरीचयः स्वरूप
मुपदर्शयितुमशक्नुवन्तः तोयरूपेणावभासन्ते ॥


मतान्तरेण भ्रमोपपादनम्


अन्ये त्वालम्बनं प्राहुः पुरोऽवस्थितधर्मिणः ।

सादृश्यदर्शनोद्भूतस्मृत्युपस्थापितं पयः ॥ ५७ ॥

यत्र किल ज्ञाने यत् रूपमुपप्लवते, तत् तस्यालम्बनमुच्यते, न
सन्निहितम्; भूप्रदेशस्य तदारंभकाणां च परमाणूनां तदालम्बनत्व
प्रसङ्गात् । इदं च सलिलावभासि विज्ञानम् । अतस्तदेवास्या
लम्बनम् । तच्च नेह सन्निहितम् । न चैकान्तासतः खपुष्पादेः
ख्यातिरवकल्पत इति देशान्तरादौ विद्यमानमेव सलिलं सदृशदर्शन
प्रबुद्धसंस्कारोपजनितस्मरणोपारूढमिहावलम्बनीभवति ॥


तत्रेत्यादि । तरङ्गादीति । तरलत्वादीति वत् । ननु तर्हि संशय
रूपत्वं कुतो न ? इत्यत्राह—न स्थाण्विति । अत्र नञः स्मरणपथमवतरन्ती
त्यनेनान्वयः । मरीचेस्तथैव कुतो न भानम् ? इत्यत्राह—न चेति । पूर्वोप
लब्धं यत् मरीचित्वं, तद्विरुद्धा ये सलिलवर्तिनो विशेषाः सलिलत्वादयः
ते न स्मरणपथमवतरन्तीत्यन्वयः । तत्स्मरणात्—सलिलत्वादिस्मरणात् ।
स्थगितेषु—आच्छादितेषु । स्वविशेषेषु—मरीचित्वादिषु ॥


धर्मिणः इत्यस्य सादृश्यपदार्थेनान्वयः । ननु इन्द्रियसन्निकर्षस्तु
मरीचेः, आलम्बनत्वं तु पयस इति कथं घटतामित्यत्राह—यत्रेत्यादि ।
अयं भावः—इन्द्रियसन्निकर्षमात्रं न ज्ञानविषयताप्रयोजकम्, पुरोवर्ति
धर्म्यतिरिक्तानां भूप्रदेश-तदुपादानपरमाणूनां च इन्द्रियसन्निकर्षे सत्यपि
ज्ञानाविषयत्वात् । इदं जलम् इत्येव खलु ज्ञानस्याकारः । अत्र अयं देशो
जलवान्
इति देशस्याप्यालम्बनत्वं कदाचित् संभवेत्, परमाणूनां तु तदपि
I.228

तत्रैव पक्षान्तरोपपादनम्


अन्यदालम्बनं चान्यत् प्रतिभातीति केचन ।

आलम्बनं दीधितयः तोयं च प्रतिभासते ॥ ५८ ॥

कर्तृकरणव्यतिरिक्तं ज्ञानजनकमालम्बनमुच्यत इति न परमा
ण्वादौ प्रसक्तिरिति । तदिदं पक्षत्रयमपि उपरिष्टान्निपुणतरं निरूप
यिष्यते ३ आह्निके


तदेवं बाह्येन्द्रियार्थान्वयव्यतिरेकानुविधायिनां विभ्रमाणा
मिन्द्रियार्थसन्निकर्षोत्पन्नपदेन निरसितुमशक्यत्वात् युक्तमव्यभि
चारिपदोपादानम् ॥


मानसविभ्रमाः


ये तु—मानसाः विभ्रमाः बाह्येन्द्रियानपेक्षजन्मानः—तेषा
मिष्यत एवेन्द्रियार्थसन्निकर्षपदेन पर्युदसनमिति न तदर्थमव्यभि
चारिपदोपादानम् । तद्यथा—


विरहोद्दीपितोद्दामकामाकुलितदृष्टयः ।

दूरस्थामपि पश्यन्ति कान्तामन्तिकवर्तिनीम् ॥ ५९ ॥

मानसविभ्रमहेतवः


ननु ! एवंप्रायेषु निरालम्बनेषु विभ्रमेषु कुतस्त्यः आकारः
प्रतिभाति ? उच्यते—


नेति । अतो यत् प्रकाशते तदेवालम्बनम् । प्रकृते च सलिलमेव प्रकाशत
इति तदेबालम्बनम् । एवमालम्बनत्वे सिद्धे तस्योपस्थितिर्यथाकथञ्चित्
वक्तव्येति स्मरणमेवोपस्थापकं कल्प्यत इति ॥


कर्तृकरणेति । एवञ्चास्मिन् मते यत् प्रकाशते तदेवालम्बनमिति न
नियमः । एवञ्चात्र प्रथमपक्षे मरीचीनामेव विषयत्वं, तोयभानं तु ज्ञानाख्य
प्रत्यासत्त्या । द्वितीयपक्षे तथैव प्रत्यासत्त्या तोयानामेव विषयत्वम् । तृतीयपक्षे
तु विषयत्वं अन्यस्य, भानं चान्यस्येति नायं दोष इति विशेषः ॥


निरालम्बनेष्विति—मरीचिजलज्ञानादौ हि पुरोवस्थितासु मरीचिषु
जलप्रतिभास इति साधिष्ठानकोऽयं भ्रमः । कामुककान्तादर्शनादौ कस्मिन्
पुरोवर्तिनि कास्ताप्रतीतिः ? न हि निरधिष्ठानको भ्रमः सिद्धान्तेऽङ्गीकर्तुं
शक्यते । शून्यवादावतारप्रसङ्गात् इति भावः ॥


I.229
आकारः स्मृत्युपारूढः प्रायेण स्फुरति भ्रमे ।

स्मृतेस्तु कारणं किञ्चित् कदाचित् भवति क्वचित् ॥ ६० ॥

क्वचित् सदृशविज्ञानं कामशोकादयः क्वचित् ।

क्वचित्तु दर्शनाभ्यासः तिमिरं चक्षुषः क्वचित् ॥ ६१ ॥

क्वचिन्निद्रा क्वचिच्चिन्ता धातूनां विकृतिः क्वचित् ।

अलक्ष्यमाणे तद्धेतौ अदृष्टं स्मृतिकारणम् ॥ ६२ ॥

बालस्येन्दुद्वयज्ञानमस्ति नास्तीति वेत्ति कः ।

अस्तित्वेऽपि स्मृतौ हेतुमदृष्टं तस्य मन्वते ॥ ६३ ॥

नूनं नियमसिद्ध्यर्थं जनकस्यावभासनम् ।

न चैकान्तासतो दृष्टा ज्ञानोत्पादनयोग्यता ॥ ६४ ॥

न च सन्निहितं वस्तु तत्रास्ति वनितादिकम् ।

तेनेदं स्मृत्युपारूढं अवभातीति मन्वते ॥ ६५ ॥

तत्राद्येन पदेनैताः स्वान्तःकरणसंभवाः ।

निरस्ता भ्रान्तयोऽक्षादिसंसर्गरहितोदयाः ॥ ६६ ॥

याः पुनः पीतशङ्खादिमरुनीरादिबुद्धयः ।

अक्षजास्तद्व्युदासाय सूत्रे पदमिदं कृतम् ॥ ६७ ॥

स्मृत्युपारूढ इति । एवञ्च पुरोवर्तित्वांशे परं भ्रम इति भावः ।
अलक्ष्यमाण इति । तद्धेतौ-भ्रमहेतौ अलक्ष्यमाणे—प्रत्यक्षतोऽगृह्यमाणे
अदृष्टं वा स्मृतिकारणं कल्पनीयमित्यर्थः । ननु बालस्य कथं पूर्वोक्तदोषाणां
प्रसङ्गः ? कथं वा तस्य भ्रमोत्पत्तिः ? इत्यत्राह—बालस्येति । स्मृताविति ।
आकारः स्मृत्युपारूढः इत्यत्रोक्तायां भ्रमहेतुभूतायां स्मृतौ इत्यर्थः ।
नियमसिद्धयर्थं—कार्यकारणयोर्व्याप्तिसिद्धयर्थं अत्रापि जनकस्य—भ्रमहेतोः अव
भासनं नूनमङ्गीकर्तव्यम् । अन्यथा कुत्रापि कार्यात् कारणानुमानं न स्यादित्यर्थः ।
ननु निरधिष्ठान एव वनितादिभ्रमः कुतो न स्यादित्यत्राह—न चेति ।
आद्येन पदेन—इन्द्रियार्थसन्निकर्षोत्पन्नपदेन । इदं पदं—अव्यभिचारि
पदम् । एवञ्च भ्रमः द्विविधः—अन्तर्गताकारे बहिष्ठत्वविषयकः, बहिर्गत
एव वस्तुनि आकारान्तरविषयक इति सर्वोऽपि भ्रमः सालम्बन एवेति ॥


I.230

व्यवसायात्मकदलप्रयोजनम्


दूरात् स्थाणुपुरुषसाधारणं धर्ममारोहपरिणाहरूपं उपलभ
मानस्य तयोरन्यतरत्र वर्तमानान् वक्रकोटरादीन् करचरणादीन् वा
विशेषानपश्यतः समानधर्मप्रबुद्धसंस्कारतया चोभयवर्तिनोऽपि
विशेषाननुस्मरतः पुरोऽवस्थितार्थविषयं स्थाणुर्वा पुरुषो वेति
संशयज्ञानमुपजायते । तत् इन्द्रियार्थसन्निकर्षोत्पन्नत्वादिविशेषण
युक्तमपि न प्रत्यक्षफलम् । अतस्तद्व्यवच्छेदाय व्यवसायात्मक
ग्रहणम् ॥


इन्द्रियार्थसन्निकर्षोत्पन्नपदेन न संशयव्युदाससंभवः


ननु ! मानसत्वात् संशयज्ञानस्य इन्द्रियार्थसन्निकर्षोत्पन्न
ग्रहणेन निरासः सिद्ध्यत्येव; किं पदान्तरेण ? तथा च भाष्यकारः—
स्मृत्यनुमानागमसंशयप्रतिभास्वप्नज्ञानोहसुखादिप्रत्यक्षं इच्छा
दयश्च मनसो लिङ्गानि
न्या. भा. १-१-१६ इति वक्ष्यति
मैवम्—स्थाण्वादिसंशयस्य बाह्येन्द्रियान्वयव्यतिरेकानुविधा
यित्वात् । कश्चिद्धि मानसः संशयः समस्त्येव; यथा—
दैशिकस्य ज्योतिर्गणकादेः एकदाऽन्यदा चासम्यगादिश्य
तृतीये पदे पुनरादिशतः संशयो भवति—किमयमस्मदादेशः
संवदेत् ? उत विसंवदेत् ?
इति । स भाष्यकृतश्चेतसि


तयोः—स्थाणुपुरुषयोः । उभयवर्तिनोऽपि विशेषाननुस्मरत
इत्यनेन भ्रमवैलक्षण्यमुक्तम् ॥


मानसत्वादिति । इन्द्रियेण धर्मिणि गृहीतायां साधारणधर्मयोः
स्मरणे च पश्चाज्जायमानः संशयो मानसिक एव । न हि तत्र वस्तुद्वयेन
साकमिन्द्रियसन्निकर्षो वर्तत इत्यर्थः । संशयस्य मानसत्वे संवादमाह—तथा
चेति । कार्यात् खलु कारणानुमानमिदम् । तेन च संशयस्य मनः
कारणकत्वमुक्तं भवतीत्यर्थः । बाह्येन्द्रियेति । तथा च चाक्षुष एवायं स्थाणु
पुरुषसंशय इत्यर्थः । ननु तर्हि मानसः संशय एव नास्ति किम् ? इत्यत्राह—
कश्चिदिति । दैशिकः—ग्रामीणः । भाष्यमप्येतद्विषयमित्याह—स भाष्यकृत
I.231

केवलमनःकरण इति स्थितः । यस्तु विष्फारिताक्षस्य स्थाणुर्वा ?
पुरुषो वा ?
इत्यादिः संपद्यते संशयः तमनिन्द्रियार्थसन्निकर्षजं
को नामाचक्षीत !


अव्यभिचारिपदेनापि न संशयव्युदाससंभवः


ननु ! अतस्मिंस्तदिति ज्ञानं व्यभिचारि व्याख्यातम् । एकरूपं
च पुरोऽवस्थितमर्थं अनेकरूपतया स्पृशति संशयः—स्थाणुर्वा ?
पुरुषो वा ?
इति । सोऽयमतस्मिंस्तथाभावात् विपर्यय एवेति
पूर्वपदव्युदस्तत्वात् न पदान्तरव्यवच्छेद्यतामर्हतीति । नैतदेवम्—
स्वरूपभेदात् कारणभेदाच्च । एकमेव विरुद्धमाकारमुल्लिखन्
विपर्ययो जायते—स्थाणौ पुरुष इति, पुंसि वा स्थाणुरिति । अनियता
कारद्वयोल्ल्खी तु संशयो भवति—स्थाणुर्वा स्यात् ? पुरुषो वेति ।
सोऽयं स्वरूपभेदः प्रत्यात्मसंवेद्यः ॥


कारणभेदश्च—विरुद्धविशेषस्मरणप्रभवो विपर्ययः—शुक्ति
कायां सन्निहितायां रजतविशेषान्, मरीचिषु सन्निहितेषु सलिल
गतविशेषाननुस्मरतः विपर्ययो भवति; उभयविशेषस्मरणजन्मा तु
संशय इति—पदान्तरनिरसनीय एवायम् ॥


इति । एवं मानससंशयसत्वेऽपि संशयसामान्यस्य मानसत्वाभावात्
इन्द्रियार्थसन्निकर्षोत्पन्नपदेन न व्युदासः ॥


नन्विदं अतस्मिंस्तदिति ज्ञानं कथं भवेत् । तत्र हि पुरोवर्तिनि स्थाणुत्वं
पुरुषत्वं वा वर्तत एव खल्वित्यत्राह—एकेति । स्थाणुत्वपुरुषत्वान्यतरवत्
तदन्यतराभावोऽपि तत्र वर्तत एव, तयोर्विरुद्धत्वादित्यतस्मिंस्तदिति ज्ञानमेव
तदिति । स्वरूपभेदादिति । विपर्ययापेक्षयेति शेषः । एकमेवेति
आकारविशेषणम् ॥


पदान्तरेत्यादि । अव्यभिचारिपदेन न संशयव्युदास इत्यर्थः ।
एतदुक्तं भवति । प्रतीतः आकारो यदि धर्मिणि नास्ति, तदा तत् ज्ञानं
व्यभिचरितमित्युच्यते । संशयस्थले तु प्रतीतः एकः आकारः धर्मिण्यस्त्येवेति
संशयः व्यभिचरित इति न वक्तुं शक्यत इति ॥


I.232

अव्यपदेश्यपदेनैव व्यवसायात्मकपदं न चरितार्थम्


ननु ! संशयविपर्यययोरपि निर्विकल्पयोरसंभवात् अव्यपदेश्य
पदेनैव प्रवरपक्षे प्रतिक्षेपः सिद्ध्येत् । पुरोऽवस्थितस्थाण्वादि
धर्मिदर्शनमात्रमेव निर्विकल्पकमिन्द्रियव्यापारजम् । अनन्तरन्तु
उभयान्यतरविशेषणस्मरणजन्मनोरुल्लिखितशब्दयोरेव संशयविपर्य
ययोरुत्पादः । तत्र विशेषस्मृत्यैव शब्दानुवेधस्याक्षेपात् । अतः
पदद्वयमपि तद्व्युदासाय न कर्तव्यम् ॥


अत्रैतदेव तावद्वक्तव्यम् । प्रवरपक्षः प्रतिक्षिप्त एव, यतः
शब्दानुवेधजातमपि प्रत्यक्षमुपपादितम् ॥


इन्द्रियार्थसन्निकर्षोत्पन्नपदेनापि न संशयविपर्ययव्युदाससंभवः


ननु ! भवतु प्रवरपक्षः प्रतिक्षिप्तः । सदृशदर्शननिष्ठिते तु
नयनव्यापारे, विशेषस्मृतेरूर्ध्वमुपजायमानौ संशयविपर्ययौ नेन्द्रिय
जाविति प्रथमपदेनैव निरस्तौ भवतः—तदसत्—स्मृतेरूर्ध्वमपी-


निर्विकल्पयोः—शब्दाननुविद्धयोः । प्रवरः—भाष्यकारः । यदक्ष
पादः प्रवरो मुनीनां
इति वार्तिकोक्तेः तथा निर्देशः । असंभवदोषनिरासक
तया अव्यपदेश्यपदस्य स्वेन व्याख्यातत्वात् प्रवरपक्षे इत्युक्तम् ।
अव्यपदेश्यपदेन तयोर्निरासमेवोपपादयति—पुरोऽवस्थितेत्यादि ।
उभयान्यतरेति यथाक्रमं संशयविपर्ययाभिप्रायम् । अव्यपदेश्यपदेन
संशयविपर्ययव्युदाससूचनाय—उल्लिखितशब्दयोरिति । उल्लिखितशब्दयो
रित्यत्र प्रमाणमाह—तत्रेति । उपपादितं—पूर्वं २०५, २१५ पुटे
तथा च नानेन संशयव्यावृत्तिः ॥


नन्विति—यद्व्यप्यनुपदमेव संशयविपर्यययोरौन्द्रियिकत्वमुक्तं, तथाऽपि
तदेवाक्षिप्यत इति मन्तव्यम् । पूर्वं हि इन्द्रियान्वयव्यतिरेकानुविधानात्
ऐन्द्रियिकत्वमुक्तम् । इन्द्रियव्यापारस्तु सदृशदर्शने पर्यवस्यतीत्याक्षेपः ।
सदृशदर्शननिष्ठिते—सदृशदर्शन एव विश्रान्ते । एवञ्चानन्तरमिन्द्रिय
व्यापाराभावात् कथं तयोरिन्द्रियार्थसन्निकर्षजन्यत्वम् ? न हि संशयविपर्यययोः
I.233

न्द्रियव्यापारानुवृत्तेरित्युक्तत्वात् । एतच्चान्वयव्यतिरेकाभ्यामव
गम्यते, निमीलितचक्षुषस्तदनुत्पादात् । न च तदानीमन्तः
सङ्कल्परूपेणापि शब्दोल्लेखः । उत्पन्ने तु संशये विपर्यये च वाचक
स्मरणं भविष्यतीति सम्यग्ज्ञानवत् संशयविपर्ययावपि शब्दोल्लेख
शून्यौ संवेद्येते । विशेषस्मृतिस्तु विशेषविषयत्वात् तानेवाक्षिपतु ।
शब्दस्य किं वर्तते ? वाचकशब्दस्मृतिस्तु शब्दमुपस्थापयति ।
सा च न तावदुत्पन्नेति


सम्यक्प्रत्ययवत्तस्मात् वाचकोल्लेखवर्जितौ ।

अक्षव्यापारजौ न स्तः न संशयविपर्ययौ ॥ ६८ ॥

ईदृशयोः कथमनयोराद्यपदव्युदसनीयता ? तस्मात् ।

तदपाकृतये युक्तं पदद्वयस्याप्युपादानम् ॥ ६९ ॥

प्रत्यक्षं इति पदव्याख्यानम्


एवं लक्षणपदानि । लक्ष्यपदं तु प्रत्यक्षम् इति ज्ञानविशेषे
रूढ्यैव प्रवर्तते; योगस्य व्यभिचारात् । प्रति गतमक्षं प्रत्यक्ष
मित्यक्षरार्थः । स चायं सुखादावपि संभवतीति रूढिरेव साधीयसी ॥


प्रकारतया भासमाने वस्तुनि इन्द्रियसम्बन्धोऽस्ति । अन्यथा व्याप्तिग्रहणकाले
वह्नेरैन्द्रियिकत्वात् अनुमानेऽपि वह्नेरैन्द्रियिकत्वं स्यादिति भावः । स्मृतेरनन्तर
मपि कुतः इन्द्रियव्यापारापेक्षेत्यत्र अनुभवं पृच्छेति वदति—एतच्चेति ।
तदनुत्पादात्—संशयविपर्यययोरनुत्पादात् । तयोः प्रकारांशे इन्द्रियसन्निकर्षा
भावेऽपि, विशेष्यांशे अस्त्येव सः । ततश्च प्रत्यभिज्ञावत् तावपि प्रत्यक्षावेवेति
न निराससंभवः । सम्यग्ज्ञानं—शब्दाननुविद्धप्रमात्मकसविकल्पकज्ञानम् ।
तानेव—विशेषानेव । एवकारेण शब्दव्यवच्छेदः । अक्षव्यापारजौ न
स्त इति न इत्यन्वयः ॥


व्यभिचारमेवोपपादयति—प्रति गतमिति । इन्द्रियसम्बद्धमित्यर्थः ।
सम्बन्धश्च जन्यजनकभावः । एवञ्च सुखादीनामपि मानसत्वादतिव्याप्तिः ।
बाह्येन्द्रियमात्रविवक्षायामात्मप्रत्यक्षादावव्याप्तिप्रसङ्गः ॥


I.234

सूत्रे प्रत्यक्षपदं यौगिकमपि स्यात्


अथवा ज्ञानपदस्य सूत्रे निर्देशात् योगपक्षोऽप्यस्तु । न चासौ
दृश्यमानो निह्नोतुं युक्तः । योगरूढिस्तु नाम न सम्मतैव विदुषाम् ।
यत्रापि हि द्वयं दृश्यते तत्रापि शब्दप्रवृत्तौ प्रयोजकमेव
भवति ॥


कथं पुनः अक्षं प्रति गतं ज्ञानमिष्यते ? न संयोगित्वेन;
अञ्जनादेः प्रत्यक्षप्रसङ्गात् । न समवायित्वेन; अक्षवर्तिनां रूपादीनां
तथात्वप्रसङ्गात् । न जनकत्वेन; अक्षारंभकाणां परमाणूनामपि
तथाभावप्रसक्तेः । तस्मात् जन्यत्वेनैव ज्ञानमक्षं प्रति गतमिति
व्याख्येयम् ॥


अव्ययीवव्याख्यानं तु न युक्तम्; प्रत्यक्षः पुरुषः, प्रत्यक्षा
स्त्री, इत्यादिव्यवहारदर्शनात्—इत्यलमतिप्रसङ्गेन ॥


अर्थपौष्कल्ये संभवति डित्थादिपदवत्केवलसाङ्केतिकत्वं न युक्तमित्यत
आह—अथवेति । तर्हि सुखादौ कथं व्यभिचारवारणमित्यत्राह—
ज्ञानपदस्येति । दृश्यमानः—प्रतीयमानः । ननु कुतः योगरूढयोर्विकल्पा
दरणं, अस्तु तयोस्समुच्चयेन बोध इत्यत्राह—योगरूढिस्त्विति । एतत्तत्वं
शब्दप्रकरणे स्पष्टीभविष्यति । द्वयं—योगः रूढिश्च । प्रयोजकमेवेति ।
अन्यतरदिति शेषः । पङ्कजनिकर्तृत्वसाम्यात् भेकादिषु पङ्कजपदप्रयोगवारणाय परं
रूढ्यपेक्षा, न त्वर्थबोधायेति । प्रति इत्यस्य विवरणं गतमिति ॥


प्रत्यक्षप्रसङ्गात्—प्रत्यक्षत्वप्रसङ्गात् । प्रत्यक्षपदवाच्यत्वप्रसङ्गादिति वा ॥


न युक्तमिति । अत्र—यद्यपि भाष्ये अक्षस्याक्षस्य प्रतिविषयं वृत्तिः
प्रत्यक्षम्
इति कथनादव्ययीभावपक्षः भाष्योक्त इति ग्रन्थकृदमिप्रैतीव; परन्तु
वार्तिके, नायं समासः, किन्तु स्वरूपकथनमात्रम् । समासे खलु द्वितीयैव
स्यात्, न षष्ठी । अतः प्रतिगतमक्षं प्रत्यक्षमिति प्रादिसमासो द्रष्टव्यः

इत्युक्तमत्र स्मरणीयम् । प्रत्यक्षसूत्रे यतः शब्दाध्याहारः पूर्वमेवोक्तः ॥


I.235
तेनेन्द्रियार्थजत्वादिविशेषणगणान्वितम् ।

यतो भवति विज्ञानं तत् प्रत्यक्षमिति स्थितम् ॥ ७० ॥

इति विगतकलङ्कमस्य धीमान्

अकुरुत लक्षणमेतदक्षपादः ।

न तु पररचितानि लक्षणानि

क्षणमपि सूक्ष्मदृशां विशन्ति चेतः ॥ ७१ ॥

इति प्रत्यक्षसूत्रव्याख्यानप्रकरणम्


परसम्मतप्रत्यक्षलक्षणपरीक्षा


तत्र धर्मकीर्त्युक्तप्रत्यक्षलक्षणविचारः


यत्तावत् कल्पनाऽपोढमभ्रान्तमिति लक्षणम् ।

प्रत्यक्षस्य जगौ भिक्षुः तदत्यन्तमसांप्रतम् ॥ ७२ ॥

शब्दसंसर्गयोग्यार्थप्रतीतिः किल कल्पना ।

अस्याश्च केन दोषेण प्रामाण्यं न विषह्यते ॥ ७३ ॥

न तु पररचितानि लक्षणानि इत्युक्तमेव विवृणोति—यदित्यादि ।
यद्यपि दिङ्नागेन प्रत्यक्षं कल्पनापोढं इतिमात्रमुक्तम् । परन्तु एवं सति
तिमिरादिदोषदूषितचक्षुषः प्रथमसन्निकर्षजन्मनां शुक्तिरजतादिज्ञानानां कल्पना
पोढत्वादतिव्याप्तिरित्यालोच्य धर्मकीर्तिः अभ्रान्तपदं योजयामास । शुक्ति
रजतज्ञानस्य भ्रान्तत्वात् निरासः । अभ्रान्तत्वमात्रोक्तौ अनुमानादावति
व्याप्तिः, तेषां भ्रमत्वव्यवहाराभावात् । अतः कल्पनापोढमिति । तेषां
कल्पनारूपत्वेन व्युदासः । स्वलक्षणमेव परमार्थसत् । तदेव प्रत्यक्षे विषयः ।
सामान्यलक्षणं तु अपरमार्थसत्, तच्चानुमानस्य विषयः
इति न्यायबिन्दुः ।
धर्मोत्तरचार्यस्तु असत्यभ्रान्तग्रहणे गच्छद्वृक्षदर्शनादि कल्पनापोढत्वात् प्रत्यक्षं
स्यात्
इत्याह ॥


भिक्षुः—बौद्धभिक्षुः धर्मकीर्तिः । जगाविति । न्यायबिन्दाविति १-४
शेषः । शब्देत्यादि । अभिलापसंसर्गयोग्यप्रतिभासा प्रतीतिःकल्पना १-५
इति न्यायबिन्दुवाक्यानुवादोऽयम् । इदं च न्यायबिन्दुवचनमेवं व्याख्यातं
I.236

विकल्पानामप्रामाण्योपपादनम्


ननु ! अभिलापसंसर्गयोग्यप्रतिभासत्वादपि कमन्यं दोषं
मृगयते भवान् ! असदर्थविषयत्वमेवेदमुक्तं भवति, शब्दार्थस्य
वास्तवस्याभावात् । स्वलक्षणस्य सजातीयेतरव्यावृत्तात्मनः सम्ब
न्धाधिगमसव्यपेक्षप्रवृत्तिना शब्देन विषयीकर्तुमशक्यत्वात् ।
तद्व्यतिरिक्तस्य वस्तुनोऽनुपलम्भात् ॥


धर्मोत्तराचार्येण—'अभिलप्यतेऽनेनेत्यभिलापः—वाचकः शब्दः । अभिलापेन
संसर्गः अभिलापसंसर्गः—एकस्मिन् ज्ञानेऽभिधेयाकारस्याभिधानाकारेण सह
ग्राह्याकारतया मिलनम् । ततो यदैकस्मिन् ज्ञानेऽभिधेयाभिधानयोः आकारौ
सन्निविष्टौ भवतः, तदा संसृष्टे अभिधानाभिधेये भवतः । तथा च वाच्यवाचक
योरेकज्ञानविषयत्वं संसर्ग इत्युक्तं भवति
। अभिलापसंसर्गाय योग्यः अभिधेया
कारप्रतिभासः—यस्यां प्रतीतौ सा तथोक्ता इति । अधिकं तत्रैव द्रष्टव्यम् ॥


कुतः उक्तस्य दोषत्वमित्यत्राह—असदर्थेत्यादि । स्वलक्षणज्ञानस्यातो
वैलक्षण्यमाह—स्वलक्षणस्येति । निर्विकल्पविषयो वस्तुस्वरूपमात्रं—
स्वलक्षणम् । तद्व्यतिरिक्तस्य—स्वलक्षणव्यतिरिक्तस्य । वस्तुनः—परमार्थ
भूतस्य । अत्र यस्यार्थस्य सन्निधानासन्निधानाभ्यां ज्ञानप्रतिभासभेदः तत्
स्वलक्षणम् । तदेव परमार्थसत्
१-१३ इति न्यायबिन्दूक्तं स्मर्तव्यम् । एतदुक्तं
भवति । पुरोवर्तिनि वस्तुनि प्रथमाक्षसन्निपातसमनन्तरं यत् वस्तुस्वरूपमात्र
विषयकं ज्ञानं तदेव निर्विकल्पं प्रमाणम् । अनन्तरं भासमानानां धर्माणां वासना
धीनत्वेन तद्विषयकं ज्ञानं सविकल्पमप्रमाणमेव, कल्पिताकारविषयत्वात् ।
तथोक्तम्—परिव्राट्कामुकशुनामेकस्यां प्रमदातनौ । कुणपः कामिनी भक्ष्यमिति
तिस्रो विकल्पनाः
इति । एवञ्च यञ्चिर्विकल्पं नामजात्याद्यगोचरं तदेव प्रमाणं
चेत् नामजात्यादिगोचरं सविकल्पमप्रमाणमेवेति कल्पनापोढं प्रत्यक्षमिति ।
शिष्टदलप्रयोजनं तु स्पष्टीभविष्यति ॥


I.237

न चेन्द्रियार्थसन्निकर्षान्वयव्यतिरेकानुविधायिनी कल्पना
बुद्धिः; तमन्तरेणापि भावात्, तस्मिन् सत्यपि च पूर्वानुभूतवाचक
शब्दयोजनं विनाऽनुत्पादात् । यदि च इन्द्रियार्थसन्निकर्षः तज्जनको
भवेत्, प्रथममेव तथाविधां धियं जनयेत्, न च जनयति । तदयं
शब्दस्मृतेरूर्ध्वमपि न जनक इति मन्यामहे ॥


तदुक्तम्—


यः प्रागजनको बुद्धेः, उपयोगाविशेषतः ।

स पश्चादपि, तेन स्यादर्थापायेऽपि नेत्रधीः ॥ इति ॥

अपि च—सत्यपीन्द्रियार्थसंसर्गे स्मृत्यपेक्षायां सोऽर्थस्तयैव
व्यवहितः स्यात् । आह च—


अर्थोपयोगेऽपि पुनः स्मार्तं शब्दानुयोजनम् ।

अक्षधीर्यद्यपेक्षेत सोऽर्थो व्यवहितो भवेत् ॥ इति ॥

भावादिति । शुक्तिरजतादिविकल्पानामुत्पत्तेरित्यर्थः । तस्मिन्—
इन्द्रियार्थसन्निकर्षे । प्रथममेव—निर्विकल्पककाल एव । शब्दव्युत्पत्तेः
पूर्वमेवेति वा । तथाविधां—अभिलापसंसर्गादिवतीम् ॥


यः प्रागित्यादि । यः इन्द्रियसन्निकर्षः प्राक्—वाचकशब्दोपस्थितेः
पूर्वं बुद्धेः—विकल्पात्मिकाया अजनकः—जननासमर्थ इति यावत्; सः
सन्निकर्षः पश्चादपि—शब्दस्मृत्यनन्तरमपि उपयोगाविशेषतः तदधीनोपयोगे
विशेषाभावात् अजनक एव । अतः अर्थमन्तराऽपि विकल्प उदेतुं
प्रभवत्येवेति । उपयोगः—उपकारः ॥


तथैव—स्मृत्यैव । अर्थोपयोगेऽपीति । अक्षधीः—प्रत्यक्षं अर्थे—
विषये उपयोगेऽपि—अर्थग्रहणव्यापृतावपि, यदि मध्ये स्मार्तं शब्दस्मृत्यधीनं
शब्दानुयोजनं—अभिलापसंसर्गं यद्यपेक्षेत, तर्हि अर्थः तया स्मृत्या व्यवहितो
भवेदिति । तथा च शब्दस्मृत्या व्यवधानात् इन्द्रियं कथं सविकल्पं जनयेत् ।
स्मृत्यधीनं च सविकल्पं कथं वा प्रमाणं स्यादिति भावः ॥


I.238

विकल्पानामनिन्द्रियजत्वम्


सङ्केतस्मरणसहकारिसव्यपेक्षमक्षमीदृशीं बुद्धिं जनयतीति
चेत्—न—व्यतिरिक्ताव्यतिरिक्तोपकारादिविकल्पैः सहकारिणो निर
स्तत्वात् । किञ्च दण्डीत्यादिविकल्पविज्ञानं नेन्द्रियापातवेलायामेव
जायते; किन्तु बहुप्रक्रियापेक्षम् । यदाह—प्र. वा. 3-145


विशेषणं विशेष्यं च संबन्धं लौकिकीं स्थितिम् ।

गृहीत्वा सकलं चैतत् तथा प्रत्येति नान्यथा ॥ इति ॥

ननु शब्दस्मरणस्य स्वातन्त्र्येण प्रत्यक्षकरणत्वं नास्त्येव, किन्तु
सन्निकर्षवत् इन्द्रियसहकार्येवेति न तेन व्यवधानमिति शङ्कते—सङ्केतेति ।
व्यतिरिक्तेत्यादि । वस्तूनां क्षणिकत्वसाधनावसरे कथितोऽयं विचारो
बौद्धैः । कुसूलस्थबीजैः अंकुराकरणात् क्षेत्रस्थबीजैरङ्कुरकरणाच्च करणा
करणयोरेकत्र विरोधात् कुसूलस्थबीजमन्यत्, क्षेत्रस्थबीजं चान्यदिति
वक्तव्यम् । सहकारिसमवधानवशात् कुसूलस्थं बीजमेवाङ्कुरं जनयतीति
तु न वक्तुं युक्तम् । सहकारिणः किं बीजस्योपकुर्वन्ति ? उत
स्वातन्त्र्येणाङ्कुरं जनयन्ति ? उत किञ्चिदपि न कुर्वन्ति ? न तृतीयः,
सहकारित्वासंभवात् । न मध्यमः, बीजस्याकरणत्वं तदा ह्यापद्येत । न
प्रथमः, सहकारिभिः संपाद्यमान उपकारः किं बीजस्वरूपादतिरिक्तः ? उत न ?
यदि न, तर्हि बीजस्वरूपातिरिक्तोपकाराकरणात् व्यर्थाः सहकारिणः,
बीजस्वरूपं हि पूर्वमेव सिद्धम् । यदि चातिरिक्तः, तर्हि ये सहकारिणः
बीजातिरिक्तमुपकास्मतिशयं वा संपादयन्ति ते स्वातन्त्र्येण कार्यमेव निर्वर्त
यन्तु, किं मध्ये बीजेन कर्तव्यम् । तद्धेतोरेव तद्धेतुत्वे मध्ये किं तेन इति
न्यायात् । तथा चान्वयव्यतिरेकवशात् सहकारित्वेनाभिमतानामेव करणत्वं
समायास्यतीति । अयं च न्यायः प्रकृतेऽपि तुल्य इति विकल्पाः नेन्द्रियजन्या
इति । इन्द्रियापातः—प्रथमाक्षसन्निपातः । लौकिकीं स्थितिमिति ।
पादादिसुंयुक्ते सति दण्डे दण्डीति व्यवहाराभावात्, यादृशरीत्या सम्बन्धे
विशिष्टव्यवहारः लोकसम्मतः तादृशवैलक्षण्यं चेति तात्पर्यम् । तथा—
दण्डीत्यादिरीत्या ॥


I.239

न चेयतीं प्रक्रियां प्रथमनयनोपनिपातजातमविकल्पकं ज्ञान
मुद्वोढुं क्षममित्याह—प्र. वा. 3-174


सङ्केतस्मरणोपायं दृष्टसङ्कलनात्मकम् ।

पूर्वापरपरामर्शशून्ये तच्चाक्षुषे कथम् इति ॥

विकल्पद्वैविध्यम्


तत्रैतत् स्यात्—द्विविधा विकल्पाः; छात्रमनोरथविरचिताः,
इदन्ताग्राहिणश्च नीलमित्यादयः । तत्र पूर्वे मा भूवन् प्रमाणम् ।
कस्तेष्वर्थनिरपेक्षजन्मसु प्रामाण्येऽभिनिविशेत ! इदन्ताग्राहिणां
त्वर्थाविनाभूतत्वात् कथं न प्रामाण्यम् ? इति—उच्यते—सर्व
एवामी विकल्पाः परमार्थतोऽर्थं न स्पृशन्त्येव । स हि निर्विकल्प
केनैव सर्वात्मना परिच्छिन्नः । तदुक्तम्


एकस्यार्थस्वभावस्य प्रत्यक्षस्य सतः स्वयम् ।

कोऽन्यो नदृष्टो भागः स्यात् यः प्रमाणैः परीक्ष्यते इति ॥

इयतीं प्रक्रियामिति । विलम्बहेतुमिति यावत् । संकेतेत्यादि ।
नामविकल्पाभिप्रायेण संकेतस्मरणमत्रोक्तम् । सविकल्पकं हि संकेतस्मरणा
द्युपायजन्यम् । चाक्षुषं तु पुरोवृत्तिस्वलक्षणवस्तुमात्रविषयकं, इन्द्रियसन्निकर्षः
तावत्येव खलु विश्रान्तः । अतः नामादिकल्पनानां चाक्षुषे निर्विकल्पके
कथमवकाश इत्यर्थः । उपायपदं नपुंसकलिङ्गेऽपि बौद्धसम्मतम् ॥


छात्राः—बाला इति यावत् । अमी विकल्पाः—छात्रमनोरथ
कल्पिताः इदन्ताग्राहिणश्च । सः—परमार्थभूतः अर्थः । सर्वात्मनेति ।
स्वरूपस्य निर्विकल्पेनैव गृहीतत्वात् स्वरूपातिरिक्तस्य च धर्मादेः कल्पितत्वात्
न हि ज्ञातव्यान्तरमवशिष्यत इति भावः । एकस्येत्यादि । वस्तूनां
स्वरूपं त्वेकरूपमेव, तच्च स्वरूपं प्रत्यक्षेण गृहीतम् । स्वरूपातिरिक्तं तु
किञ्चिदपि नास्त्येव । अतश्च प्रत्यक्षेणागृहीतस्यांशस्य स्वरूपेऽसंभवात् कुतः
प्रमाणान्तरगवेषणमित्यर्थः । नदृष्टः इत्येकं पदम् ॥


I.240

कल्पनानामर्थासंस्पर्शित्वम्


यत्तु केषांञ्चिद्विकल्पानामिदन्ताग्राहित्वस्पष्टत्वादि रूपं तत्
अर्थाविनाभाविनिर्विकल्पकदर्शनपृष्ठभावित्वावाप्ततच्छायासंसर्गज—
नितं, न तु तेषामर्थस्पर्शः कश्चिदस्ति । अर्थात्मनो निर्विकल्पेनैव
मुद्रितत्वात् ॥


तस्मादतात्त्विकाकारसमुल्लेखपुरस्सराः ।

न यथावस्तु जायन्ते कदाचिदपि कल्पनाः ॥ ७४ ॥

कल्पनाभेदाः


पञ्च चैते कल्पना भवन्ति—जातिकल्पना, गुणकल्पना, क्रिया
कल्पना, नामकल्पना, द्रव्यकल्पना चेति । ताश्च क्वचिदभेदेऽपि
भेदकल्पनात्, क्वचिच्च भेदेऽप्यभेदकल्पनात् कल्पना उच्यन्ते ॥


जातिजातिमतोर्भेदो न कश्चित्परमार्थतः ।

भेदारोपणरूपा च जायते जातिकल्पना ॥ ७५ ॥

इदमस्य गोर्गोत्वमिति न हि कश्चिद्भेदं पश्यति । तेनाभेदे
भेदकल्पनैव ॥


एतया सदृशन्यायान्मन्तव्या गुणकल्पना ।

तत्राप्यभिन्नयोर्भेदः कल्प्यते गुणतद्वतोः ॥ ७६ ॥

तथा चाहुः—एष गुणी रूपादिभ्योऽर्थान्तरत्वेन नात्मानं
नो दर्शयति; तेभ्यश्च व्यतिरेकं वाञ्छसीति चित्रम् ॥


पृष्ठभावित्वेति । निर्विकल्पकेण स्वरूपे गृहीते हि विकल्पानामवसरः ।
स्वरूपस्यैवाग्रहणे आकाराणां कुत्र कल्पना ? निरधिष्ठानस्य भ्रमस्यासंभवात् ।
माध्यमिकातिरिक्तैः बौद्धैः निरधिष्ठानो भ्रमो नाङ्गीक्रियत इति स्मर्तव्यम् ॥


अस्य गोः इदं गोत्वं इत्यन्वयः । न हि कश्चिद्भेदं पश्यतीति ।
घटपटयोरिवेति भावः । यद्यपि भेदं व्यवहरति, तथापि न पश्यति ।
व्यवहारस्त्वन्यथासिद्ध इति भावः । एवमुत्तरत्रापि ॥


तेभ्यः—रूपादिभ्यः । व्यतिरेकं—स्वस्य गुणिन इति शेषः ॥


I.241
भेदारोपणरूपैव गुणवत्कर्मकल्पना ।

तत्स्वरूपातिरिक्ता हि न क्रिया नाम काचन ॥ ७७ ॥

गच्छति देवदत्त इति देवदत्तस्यैवान्यूनानतिरिक्तस्य प्रति
भासात् ॥


विभिन्नयोस्त्वभेदेन प्रवृत्ता नामकल्पना ।

चैत्रोऽयमित्यभेदेन निश्चयो नामनामिनोः ॥ ७८ ॥

चैत्र इत्ययं शब्दः, अयमित्यर्थः; कीदृशमनयोस्सामानाधि
करण्यम् ॥


एवं दण्ड्ययमित्यादिर्मन्तव्या द्रव्यकल्पना ।

सामानाधिकरण्येन भेदिनोर्ग्रहणात्तयोः ॥ ७९ ॥

विपर्यय इव बाधकप्रत्ययाभावेऽपि कल्पनानां मिथ्यात्वम्


ननु ! यद्यभेदे भेदं, भेदे चाभेदं आरोपयन्त्यः कल्पनाः
प्रवर्तन्ते—तत्कथमासु बाधकः प्रत्ययो न जायते, शुक्तिकारजत
बुद्धिवत्—उच्यते—यत्र वस्तु वस्त्वन्तरात्मनाऽवभासते तत्र


तत्स्वरूपेति । कर्मवद्वस्तुस्वरूपेत्यर्थः । अन्यूनानतिरिक्तस्येति ।
न हि तिष्ठतो देवदत्तात् गच्छन् देवदत्तः न्यूनः, अतिरिक्तो वा दृश्यते ।
स एवायं देवदत्तः इति प्रत्यभिज्ञा हि भवतां प्रमा इति भावः ॥


विभिन्नयोः इत्यत्रापि नामनामिनोरित्यस्याकर्षः । कीदृशं
इत्यधिक्षेपे ॥


एवमिति । यद्यप्यत्र दण्डोऽयमिति न प्रतीतिः, किन्त्वयं दण्डीति ।
अथापि दण्ड एव खलु विशेषणं, अतोऽस्ति भेद इत्यभिमानः । इममेवोत्तरत्र
पु. 249 निराकरोति ॥


यत्रेत्यादि । अयं भावः—व्यवहारदृष्ट्या भ्रमो हि द्विविधः—एकः—
पुरोवर्त्येव एकं वस्तु वस्त्वन्तरात्मनाऽवभासते, यथा शुक्तिः रजततया ।
अपरस्तु—अविद्यमान एव विद्यमान इव । यथा केशोण्ड्रकादि । तत्राद्यः
धर्माध्यासः, द्वितीयस्तु धर्मिण एव । तत्राद्ये बाधको युक्तः—नेदं रजतं,
I.242

बाधको भवति, मरीचिष्विव जलबुद्धौ । इह तु न जात्यादि
वस्त्वन्तरमस्ति, यतो वस्त्वन्तरात्मनाऽस्य ग्रहो भवेत् । व्यक्ति
विषया एवैते सामान्यादिविकल्पाः । तस्माद्वस्त्वन्तरानवभासि
ष्वेषु न बाधकः प्रत्ययो जायते । तस्मान्न विपर्ययात्मानो
विकल्पाः ॥


विपर्ययाद्वैलक्षण्येऽपि विकल्पानामप्रामाण्यमेव


न चैते प्रमाणम्, एतदुल्लिख्यमानस्य जात्यादेरपारमार्थि
कत्वात् । अत एव प्रमाणविपर्ययाभ्यामयमन्य एव विकल्प
इत्याचक्षत इत्यलं विस्तरेण ॥


एवमेताः प्रवर्तन्ते वासनामात्रनिर्मिताः ।

कल्पितालीकभेदादिप्रपञ्चाः पञ्चकल्पनाः ॥ ८० ॥

एवं च पश्यता तासां प्रामाण्यामोदमन्दताम् ।

भिक्षुणा लक्षणग्रन्थे तदपोढपदं कृतम् ॥ ८१ ॥

किन्तु शुक्तिरिति । द्वितीये न तथा ज्ञातुं शक्यते कस्याप्याकारस्यापरिशेषात् ।
यदा च सर्वविकल्पनिवृत्तिः, तदा त्वसौ परिनिर्वृत्त एव; न तदाऽपि बाधक
प्रत्ययावकाश इति । व्यक्तिविषयाः—स्वरूपविषयाः । विपर्ययः—
विपरीतभानम् । तथा च एकत्र विद्यमानमन्यथावभासते । अन्यत्र तु
अविद्यमानमेव भासत इति न तयोस्साम्यमिति ॥


न चैतावता विकल्पाः प्रमाणानि—तौल्यनिषेधस्तु बाधकप्रत्ययवारणा
येत्याह न चत इति । अयमाशयः—यत्र बाधकप्रत्ययोदयः तत्रैवाप्रामाण्य
मिति न निर्बन्धः । यादृशभ्रमविशेषस्थले कान्तारमध्यसकृद्दृष्टरज्जुसर्पादौ—
बाधकप्रत्यय एव नोदेति तेषां भ्रमत्वाभावप्रसङ्गात् । अतश्च असदर्थ
विषयत्वमेव भ्रमत्वमिति वक्तव्यम् । तच्च प्रकृतेऽपि तुल्यमिति । प्रमाणं—
स्वलक्षणं निर्विकल्पात्मकम् । तथा सविकल्पकं—न शुक्तिरजतज्ञानतुल्यं,
न वा स्वलक्षणज्ञानतुल्यम् । किन्तु उभयविलक्षणमेवेति । भेदादीत्यादिना
अभेदपरिग्रहः । तदपोढपदं—कल्पनापोढपदम् । तथा च प्रत्यक्षप्रमाण
I.243

—धर्मकीर्त्युक्तप्रत्यक्षलक्षणनिराकरणम्—


सविकल्पकानां प्रामाण्यसाधनम्


अत्र प्रतिविधीयते—तदिदं संकीर्णप्रायमतिबहु विलपता
भवता न नियतं किमपि विकल्पानामप्रामाण्यकारणमिति स्पष्टमा
वेदितम् । तदुच्यताम्—


किं शब्दार्थावभासित्वगर्भीकृतमसदर्थवाचित्वं तदप्रामाण्य
कारणमभिमतम् ?


उत संङ्केतस्मृत्यपेक्षोपनतमनिन्द्रियार्थसन्निकर्षजत्वम् ?


उत विशेषग्रहणाद्यपेक्षावाप्तं बहुप्रयाससाध्यत्वम् ?


उत पूर्वापरपरामर्शशून्यचाक्षुषवैलक्षण्यवाचोयुक्तिसमर्पितं
विचारकत्वम् ?


उत निर्विकल्पकपरिच्छिन्नवस्तुग्राहितानिबन्धनमधिगताधि
गन्तृत्वम् ?


उत भेदाभेदसमारोपभणितमतस्मिंस्तदितिग्राहित्वम् ?


उत वृत्तिविकल्पादिवाधितसामान्यग्रहणसूचितं बाध्यत्व
मेवेति ॥


लक्षणे विकल्पवारणाय कल्पनापोढपदम् । विपर्ययवारणाय अभ्रान्तपदं च
मिक्षुणा धर्मकीर्तिना कृतमिति ॥


संकीर्णेति । प्रमाणभूतनिर्विकल्पकवैलक्षण्यमुच्यते, उच्यते चाप्रमाण
भूतभ्रमवैलक्षण्यमिति विकल्पानां प्रामाण्याप्रामाण्यसांकर्यमुक्तं भवतीत्यर्थः ।
पूर्वापरेति । पूर्वापरपरामर्शशून्यं यत् चाक्षुषं—स्वलक्षणमात्रविषयकं
निर्विकल्पं प्रमाणभूतं ज्ञानं तद्वैलक्षण्योपपादनसामर्थ्यात् प्राप्तं यत् विचार
कत्वमित्यर्थः । वृत्तिविकल्पेति । अयमर्थः—सामान्यं स्वाश्रये किं
कार्त्स्न्येन वर्तते ? उतैकदेशेन ? आद्ये घटत्वस्य एकस्यामेव घटव्यक्तौ परि
समाप्त्या घटान्तरे घटत्वं न स्यात् । नान्त्यः, सामान्यस्य निरवयवत्वात् ।
प्रत्येकं घटे घटत्वजात्येकदेशस्यैव सत्त्वेन यावद्धटत्वजातेरसत्त्वेन च तस्य
I.244

विकल्पाप्रामाण्यापादकप्रथमहेतुनिरासः


तत्र तावन्न शब्दसंसर्गयोग्यार्थग्रहणद्वारकमसदर्थग्राहित्व
मेषामप्रामाण्यकारणमभिधातुं युक्तम्, शब्दार्थस्य वास्तवस्य
३ आह्निके समर्थयिष्यमाणत्वात् ॥


कः पुनरसाविति चेत् ? य एव निर्विकल्पके प्रतिभासते ॥


किं निर्विकल्पके सामान्यादिकमवभासते ? बाढमवभासत
इति ५ आह्निके वक्ष्यामः ॥


अत एव वाध्यत्वमपि न प्रामाण्यापहारकारणमेषां वक्तव्यम्;
वृत्तिविकल्पादेर्बाधकस्य ५ आह्निके परिहरिष्यमाणत्वात् ।
बाधकान्तरस्य च नेदमिति प्रत्ययस्य शुक्तिकारजतज्ञानादिवत्
भवतैवानभ्युपगमात् ॥


तत्रैव द्वितीयकल्पनिरासः


नाप्य निन्द्रियार्थसन्निकर्षजन्यत्वं सङ्केतग्रहणकालानुभूत
शब्दस्मरणापेक्षणादस्य वक्तव्यम्; सहकार्यपेक्षायामपि तद्व्यापारा
विरतेः ॥


घटपदार्थतैव न स्यात् । न हि पटैकदेशभूततन्तुमति पुरुषे पटवानिति
प्रतीतिः प्रमा भवेत् । अतः सामान्यस्यैव दुर्निरूपत्वेनावस्तुत्वात् तद्विषयको
विकल्पः भ्रान्तिरेवेति । वृत्तिविकल्पादित्यत्रादिपदार्थः सामान्यप्रकरण एव
द्रष्टच्यः ॥


असौ—शब्दार्थः ॥


एकोक्त्या सप्तमकल्पोऽपि दूषित एवेत्याह । अत एवेति । यतो
निर्विकल्पेऽपि सामान्यादिकमवभासते तत एव सविकल्पस्यापि निर्विकल्पवदेव
बाध्यत्वमपि न भवेदेवेति । वृत्तिविकल्पादेरिति । कार्त्स्येन वर्तते ?
उतैकदेशेन वर्तते ? इत्यादिपूर्वोक्तविकल्पस्येत्यर्थः ॥


द्वितीयं दूषयति—नापीति । सहकारी शब्दस्मरणादिरूपः । तद्व्या
पारः—इन्द्रियव्यापारः । पूर्वोक्तपु. 237 श्लोको विपरिणमय्य पटनीय
I.245

यः प्रागजनको बुद्धेः स लब्ध्वा सहकारिणम् ।

कालान्तरेण तां बुद्धिं विदधत् केन वार्यते ? ॥ ८२ ॥

व्यतिरिक्ताव्यतिरिक्तोपकारकरणादिविकल्पास्तु क्षणभङ्गभङ्गे
७ आह्निके निराकरिष्यन्ते ॥


रूपग्रहणे च चक्षुषः प्रदीपाद्यपेक्षायां दुष्परिहारास्ते
विकल्पाः । न वै किञ्चिदेकं जनकम् इति भवन्तोऽपि पठन्ति !
इति भवत्पक्षेऽपि तुल्यास्ते । यद्युभयोर्दोषः, न तेनैकश्चोद्यो
भवति । तस्मात् उपयोगाविशेषतः इत्यसिद्धो हेतुः । अयमेवोप
योगविशेषः, यत् इन्द्रियालोकमनस्कारविषयवद्वाचकस्मरणमपि
सामग्र्यन्तरमेतत्प्रत्ययजन्मनि व्याप्रियत इति न वाचकस्मरण
जनितत्वेन स्मार्तत्वादप्रमाणं विकल्पः । रूपस्मृत्याख्यसमनन्तर
प्रत्ययतिर्मितस्य निर्विकल्पस्य रूपज्ञानस्यापि तथात्वप्रसङ्गात् ॥


इत्याह—य इति । यः—हेतुः प्राक्—सहकारिसमवधानात् प्राक् बुद्धेरजनक
आसीत्, स एव हेतुः सहकारिणं कालान्तरेण लब्ध्वा तामेव बुद्धिं विदधत् केन
वारयितुं शक्यत इत्यर्थः ॥


ननु सहकारिणोऽप्यसंभव उपपादितः—इत्यत्राह—व्यतिरिक्ताव्यति
रिक्तेति । इदं उपकारविशेषणम् ॥


सहकार्यपेक्षणमात्रात् करणत्वं नापैतीत्यत्र निदर्शनं प्रतिबन्दी चाह—
रूपेत्यादि । अधिपतिसहकारिसमनन्तरालम्बनप्रत्ययाश्चत्वार्यपि ज्ञान
साधनानीति खलु तैरुय्यन्ते । तत्र दीपादयः सहकारिप्रत्ययाः भवन्मते कथं
सहकारिणो भवेयुः इति । किञ्चिदेकं न वै जनकं इत्यन्वयः । एकमेव
फलोपधायकं न भवति, किन्तु मिलितमेवेत्यर्थः । ते—उक्तविकल्पाः ।
इन्द्रियेत्यादि । अधिपत्यादीनां यथासंख्यं अन्वयः । तत्र प्रकृते
मनस्कारः समनन्तरप्रत्ययः रूपाद्यालोचनाज्ञाने । रूपस्मृतीति । न हि
रूपाविषयकं चाक्षुषं किञ्चिदुदेतुमप्यलम् । रूपाप्रतीतौ हि वस्तु कथं
प्रतीयेत । अतश्च रूपस्मृत्याख्यसमनन्तरप्रत्ययं विना निर्विकल्पोऽपि न
भवेदेवेत्याशयः ॥


I.246

इन्द्रियसन्निकर्षस्य फलेनाव्यवधानोपपादनम्


यच्चेदमुच्यते—सोऽर्थो व्यवहितो भवेत् इति—तन्न विद्मः,
कीदृशं व्यवधानमर्थस्येति । न हि दीपेन वा मनसा वा विज्ञानहेतुना
कदाचिदर्थो व्यवधीयते । मनोवच्च वाचकस्मृतिरपि सा
ग्र्यन्तर्गता सती तत्प्रतीतौ व्याप्रियत इति कथमर्थं व्यवदधीत ॥


स्मृतिविषयीकृतः शब्दः तमर्थं व्यवधत्त इति चेत्—न—
शब्दस्य तत्प्रकाशकत्वेन ज्ञानवत् दीपवद्वा व्यवधायकत्वाभावात् ।
न चेन्द्रियव्यापारतिरोधानं व्यवधानम्; तस्याधुनाप्यनुवर्तमान
त्वात् ॥


यथा तद्भावभावित्वादाद्यं विज्ञानमक्षजम् ।

तथा तद्भावभावित्वादुत्तरं ज्ञानमक्षजम् ॥ ८३ ॥

न हि वाचकस्मरणान्तरं अक्षिणी निमील्य विकल्पयति—
पटोऽयमिति ॥


अथ यावद्वाचकविज्ञानं हृदयपथमवतरति तावत्सोऽर्थः
क्षणिकत्वादतिक्रान्त इति व्यवहित उच्यते—तदपि दुराशामात्रम् ।
क्षणभङ्गस्योपरिष्टान्निराकरिष्यमाणत्वात् ७ आह्निके


तत्प्रतीतौ—अर्थप्रतीतौ । व्याप्रियत इति । तथा च शब्दस्मरणस्यापि
सामग्र्यन्तर्गतत्वेन तस्य व्यवधायकत्वं न संभवतीत्यर्थः ॥


व्यवधत्त इति । इन्द्रियसन्निकर्षादेरिति शेषः । अनुपदोक्तम
जानानं प्रति तदेव स्पष्टयति—शब्दस्येति । तत्प्रकाशकत्वेन—अर्थप्रका
शकत्वेन । अव्यवधायकत्वे दृष्टान्तः—ज्ञानवद्दीपवदिति । ननु व्यवधानं
इन्द्रियव्यापारव्यवच्छेद एवेत्याशङ्क्य समाधत्ते—न चेति ॥


तद्भावभावित्वात्—इन्द्रियान्वयव्यतिरेकानुविधायित्वात् । आद्यं
विज्ञानं—निर्विकल्पकम् । उत्तरं—सविकल्पकमपि ॥


हृद्गतं प्रकाशयति—अथेति । यावत्तावच्छब्दौ कालावधिपरौ ॥


I.247

अपि च प्रदर्शितप्राप्त्यादिव्यवहारवत्सन्तानद्वारकमिहापि
तद्ग्रहणं भविष्यतीति सर्वथा न व्यवधानम् । तदेवं समयस्मरण
सापेक्षत्वेऽपि नेन्द्रियार्थसन्निकर्षोत्पन्नतामतिवर्तते सविकल्पकं
विज्ञानमिति कथमप्रत्यक्षम् ?


तृतीयविकल्पनिरासः


यत्पुनः विशेषणविशेष्यग्रहणादिसामग्र्यपेक्षत्वेन बहुप्रयास
साध्यत्वमप्रामाण्यकारणमभिधीयते—तदतीव सुभापितम् ! न हि
बहुक्लेशसाध्यत्वं नाम प्रामाण्यमुपहन्ति । उक्तं च न हि
गिरिशृङ्गमारुह्य यद्गृह्यते तदप्रत्यक्षम्
इति । रसादिज्ञानापेक्षया च
रूपादिज्ञानस्य दीपाद्यालोकाहरणप्रयाससाध्यत्वादप्रामाण्यं स्यात् ॥


चतुर्थविकल्पनिरासः


यदपि पूर्वापरपरामर्शरहितचाक्षुषविज्ञानवैपरीत्येन विकल्प
ज्ञानानां विचारकत्वादप्रामाण्यमुच्यते—तदपि न सम्यक् । सर्वत्र
ज्ञानस्य विचारकत्वानुपपत्तेः । विचारको हि प्रमाता । स हि
पश्यति, स्मरति, अनुसन्धत्ते, विचारयति, इच्छति, द्वेष्टि, यतते,
गृह्णाति, जहाति, सुखमनुभवतीति वक्ष्यामः । अर्थं च स्पृशतो
विज्ञानस्य विचारयतोऽपि कथमप्रामाण्यं स्यात् ॥


प्रदर्शितेति । इन्द्रियादिनेति शेषः । लोके ह्यभिमतमर्थं पश्यन्
प्रवृत्तस्तमेव प्राप्नोतीति सर्वसिद्धम् । क्षणभङ्गे च तत्सन्तानैक्यान्निर्बाह्यम् । तत्र
दृष्टस्यातिक्रान्तत्वेऽपि यथा संतानैक्यात् दृष्टस्यैव प्राप्तिरुच्यते भवद्भिः, तथा
प्रकृतेऽप्यस्त्विति भावः । समयः—शक्तिः । वाचकशब्द इति यावत् ॥


रसादीति । रसादिप्रत्यक्षं हि विषयेन्द्रियसम्बन्धातिरिक्तं नापेक्षते,
रूपप्रत्यक्षं तु तदतिरिक्तालोकादिसंपादनमपेक्षत इति तस्याप्रामाण्यं स्यादिति ॥


सर्वत्रेति । ज्ञानं हि विचारात्मकं, न तु विचारकम्; विचारकस्तु पुरुष
एवेत्यर्थः । अस्तु तर्ह्यौपचारिकमेव ज्ञानस्य विचारकत्वम्—इत्यत्राप्याह—
अर्थं स्पृशत इति । अर्थजन्यस्येति यावत् ॥


I.248

पञ्चमविकल्पनिरासः


अथास्य निर्विकल्पेनैव सर्वात्मना स्पृष्टत्वात् पिष्टपेषणमयुक्त
मिति सविकल्पमधिगतार्थग्राहित्वादप्रमाणमिति मन्यसे, तदपि न
साधु—पूर्वमेव पु. 56 परिहृतत्वात् । न ह्यनधिगताधिगन्तृत्वं
प्रामाण्यमित्युक्तम् । गृहीतग्रहणेऽपि प्रमाणस्य प्रमाणत्वानतिवृत्तेः ॥


षष्ठविकल्पनिरासः


यत्त्वभ्यधायि—भिन्नेष्वभेदं अभिन्नेषु च भेदं कल्पयन्त्यः
कल्पनाः, अतस्मिंस्तद्ग्रहणे प्रामाण्यमवहजतीति—तद्युक्तम्
अतस्मिंस्तद्ग्रहो भवत्यप्रमाणत्वकारणम्; तत्त्विह नास्ति । तस्य
हि बाधकप्रत्ययोपसन्निपातान्निश्चयः । न च भवदुपवर्णितासु
पञ्चस्वपि जात्यादिकल्पनासु बाधकं किञ्चिदस्तीति नातस्मिं
स्तद्ग्राहिण्यः कल्पना भवन्ति ॥

जातिर्जातिमतो भिन्ना गुणी गुणगणात् पृथक् ।

तथैव तत्प्रतीतेश्च कल्पनोक्तिरबाधिका ॥ ८४ ॥

एतच्चोपरिष्टान्निर्णेष्यते ॥


द्रव्यनाम्नोऽतु भिन्नयोर्भेदेनैव प्रतीतिः, नाभेदकल्पना । न हि
देवदत्तशब्दोऽयम् इत्येवं तद्वाच्यः प्रतीयते ॥


ननु देवदत्तोऽयं इति संज्ञासंज्ञ्यभेदव्यवहारो दृश्यत एवेति
चेत्—न, शब्दविशिष्टतद्वाच्यावगतिरेषा, न शब्दोऽस्यामर्था
रूढोऽवभासते । न शब्दविवर्तरूपेणार्थः परिस्फुरति । किं तर्हि ?


कथमत्राप्रामाण्यकारणाभावनिश्चय इत्यत्राह—तस्येति । तस्य—अप्रा
माण्यस्य ॥


तथैव—पृथक्त्वेनैव । अवाधिकेति । प्रामाण्यं प्रतीति शेषः ॥


घटस्य रूपं, गवि गोत्वमित्यादौ गुणगुणिनोः भेदप्रतीतावपि, नीलो घटः,
गौः इत्यदिसामानाधिकरण्यप्रतीतिरप्यस्ति । द्रव्यनाम्नोस्तु तदपि नास्तीति कथं
तत्र अभेदकल्पनेति तुशब्देन सूचितम् । दृश्यत इति । देवदत्तपदं हि तत्र
I.249

शब्दस्मृत्याख्यसामग्र्यसामर्थ्यातिशयोद्भवः ।

प्रत्ययातिशयः सोऽयं इत्येवं प्राक् प्रसाधितम् ॥ ८५ ॥

दण्ड्ययमिति द्रव्याभेदकल्पना तु मन्दमतिभिरेवोदाहृता ।
न हि दण्डोऽयमिति देवदत्ते प्रतीतिः, अपि तु दण्डीति । तत्र च
प्रकृतिप्रत्ययौ पृथगेवोपलभ्येते—दण्डोऽस्यास्तीति दण्डीति
तदिह यथैव वस्तु तथैव तदवसाय इति नाभेदारोपः ॥


कर्मणि तु द्वयमपि नास्ति; नाभिन्ने भेदकल्पना; न च
भिन्नेऽप्यभेदकल्पना ॥


क्रिया हि तद्वतो भिन्ना भेदेनैव च गृह्यते ।

चलतीत्यादिबोधेषु तत्स्वरूपावभासनात् ॥ ८६ ॥

तेन क्रियागुणद्रव्यनामजात्युपरञ्जितम् ।

विषयं दर्शयन्नैति विकल्पो नाप्रमाणताम् ॥ ८७ ॥

विपर्ययात्समुत्तीर्ण इति साधु सहामहे ।

प्रमाणात्तु बहिर्भूतं विकल्पं न क्षमामहे ॥ ८८ ॥

क्वचिद्वाधकयोगेन यदि तस्याप्रमाणता ।

निर्विकल्पेऽपि तुल्याऽसौ द्विचन्द्राद्यवभासिनि ॥ ८९ ॥

संज्ञाबोधकम् । प्राक्—अव्यपदेश्यपदकृत्यविचारावसरे ॥


प्रतीत्योर्बैलक्षण्यमुपपादयति—तत्रेति । तदवसायः—तज्ज्ञानम् ॥


कर्मणि त्विति । अयं गौः, नीलोऽयमित्यादौ सामानाधिकरण्यप्रतीतिर्वा
वर्तते, कर्मणि तु तदपि नास्तीति सूचनाय तु शब्दः ॥


तत्स्वरूपेति । आश्रयातिरिक्तक्रियास्वरूपेत्यर्थः । धातोः क्रिया अर्थः,
आख्यातस्य आश्रयः । न हि चलतीति प्रत्ययः सदाऽस्तीति क्रियातद्वतोर्भेद
इत्यर्थः । विषयं दर्शयन् विकल्पः अप्रमाणतां नैति इत्यन्वयः ।
विपर्ययादिति । विकल्पोऽयं विपर्ययविलक्षण इति सम्मतमेव, अप्रामाण्यं तु
नेत्यर्थः । द्विचन्द्रेति । तस्यापि प्रथमाक्षपातजत्वादित्यर्थः । ननु तर्हि
I.250

मनोराज्यविकल्पानां काममस्त्वप्रमाणता ।

यथावस्तु प्रवृत्तानां न त्वसावक्षजन्मनाम् ॥ ९० ॥

विकल्पा अपि स्वतन्त्राः


न च निर्विकल्पपृष्ठभावित्वकृतमेषामेतद्रूपम्; विषयसंस्पर्श
मन्तरेण स्वतस्स्वच्छरूपाणां ज्ञानानामेवमाकारत्वानुपपत्तेः किं
निर्विकल्पपृष्ठभाविता करिष्यति ? तदनन्तरभाविनी हि स्मृतिरपि
क्वचिद्दुश्यत एव; न च सा तच्छायावती इति दुराशामात्रमेतत् ॥


ननु निर्विकल्पकेनैव वस्तुसर्वस्वं गृहीतं एकस्यार्थस्वभावस्येति
वर्णितम्—प्रतिविहितमेतत्—गृहीतग्रहणेऽपि प्रामाण्यानपायात् ॥


निर्विकल्पविषयवस्तुनि विप्रतिपत्तयः


किञ्च किं निर्विकल्पकेन गृह्यत इत्येतदेव न जानीमः ॥


भवन्तो निर्विकल्पस्य विषयं संप्रचक्षते ।

सजातीयविजातीयपरावृत्तं स्वलक्षणम् ॥ ९१ ॥

भ्रान्तिज्ञानमेव नास्तीत्यत्राह—मनोराज्येति । कामुकस्य सर्वत्र कामिनीदर्शन
रूपाणामित्यर्थः । एवं केषाञ्चित् स्वप्नानां च । यथावस्तु—वस्त्वनतिक्रम्य ।
असौ—अप्रमाणता ॥


निर्विकल्पसमनन्तरभावित्वकृतमेव विकल्पानां इदन्ताग्राहित्वादीति
यदुक्तं तत्प्रत्याह—न चेति । एषां—सविकल्पानां । एतत्—स्पष्टत्वं इदन्ताग्राहि
त्वादि । विषयेति । अयमर्थः—तन्मते हि ज्ञानं स्वतो निराकारम् । विषयो
ल्लेखवशादेव साकारज्ञानानुभवः । एवञ्च विकल्पानां निर्विकल्पाधीनत्वेऽपि
साकारत्वं विषयसंबन्धाधीनमेव वक्तव्यमिति निर्विकल्पपृष्टभावित्वं किं वा
तत्र करिष्यतीति विकल्पानां विषयसंस्पर्शोङ्गीकरणीय एवेति । निर्विकल्प
पृष्टभाविनीषु स्मृतिषु इदन्ताग्राहित्वस्पष्टत्वादेरभावात् व्यभिचरितं
चेदमित्याह—तदनन्तरेति । क्वचिदिति । यथा विशेषानवगाहि स्वरूप
मात्रावगाहि निर्विकल्पं प्रथमं जायते, ततश्च तत्र विशेषभानादिकं; एवं
स्मरणस्थलेऽपि कदाचित् प्रथमं स्वरूपमात्रस्मरणं, ततस्तत्र विशेषचिन्तन
I.251

महासामान्यमन्ये तु सत्तां तद्विषयं विदुः ।

वाग्रूपमपरे तत्त्वं प्रमेयं तस्य मन्वते ॥ ९२ ॥

मित्यनुभूयत एव तथा च निर्विकल्पानुभवाज्जायमानापि स्मृतिः न स्पष्ट
रूपा वा इदमिति ग्राहिणी बोपलभ्यत इति न निर्विकल्पपृष्ठभावित्वकृतं तदिति ॥


अन्ये त्विति । ब्रह्मविवर्तवादिन इत्यर्थः । श्लोकवार्तिके प्रत्यक्षसूत्रे
भट्टपादैः—अस्ति ह्यालोचनाज्ञानं प्रथमं निर्विकल्पकम् इत्यारभ्य महासामा
न्यमन्यैस्तु द्रव्यं सदिति चोच्यते । सामान्यविषयत्वं च प्रत्यक्षस्यैवमाश्रितम् ।
विशेषास्तु प्रतीयन्ते सविकल्पकबुद्धिभिः
इत्यादिनोक्तान्यपक्षप्रत्यभिज्ञानायै
वात्रापि महासामान्यमन्ये तु इत्युक्तम् ॥


तच्च वार्तिकं न्यायरत्नाकरे पार्थसारथिमिश्रैः एवमवतारितम्—
वेदान्तिनस्तु महासामान्यमेव सत्ता-द्रव्यशब्दाभिलप्यं निर्विकल्पस्य
विषयमाहुः
इति ॥


भट्टोम्बेकैश्च तात्पर्यटीकायां—वेदान्तवादिनस्तु महासामान्यं निर्वि
कल्पस्य विषयमाहुः । तच्च केचित् सत्तामाहुः, अपरे द्रव्यमित्येतद्दर्शयति

इत्यवतारितम् ॥


काशिकायां सुचरितमिश्रैश्च अद्वैतवादिनस्तु सन्मात्रविषयं निर्विकल्पकं
प्रत्यक्षमित्याचक्षते, तदेतदुपन्यस्यति
इति स्पष्टमेवाभिहितम् ॥


अयञ्च पक्षः मण्डनमिश्रकृतब्रह्मसिद्धौ तर्ककाण्डान्ते यथानुवृत्तव्यव
हारसिद्धिं यथाऽवभासं कथयन्ति बाह्याः । तथैव भेदव्यवहारयोगं वदन्ति
वेदान्तविवेकभाजः
इत्यत्र वर्णितः । बाह्याः बौद्धाः सकलव्यावृत्तं वस्त्वेव
निर्विकल्पप्रत्यक्षविषय इति वदन्ति । वचन्तु सकलानुवृत्तं सत्तामात्रमेव
तद्विषय इति वदामः इति तदर्थः ॥


सुरेश्वराचार्यैः बृहदारण्यकसम्बन्धवार्तिक 918 वस्तुस्वरूपसंस्पर्शि
चक्षुरादिभ्य उत्थितम् । भेदस्पृक् नाक्षजादि......
इत्यत्रायमर्थ उक्तः ।
एतद्विस्तरश्च संक्षेपशारीरकाद्वैतसिद्धयादिषु द्रष्टव्यः ॥


अयं च पक्षः प्रथमं हरिणा वाक्यपदीये उपक्षिप्तः । अपरे—शब्दविवर्त
वादिनः । तथा ह्युक्तं हरिणा वाक्यपदीये—अनादिनिधनं ब्रह्म शब्दतत्त्वं यदक्षरं ।
विवर्ततेऽर्थभावेन प्रक्रिया जगतो यतः
इति । एवञ्च पूर्वोक्ताः ब्रह्मविवर्तवादिनः ।
हरिस्तु शब्दविवर्तवादीत्येतावानेव विशेषः । इतरत्सर्वमपि प्रायः तयोस्तुल्यम् ॥


I.252
केचिद्गुणक्रियाद्रव्यजातिभेदादिरूषितम्

शबलं वस्तु मन्यन्ते निर्विकल्पकगोचरम् ॥ ९३ ॥

प्रत्यक्षविषयेऽप्येताः चित्रं विप्रतिपत्तयः ।

परोक्षार्थे हि विमतिः प्रत्यक्षेणोपशाम्यति ॥ ९४ ॥

प्रत्यक्षे हि समुत्पन्ना विमतिः केन शाम्यति ?

इदं भाति न भातीति संविद्विप्रतिपत्तिषु ।

परप्रत्यायने पुंसां शरणं शपथोक्तयः ॥ ९५ ॥

केचित्—भाट्टाः । तथा च वार्तिकम्—निर्विकल्पकबोधेऽपि द्व्यात्मक
स्यैव वस्तुनः । ग्रहणं
इति प्रत्यक्ष—118 । अत्र न्यायरत्नाकरः—
द्व्यात्मकस्य—सामान्यविशेषात्मकस्येत्यर्थः । सामान्यावभासोऽपि प्रतीति
सिद्ध एव । न हि निर्विकल्पकेनागृहीतस्य सविकल्पकेनापि ग्रहणं संभवति ।
न वाऽगृहीते सामान्ये व्यक्त्यन्तरे प्रत्यभिज्ञा संभवति । तस्मात् सामान्यं
विशेषश्च निर्विकल्पेऽपि प्रकाशत एव
इति ॥


एवमाकृतिवादे च—यदा तु शबलं वस्तु युगपत् प्रतिपद्यते । तदाऽ
न्यानन्यभेदादि सर्वमेव प्रलीयते
इत्युक्तम् । एतच्च निर्विकल्पविषयमिति
तद्व्याख्यायां उक्तम् । एतच्छलोकप्रत्यभिज्ञापनायैवात्रापि श्लोके शबल
शब्दप्रयोगः । अधिकमुत्तरत्र द्रष्टव्यम् ॥


एवञ्च भाट्टैः जातिव्यक्त्योर्गुणगुणिनोश्च भेदाभेदापरपर्यायस्य तादात्म्यस्यै
वांगीकारात् निर्विकल्पे सामान्यविशेषोभयात्मकं वस्तु भासत इत्यङ्गीक्रियते ।
तथोक्तमाकृतिवादे—तेन नात्यन्तभेदोऽपि स्यात्सामान्यविशेषयोः इति ।
अत एव शतदूषिण्यां निर्विशेषविषयनिर्विकल्पभंगवादे—जातिगुणादिविशिष्ट
मेव द्रव्यं निर्विकल्पे भासते । परन्तु जातिगुणाद्यात्मकमपि वस्तु न तथा
निर्विकल्पे विविच्यते । विकल्पे तु तदेव जातिगुणाद्यात्मना विकल्प्यते
इति
अभिहितम् । इदं च मतं कौमारिलानामिति तद्व्याख्यायां चण्डमारुते महाचार्यै
रुक्तम् । अधिकमन्यत्र ग्राह्यम् ॥


परेति । एवं वादिषु विप्रतिपद्यमानेषु अनुभवे शरणीकरणीये सर्वेऽपि
वादिनः स्वानुभवमपि तथा तथा आचक्षत इति अन्ततः शपथकरणमेवावशिष्यत
I.253

न तु शपथशरणा एव निरुद्यममास्महे । मार्गान्तरेणापि
तत्प्रमेयं निश्चिनुमः ॥


निर्विकल्पानुसारेण सविकल्पकसंभवात् ।

ग्राह्यं तदानुगुण्येन निर्विकल्पस्य मन्महे ॥ ९६ ॥

स्वलक्षणमात्रं न निर्विकल्पविषयः


तत्र न तावत्सकलसजातीयव्यावृत्तं स्वलक्षणं प्रत्यक्षस्य विषयः ॥


गृहीते निर्विकल्पेन व्यावृत्ते हि स्वलक्षणे ।

अकस्मादेव सामान्यविकल्पोल्लसनं कथम् ? ॥ ९७ ॥

निर्विकल्पानुसारेण हि विकल्पाः प्रादुर्भवितुमर्हन्ति । अपि च—


विजातीयपरावृत्तविषया यदि कल्पना ।

व्यावृत्तिरूपं सामान्यं गृहीतं हन्त ! दर्शनैः ॥ ९८ ॥

इति । शपथोऽपि यदि क्रियेत तदा का गतिरिति चेत् तत्राह—न त्वित्यादि ॥


सकलेतरव्यावृत्तं स्वरूपमेव निर्विकल्पे भासते इत्युक्ते तत्र इतरपदार्थः—
सजातीयो विजातीयश्च । तत्र सजातीयव्यावृत्ताकारभाने बाधकमाह—
सजातीयेति । गृहीत इत्यादि । अयमर्थः । निर्विकल्पेन सकलेतर
व्यावृत्तं रूपमेव गृह्यते, सामान्यं तु विकल्पस्यैव विषय इति खलु तव मतम् ।
अत्रेदं पृच्छामः—सामान्यं अन्यत्र कदापि गृहीतं अत्र विकल्पे भासते ? उत
कुत्रापि न ? कुत्राप्यभातस्य भानं तु न संभवत्येव, न हि शशशृङ्गादिः कुत्र
चिद्भासते । अन्यत्र भातं चेत्, किं विकल्पे ? उत निर्विकल्पे ? यदि
विकल्पे तर्हि पुनरनवस्था । यदि निर्विकल्पे तर्हि सिद्धं नः समीहितमिति ।
व्यावृत्ते स्वलक्षणमात्रे निर्विकल्पेन गृहीते सति सामान्यविषयविकल्पः
आकस्मिक एव कथं स्यात्
इत्यर्थः ॥


अथ विजातीयव्यावृत्ताकारभाने दोषमाह—विजातीयेति । सामान्यं
हि भवन्मते अन्यापोहरूपम् । तथा च निर्विकल्पे सामान्यभानमंगीकृतमेवेति । ननु
I.254

व्यावृत्तान्ननु नैवान्या व्यावृत्तिः परमार्थतः ।

व्यावृत्तग्रहणेनैव सुतरां तद्ग्रहो भवेत् ॥ ९९ ॥

सामान्यग्रहणेऽप्येवं तद्व्यापारावकल्पनात् ।

स्वलक्षणपरिच्छेदनिष्ठं तन्नावतिष्ठते ॥ १०० ॥

नापि सन्मात्रं निर्विकल्पस्य विषयः


नापि सत्ताद्वैतवादिसम्मतसत्ताख्यो निर्विकल्पस्य विषयो
युक्तः ॥


सत्ताग्रहणपक्षेऽपि विशेषावगतिः कुतः ।

सा भाति भेदस्पृष्टा चेत् सिद्धमद्वैतदर्शनम् ॥ १०१ ॥

न च भेदं विना सत्ता गृहीतुमपि शक्यते ।

नाविद्यामात्रमेवेदमिति च स्थापयिष्यते ॥ १०२ ॥

निर्विकल्पे सूक्ष्मशब्दानुवेधोऽप्ययुक्तः


वाक्तत्त्वप्रतिभासोऽपि प्रतिक्षिप्तोऽनया दिशा ।

वस्तुनः सकलेतरव्यावृत्तत्वेपि तेनाकारेण वस्तु न गृह्यते, किन्तु व्यावृत्त्याश्रयं
वस्तुमात्रमिति चेत् तत्राह—व्यावृत्तादिति । न हि स्वरूपातिरिक्तो धर्मो
नामास्ति भवतामित्यर्थः । एवं चास्मिन् मतेऽपि सामान्यग्रहणेऽपि निर्विकल्प
प्रवृत्तिसंभवात् स्वलक्षणमात्रविषयकं निर्विकल्पकमिति न क्षोदक्षममिति ॥


विशेषेत्यादि । निर्विकल्पेन सामान्यं न गृह्यत एवेति पक्षे—अज्ञातस्य
सामान्यस्य विकल्पेऽपि भानासंभवादिर्यो दोष उक्तः, तादृशः प्रकृतेऽपि जागरूकः ।
निर्विकल्पेन विशेषाग्रहणे तर्हि केन विशेषो गृह्यत इति वक्तव्यम् । न केनापीति
चेत् भानमेव न स्यात् । विकल्पेनैवेति चेदनवस्था । निर्विकल्पेनैवेति चेत्
भेदविषयो निर्विकल्पः सिद्ध इति अद्वैतासिद्धिः । सिद्धमद्वैतदर्शनं इति
नर्मोक्तिः । किञ्च समानानां भावस्यैव सामान्यरूपत्वात् व्यक्तिविशेषाणामग्रहणे
तदाश्रितं सामान्यमपि न गृह्येत । न च भेदाः सन्त्येव, परन्तु कल्पितास्ते—इति
चेत्, तदेतत् नवमाह्निके निराकरिष्यते ॥


अनया दिशेति । ब्रह्मविवर्तवादाभ्युपगतब्रह्मापरपर्यायमहासामान्य
स्थानापन्नमेव शब्दतत्त्वमिति पूर्वमेवोक्तम् । एवञ्च शब्दतत्त्वमेकमेव
सर्वानुगतं सत्यं निर्विकल्पविषयः । व्यक्तयस्तु मिथ्या एवेत्युक्तम् ।
I.255

कथं च चाक्षुषे ज्ञाने वाक्तत्त्वमवभासते ॥ १०३ ॥

अगृहीते तु सम्बन्धे गृहीते वाऽपि विस्मृते ।

अप्रबुद्धेऽपि संस्कारे वाचकावगतिः कुतः ? ॥ १०४ ॥

जात्यादिशबलितमपि न निर्विकल्पस्य विषयः


चित्रताऽपि पृथग्भूतैर्धर्मैस्तत्समवायिभिः ।

जात्यादिभिर्यदीष्येत धर्मिणः काममस्तु सा ॥ १०५ ॥

तदात्मता तु नैकस्य नित्यं तत्त्वानुपग्रहात् ।

अंशनिष्कर्षपक्षे तु धर्मभेदो बलाद्भवेत् ॥ १०६ ॥

तथोक्तं च—वाक्यपदीयो 3-32 सत्यासत्यौ तु यौ भावौ प्रतिभावं
व्यवस्थितौ । सत्यं यत् तत्र सा जातिरसत्या व्यक्तयः स्मृताः । सम्बन्धि
भेदात्सत्तैव भिद्यमाना गवादिषु । जातिरित्युच्यते तस्यां सर्वे शब्दा व्यवस्थिताः ।
सा नित्या सा महानात्मा
इति । एवञ्च ब्रह्मविवर्तवादे प्रदर्शिता दोषा अत्रापि
समानाः ॥


कथमिति । शब्दो हि श्रावण इति भावः । ननु ज्ञानलक्षणाप्रत्यासत्त्या
शब्दभानं भवताप्यङ्गीकृतं, कः प्रद्वेषोऽस्मासु ? इत्यत्राह—अगृहीत इति ।
सत्यमङ्गीकृतमस्माभिः, विकल्पस्थले पूर्वमेव गृहीतशक्तिकस्य तद्युज्यते । न तु
प्राथमिकल्प्रत्यये । विकल्पस्थलेऽपि, वाचकशब्दस्याज्ञाने, ज्ञातेऽपि संस्कार
प्रमोषवशाद्विस्मरणे, सत्यपि संस्कारे उद्बोधकासमधाने वा कथं शब्दभानं
स्यात् । सूक्ष्मशब्दभानादिकं तु स्फोटवादे विचार्यते ॥


चित्रतेत्यादि । अयमर्थः । एकस्मिन् धर्मिणि विद्यमानाः जातिगुण
क्रियात्मका धर्माः प्रथमग्रहणेऽपि गृह्यन्त एव । परन्त्वयं धर्मी, अयं गुणः,
इयं जातिः, इयं क्रियेति विविच्य न भासन्ते । अतस्तन्निर्विकल्पमित्युच्यते ।
धर्मधर्मिणोश्च भेदाभेदावेवेति पूर्वमेवोक्तम् । तत्र निर्विकल्पेऽभेदांशस्यैबौ
त्कट्यम् । तदनन्तरं च पुरुषापेक्षानुगुणं जातिः गुणो वा धर्मिणः पृथगुद्भूतं
सत् गृह्यते । तथोक्तमाकृतिवादे—भेदेभ्योऽनन्यरूपेण सामान्यं गृह्यते
यदा । तदा विशेषमात्रेण वस्तु प्रत्यवभासते । तदुद्भूत्या च सामान्यं
तद्भावानुगुणं स्थितम् । सदप्यग्राह्यरूपत्वादसद्वत्प्रतिभाति नः । विशेषानपि
सामान्याद्यदा भेदेन बुध्यते । तदा सामान्यमात्रत्वमेवमेव प्रतीयते । यदा
तु शबलं वस्तु युगपत्प्रतिपद्यते । तदान्यानन्यभेदादि सर्वमेव प्रलीयते
इति ॥


I.256
यत्र यत्र यदोद्भूतिः जिघृक्षा चेति कथ्यते ।

तदात्मकत्वं धर्माणामुच्यते चेत्यसङ्गतम् ॥ १०७ ॥

देशभेदस्तु धर्माणां अस्माभिरपि नेष्यते ।

धर्मी हि तेषामाधारो न पुनस्स तदात्मकः ॥ १०८ ॥

निर्विकल्पकविचारोपसंहारः


तस्माद्य एव वस्त्वात्मा सविकल्पस्य गोचरः ।

स एव निर्विकल्पस्य शब्दोल्लेखविवर्जितः ॥ १०९ ॥

अत्रैवं पृच्छ्यते—नामजात्यादिशबलं वस्तु निर्विकल्पे भासत इत्यत्र, किं
धर्मिणोऽत्यन्तं भिन्नैः धर्मिणि वर्तमानैर्नामजात्यादिभिः शबलितं वस्तु ? उता
त्यन्ताभिन्नैः तादृशैः ? उत भिन्नाभिन्नैः ? आद्येऽस्मदिष्टापत्तिः । द्वितीये तु
अर्भिन्नयोर्धर्मधर्मिभावः कथम् ? न हि स्वयमेव धर्मः धर्मी च भवितुमर्हति ।
एवं च एकस्यैव धर्मिणः तत्त्वेन—धर्मात्मकत्वेनाग्रहणात् धर्माणां
धर्म्यात्मकत्वं, धर्मिणो धर्मात्मकत्वं वा कथम् । नान्त्यः—भेदाभेदयोः परस्पर
विरुद्धत्वेनैकत्रासंभवात् । ननु उपपादकांशभेदाद्विरोधं परिहरामः—तथोक्तं—
एवञ्च परिहर्तव्यः भिन्नाभिन्नत्वकल्पना । केनचित् द्व्यात्मनैकत्वं नानात्वं चास्य
केनचित्
इति ॥


अत्र न्यायरत्नाकरः—यत्तु अन्यानन्यतैव कथमेकस्येत्युक्तं तत्राह—
एवञ्चेति । एतदेव दर्शयति—केनचिदिति । गोत्वं हि शाबलेयात्मना बाहुले
याद्भिद्यते, स्वरूपेण च न भिद्यते । तथा व्यक्तिरपि गुणकर्मजात्यन्तरात्मना
गोत्वाद्भिद्यते, स्वरूपेण च न भिद्यते । तथा व्यक्त्यन्तरादपि व्यक्तिर्जात्यात्मना
न भिद्यते, स्वरूपेण च भिद्यते । अपेक्षाभेदाच्चाविरोधः
इत्यादि । तथा च
को दोषः ? इति चेत्—एवं तर्हि अनुवृत्तांशव्यावृत्तांशभेदस्य सिद्धत्वाद्धर्म
धर्मिभेद एव दृढीकृतो भवति । अपेक्षावशात् यत्र यस्य धर्मस्य उपादित्सा
तस्य तत्रोद्भवः ग्रहणं चेत्युच्यते, अभेदश्च तयोरुच्यत इति विचित्रमिदम् ।
अतोऽयमपि पक्षो न युक्तः ॥


I.257
किमात्मकोऽसाविति चेद्यद्यदा प्रतिभासते ।

वस्तुप्रमितयश्चैव प्रष्टव्या न तु वादिनः ॥ ११० ॥

क्वचिज्जातिः क्वचिद्दूव्यं क्वचित्कर्म क्वचिद्गुणः ।

यदेव सविकल्पेन तदेवानेन गृह्यते ॥ १११ ॥

इह शब्दानुसन्धानमात्रमभ्यधिकं परम् ।

विषये न तु भेदोऽस्ति सविकल्पाविकल्पयोः ॥ ११२ ॥

अतः शब्दानुसन्धानवन्ध्यं तदनुबन्धि वा ।

जात्यादिविषयग्राहि सर्वं प्रत्यक्षमिष्यते ॥ ११३ ॥

तस्माद्यत्कल्पनापोढपदं प्रत्यक्षलक्षणे ।

भिक्षुणा पठितं तस्य व्यवच्छेद्यं न विद्यते ॥ ११४ ॥

अभ्रान्तपदप्रयोजनदूषणम्


अभ्रान्तपदस्यापि व्यावर्त्यं न किंचन तन्मते पश्यामः ॥


ननु ! तिमिर-आशुभ्रमण-नौयान-संक्षोभाद्याहितविभ्रमं द्विचन्द्र
अलातचक्र चलत्पादपादिदर्शनमपोह्यमस्य परैरुक्तम्—सत्यमुक्तम्,


ननु शब्दानुल्लेखिनी प्रतीतिः कीदृशी स्यादित्यत्र—अनुभवं पश्येति
वदति—वस्त्वित्यादि ॥


इह—सविकल्पे । शब्दः—वाचकशब्दः । तस्मादिति—नामजात्यादि
विषयकप्रत्यक्षस्यापि प्रत्यक्षप्रमाणत्वेन तद्व्यावृत्त्यर्थं कल्पनापोढपदमिति
न युज्यत इत्यर्थः ॥


तिमिराशुभ्रमणनौयानसंक्षोभाद्यनाहितविभ्रमं ज्ञानं प्रत्यक्षम् इति
न्यायबिन्दुः । अत्र संक्षोभः—वातपित्तश्लेष्मणाम् । तेन ज्वलितस्तभादिभ्रान्तिः
इति धर्मोत्तरटीका । संक्षोभः—चित्तसंक्षोभ इति यावत् । द्विचन्द्र—
इत्यादीनां यथासंख्यमन्वयः । अलातं—अर्धदग्धकाष्ठः । तस्याशुभ्रमणेन
अग्नौ चक्राकारभ्रान्तिविषयः चक्रं अलातचक्रमुच्यते । एवञ्च द्विचन्द्रभ्रमे
तिमिरं दोषः, अलातचक्रभ्रमे आशुभ्रमणं, चलत्पादपभ्रमे नौयानं दोषः,
आदिपदग्राह्यपिशाचभ्रमादौ संक्षोभादिरिति ग्राह्यम् ॥


I.258

अयुक्तं तु—कल्पनाऽपोढपदेनैव तद्व्युदाससिद्धेः । तत्रापि निर्वि
कल्पकं ज्ञानं एकचन्द्रादिविषयमेव, विकल्पास्तु विपरीताकार
ग्राहिणो भवन्ति; यथा मरीचिग्राहिणि निर्विकल्पके सलिलावसायी
विकल्प इति ॥


अभ्रान्तपदप्रयोजनसमर्थनं—तन्निराकरणं च


ननु ! तिमिरेण द्विधाकृतं चक्षुरेकतया न शक्नोति शशितं
ग्रहीतुं इति निर्विकल्पकमपि द्विचन्द्रादिज्ञानम्—यद्येवं तरल
तरङ्गादिसादृश्यरूषितं ऊषरे मरीचिचक्रं चक्षुषा परिच्छेत्तुमशक्य
मिति तत्रापि निर्विकल्पकमुदकग्राहि विज्ञानं किमिति नेष्यते ?
अभ्युपगमे वा सदसत्कल्पनोत्पातादिकृतः प्रमाणेतरव्यवहारो
न स्यात् ॥


ज्ञानानां भ्रमत्वनिदानम्


अपि च न बाधकोपनिपातमन्तरेण भ्रान्तताऽवकल्पते
ज्ञानानाम् । न च क्षणिकवादिमते वाध्यबाधकभावो बुद्धीनामुपपद्यत
इत्यलं विमर्देन ॥


पूर्वोक्तं पु. 235 दलकृत्यं शङ्कते—नन्वित्यादि । तिमिरादिदोष
दुष्टमपि चक्षुः प्रथमसन्निकृष्टं चन्द्रं गृह्णाति । दोषवशात् नयनद्वयगत
रश्मिद्वयं स्वतन्त्रं चन्द्रसंयुक्तं पृथक्पृथक् चन्द्रं गृह्णाति । अतः द्वित्वप्रतिभासः ।
परन्तु प्रत्येकं प्रत्येकं यथावस्थितवस्तुग्रहणात् न तत्र कल्पनावकाशः । अतश्च
कल्पनापोढत्वात् द्विचन्द्रभ्रमेऽतिव्याप्तिः । अतः अभ्रान्तपदम् । यद्यपि
शुक्तिरजतादिज्ञानेऽप्यतिव्याप्तिर्वक्तुं शक्या, परन्तु कल्पनापोढपदेनैव तैभिरिक
ज्ञानस्य स्पष्टनिरस्यत्वप्रतीतये द्विचन्द्रज्ञानमुपात्तम् । समाधत्ते—यद्येवमिति ।
मरीचिज्ञानमपि अभ्रान्तपदेनैव वारयाम इति चेत्तत्राह—अभ्युपगम इति ।
तथा च अभ्रान्तपदेनापि व्यावृत्तिर्दुवचैव स्यात् । प्रथमाक्षसन्निपातप्रभवत्वेन
निर्विकल्पवदेव हि तेषामपि प्रामाण्यमेव वक्तव्यं स्यादित्याशयः ॥


न चेति । ज्ञानानां क्षणिकत्वेन बाधकज्ञानकाले बाध्यं ज्ञानं स्वयमेव
नष्टमिति कथमनयोर्बाध्यबाधकभाव इति भावः ॥


I.259
इति सुनिपुणबुद्धिर्लक्षणं वक्तुकामः

पदयुगलमपीदं निर्ममे नानवद्यम् ।

भवतु, मतिमहिम्नश्चेष्टितं दृष्टमेतत्

जगदभिभवधीरं धीमतो धर्मकीर्तेः ॥ ११५ ॥

सांख्योक्तप्रत्यक्षलक्षणदूषणम्


श्रोत्रादिवृत्तिरपरैरविकल्पकेति

प्रत्यक्षलक्षणमवर्णि तदप्यपास्तम् ।

साम्यान्नयस्य, न च सिद्ध्यति बुद्धिवृत्त्या

द्रष्टृत्वमात्मन इति प्रतिपादितं प्राक् ॥ ११६ ॥

जैमिन्युक्तप्रत्यक्षलक्षणदूषणम्


सत्संप्रयोगे पुरुषस्येन्द्रियाणां बुद्धिजन्म तत्प्रत्यक्षमनिमित्तं
विद्यमानोपलंभनत्वात्
इत्येतत्सूत्रं जैमिनीयैः साक्षात्प्रत्यक्षलक्षण-


दिङ्नागस्तु प्रत्यक्षं कल्पनापोढं प्रमाणसमुच्चये इत्येतावन्मात्रं
लक्षणमुक्तवान् । तत्र दोषं पश्यन् अभ्रान्तपदेन तत् परिष्कृतवान् धर्मकीर्ति
रिति सुनिपुणबुद्धिरिति नर्मोक्तिः । नायं तदपराधः, किन्तु मतिवैभव
स्येत्याह—भवत्विति ॥


श्रोत्रादीति । युक्तिदीपिकायां श्रोत्रादिवृत्तेः प्रत्यक्षप्रमाणत्वमुपपादितम् ।
सृष्टिप्रक्रियायां श्रोत्रेन्द्रियस्याद्यत्वात् तस्योत्कीर्तनम् । प्रमाणभूतप्रत्यक्षबोधनाय
अविकल्पकपदम् । नयस्य साम्यात्—न तु पररचितानि लक्षणानि क्षणमपि
सूक्ष्मदृशां विशन्ति चेतः
इति न्यायस्य साम्यात् । दोषमप्याह—न
चेत्यादि । प्राक्—69—70 पुटयोरिदं द्रष्टव्यम् ॥


सदित्यादि । अत्र तत्प्रत्यक्षं इत्यन्तं लक्षणवाक्यम् । एतादृशं
प्रत्यक्षं धर्मं प्रति अनिमित्तम्—अप्रमाणम्—प्रत्यक्षेण धर्मः ग्रहीतुं न शक्यत
इत्यर्थः । तत्र हेतुः—विद्यमानेति । प्रत्यक्षं खलु वर्तमानमात्रग्राहकम्,
धर्मस्तु अतीतः अनागतश्च वर्तते । तयोः कथं प्रत्यक्षेण ग्रहणं स्यात् । अतः
विधिरेव वेद एव धर्मे प्रमाणं; नान्यदित्यर्थः ॥


I.260

परत्वेन न व्याख्यातम्; चोदनालक्षणोऽर्थो धर्मः इति प्रकृत
प्रतिज्ञासङ्गत्यभावात् । अपि तु—धर्मं प्रति प्रत्यक्षमनिमित्तं, एवं
लक्षणकत्वादिति अनुवादभङ्ग्या लक्षणे योजितम् । यथोक्तम्—

एवं सत्यनुवादत्वं लक्षणस्यापि संभवेत् इति ।

श्लो. वा. 1-1-4-39

तदेतल्लक्षणवर्णने सूत्रयोजनमसमीचीनम्; अतिव्याप्तिदोषानतिवृत्तेः ।
तथा हि—इन्द्रियाणां सति संप्रयोगे पुरुषस्य जायमाना बुद्धिः
प्रत्यक्षमिति सूत्रार्थः । तथा चातिव्याप्तिः—संशयविपर्ययबुद्ध्योरपि
इन्द्रियसंयोगजत्वेन प्रत्यक्षत्वप्रसङ्गात् ॥


सङ्गत्यभावादिति । इदं नैकं सूत्रं, किन्तु तत् प्रत्यक्षमित्येकं लक्षण
परं—अन्यच्च भिन्नं सूत्रमिति व्याख्यातवन्तं भवदासं दूषयद्भिः भट्टपादैरपि
वर्ण्यते सूत्रभेदेन येन प्रत्यक्षलक्षणम् । तेन सूत्रस्य सम्बन्धो वाच्यः
पूर्वप्रतिज्ञया
इति सङ्गत्यभाव एव दूषणमुक्तम् । धर्मविचारः खलु प्रतिज्ञातः,
तस्य नेदं प्रत्यक्षलक्षणं साक्षात्संगतमिति ॥


एवं लक्षणकत्वादिति—प्रत्यक्षस्येति शेषः । एवमिति । अस्य
लक्षणवाक्यस्य अनुबादरूपत्वमपि संभवेत् । लोकसिद्धलक्षणानुवादेन धर्मे
प्रत्यक्षस्य प्रमाणत्वमुच्यत इत्यर्थः । अनतिवृत्तेरिति । पार्थसारथिमिश्रैः
न्यायरत्नाकरे भवदासेन हि सता संप्रयोग इत्युक्तं, संप्रयोगशब्दश्च सकल
सम्बन्धवचनो व्याख्यातः । अतस्तस्यानुमानादिषु आभासेषु चातिव्याप्तिर्भवति,
नास्मद्व्याख्याने इत्युक्तं
न युक्तमित्यनेन सूचितम् ॥


सतीत्यादि । सति इन्द्रियार्थसम्बन्धे इति शाबरं भाष्यम् ।
यद्यपि अत्र—इदं वाक्यं न विग्रहपरं, किन्तु व्याख्यानमात्रम् । विग्रहस्तु
संश्चासौ संप्रयोगश्च इत्येवेति अविद्यमानसंयोगात् प्रत्यक्षत्वनिराकृतिः
1-1-4, 36 इति वार्तिके, तद्व्याख्यासु चाभिहितम्, परन्तु ग्रन्थकृतां
सप्तमीतत्पुरुष एवात्र भाष्यकारसम्मत इति अभिप्रायः । सप्तमीपक्ष एव न
त्यज्यते
इत्यनुपदं वदन्ति च । अयमाशयो ग्रन्थकृताम्—इदं च सूत्रं न
प्रत्यक्षलक्षणपरं, किन्तु धर्मे प्रत्यक्षाप्रवृत्तिनिरूपणपरमिति सम्मतमेव । धर्मे
I.261

अथ सत्संप्रयोग इति सतां संप्रयोग इति व्याख्यास्यते
तथाऽपि निरालम्बनविभ्रमा एवार्थनिरपेक्षजन्मानो निरस्ता भवेयुः,
न सालम्बनौ संशयविपर्ययौ ॥


अथ सति संप्रयोग इति प्तमीपक्ष एव न त्यज्यते; संशय
विपर्ययच्छेदी च संप्रयोग इत्युपसर्गो वर्ण्यते । यथोक्तम्—


सम्यगर्थे च संशब्दो दुष्प्रयोगनिवारणः ।

दुष्टत्वाच्छुक्तिकायोगो वार्यतामक्षजेक्षणात् ॥ इति ।

श्लो. वा. 1-1-4-39


तथाऽपि प्रयोगसम्यक्त्वस्यातीन्द्रियत्वेन प्रत्यक्षानवगम्यत्वात्
कार्यतोऽवगतिर्वक्तव्या । कार्यं च ज्ञानम् । न च तदविशेषितमेव
प्रयोगस्य सम्यक्तामवगमयति । न च तद्विशेषणपरमिह पदमपि,


प्रत्यक्षाप्रवृत्तौ हेतुः विद्यमानोपलंभनत्वादिति । प्रत्यक्षस्य विद्यमानोपलंभनत्व
मेवासिद्धमित्याशंका सत्संप्रयोगे इत्यनेन वार्यत इति कथनमेव सुन्दरम् ।
इदं च कर्मधारयाश्रयणे कथं वा सिध्येत् ? आर्थिकं तदिति चेत्, ततो वरं
शाब्दत्वकल्पनम् । असतां संप्रयोगस्यासंभवात् सदिति व्यर्थमिति धर्मकीर्ति
दूषणभीत्या कर्मधारयाश्रयणमपि न युक्तम्, सूत्रस्यानुवादकत्वेन लक्षण
परत्वाभावेनैव तन्मुखपिधानात् । कर्मधारयाश्रयणेऽपि हि सत्पदं व्यर्थमेव ।
संप्रयोगे इत्यस्य निमित्तसप्तमीत्वेन विद्यमानस्यैव निमित्तत्वसंभवात् तेनैव
विद्यमानत्वं लभ्येत । परमते अविद्यमानसंप्रयोगजन्ययोगिप्रत्यक्षवारणाय
तदिति वर्णनमपि न चारुतरम् । परमतदृष्टया लक्षणे विशेषणदानस्यासंभवात् ।
अतः प्रकृतात्यन्तोपयुक्ततत्पुरुषाश्रयणमेव वरम् ॥


संशयविपर्ययाविति । एतयोः इन्द्रियार्थसन्निकर्षजन्यत्वं पूर्वं
पु. 232-233 उपपादितम् ॥


दुष्प्रयोगः—असत्सन्निकर्षः । अतीन्द्रियत्वेनेति । शुक्तिरजतसत्य
रजतसन्निकर्षयोर्हि वैलक्षण्यं न तदानीमनुभवसिद्धम् । अविशेषितं—दुष्ट
ज्ञानवारकविशेषणासहितं, तत् ज्ञानम् । ज्ञानं सम्यक् चेत् कारणमपि सम्यक्,
नो चेन्न—इत्येव वक्तव्यमित्यर्थः ॥


I.262

अक्षरमपि, मात्रामपि वा सूत्रे पश्यामः । सतां संप्रयोग इति च
पदं निरालम्बनज्ञाननिवृत्तये वर्णितम् । सति इति तु सति
सप्तम्यैव गतार्थत्वादनर्थकम् ॥


लोकत एव कार्यविशेषावगमात् प्रयोगसम्यक्त्वमवगमिष्यामः
इति चेत्—लोकत एव प्रत्यक्षस्य सिद्धत्वात् किं तल्लक्षणे सूत्र
सामर्थ्ययोजनाक्लेशेन ॥


उपवर्षोक्तप्रत्यक्षलक्षणवर्णनम्


यदप्यत्र भगवान् वृत्तिकारः प्राह—यत् प्रत्यक्षं न तद्व्यभि
चरति, यत् व्यभिचारि न तत्प्रत्यक्षम् । किं तर्हि प्रत्यक्षम् ?
तत्संप्रयोगे पुरुषस्येन्द्रियाणां बुद्धिजन्म सत् प्रत्यक्षम् । यद्विषयं
ज्ञानं तेनैव संप्रयोगे इन्द्रियाणां पुरुषस्य बुद्धिजन्म सत्प्रत्यक्षम् ।
यत् अन्यविषयकं ज्ञानमन्यसंप्रयोगे भवति न तत् प्रत्यक्षमिति—

इत्येवं तत्सतोर्व्यत्ययेन लक्षणमनपवादमवकल्पत इति—तदपि
वृथाऽटाट्यामात्रम्; संशयज्ञानेन व्यभिचारानतिवृत्तेः । तत्र हि
यद्विषयं ज्ञानं तेन संप्रयोग इन्द्रियाणामस्त्येव


ननु ज्ञानं न तथा विशेष्यते । अथापि अर्थप्राप्त्यप्राप्तयोः लोकसिद्धत्वात्
तदादायैव सन्निकर्षसदसत्त्वं निर्णेष्याम इति शङ्कते—लोकत एवेति । तर्हि
प्रत्यक्षस्वरूपादिकमपि लोकत एव प्रतिपद्यतां, किं तल्लक्षणाद्यभिधानेनेति
समाधानग्रन्थाशयः ॥


अनपवादं—असद्विषयकभ्रमव्यावृत्तम् । वृथाऽटाट्या-वृथाभ्रमणम् ॥


I.263

संशयस्येन्द्रियजन्यत्वोपपादनम्


ननु ! उभयविषयं ज्ञानम्; न चोभाभ्यां संप्रयुक्तमिन्द्रियम्—
मैवम्—न हि धवखदिरवत् द्वावपि संशयसंविदि प्रतिभासेते । किं
तु स्थाणुर्वा पुरुषो वेति अनिर्धारितैकतरपदार्थतत्त्वावमर्शी संशयो
जायते । नूनं च तयोरन्यतरेणेन्द्रियं संप्रयुक्तमेवेति । उभयाव
मर्शित्वाच्च संशयस्य येन संप्रयुक्तं चक्षुः तद्विषयमपि तज्ज्ञानं
भवत्येवेति नातिव्याप्तिः परिहृता भवति ॥


सूत्रस्यानुवादकत्वोपपादनं परैः


अथ ब्रूयुः—किमनेन परिक्लेशेन ? न लक्षण वर्णनमस्माक
मभिमतम्, अनुवादपक्षनिक्षिप्तत्वात् । अपि तु लोकप्रसिद्धप्रत्य
क्षानुवादेन धर्मं प्रत्यनिमित्तत्वमेव विधीयते ! न धर्मं प्रति प्रमाणं
प्रत्यक्षं, विद्यमानोपलंभनत्वात्—विद्यमानार्थग्राहित्वादित्यर्थः ।
धर्मश्च न वर्तमानः; त्रिकालानवच्छिन्नस्य तस्य यजेत दद्यात्
जुहुयात् इत्यादिशब्देभ्यः प्रतीतेः ॥


तर्हि सत्संप्रयोगे पुरुषस्येन्द्रियाणां बुद्धिजन्म तत्प्रत्यक्षम्
इति किमर्थो ग्रन्थ इति चेत्—न—विद्यमानोपलंभनसमर्थनार्थ
त्वात् । यदि विद्यमानोपलंभनत्वमसिद्धमिति परो ब्रूयात्—स
वक्तव्यः—विद्यमानोपलंभनं प्रत्यक्षं, सत्संप्रयोगजत्वादिति ॥


ननु यावद्विषयसंयोग एव विवक्षणीयः । अन्यथा हि भ्रमेऽपि धर्म्यंशे
सन्निकर्षसत्त्वात् कथं वारणम् ? तथा च संशयव्युदास इति शङ्कते—
नन्विति । ज्ञानं—संशयः । धवखदिरवदिति । समुच्चयात्मकज्ञान इव
इति यावत् । तद्विषयमपीति । अन्यतरस्यैव प्रकारत्वेन तदंशे इन्द्रिय
सन्निकर्षोऽस्त्येव । अन्यथा प्रत्यभिज्ञाद्यपि न प्रत्यक्षं स्यादित्यर्थः ॥


यथार्थमाशयमनुवदति—अथेति । त्रिकालेति । न हि कालविशेष
एव विधायको विधिरित्यर्थः । भूतो भविष्यंश्च धर्मो वर्तत एव ॥


किमर्थ इति । प्रत्यक्षमनिमित्तं, विद्यमानोपलंभनत्वात् इत्येताव
तैबोक्तार्थलाभादित्यर्थः ॥


I.264

प्रत्यक्षग्रहणमपि हेतुनिर्देशार्थमेव । सत्संप्रयोगस्यासिद्धतां
ब्रुवन्ननेन प्रत्याख्यायते सत्संप्रयोगजं प्रत्यक्षं प्रत्यक्षत्वादिति ।
तदुक्तम् श्लो. वा 1-1-4-21


प्रत्यक्षत्वमदोहेतुः शेषं हेतुप्रसिद्धये
इति ।

स्वातन्त्र्येणापि प्रत्यक्षत्वं धर्मग्राहकत्वनिषेधाय वक्तव्यम् । न
धर्मग्राहि प्रत्यक्षं, प्रत्यक्षत्वात्, अस्मदादिप्रत्यक्षवत् इत्येवमन्यत्रैव
सूत्रतात्पर्यात् नातिव्याप्त्यादिदोषावसर इहेति ॥


अनुवादकत्वेऽपि सूत्रस्य दोषकथनम्


तदेतदपि न प्रामाणिकमनोऽनुकूलम् । कतरस्य प्रत्यक्षस्य
धर्मं प्रत्यनिमित्तत्वं प्रतिपाद्यते ? किमस्मदादिप्रत्यक्षस्य ? योगि
प्रत्यक्षस्य वा ? तत्र अस्मदादिप्रत्यक्षस्य तथात्वे सर्वेषामविवाद
एवेति किं तत्रेयता श्रमेण ! योगिप्रत्यक्षस्य तु भवतामसिद्धत्वात्
कस्य धर्मं प्रत्यनिमित्तत्व प्रतिपादनम् ?


प्रत्यक्षेति । तदनिमित्तम् इत्येबालमित्यर्थः । अदोहेतु—सत्सं
प्रयोगजत्वे हेतुः । तथा हि व्याख्यातं मिश्रैः—सत्संप्रयोगजत्वस्यैव कुतः
सिद्धिरित्यत आह—प्रत्यक्षत्वमिति । तदेते त्रयः प्रयोगाः, प्रत्यक्षमनिमित्तं,
विद्यमानोपलंभनत्वात्; विद्यमानोपलंभनत्वं च सत्संप्रयोगजत्वात्; सत्सं
प्रयोगजत्वं च प्रत्यक्षत्वादिति
इति । शेषं सूत्रं विद्यमानोपलंभनत्वरूपहेतो
रसिद्ध्याशंकायां हेतुसिद्ध्यर्थं प्रवृत्तमित्यर्थः । प्रत्यक्षत्वं—प्रत्यक्षलक्षणम् ।
प्रत्यक्षं न धर्मग्राहकं इति वक्तव्ये, कुत इति प्रश्ने, प्रत्यक्षस्यैवंरूपत्वादिति खलु
वक्तव्यमित्यर्थः । अन्यत्रैव—लक्षणादन्यस्मिन्ननुवाद एव ॥


तथात्वे—प्रत्यक्षं प्रत्यप्रमाणत्वे । योगीति । तथोक्तं वार्तिके—
अस्मदादौ प्रसिद्धत्वाद्योग्यर्थमभिधीयते 1-1-4-21 इति ॥


I.265
एवं च धर्मिणोऽभावादाश्रयासिद्धतां स्पृशेत् ।

विद्यमानोपलंभत्वप्रत्यक्षत्वादिसाधनम् ॥ ११७ ॥

परप्रसिद्ध्या तत्सिद्धिरिति चेत्—केयं प्रसिद्धिर्नाम ? प्रमाण
मूला ? तद्विपरीता वा ? आद्ये पक्षे प्रमाणस्यापक्षपातित्वात्
परस्येव तवापि सिद्धिर्भवतु । अप्रमाणमूलत्वे तुन कस्यचिदष्यसौ
प्रसिद्धिः ॥


योगिज्ञानं परेषां यत् सिद्धं, तदनुभाषणे ।

प्रतिज्ञापदयोरेव व्याघातस्ते प्रसज्यते ॥ ११८ ॥

परैर्हि धर्मग्राहि योगिज्ञानमभ्युपगतम् । अतस्तदनुभाषणे
धर्मग्राहकं न धर्मग्राहकमित्युक्तं स्यात् ॥


परसंसिद्धमूलं च नानुमानं प्रकल्पते ।

उक्तं भवद्भिरेवेदं निरालम्बनदूषणे ॥ ११९ ॥

धर्मिणः—उभयसंप्रतिपन्नस्य पक्षस्य । लौकिकप्रत्यक्षस्य धर्मं प्रत्य
प्रमाणत्वसाधने सिद्धसाधनम्; योगिप्रत्यक्षस्य भवदनभिमतत्वात् पक्षत्वमेव
न संभवतीत्युभयथापि सूत्रं व्यर्थमित्यर्थः ॥


तवापीति । न हि प्रमाणसिद्धस्यापह्नवः केनापि कर्तुं शक्य इत्यर्थः ॥


व्याघात इति । परसम्मतं हि योगिप्रत्यक्षं धर्मग्रहणशक्तम्, तत्कथं
परसम्मतं सिद्धवत्कृत्य तस्य धर्मग्राहकत्वमात्रं नाङ्गीक्रियत इत्यर्धजरतीत्यर्थः ।
एतदेवोपपादयति—परैर्हीत्यादि । तथोक्तं अतीतानागतेऽप्यर्थे सूक्ष्मे
व्यवहितेऽपि च । प्रत्यक्षं योगिनामिष्टं कैश्चित्
श्लो. वा. 1-1-4-26
इत्यादि । परे—शाक्यार्हतादयः ॥


परसंसिद्धमूलं—परमतमात्रसिद्धपक्षकम् । उक्तमिति । तथा हि
वार्तिकम्—श्लो. वा. 1-1-5-निरा. 45 अथापि रूढिरूपेण प्रत्ययः स्यात्
तथापि तु । ग्राहकं वस्तु सिद्धं नः प्रत्ययोऽन्यस्य वस्तुनः । तमभ्युपेत्य पक्षश्चेत्
अभ्युपेतं विरुध्यते
इत्यादि । अयं भावः । सर्वोऽपि प्रत्ययः मिथ्या,
I.266

साध्यसिद्धिर्यथा नास्ति परसिद्धेन हेतुना ।

तथैव धर्मिसिद्धत्वं परसिद्ध्या न युज्यते ॥ १२० ॥

सूत्रस्य तर्करूपत्वोपपादनं, तन्निराकरणञ्च


तत्रैतत्स्यात्—प्रसङ्गसाधनमिदम् । प्रसङ्गश्च नाम परसिद्धेन
परस्यानिष्टापादनमुच्यते । परस्य च विद्यमानोपलंभनं सत्संप्रयोग
जन्यं च प्रत्यक्षं सिद्धम् । अतस्तेनैव हेतुना धर्मानिमित्तत्वं
तस्योपपाद्यत इति को दोषः ?—नैतदेवम्—


प्रसङ्गसाधनं नाम नास्त्येव परमार्थतः ।

तद्धि कुड्यं विना तत्र चित्रकर्मेव लक्ष्यते ॥ १२१ ॥

न हि नभःकुसुमस्य सौरभासौरभविचारो युक्तः ॥


अथापि किं न एतेन ! भवत्वेवं प्रसङ्गसाधनम् । तदपि तु
व्याप्तिमूलं भवति ॥


न च संभवति व्याप्तिप्रतीतिरिह मादृशाम् ।

न धर्मग्राहि सर्वेषां प्रत्यक्षमिति वेत्ति कः ? ॥ १२२ ॥

प्रत्ययत्वात्, इत्यनुमाने पक्षत्वेन लोकप्रसिद्धः प्रत्यय एव विवक्षित इति
कथनेऽपि अन्यस्य ग्राहकात् ज्ञानात् भिन्नस्य वस्तुनः ग्राहकं आत्मधर्मभूतं
वस्त्वेव प्रत्ययशब्दार्थ इति अस्माकं प्रसिद्धम् । तस्यैव पक्षीकरणे च
अभ्युपगमविरोधः—अस्माभिः अर्थग्राहकत्वेन प्रमाणत्वेन चाभिमतं प्रत्ययं
पक्षत्वेनांगीकृत्य पुनस्तस्य अर्थाविषयत्वादप्रामाण्यसाधनं व्याहतमिति ।
एवञ्च परपक्षसिद्धस्य पक्षीकरणं न युज्यत इति भवद्भिरेव कथितमिति प्रकृते
परमतसिद्धस्य योगिप्रत्यक्षस्य पक्षीकरणं न युक्तम् । धर्मी—पक्षः ॥


प्रसङ्गेत्यादि । कन्दल्यामप्ययं पक्षः प्रस्तुत्य निरस्तः ॥


मादृशां—असर्वज्ञानाम् । प्रत्यक्षं हि ज्ञानं तत्तदात्ममात्रसाक्षिकम् । एवं
स्थिते सर्वेषामपि प्रत्यक्षं न धर्मग्राहीति को वा वेत्ति ? यदि कश्चित् वेत्ति तर्हि
स एव सर्वज्ञः योगिपदवाच्यः संजातः । सर्वज्ञेन च तेन धर्मोऽपि तथैव गृह्येत ॥


I.267

मत्प्रत्यक्षमक्षमं धर्मग्रहण इति भवान्न जानीते, त्वत्प्रत्यक्षमपि
न धर्मग्राहीति नाहं जाने, अन्यस्य प्रत्यक्षमीदृशमेवेति उभावप्यावां
न जानीवहे ॥


त्वया तु यदि सर्वेषां प्रत्यक्षं ज्ञातमीदृशम् ।

तर्हि त्वमेव योगीति योगिनो द्वेक्षि किं वृथा ? ॥ १२३ ॥

प्रामाणिकस्थितिं तस्मादित्थं श्रोत्रिय ! बुध्यसे !

परोक्तेऽतीन्द्रिये ह्यर्थे मा वादीर्दूषणं पुनः ॥ १२४ ॥

प्रमाणसिद्धे हतशक्ति दूषणं

प्रमाणशून्येऽपि वृथा तदुक्तयः ।

निरस्य चोद्यव्यसनं तु मृग्यतां

अतीन्द्रिये वस्तुनि साधनं पुनः ॥ १२५ ॥

स चेत् पर्यनुयुक्तः सन् वक्तुं शक्नोति साधनम् ।

ओमिति प्रतिपत्तव्यं नो चेन्नास्त्येव तस्य तत् ॥ १२६ ॥

उक्तमेव विवृणोति—मत्प्रत्यक्षेति । उभाविति । स्वप्रत्यक्षस्य धर्मग्रह
णासामर्थ्यात् तद्दृष्टान्तेन इतरेषामपि प्रत्यक्षं तादृशमेवेत्यनुमिनुमः—इति चेत्
स्वेनावगतमेवान्येनाप्यवगम्येतेति वा, स्वेनानवगतमन्यस्याप्यनवगतमेवेति वा
न वक्तुं शक्यमिति ग्रन्थकृदेव सप्तमाह्निके क्षणभङ्गे वक्ष्यति । यथा—यदहं न
वेद्मि तत् परोऽपि न वेदेति चेत्
इत्यादिना । बुध्यसे इति । अवगच्छेति
यावत् ॥


सर्वेषां प्रत्यक्षं ईदृशमिति त्वया यदि ज्ञातं इत्यन्वयः ॥


प्रमाणसिद्धेऽर्थे दूषणमकिञ्चित्करं, प्रमाणशून्येऽपि तथेत्यर्थः । अयं भावः—
अतीन्द्रियं तु वस्तु भवतामपि सम्मतम् । तत्र च प्रमाणं केवलं मृग्यम् । न
त्वन्येनोक्ते प्रमाणे केवलदूषणकथनं युक्तम् । शब्दोऽपि हि लोकावगतसामर्थ्यः
अत्यन्तलोकविलक्षणेऽतीन्द्रिये वस्तुनि कथं प्रमाणं स्यादिति ॥


स चेदिति । अतीन्द्रियसाधकं प्रमाणमवगन्तुमशक्तेन त्वया पृष्टः सः—
यः कश्चित् तत्साधनं वक्ति चेत्, तूष्णीमभ्युपगम्य सन्तोष्टव्यमायुष्मता । यदि
नांगीकरोषि तर्हि अतीन्द्रियसाधनं न शक्यमेव ॥


I.268

योगिप्रत्यक्षे प्रमाणम्


आह—शिक्षिताः स्मः प्रामाणिकवृत्तम् । न दूषणं ब्रूमः । भवन्त
मेवानुयुञ्ज्महे; तदेतर्हि कथ्यताम्—धर्माधिगमनिपुणयोगिप्रत्यक्ष
सिद्धौ किं प्रमाणमिति—इदमुच्यते—दर्शनातिशय एव प्रमाणम् ।
तथा ह्यस्मदादिरपेक्षितालोकोऽवलोकयति निकटस्थितमर्थबृन्दम् ।
उन्दुरुवैरिणस्तु सान्द्रतमतमःपङ्कपटलविलिप्तदेशपतितमपि संप
श्यन्ति । संपातिनामा च गृध्रराजो योजनशतव्यवहितामपि दशरथ
नन्दनसुन्दरीं ददर्शेति श्रूयते रामायणे । सोऽयं दर्शनातिशयः
शुक्लादिगुणातिशय इव तारतम्यसमन्वित इति गमयति परमपि
निरतिशयमतिशयम् । अतश्च यत्रास्य परः प्रकर्षः, ते योगिनो
गीयन्ते । दर्शनस्य च परोऽतिशयः सूक्ष्मव्यवहितविप्रकृष्टभूत
भविष्यदादिविषयत्वम् ॥


स्वयमज्ञश्चेत् परोक्तमेव शरणीकर्तव्यमित्युक्तो वादी साबहेलनमधि
क्षिपति—शिक्षिताः स्म इत्यादिना । अपेक्षितालोकः—आलोकरूपसह
कारिविशिष्टः अस्मदादिरित्यर्थः । उन्दुरुवैरिणः—मार्जाराः । तत्सुस्वैरिण
इति पाठे—राक्षसाः—इत्यर्थः । निशाचरा हि ते । परं—सर्वापेक्षया
अन्तिमसीमवर्तिनम् । नन्वस्तु तथा । तथाऽपि सर्वदर्शित्वं कथं
सिद्धमित्यत्राह—दर्शनस्येति । एतदुक्तं भवति । लोके कश्चिदेकं पश्यति,
अन्यस्ततोऽधिकं, अपरश्च ततोऽप्यधिकमिति दर्शनं लोके तरतमभाबापन्नं
दृष्टम् । तस्य च तारतम्यस्य कुत्रचिद्विश्रान्तिर्वाच्या । कतिपयदर्शित्वं तु
सर्वसमानम् । अतः तादृशोऽतिशयो निरतिशयो न स्यात् । आपेक्षिककतिपय
दर्शित्वप्रतिकोटि तु सर्वदर्शित्वमेव । तत्र यदि सर्वशब्दे संकोचोऽङ्गीक्रियते
तर्हि पुनस्सैव गतिः । अतः देशतः कालतः स्वरूपतश्च संकोचरहित
सर्वदर्शित्वमेव वक्तव्यमिति सिद्धं सूक्ष्मत्रिकालवर्तिसर्वदर्शित्वं केषाञ्चिदिति ॥


I.269

धर्मादयोऽपियोगिप्रत्यक्षविषयाः


ननु ! स्वविषयानतिक्रमेण भवतु तदतिशयकल्पना । धर्मस्तु
चक्षुषो न विषय एव । तदुक्तम्—श्लो. वा-1-1-2-114


'
यत्राप्यतिशयो दृष्टः स स्वार्थानतिलङ्घनात् ।

दूरसूक्ष्मादिदृष्टौ स्यात् न रूपे श्रोत्रवृत्तिता ॥

अपि च—

येऽपि चातिशया दृष्टाः प्रज्ञामेधाबलैर्नृणाम्

स्तोकस्तोकान्तरत्वेन न त्वतीन्द्रियदर्शनात् ॥ इति ।


एतदयुक्तम्—यतः, यद्यपि नास्मदादिनयनविषयो धर्मः—
तथापि योगीन्द्रियगम्यो भविष्यति । तथा हि—योजनशतव्यवहितं,
अन्धकारान्तरितं वा नास्मदादिलोचनगोचरतामुपयाति, संपाति
पृषदंशदृशोस्तु विषयो भवत्येव ॥


चक्षुषैव योगिनां धर्मग्रहणम्


नन्वेवमविषये प्रवृत्तं योगिनां चक्षुर्गन्धरसादीनपि गृह्णीयात् ।
यथोक्तम्—श्लो. वा. 1-1-2-112


एकेन तु प्रमाणेन सर्वज्ञो येन कल्प्यते ।

नूनं चक्षुषा सर्वान् रसादीन् प्रतिपद्यते इति ॥

स्वं—तत्तदिन्द्रियाणि । श्रोत्रवृत्तिता—श्रोत्रस्य वृत्तिः—यस्मिन्
तत् श्रोत्रवृत्ति, तस्य भावः । यद्विषयकप्रवृत्तिमत् श्रोत्रं तत्तेत्यर्थः । श्रोत्रग्राह्य
तेति यावत् ॥


स्तोकस्तोकान्तरत्वेनेति । एकापेक्षयाऽन्यस्य पुरुषस्येन्द्रियाणां
सन्नप्यतिशयः किञ्चित्किञ्चिदन्तरवानेव स्यात्, न तु अतीन्द्रियार्थग्रहणरूपादति
शयो महदन्तरो दृष्ट इत्यर्थः । व्यवहितं—इत्यस्य वस्तु इति विशेष्यम्,
एवमुत्तरत्रापि ॥


प्रमाणेन—प्रमाकरणेनेन्द्रियेणेति यावत् । चक्षुषैव यदि सर्वं जानीयात्
तर्हि रसादिग्राहकत्वमपि चक्षुष एव स्यादिति इन्द्रियव्यवस्थैव न स्यादिति ॥


I.270

नैतदेवम्—रसादिग्राहीण्यपि योगिनामिन्द्रियाणि चक्षुर्वदति
शयवन्त्येवेति न रसादिषु चक्षुर्व्यापारः परिकल्प्यते । धर्मेऽपि न
तर्हि कल्पनीय इति चेत्—न—तस्य रसादिवत् तदविषयत्वा
भावात् ॥


अपि च योगीन्द्रियाविषयत्वं धर्मस्य कथमवगतवान् भवान् ?
अविषयत्वं तद्भावेऽपि तदनवगमादवगम्यते—यथा नयनसद्भा
वेऽपि शब्दाश्रवणात् तदविषयता शब्दस्यावसीयते—न चैवं योगि
चक्षुषि सत्यपि धर्मस्याग्रहणं अवगन्तुं शक्नोति भवान्, उभय
स्यापि भवतः परोक्षत्वात् इत्यविषयस्स तस्येति न ते वक्तुं
युक्तमिति ॥


धर्मः योगिप्रत्यक्षविषय एव


ननु ! कर्तव्यतारूपः त्रिकालस्पर्शवर्जितः ।

चक्षुर्विषयतामेति धर्म इत्यतिसाहसम् ॥ १२७ ॥

नैतदिति । अयं भावः—चक्षुषैव रसादिग्रहणापादनं, योगिनां रसनेन्द्रि
यादीनामभावादुच्यते ? उत सतामपि तादृशशक्त्यभावात् । नाद्यः, इन्द्रियाणां
सद्भावात् । अन्त्ये किं रसादिग्रहणशक्तिः पूर्वं विद्यमाना योगिनां नष्टा ?
उतातीन्द्रियरसादिग्रहणशक्तिर्नास्तीति ? प्रथमे अस्मादृशामयोगिनामिन्द्रियस्य
विद्यमानं सामर्थ्यमपि योगिनामिन्द्रियस्य नास्तीति चित्रमिदम् । द्वितीये चक्षुर्व
देव रसनादिकमपि योगप्रभावादतीन्द्रियरसादिग्रहणशक्तं वर्तत एवेति किं चक्षुष
उपरि भारारोपणेनेति । तर्हीति । यथा लोके रसस्य चक्षुषा कुत्राप्यग्रहणात्
योगिचक्षुषोऽपि तत्रासामर्थ्यकल्पना, तथैव धर्मस्य कुत्रापि चाक्षुषत्वादर्शनात्
धर्मेऽपि असामर्थ्यकल्पनमेव न्याय्यमित्यर्थः । समाधत्ते—तस्येति ।
तदविषयत्वेति । चक्षुरविषयत्वस्यासिद्धेरिति भावः ॥


ननु चक्षुर्विषयत्वं वा कथं सिद्धमित्याशङ्कायां बाधकाभावादेव सिद्ध
मित्याह—अपि चेति । उभयस्य—योगिचक्षुषः धर्मस्य च ॥


त्रिकालेति । तथोक्तं श्लो. वा. 1-1-2-13 श्रेयस्साधनता ह्येषां नित्यं
वेदात् प्रतीयते । ताद्रूप्येण च धर्मत्वं तस्मान्नेन्द्रियगोचरः
इति ॥


I.271
सत्यं साहसमेतत्ते मम वा चर्मचक्षुषः ।

न त्वेष दुर्गमः पन्था योगिनां सर्वदर्शिनाम् ॥ १२८ ॥

त्रिकालानवच्छिन्नोऽपि धर्मः प्रत्यक्ष एव


यच्च त्रिकालानवच्छिन्नो यजेतेत्यादिलिङादियुक्तशब्दैक
शरणावगमो धर्मः कथं ततोऽन्येन प्रमाणेन परिच्छिद्यतामित्युच्यते—
तदपि प्रक्रियामात्रम् । किमिव हि त्रिकालस्पर्शास्पर्शाभ्यां कृत्यम् ?
यथा वयं गमनादिक्रियाणां देशान्तरप्राप्त्यादिप्रयोजनतां
जानीमः—तथा अग्निहोत्रादिक्रियाणां स्वर्गादिफलतां ज्ञास्यन्ति
योगिन इति किमत्र साहसम् ?


अन्ततः धर्मादयो मनसा वा गृह्यन्त एव भावनाबलजप्रत्यक्षवत्


यदि हि बाह्येन्द्रियेष्वमर्षः, न तेष्वतिशयो विषह्यते,
तदलमनुबन्धेन ॥


मनःकरणकं ज्ञानं भावनाभ्याससंभवम् ।

भवति ध्यायतां धर्मे कान्तादाविव कामिनाम् ॥ १२९ ॥

मनो हि सर्वविषयं, न तस्याविषयः कश्चिदस्ति । अभ्यास
वशाच्चातीन्द्रियेष्वप्यर्थेषु परिस्फुटाः प्रतिभासाः प्रादुर्भवन्तो
दृश्यन्ते । यथाऽऽहुः प्र. वा. 3-282.


कामशोकामयोन्मादचोरस्वप्राद्युपद्रुताः

अभूतानपि पश्यन्ति पुरतोऽवस्थितानिव ॥

शरणं—उपायः । ततः—शब्दात् । यद्यपि अत्र त्रिकालानवच्छिन्नत्वमात्रं
न धर्मस्य शब्दैकगम्यत्वे हेतुः, अनुमानस्यापि कालत्रयविषयत्वात्; किन्तु
प्रत्यक्षागम्यत्व एव । अथापि सर्वथाऽप्रत्यक्षे नानुमानमपि प्रवर्तेतेत्याशयः ।
प्रक्रिया—उपपादनप्रकारः ॥


अनुबन्धः—दोषोत्पादनम् । दोषोत्पादेऽनुबन्धः स्यात् इति
कोशः ॥


I.272

भावनाबलजप्रत्यक्ष धर्मप्रत्यक्षे दृष्टान्तो भवत्येव


ननु ! एतेषां मिथ्याज्ञानत्वात् न योगिविज्ञाने दृष्टान्तत्वं
युक्तम्—न—स्फुटाबभासमात्रतया दृष्टान्तत्वोपपत्तेः । न हि
शब्दघटयोरपि सर्वात्मनाऽतुल्यत्वम् । तत्र कामशोकादिभावना
भ्यासभुवां प्रतिभासानां बाधकवैधुर्यादप्रामाण्यं भविष्यति, नेत
रेषाम्, तदभावात् । स्फुटाभासत्वं तूभयत्रापि तुल्यम् ॥


पत्यक्षस्यातिशः अतीन्द्रियार्थविषयत्वरूपो युक्त एव


ननु ! अभ्यासोऽपि क्रियमाणो नात्यन्तमपूर्वमतिशयमावहति,
लङ्घनाभ्यासवत् । योऽपि हि प्रतिदिनमनन्यकर्मा लङ्घनमभ्यस्यति
सोऽपि कतिपयपदपरिमितमवनितलमभिलङ्घयति; न तु पर्वत
मम्बुधिं वेति—उच्यते—


लङ्घनं देहधर्मत्वात् कफजाड्यादिसंभवात् ।

मा गात् प्रकर्षं, ज्ञाने तु तस्य कः प्रतिबन्धकः ॥ १३१ ॥

लङ्घनादौ तु पूर्वेद्युः प्रयत्नसमुपार्जितः ।

न देहेऽतिशयः कश्चिदन्येद्युरवतिष्ठते ॥ १३२ ॥

तत्र केवलमभ्यासात् प्रक्षये कफमेदसोः ।

शरीरलाघवं लब्ध्वा लङ्घयन्ति यथोचितम् ॥ १३३ ॥

एतेषां—कामशोकादिपीडितपुरुषदर्शनानाम् । ननु परस्परमत्यन्त
विलक्षणयोर्यत्किञ्चित्माम्यमात्रेण यदि दृष्टान्तत्वं, तर्हि शब्दघटयोरपि यत्किञ्चि
दंशे दृष्टान्तत्वप्रसङ्ग इति शङ्कामिष्टापत्त्या परिहरति—न हीति । यथा घटः
अनित्यः तथा शब्दोऽप्यनित्य इति प्रतीतिस्संभवत्येवेत्यर्थः । बाधक
वैधुर्यात्—बाधकप्रत्ययापहृतविषयत्वात् ॥


तस्य—प्रकर्षस्य । ज्ञानस्य महिमा तु निरवधिरित्यर्थः ॥


लङ्घनाभ्यासस्य दृष्टान्तत्वमेव न संभवतीत्याह—लङ्घनादाविति । अयं
भावः । लङ्घनाभ्यासेन खलु शरीरे नातिरिक्तः अतिशय उत्पाद्यते । किन्तु
I.273

इह विज्ञानजन्यस्तु संस्कारो व्यवतिष्ठते ।

क्रमोपचीयमानोऽसौ परातिशयकारणम् ॥ १३४ ॥

यथाऽनुवाकग्रहणे संस्थाऽभ्यसनकल्पितः ।

स्थिरः करोति संस्कारः पाठस्मृत्यादिपाटवम् ॥ १३५ ॥

यथा वा पुटपाकेन शोध्यमानं शनैश्शनैः ।

हेम निष्प्रतिकाशं तद्याति कल्याणतां पराम् ॥ १३६ ॥

तथैव भावनाभ्यासात् योगिनामपि मानसम् ।

ज्ञानं सकलविज्ञेयसाक्षात्काक्षमं भवेत् ॥ १३७ ॥

अस्मदादेश्च रागादिमलावरणधूसरम् ।

मनो न लभते ज्ञानप्रकर्षपदवीं पराम् ॥ १३८ ॥

प्रत्यहं भावनाभ्यासक्षपिताशेषकल्मषम् ।

योगिनां तु मनः शुद्धं कमिवार्थं न पश्यति ॥ १३९ ॥

यथा च तेषां रागादिप्रहाणमवकल्पते ।

तथाऽपवर्गचिन्तायां विस्तरेणाभिधास्यते ॥ १४० ॥

तदेवं क्षीणदोषाणां ध्यानावहितचेतसाम् ।

निर्मलं सर्वविषयं ज्ञानं भवति योगिनाम् ॥ १४१ ॥

शरीरलाघवप्रतिबन्धककफादिपरिहारमात्रं तेन क्रियते । प्रकृते तु निदिध्यासन
वशादपूर्व एव संस्कारातिशय आत्मन्युत्पद्यते । यथा वेदमधीयानो वटुः
पुनःपुनरावृत्त्या स्थिरतरं संस्कारं संपादयति तथेति । विज्ञानेति ।
विशिष्टं ज्ञानं विज्ञानम् । यथेति । संस्था—धारणा । अनुवाकग्रहणे सति
धारणाभ्यासेन स्थिरीकृत संस्कारः पाठस्मृत्यादिषु पाटवं यथा करोतीत्यर्थः ।
निष्प्रतिकाशं—निस्समम् । निष्प्रतीकाशमिति वक्तव्ये अपि माषं मषं
कुर्यात् छन्दोभङ्गं न कारयेत्
इति न्यायात्तथोक्तम् ॥


I.274

अस्त्येवास्मदादीनामपि भविष्यद्विषयं प्रातिभं ज्ञानम्


अपि चानागतज्ञानमस्मदादेरपि क्वचित् ।

प्रमाणं प्रातिभं, श्वो मे भ्राताऽऽगन्तेति दृश्यते ॥ १४२ ॥

नानर्थजं, न सन्दिग्धं, न बाधविधुरीकृतम् ।

न दुष्टकारणं चेति प्रमाणमिदमिष्यताम् ॥ १४३ ॥

क्वचिद्वाधकयोगश्चेत् अस्तु तस्याप्रमाणता ।

यत्रापरेद्युरभ्येति भ्राता तत्र किमुच्यताम् ॥ १४४ ॥

काकतालीयमिति चेत्, न प्रमाणप्रदर्शितम् ।

वस्तु तत्काकतालीयमिति शङ्कितुमर्हति ॥ १४५ ॥

प्रातिभं ज्ञानं प्रमाणमेव


ननु ! अनर्थजमिदं ज्ञानं, भ्रातुस्तज्जनकस्य तदानीमसत्त्वात् ।
स्यादेतदेवं—यदि तदाऽस्तित्वेन भ्रातरं गृह्णीयात् । किन्तु
भाविनमेनं गृह्णाति । भावित्वं च तदाऽस्यास्त्येवेति कथमनर्थजं
तज्ज्ञानम् ॥


प्रशस्तपादभाष्यादिषूक्तं कालत्रयविषयकं प्रातिभं ज्ञानं प्रमाणभूतमिति,
तदेतदाह—अपि चेति । तत्तु प्रस्तारेण देवर्षीणां, कदाचिदेव लौकिकानां
इति भाष्यात् क्वचिदित्युक्तिः । अनर्थजं—अर्थाजन्यम् । बाधेत्यादि ।
बाधज्ञानापहृतविषयकमिति यावत् । एवमपि यस्मिन् शुक्तिरजतज्ञाने
कारणान्तरवशात् बाध एव नोत्पन्नः तत्तौल्यं कुतो न स्यादित्यतः—न दुष्टे
त्यादि । प्रातिभानुविधायिभ्रात्रागमनादिरूपं वस्तु प्रमाणप्रदर्शितमपि काक
तालीयमिति शङ्कितुमपि नार्हतीत्यन्वयः । एवं सति सर्वेषामपि प्रमाणानां एवं
शङ्कितुमर्हत्वात् शून्यवाद एव परिशिष्येतेत्यर्थः ॥


तज्जनकस्य—प्रातिभज्ञानजनकस्य । तथा च भ्रान्तिरूपमेवेदं प्रातिभं
ज्ञानमिति भावः । यदीत्यादि । अन्यथा भूतवस्तुविषयकानुमानमपि
तदानीमनर्थजन्यमेव स्यात्, एवं शब्दोऽपीति । अतश्च प्रातिभमर्थजन्यमेवेति
न दोषः ॥


I.275

ननु ! भावितया ग्रहणमघटमानम् । भावित्वं हि नाम सावधिः
प्रागभावः । अभावस्य च भावेन भ्रात्रा सह कः सम्बन्धः ?
वस्त्ववस्तुनोर्विरोधात्—तदेतदसम्यक्—तद्देशसम्बन्धस्य तत्र
प्रागभावः, न तु धर्मिणः । स हि विद्यत एव प्रागवगतः । स च
कुतश्चित् भोजनोत्कण्ठादेः कारणात् स्मरणपदवीमुपारूढः श्वस्तना
गमनविशिष्टत्वेन प्रतिभातीति प्रातिभस्य स एव जनक इति ।
तस्मादनर्थजत्वाभावात् प्रमाणं प्रातिभम् । प्रमाणं च सत् प्रत्यक्ष
मेव, न प्रमाणान्तरम्; शब्दलिङ्गसारूप्यनिमित्तानपेक्षत्वात् ॥


प्रातिभं प्रत्यक्षमेव


ननु ! प्रत्यक्षमपि मा भूत्, इन्द्रियानपेक्षत्वात्—मैवम्—मनस
एव तत्रेन्द्रियत्वात् । पूर्वोत्पन्नचाक्षुषविज्ञानविशेषणस्य बाह्यस्य


अघटमानं भवतीति शेषः । अयं भावः—प्रागभावः खलु भविष्यतीति
प्रतीतिगम्यः । एवं च भ्रातुर्भविष्यत्त्वेन ग्रहणे भ्रातृप्रागभाव एव सिध्यति ।
तथा च भ्राता तदानीं नास्तीत्यनर्थजत्वं सिद्धं प्रातिभस्येति । सावधिः—
ज्ञातोत्तरावधिरिति यावत् । कस्सम्बन्ध इति । प्रतियोगित्वं तु नात्र वक्तुं
शक्यम्, अभावग्रहणकाले प्रतियोगिनस्सत्त्वाऽसंभवेन विवक्षितार्थासिद्धेः ।
प्रतियोगितयाऽन्वये हि प्रत्यक्षा प्रागभावप्रतीतिः, न तु प्रातिभं तत् । विशेषण
विशेष्यभावेन खल्वत्रोपस्थितिरावश्यकी । तदा चोभयोरपि सत्त्वमावश्यकम् ।
तच्च न घटत एव प्रतियोगितयाऽन्वये । प्राक्—पूर्वकाले । अयमर्थः—न ह्यत्र
भ्राता भविष्यति इति प्रतीतिः, किन्तु आगमिष्यति इति—भ्रातुरागमनं
भविष्यतीत्यर्थः । एवञ्च नायं भ्रातृप्रागभावः, किन्तु भ्रात्रागमनप्रागभावः ।
तथा च एतद्देशसम्बन्धप्रागभावविशिष्टस्य भ्रातुरेव ग्रहणात्, विशेषणविशेष्य
योश्च तदानीं सत्वान्नानर्थजं प्रातिभमिति ॥


इन्द्रियेति । बाह्येन्द्रियेत्यर्थः । विशेषणविशेष्ययोस्सत्वेऽपि न हि
चक्षुस्सन्निकर्षो वर्तत इत्यर्थः । ननु मनः बाह्यविषये न स्वतन्त्रम् । अन्यथा
अन्धोऽपि, रूपं गृह्णीयादित्यत्राह पूर्वेति । न हि मनः अपूर्वं बाह्यं गृह्णाति,
I.276

वस्तुनो मनो ग्राहकमिति नान्धाद्यभाव इत्युक्तम् । शब्दाद्युपा
यान्तरविरतौ च जायमानमनवद्यं ज्ञानं मानसं प्रत्यक्षं भवति ।
सुरभि केतककुसुमम्, मधुरा शर्करेति ज्ञानवदित्यप्युक्तम् । अत
एव नानियतनिमित्तकं ज्ञानं प्रतिभेति वक्तव्यम्; प्रत्यक्ष
निमित्तत्वात् ॥


आर्षज्ञानमन्यत्, अन्या च प्रतिभा


न चार्षं नाम ज्ञानं प्रतिभा; प्रत्यक्षातिरिक्तस्यार्षनाम्नः
प्रत्ययस्याभावात् । ऋषीणामपि यज्ज्ञानं तदप्यागमपूर्वकम् इति


किन्तु पूर्वावगतिजसंस्कारसचिवं सत् वस्तूपस्थापयतीति नोक्तदोष इत्यर्थः ।
प्रातिभस्य प्रामाण्ये सिद्धे, इतरानन्तर्भावाच्च तस्य प्रत्यक्षत्वं स्वतस्सिद्धमेवेति ।
प्रत्यक्षनिमित्तत्वादिति बहुब्रीहिः ॥


आर्षं सिद्धदर्शनं च धर्मेभ्यःक. सू. 9-2 इति भाहर्षसूत्रम् ।
अत्र प्रशस्तपादाचार्याः 'आन्नायविधा तॄणामृषीणां अतीतानागतवर्तमाने
ष्वतीन्द्रियेष्वर्थेषु धर्मादिषु ग्रन्थोपनिबद्धेष्वनुपनिबद्धेषु चात्ममनसोस्संयोगात्
धर्मविशेषाच्च यत् प्रातिभं यथार्थनिवेदनं ज्ञानमुत्पद्यते तदार्षमित्याचक्षते ।
तत्तु प्रस्तारेण देवर्षीणां, कदाचिदेव लौकिकानां—यथा कन्यका ब्रवीति—
श्वो मे भ्राताऽगन्तेति हृदयं मे कथयति इति, इति । अत्र सिद्धदर्शनं न
ज्ञानान्तरं
इत्यादिना सिद्धदर्शनं प्रत्यक्षानुमानान्यतरान्तर्भूतमेवेति वदतां
प्रशस्तपादानां आर्षं अतिरिक्तं प्रमाणमिति सम्मतमिव भाति । न्यायकन्दल्यां
श्रीधराचार्याश्च अत्र तत् प्रत्यक्षार्षयोरन्यतरस्मिन्नन्तर्भूतं इति वदन्त इममर्थं
द्रढयन्ति । तदेतन्निराकरोति—न चेत्यादि । अयं भावः आर्षं सिद्धदर्शनं
च धर्मेभ्यः
इत्यत्रार्षं ज्ञानं प्रातिभमिति यदुक्तं तदिष्टमेव । परन्तु न तदतिरिक्तं
प्रमाणम् । एकसूत्रनिर्दिष्टयोः चकारेण समुच्चितयोरुभयोर्मध्य एकस्याति
रिक्तत्वेऽन्यस्यानतिरिक्तत्वे च न सौत्रं विनिगमकं पश्यामः । अतस्सर्वोऽप्ययं
प्रत्यक्षविशेष एवेति । ऋषीणामपीति । तथा च आर्षज्ञानस्य शब्दाद्यधीनत्वेऽपि
शाब्दत्वं तु न संभवत्यवेति अन्ततः तत् मानसप्रत्यक्षरूपमेव वक्तव्यम् । अतश्च
आर्षं प्रातिभं च प्रत्यक्षप्रभेद इत्यर्थः ॥


I.277

हि वदन्ति । आगमग्रहणं च निदर्शनार्थम् । अनुपायस्य ज्ञानस्य
तेषामसत्त्वात् ॥


सिद्धदर्शनमपि न प्रतिभा


न च सिद्धदर्शनं प्रतिभा; अस्मदादेरपि भावात् । तस्मान्न
प्रमाणान्तरं प्रातिभम्, अपि तु प्रत्यक्षमेव ॥


प्रत्यक्षमपि कालत्रयविषयकमस्त्येव


ननु ! प्रत्यक्षमपि नेदं भवति; तद्धि वर्तमानैकविषयम् ।
यथोक्तम्—श्लो. वा. 1-1-4-84


संबद्धं वर्तमानं च गृह्यते चक्षुरादिना
इति ।

तथा—एष प्रत्यक्षधर्मश्च वर्तमानार्थतैव यत् इति च । मैवम्—
अनागतग्राहिणः प्रत्यक्षस्य प्रदेशान्तरे स्वयमेवोक्तत्वात् ॥


रजतं गृह्यमाणं हि चिरस्थायीति गृह्यतेइति च भवाने
वावोचत् । तस्मात् प्रत्यक्षमनागतग्राहि श्वो मे भ्राताऽऽगन्ता
इति सिद्धम् ॥


एवञ्चास्मदादीनामिवानागते भ्रातरि, योगिनां भविष्यति धर्मे
प्रत्यक्षं प्रवर्त्स्यतीति । तस्मात् यत् सर्वज्ञनिषधाय कथ्यते—


यज्जातीयैः प्रमाणैस्तु यज्जातीयार्थदर्शनम् ।

भवेदिदानीं लोकस्य तथा कालान्तरेऽप्यभूत् ॥
श्लो. वा
1-1-2-113
इति—तदपास्तं भवति ॥


योगिनां सर्वज्ञत्वसंभवाक्षेपपरिहारौ


तत्रैतत्स्यात्—सर्वज्ञता योगिनां किमेकेन ज्ञानेन ? बहुभिर्वा ?


कथ्यत इति । रूपग्राहकजातीयैः चक्षुरादिभिः यज्जातीयस्य वस्तुन
इदानीं ग्रहणं कालान्तरेऽपि तत्तथैव स्यात् । प्रमाणस्वभावः सर्वदैकरूप एव
इति वार्तिकार्थः । अतश्चातीन्द्रियार्थदर्शनं योगिनामपि न स्यादिति भावः ॥


तत्र—सर्वज्ञसिद्धौ । एतत्—आक्षेपजालम् । यद्यपीति शेषः ।
I.278

न तावदेकेन न ह्येकस्मिन् ज्ञाने परस्परविरोधिनोऽर्थाः शीतोष्णव
दवभासन्ते ॥


नापि बहुभि—तानि हि क्रमेण वा भवेयुः ? युगपद्वा ? न
युगपज्ज्ञानानि संभवन्ति; सूक्ष्मान्तःकरणसापेक्षत्वात् । क्रमभावि
भिस्तु ज्ञानैरशेषत्रिभुवनकुहरनिहितनिखिलपदार्थसार्थसाक्षात्करण
मेषां मन्वन्तरकोटिभिरपि दुर्घटमिति कथं सर्वज्ञा योगिनः ?


उच्यते—युगपदेकयैव बुद्ध्या सर्वत्र सर्वानर्थान् द्रक्ष्यन्ति
योगिनः । यत्तु विरुद्धत्वादिति, तदप्रयोजकम्—विरुद्धानामपि नीलपी
तादीनामेकत्र चित्रप्रत्ययेऽवभासनात् । एकत्र च मेचकप्रत्यये सन्नि
हितपदार्थव्यतिरिक्तसकलवस्त्वभावग्रहणस्य पूर्वं पु. 143 दर्शित
त्वात् । शीतोष्णयोरपि क्वचिदवसरे भवति युगपदुपलंभः—तद्यथा—
प्रतपति हुतवहविस्फुलिङ्गनिकरानुकारिकिरणे तरुणोष्मणि ग्रीष्मे
हिमशकलशिशिरपयसि सरसि निमग्नभिदघ्नदेहस्य पुंसः युगपदेव
सरस्सलिलसूर्यातपवर्तिनौ शीतोष्णस्पर्शावनुभवपथमवतरतः ॥


न हीति । न हि नीलो घटः, पीतः पट इतिवत् नीलपीतो घट इति प्रतीतिः
संभवतीत्यर्थः ॥


सूक्ष्मेति । युगपज्ज्ञानानुत्पत्तिर्मनसो लिङ्गम् इति हि वक्ष्यत इत्यर्थः ।
क्रमेत्यादि । इदमुपलक्षणम्—अभ्युपगमे वा एतादृशं सर्वज्ञत्वं सर्वेषामपि
संभवेदेव ॥


विरुद्धानामिति । वस्तुनोर्हि नीलपीतयोर्विरोधः, न तु ज्ञानेन साकं
तयोः । समूहालम्बने अत्यन्तविरुद्धानामपि भानात् । अन्यथा नीलपीत इति
वक्तुमप्यसंभवात् । अतः ज्ञाने न कस्यापि विषयस्य विरोध इत्यप्यूह्यम् ।
युगपदिति । यद्यपि युगपत् ज्ञानद्वयं नाङ्गीक्रियत एव, अथापि अत्यन्त
विरुद्धत्वेन ज्ञायमानयोः शीतोष्णयोरुभयोरपि एकज्ञानविषयत्वं न केवलं
शाब्दादिधीमादायैबोपपादनीयं, ऐन्द्रियिकानुभवमादायापीति प्रतिपादनार्थ
मिदम् । शीतोष्णयोरुभयोरपि त्वगिन्द्रियग्राह्यत्वात् युगपदुभयविषयानुभवः
संभवत्येव ॥


I.279

योगिनां सर्वज्ञत्वेऽपीश्वराद्विशेषः


ननु ! एकेन ज्ञानेन सर्वानर्थान् भूतभाविनः परोक्षानपि
पश्यन्तो योगिनः कथमखिलत्रैलोक्यवृत्तान्तदर्शिनः सकलजगद्गुरो
रीश्वराद्विशिष्येरन् । अस्ति विशेषः—ईश्वरस्य तथाविधं नित्यमेव
ज्ञानं, योगिनां तु योगभावनाभ्यासप्रभवमिति ॥


अपूर्वमपि वस्तु भावनावशात् योगिप्रत्यक्षविषयः


ननु ! नादृष्टपूर्वेऽर्थे क्वचिद्भवति भावना ।

आगमात्तु परिच्छिन्ने धर्मे भावनयाऽपि किम् ? ॥ १४६ ॥

चोदनैव धर्मे प्रमाणमिति सावधारणप्रतिज्ञार्थः, प्रथममागमा
दवगतधर्मस्वरूपेषु सत्स्वपि योगिषु न विप्लवत एवेति—उच्यते—
योगिष्वस्त्येवायं प्रकारः । पश्चादपि प्रवर्तमाने धर्मग्राहिणि प्रत्यक्षे
चोदनैवेत्यवधारणं शिथिलीभवत्येव । अपि चेश्वरज्ञानं सांसिद्धिकमेव


विशिष्येरन्—मिद्येरन्, विलक्षणा भवेयुः । अस्तीति । एवञ्च
ईश्वरज्ञानं नित्यं, स्वाभाविकं च; योगिज्ञानं तु अनित्यं, नैमित्तिकं चेति विशेष
इति भावः ॥


नन्वित्यादि । भावना नाम अनुभवजन्या स्मृतिहेतुश्च । एवञ्चातीन्द्रिय
वस्तुविषयकानुभवस्य पूर्वमसंभवेन कथं तद्भावना ? कथं वा ततो योगिना
मपूर्ववस्तुप्रत्यक्षम् ? यदि च वेदादतीन्द्रियार्थज्ञानाधीना भावनेत्युच्यते, तर्हि
धर्मादिः वेदादेव निर्णीतस्वरूप इति ततो भावनया किं प्रयोजनम् ? इत्यर्थः ।
न विप्लवत एवेति । एतादृशयोगिष्वङ्गीकृतेष्वपि चोदनैव धर्मे प्रमाणमिति
प्रतिज्ञाया नोपरोधः । योगिमिर्हि प्रथमावगतये वेद एव शरणीकरणीयः संपन्न
इत्यर्थः । शिथिलीभवत्येवेति । गृहीतग्राहित्वं न प्रामाण्यं व्याहन्तीत्युक्तं
पूर्वमेव । एवञ्च वेदाधीनत्वेऽपि योगिप्रत्यक्षस्य धर्मे प्रामाण्यं वर्तत एवेति
चोदनैव प्रमाणमिति भवदवधारणं व्याहतमेवेति । ननु प्रामाण्यमत्र स्वातन्त्र्येण
विवक्षितम् । योगिनां धर्मप्रत्यक्षप्रामाण्यं तु वेदाधीनमेवेति न दोष इति
शङ्कायामाह—अपि चेति । सांसिद्धिकमिति । तस्य नित्यसर्वज्ञत्वमन्यथा
I.280

धर्मविषयं वेदस्य कारणभूतं वक्ष्यामः । तस्मिन्नपि सति न
चोदनैवेत्यवधारणार्थसिद्धिः ॥


जैमिनिसूत्रनिराकरणोपसंहारः


तस्मात् न धर्मग्राहकं योगिप्रत्यक्षं विद्यमानोपलम्भनत्वात्,
सत्संप्रयोगजत्वात्
इत्यादिसाधनमप्रयोजकम् ॥


प्रमाणान्तरविज्ञातप्रमेयप्रतिपादकः ।

धर्मोपदेशकः शब्दः शब्दत्वात् घटशब्दवत् ॥ १४७ ॥

प्रत्यक्षः कस्यचिद्धर्मः प्रमेयत्वात् घटादिवत् ।

इत्यादयश्च सुलभाः सन्त्येव प्रतिहेतवः ॥ १४८ ॥

तेन निष्प्रतिघयुक्तिसाधितां योगबुद्धिमखिलार्थदर्शिनीम् ।

किं विडम्बयितुमुच्यते मुधा दुष्टहेतुनिकुरुम्बशम्बरम् ॥

तदित्थमपि जैमिनीयं सूत्रमसङ्गतार्थम् । लक्षणपरत्वं त्वस्य
निरस्तमेव ॥


वैशेषिकसम्मतप्रत्यक्षलक्षणनिरासः


यदपि कैश्चित् प्रत्यक्षलक्षणमुक्तं—आत्मेन्द्रियमनोऽर्थसन्नि
कर्षाद्यदुत्पद्यते ज्ञानं तदन्यदनुमानादिभ्यः प्रत्यक्षम्
इति—तदपि
त्रयद्वयसन्निकर्षजन्मनां सुखात्मादिज्ञानानां अव्यापकं, अतिव्यापकं
च व्यभिचार्यादिबोधानामित्युपेक्षणीयम् ॥


न स्यादित्यर्थः । ननु ईश्वरो नास्माभिरङ्गीक्रियत इति अनभ्युपगतदूषण
मित्यत्राह—वक्ष्याम इति ॥


प्रमाणान्तरेत्यादि । अर्थं बुद्ध्वा शब्दरचना इति खलु न्याय इति
भावः । ननु तर्हि यदि शब्दः प्रमाणान्तरावगतमेवार्थं बोधयेत् तर्हि तस्य
स्मृतितौल्यमेवेति कथं तस्यातिरिक्तप्रमाणत्वमिति चेत्—तदेतत् शब्दपरीक्षायां
व्यक्तीभविष्यति ॥


सूत्रमपि इत्यन्वयः । नास्य लक्षणपरत्वासंभवमात्रं, असंगतार्थकत्व
मपीत्यर्थः ॥


आत्मेत्यादि । आत्मा मनसा संयुज्यते, मन इन्द्रियेण, इन्द्रियमर्थेन,
ततः प्रत्यक्षम्—इति क्रमादित्याशयः । त्रयद्वयेति । अर्थसन्निकर्षं वर्जयित्वा
त्रयं सुखप्रत्यक्षे, अर्थेन्द्रियद्वयं वर्जयित्वा द्वयं आत्मप्रत्यक्षे कारणम् ।
व्य भिचार्यादीत्यादिना संशयपरिग्रहः । तेषामपीन्द्रियजन्यत्वमुक्तमेव ॥


I.281

साङ्ख्याभिमतप्रत्यक्षलक्षणदूषणम्


ईश्वरकृष्णस्तु प्रतिविषयाध्यवसायो दृष्टम् इति प्रत्यक्ष
लक्षणमवोचत् । तदपि न मनोज्ञम्—अनुमानादिज्ञानानामपि
विषयाध्यवसायस्वभावत्वेनातिव्याप्तेः ॥


युक्तिदीपिकाकारप्रदर्शितव्याख्यानासामञ्जस्यम्


यत्तु राजा व्याख्यातवान्—प्रतिराभिमुख्ये वर्तते, तेनाभि
मुख्येन विषयाध्यवसायः प्रत्यक्षम्
इति—तदप्यनुमानादावस्त्येव ।
घटोऽयमितिवत् अग्निमान् पर्वत इत्याभिमुख्येनैव प्रतीतेः । स्पष्टता
तु सर्वसंविदां स्वविषये विद्यत एवं ॥


इन्द्रियसन्निकर्षजन्यत्वमन्तरा नान्यत् प्रत्यक्षलक्षणम्


अथ मन्यसे ! सामान्यविहितस्य विशेषेण बाधात् अनुमानादि
व्यावृत्तिः सेत्स्यति । सामान्येनाध्यवसाय उत्सृष्टः, स लिङ्गशब्दाभ्यां
विशेषितः इति तदितरोऽध्यवसायः प्रत्यक्षमिति स्थास्यति । यद्येवं
प्रत्यक्षलक्षणमिदानीमव्याकरणीयमेव । शब्दलिङ्गग्रहणे वर्णिते सति
तद्वैलक्षण्यादेव प्रत्यक्षं ज्ञास्यत इति । तस्मादिन्द्रियार्थसन्निकर्षपदो
पादानमन्तरेण नानुमानादिव्यवच्छेद उपपद्यत इति इदमपि न
प्रत्यक्षलक्षणमनवद्यम् ॥


विषयेति । अध्यवसायो हि निर्णयः । तद्रूपत्वं चानुमानादेरप्यस्तीत्यर्थः ॥


प्रतिरिति । न ह्यनुमानादिकं विषयमभिमुखीकृत्य प्रवर्तते, किन्तु परोक्षं
विषयमधिकृत्येति भावः । आभिमुख्येनैवेति । ज्ञानस्याभिमुख्यं नाम—
विषयीकरणमेव । तच्च सर्वत्र वर्तत एवेति भावः ॥


उत्सृष्टः—उत्सर्गप्राप्तः । तथा च—प्रत्यक्षलक्षणे दृष्टं इति, अनुमान
लक्षणे लिङ्गं इति, शब्दलक्षणं शब्दः इति च विशेष्यवाचकं पदम् ।
लिङ्गशब्दाभ्यां अनुमानशब्दयोः निर्देशात् दृष्टस्य प्रत्यक्षस्य वैलक्षण्यं सिद्धमेवे
त्यर्थः । यदीत्यादि । दृष्टादिपदैरेव तद्व्यावृत्तिवर्णने तावदेव लक्षणमलं,
प्रतिविषयेत्यादिविवरणमनपेक्षितमेव । यदि तेषां पदानां लक्ष्यमात्रपरत्वात्
I.282

अलमतिविस्तरेण परदर्शनगीतमतः

विगतकलङ्कमस्ति न हि लक्षणमक्षधियः ।

तदलमक्षपादमुनिनैव निबद्धमिदं

हरति मनांसि लक्षणमुदारधियाम् ॥ १५० ॥

इति प्रत्यक्षम्


अथानुमानम्


तत्पूर्वकं च त्रिविधमनुमानं पूर्ववच्छेषवत्सामा
न्यतो दृष्टं च ॥ ५ ॥


एवं प्रमाणज्येष्ठेऽस्मिन् प्रत्यक्षे लक्षिते सति ।

कथ्यतेऽवसरप्राप्तमनुमानस्य लक्षणम् ॥ १५१ ॥

तत्रानुमानस्वरूपं ब्रूमहे । ततस्तत्र सूत्रं योजयिष्यामः ॥


पञ्चलक्षणकाल्लिङ्गात् गृहीतान्नियस्मृतेः ।

परोक्षे लिङ्गिनि ज्ञानं अनुमानं प्रचक्षते ॥ १५२ ॥

अत्रापि लिङ्गविषयं ज्ञानं, ज्ञानविषयीकृतं वा लिङ्गं प्रतिबन्ध
स्मरणसहितं प्रमाणम्; लिङ्गिज्ञानं फलम्, लिङ्गिज्ञानस्य वा
प्रमाणतायां पूर्ववदुपादानादिज्ञानं फलमुपवर्णनीयम्; करणस्य हि
प्रमाणत्वमिति स्थितमेवैतत् ॥


इतरत् लक्षणप्रतिपादकं आवश्यकमेवेत्युच्यते, तर्हि लक्षणमतिव्याप्तमेव ।
अतः इन्द्रियजन्यत्वादिकं निवेशनीयमेव ॥


विषयशुद्धिमन्तरा पठ्यमानं वाक्यं विपरीतमप्यर्थं बोधयेदिति मत्वाऽऽह—
तत्रेति । पञ्चेति । पक्षसत्त्वादीनि पञ्चलिङ्गान्यनुपदमेव वक्ष्यन्ते । गृहीतादिति
लिङ्गविशेषणम् । लिङ्गात्—लिङ्गज्ञाप्यायाः नियमस्मृतेरित्यर्थः । नियमस्मृति
सहकृतात् लिङ्गादिति वा । लिङ्गी—अविनाभावव्याप्त्याख्यसम्बन्धेन
लिङ्गविशिष्टः—साध्य इत्यर्थः ॥


अत्रापीति । प्रत्यक्षलक्षणे यथा, तथाऽत्रापि प्रमाणफले ज्ञेये ॥


I.283

लिङ्गशब्दनिर्वचनं, तस्य पञ्चलक्षणत्वं च


तत्र परोक्षोऽर्थो लिङ्ग्यते—गम्यतेऽनेनेति लिङ्गम् । तच्च पञ्च
लक्षणम् । कानि पुनः पञ्चलक्षणानि ? पक्षधर्मत्वम्, सपक्षधर्म
त्वम्, विपक्षाद्व्यावृत्तिः, अवाधितविषयत्वम्, असत्प्रतिपक्षत्वं
चेति ॥


सिषाधयिषितधर्मविशिष्टो धर्मी पक्षः, तद्धर्मत्वं—तदाश्रि
तत्वमित्यर्थः ॥


साध्यधर्मयोगेन निर्ज्ञातं धर्म्यन्तरं सपक्षः, तत्रास्तित्वम् ॥


साध्यसंस्पर्शशून्यो धर्मी विपक्षः, ततो व्यावृत्तिः ॥


अनुमेयस्यार्थस्य प्रत्यक्षेणाऽऽगमेन वाऽनपहरणं अवाधित
विषयत्वम् ॥


संशयबीजभूतेनार्थेन प्रत्यनुमानतया प्रयुज्यमानेनानुपहतत्व
मसत्प्रतिपक्षत्वम् ॥


एतैः पञ्चभिर्लक्षणैरुपपन्नं लिङ्गं अनुमापकं भवति ॥


हेतुदोषाः


एतेषामे लक्षणानां एकैकापायात् पञ्च हेत्वाभासा वक्ष्यन्ते ॥


पूर्ववदिति—प्रमाणतायां सामग्र्याः इत्यादिना पूर्वं पु. 174
उपपादितदिशेत्यर्थः ॥


लिगि-गताविति धातुः । गत्यर्थाश्च ज्ञानार्थकाः ॥


सिषाधयिषितो यो धर्मः—वह्न्यादिः, तद्विशिष्ट इत्यर्थः ॥


साध्यरूपधर्मवत्त्वेन निर्णीतमित्यर्थः ॥


अनपहरणमिति । विषयापहारो हि बाधः ॥


प्रत्यनुमानतया प्रयुज्यमानेन संशयबीजभूतेनार्थेन—साध्यतद
भावसाधारणत्वात्
अनुपहतत्वमित्यर्थः । तुल्यबलप्रत्यनुमानाभावः । अत्र
संशयपदप्रयोगेन अबाधितत्ववैलक्षण्यम् ॥


I.284

यस्य पक्षधर्मता नास्ति—असावसिद्धो हेत्वाभासः । यथा—
नित्यः शब्दः, चाक्षुषत्वात् ॥


साध्यविपर्ययव्याप्तस्तु विरुद्धः । स यथा—नित्यः शब्दः, कृतक
त्वात्, आकाशवत् ॥


विपक्षेऽसत्त्वं यस्य नास्ति सोऽनैकान्तिकः । यथा—नित्यः
शब्दः, प्रमेयत्वादिति ॥


यस्याबाधितविषयत्वं नास्ति स कालात्ययापदिष्टः । यथा—
अनुष्णः, तेजोऽवयवी, कृतकत्वात्, घटवदिति ॥


यस्य निष्प्रतिपक्षता नास्ति स प्रकरणसमः । यथा—
अनित्यः, शब्दः, नित्यधर्मानुपलब्धेः, घटवत्; नित्यः, शब्दः,
अनित्यधर्मानुपलब्धेः, आकाशवदिति । सोऽयं एतेषु पञ्चसु
लक्षणेष्वविनाभावो लिङ्गस्य परिसमाप्यते ॥


अबाधितत्वस्य पृथक् हेतुलक्षणताऽऽक्षेपः


ननु ! त्रिलक्षणके हेतावविनाभावः परिसमाप्यते । न च
तथाविधे बाधा संभवति; बाधाविनाभावयोर्विरोधात् ॥


साध्यविपर्यय इति । सपक्षः साध्यवान्—तत्र सत्त्वस्य विरुद्धं—
साध्याभाववत्येव सत्त्वमित्यर्थः । नैयत्यविवक्षणादनैकान्तव्यावृत्तिः । अनेन
हेतोः नियमेन साध्याभावव्याप्तेरेव सत्त्वेन सपक्षसत्त्वं नास्तीत्युक्तम् । अविना
भावः-व्याप्तिः । परिसमाप्यते—निर्णीयत इति यावत् । प्रकरणसम
प्रभृतिशब्दान् तदवसरे निर्वक्ष्यामः ॥


त्रिरूपाल्लिङ्गात् यदनुमेये ज्ञानं तदनुमानं3-3, त्रैरूप्यं पुनर्लिङ्ग
स्यानुमेये सत्त्वमेव, सपक्ष एव सत्त्वं, असपक्षे चासत्त्वमेव निश्चितम्
3-5
इत्यादिना न्यायबिन्दौ धर्मकीर्त्युक्तं उपक्षिपति—नन्विति । विरोधादिति ।
बाधायां सत्यां त्रिलक्षणकत्वस्यैवासंभवादित्यर्थः ॥


I.285

बाधितत्वं पक्षस्यैव, न हेतोः


यच्चेदमग्न्यनुष्णत्वसाधने कृतकत्वं त्रिलक्षणमपि बाधक
विधुरितविषयमित्युदाहृतम्—तत् असमीक्षिताभिधानम्; अत्र
त्रैलक्षण्यानुपपत्तेः । पक्षधर्म एव तावदयं न भवति । प्रत्यक्षा
द्यनिराकृतो हि पक्ष उच्यते । न चायमीदृश इत्यपक्ष एव । तद्धर्मो
हेतुः कथं पक्षधर्मः स्यात् ॥


नाप्ययमन्वयी हेतुः; अन्वयग्रहणसमय एव तद्विप्लवाव
धारणात् । अन्वयो हि गृह्यमाणः सर्वाक्षेपेण—यद्यत् कृतकं,
तत्तदनुष्णम्—इत्येवं गृह्यते । ततश्च तद्ग्रहणसमय एव—अय
मुष्णोऽपि कृतक इति हृदयपथमवतरति तनूनपात्—इति कथमन्वय
ग्रहणम् ?


ननु कृतकत्वस्य वह्नौ सत्त्वात् कथमत्र पक्षधर्मताविरहः ? इत्याशंक्य
वह्नेः पक्षत्वमेव न संभवतीति हेतोः पक्षवृत्तित्वं नास्त्येवेत्युपपादयति—
यच्चेदमित्यादि । पक्षधर्मः—पक्षवृत्तिरिति यावत् । प्रत्यक्षादीति ।
तथोक्तं न्यायबिन्दौ—स्वरूपेणैव स्वयमिष्टोऽनिराकृतः पक्षः 3-38 इति ।
व्याख्यातं च ग्रन्थकारेणैव—यः साधयितुमिष्टोऽप्यर्थः प्रत्यक्षानुमानप्रतीतिस्व
वचनैर्निराक्रियते, न स पक्षः
48 इति । धर्मोत्तराचार्योऽप्याह—प्रत्यक्षा
दिभिरनिराकृतः
इति । अपक्ष इति । साध्यवत्तया गृहीते पक्षे सत्त्वं हि
लक्षणम् । प्रकृते च वह्नौ अनुष्णत्वं प्रत्यक्षबाधितमेवेति कथं तस्य पक्षत्व
मित्यर्थः । तथा च अयं बाधः पक्षदोष एव, न तु हेतुदोषः, हेतोस्तु पक्षधर्मत्वा
भाव एव दोषः, न बाध इति ॥


ननु पक्षे साध्यस्यासिद्ध्या नैवं दूषयितुं शक्यमिति शङ्कायाम्—तर्ह्यत्र
बाधाभावेऽस्य प्रसज्यमानं हेतुत्वं किमन्वयरूपम् ? उत व्यतिरेकरूपम् ? इति
विकल्प्य दूषयति—नापीत्यादिना । सर्वाक्षेपेण—उत्सर्गतः—सर्वं क्रोडी
कृत्येति यावत् । अयं तनूनपात् इत्यन्वयः । अयं भावः—यद्यत् कृतकं
तत्तदनुष्णं यथा घटादि—इति खलु व्याप्तिर्ग्राह्या । तत्र कृतकसामान्यस्यैव
व्याप्तौ भानमनुभवसिद्धम् । कृतकसामान्यान्तर्गते च वह्नावनुष्णत्वं प्रत्यक्ष
बाधितमेवेति यद्यत् कृतकं तत्तदनुष्णमिति व्याप्तेरुन्मेष एव नास्ति ।
I.286

यदि त्वनलमुत्सृज्य घटादावन्वयग्रहः ।

नान्तर्व्याप्तिर्गृहीता स्यात् साध्यसाधनधर्मयोः ॥ १५३ ॥

ततश्चेवंविधाद्धेतोः स्वसाध्यनियमोज्झितात् ।

साध्याभिलाष इत्येवं षण्डानुनयदोहदः ॥ १५४ ॥

अन्वयपूर्वकत्वाच्च व्यतिरेकग्रहणस्य तन्निराकरणे तदपाकरण
मवगन्तव्यम् ॥


अपि च सिषाधयितधर्मवैपरीत्येन वह्नेः प्रत्यक्षतो निश्चयात्
वस्तुवृत्तन स एव विपक्ष इति न ततो व्यतिरेकः कृतकत्वस्येति ।
तस्मात् त्रेलक्षण्यापायादेव हेत्वाभासोऽयमिति न रूपान्तर
मबाधितविषयत्वमपेक्षते ॥


हेतोरबाधितत्वमपि दुरधिगमम्


कथं चेदमबाधितत्वं निश्चीयते ?

न ह्यदर्शनमात्रेण बाधाविरहनिश्चयः ।

सर्वात्मना हि नास्तित्वं विद्युः कथमयोगिनः ॥ १५५ ॥

अनिश्चिते तदङ्गे च न हेतोर्हेतुता भवेत् ।

यथैव पक्षधर्मादिरूपाणामनुपग्रहे ॥ १५६ ॥

तस्मादबाधितत्वं रूपान्तरमवचनीयमिति ॥


अनुमितेस्तु न तसम् । एवं स्थिते कस्याहेतोर्हेतुत्ववारणायाबाधितत्वं पृथक्
संपादनीयमिति ॥


ननु पक्षान्तर्भावेण कथं व्यभिचारापादनम् ? इति शङ्कायामाह—
यदीति । अन्तर्व्याप्तिरिति । पक्षे साध्यसिध्यनुकूला व्याप्तिः इत्यर्थः ।
यो हेतुमान् स साध्यवान् इति व्याप्तौ यदि पक्षः सामान्यतो वा कदाचिदपि धर्मि
तया न भासेत, तर्हि प्रकृतसाध्यनिरूपितव्याप्त्यभावेन पक्षे साध्यसाधना
समर्थाद्धेतोः साध्यसाधनप्रयासः पुत्रावाप्तये षण्डानुनयप्रायासायेतेति ।
अन्वयेति । व्यतिरेकव्याप्तिरपि अन्वयव्याप्तिपोषणायैव ॥


वस्तुनः वृत्ते—शीलं स्वभाव इति यावत् ॥


नास्तित्वं—बाधाभावः । अयोगिनः—असर्वज्ञाः । तदङ्गं—हेतो
रङ्गभूतेऽबाधितत्वे । यथा हेतोः पक्षवृत्तित्वादिज्ञानविरहे स हेतुरसाधकः,
एवं सर्वोऽपि हेतुः अबाधितत्वस्य ग्रहीतुमशक्यतया असाधक एव स्यादिति ॥


I.287

अबाधितत्वं हेत्वङ्गमेव


अत्राभिधीयते—यदुक्तं—अन्वयग्रहणं सर्वाक्षेपेणेति तद्ग्रहण
वेलायामेव सिषाधयिषितधर्मविपर्ययाध्यासितहुतवहस्वरूपपरि
स्फुरणादन्वयशून्योऽयं हेतुरिति—तदहृदयङ्गमम् । अन्वयः सत्यं
सर्वाक्षेपेण गृह्यते, न पुनः एकैकधर्मिसमुल्लेखेन । एवं हि तदानन्त्यात्
अन्वयो गृहीतुमेव न शक्येत । अनुमानस्य च वैफल्यमित्थं भवेत्,
अग्निमतां धूमवतां सर्वधर्माणां अन्वयावगमकाल एव गृहीतत्वात् ॥


धूमो हि यत्र यत्रेति सामान्येनैव गृह्यते ।

न पुनः पर्वतेऽरण्ये गृहे वेत्येवमिष्यते ॥ १५७ ॥

एवञ्च सत्याक्षेपवाचोयुक्तिरुपपन्ना भविष्यति ।

न चैवं सति वक्तव्यं षण्डानुनयमार्गणम् ।

न हि तद्वर्जमित्येवं व्याप्तिग्रहणमिष्यते ॥ १५८ ॥

तद्ग्रहणं—अन्वयग्रहणम् । तदानन्त्यात्—धर्मिणामानन्त्यात् ।
न शक्येतेति । वह्निधूमयोर्व्याप्तिर्हि—यो धूमवान् स वह्निमान् इति
सामान्यत एव गृह्यते, न तु धूमवत् महानसं वह्निमत्, धूमवान् पर्वतो
वह्निमान् इति प्रत्येकं धर्मिव्यक्तीनां भानपूर्वकम्, व्यक्तीनामानन्त्येन
व्याप्तिग्रहणस्य दुर्लभत्वापत्तेः । एवं पर्वतादेः प्रातिस्विकत्वेन ग्रहणे तत्र
वह्निमत्तायाः तदैव सिद्ध्याऽनुमानवैयर्थ्यं च । किन्तु पर्वतादिकं व्याप्तौ सामान्यतः
धूमवत्त्वेन वह्निमत्त्वेनैव च क्रोडीक्रियते । व्याप्तिर्हि साध्यसाधनयोरेव, न
तत्राधिकरणव्यक्तिविशेषभाननिर्बन्धः । एवञ्च प्रकृतेऽपि यद्यत् कृतकं तत्सर्व
मनुष्णं दृष्टमिति व्याप्तौ न किञ्चिदपि बाधकमिति । इत्थं—भवदुक्तावेवानु
मानवैयर्थ्यं, नास्मदुक्तरीतावित्यर्थः ॥


एवञ्चेत्यादि । एवं सति चेत्यन्वयः । पक्षादीनां सामान्याकारेण
व्याप्तौ भानेनैव सर्वाक्षेपेण व्याप्तिर्गृह्यत इत्युक्तिर्निरूढैवेति को दोषः
इत्यर्थः । तद्वर्जं—पक्षवर्जम् ॥


ननु यद्यपि व्याप्तिः ग्रहणकाले पर्वतादिपक्षवर्जं न गृह्यते । अथापि यो
धूमवान् स वह्निमान्
इति सामान्यतो व्याप्तिग्रहणे कथं पर्वताद्यधिकरण
विशेषे वह्निविशेषस्य सिद्धिस्तया व्याप्त्या वक्तुं शक्येत, तथाऽग्रहणादिति
I.288

सामान्येन च व्याप्तिर्गृहीता सती सिषाधयिषितधर्म्यपेक्षया
सैवान्तर्व्याप्तिरुच्यते—यैव च नगलग्नाग्न्यनुमानसमये तद्व्यतिरिक्त
कान्तारादिप्रदेशवर्तिनी बहिर्व्याप्तिरभूत् सैव कालान्तरे कान्तार
वर्तिनि वह्नावनुमीयमानेऽन्तर्व्याप्तिरवतिष्ठते । तदिहापि यत् कृतकं
तदनुष्णमिति सामान्यतः परिच्छेदात् न तदानीमनलोन्मेष इति
सिद्धोऽन्वयः ॥


व्यतिरेकोऽपि कार्ये तेजोऽवयविनि पक्षीकृते कृतकत्वस्य
तेजःपरमाणुभ्यः ॥


शङ्कायामाह—सामान्येनेति । अयं भावः—यद्यपि व्याप्तिस्सामान्यत एव
गृह्यते, अथापि पर्वतो धूमवान् इति पक्षधर्मताज्ञानानन्तरं खलु एक
सम्बन्धिज्ञानविधया व्याप्तिस्मरणं जायते । तथा च स्मरणकाले सामान्यतः
स्मृताऽपि व्याप्तिः पक्षधर्मताज्ञानबलात् प्रकृतपक्षादिविषयिणी विश्राम्यतीति
सैव विशेषव्याप्तिरूपाऽपि पर्यवस्यतीति अधिकरणविशेषे साध्यविशेषनिर्णयो
भवत्येवेति । अन्तर्व्याप्तिः—अन्तरङ्गभूता व्याप्तिः—विशेषव्याप्तिरिति
यावत् । बहिर्व्याप्तिः—बहिरङ्गभूता व्याप्तिः—सामान्ययाप्तिरिति यावत् ।
तदानीं—सामान्यतो व्याप्तिग्रहकाले । अनलोन्मेषः—वह्नेः प्राति
स्विकतयोपस्थितिः । तथा च व्याप्तिग्रहणकाल एव वह्निविशेषाभानात्
प्रत्यक्षबाधः पूर्वोक्तरीत्या न वक्तुं शक्य इत्यर्थः ॥


अन्वयपूर्वकत्वाच्च व्यतिरेकग्रहणस्य इत्याद्यपाकरोति—व्यति
रेकोऽपीति । कृतकत्वस्य व्यतिरेकोऽपि सिद्धः इत्यन्वयः ॥


ननु नित्यस्य तेजःपरमाणोरुभयबादिसंप्रतिपन्नत्वे तत्र कृतकत्वस्य व्यतिरेकः
सिद्धयेत्, ये तु नित्यं परमाणुं नाभ्युपगच्छन्ति वेदान्तिप्रभृतयः तैस्सह विवादे कः
प्रतीकार इति चेत्, तर्हि चन्द्रे, तारकासु वा ज्योति व्यतिरेको ग्रहीष्यते,
शास्त्रतः तेषां तेजोद्रव्यत्वस्य निर्णीतत्वात् । अथ यदि विधुतारकादयो न
तेजांसि, अपि तु सहस्रकिरणमरीचिप्रतिफलनवशादालोकभानमात्रमित्युच्येत,
तर्हि मा भवन्तु तानि तेजांसि । अथापि न नो हानिः । तदा हि विपक्ष इति
कश्चिदेव नास्तीत्युक्तं भवति । तथा च विपक्षावृत्तित्वं हेतोस्सिद्धमेवेत्याह—
I.289

विधुतारकपरमाण्वनभ्युपगमे तु विपक्ष एव नास्तीति तदभावात्
सुतरां तत्रावृत्तिर्भवतीति । न हि सपक्ष इव विपक्षे वृत्तिरिष्यते,
येन यत्नतः तत्सिद्धये यतेत । अग्निरेव विपक्ष इति चेत्—मैवम्—
न हि पक्ष एव विपक्षो भवितुमर्हति ॥


पक्ष इति कश्चन नास्त्येवेत्याक्षेपः


ननु ! वस्तूनामद्विरूपत्वात् पक्षो नाम परमार्थतो नास्त्येव ।
साध्यधर्माधिकरणभूतश्चेत् सोऽर्थः, तत्सपक्ष एव; विपर्यये तु
न विपक्षतामतिवर्तते । न च क्रमद्वययोगित्वं रूपद्वयरहितत्वं
वा वस्तुनः समस्तीति ॥


विध्वित्यादि । अत्रेदमवधेयम्—यादृशपुरुषविशेषेणैतावता उष्णस्पर्श एव
नानुभूतः तादृशेन पुरोवर्तिवह्निमधिकृत्यैवं प्रयोगे विपक्ष एव अप्रसिद्धः ।
परन्त्वस्मिन् प्रयोगे अनुष्णत्वं—स्पर्शगतजातिविशेष एव, न तूष्णत्वा
भावरूपम्, उष्णस्पर्शस्यैव तेनाननुभूतत्वात् । यस्तु चन्द्रतारकादिषु परमाणौ वा
शास्त्राच्चोष्णस्पर्शं निश्चिन्वन्नेव पुरोवर्तिभौमवह्निमधिकृत्य तथा प्रयुङ्क्ते, तदा
परमाण्वादिकमेव विपक्ष इति । ननु यदि विपक्ष एव नास्ति तर्हि विपक्षा
वृत्तित्वं वा कथं प्रसिद्धयेत् ? इत्यत्राह—न हीति । दुष्टहेतुषु यत् प्रसिद्धं विपक्ष
वृत्तित्वं तदभावः प्रसिद्ध्येदेवेति भावः । ननु अनुष्णत्वसाधने तदभाववानग्निरेव
विपक्ष इति, तस्मात् व्यावृत्तिः हेतोः कृतकत्वस्य नास्तीति कथं व्यतिरेकः ?
इत्यत्राह—अग्निरेवेति । व्याप्तिज्ञानकाले न तत्र तदभावनिर्णयसंभव
इत्यनुपदमेवोक्तम् ॥


ननु लोके हि वस्तु कोटिद्वयान्तर्गतं, घटः—तद्भिन्नश्चेत्येवंरीत्या । तथा
च प्रकृते वस्तुसामान्यं साध्यवद्वा भवेत्, साध्याभाववद्वा । एतदन्यतर
कोटावेव सर्वमपि वस्त्वन्तर्भूतम् । तत्र साध्यवांश्चेत् सः सपक्ष एव, साध्या
भाववांश्चेत् स विपक्ष एव । को हि नामेदानीं पक्षः तृतीयः परिशिष्यत इति
शङ्कते—नन्विति । ननु कश्चन साध्यवानेव, अन्यश्च साध्याभाववानेव,
एभ्यस्तृतीय उभयवान् कश्चन कुतो न स्यादित्यत्रोक्तं—वस्तूनामद्विरूपत्वा
दिति । तत्—तस्मात् । तथा चोभयात्मकमेकं न स्यादिति तृतीयो राशिर्ना
स्त्येव । ननूभयात्मकत्वस्य विरोधेन तृतीयराश्यसंभवेऽपि उभयानात्मकत्वेनैव
एको राशिरस्तु; अथवा कालभेदेन तत्तदभाववद्वस्त्वेको राशिरस्त्येवेति कथं
राशिद्वयमेवेत्यत्राह—न चेति । अयं भावः—अस्तु कालभेदेनोभयात्मकत्वो

I.290

पक्षः कश्चिदस्त्येव


तदयुक्तम्—अनुमानोच्छेदप्रसङ्गात् । अद्विरूपत्वेऽपि वस्तूनां
निसर्गविषयीकृतः अर्थः कश्चित् पक्ष एषितव्यः । तदभावे
तदपेक्षस्वरूपयोः सपक्षविपक्षयोरप्यभावः स्यात् । तदस्य पक्षस्य
सतो विपक्षत्वमारोप्य यत्तेन व्यभिचारचोदनं तेनाग्न्यनुमानमपि
विप्लवेत ॥


पर्वते वह्न्यनुमानस्य वह्न्यनुष्णत्वानुमानस्य च वैलक्षण्यशङ्कापरिहारौ


ननु ! पर्वतादिर्धर्मी न ज्वलनाख्यसाध्यधर्मशून्यतया तत्र
निश्चितः । तेजोऽवयवी तु अनुष्णत्ववैपरीत्येन प्रत्यक्षतो निश्चित
इति—तत्किमिदानीं पर्वतादिः अग्निमत्तया निश्चितः ? तथाभ्युपगमे
वा किमनुमानेन ?


पपादनम् । अथापि नैषः तृतीयो राशिः; तत्काले तु प्रथमराशिः, तदभावकाले तु
द्वितीयो राशिरिति कुत इष्टसिद्धिः । उभयानात्मकत्वं तु शशशृङ्गादिवत्तुच्छत्वे
विश्राम्येतेति स्मर्तुमप्ययोग्यम् । तथा च द्वैराश्यमेव सुप्रतिष्टितमिति पक्षो नाम
कश्चिन्नास्त्येवेति ॥


अनुमानोच्छेदमेवोपपादयति—तदभाव इति । पक्षस्यैवाभाव इत्यर्थः ।
सपक्षेत्यादि । पक्षसदृशः खलु सपक्षः, पक्षविरुद्धश्च विपक्षः । एतदुभयं
पक्षस्यैवाभावे कथं प्रतितिष्ठेतेत्यर्थः । अग्न्यनुमानमपीति । पर्वतो
वह्निमान् धूमादित्यादावपि पक्षस्यैवाभावे तदनुमानमपि नावतिष्ठेतेत्यर्थः ॥


ननु वह्नेरनुष्णत्वं प्रत्यक्षबाधितं, पर्वते वह्निस्तु न तथेति वैलक्षण्य
मस्त्येव । तथा चाद्यानुमानतौल्यं न वह्न्यनुमानादीनामिति शङ्कते—
नन्विति । समाधत्ते—तत्किमिति । पर्वतो वह्निशून्यतया न निश्चित
इति चेत्, तर्हि पर्वतो वह्निमत्त्वेन निश्चित इत्यायातम् । तथा च सिद्धसाधनम्
इत्यर्थः । तथा—अग्निमत्त्वेन निश्चित इति ॥


I.291

पक्षानङ्गीकारे अनुमानोच्छेदः स्यात्


ननु ! न पर्वतोऽग्निमत्तया निश्चितः; नापि तद्वैपरीत्येन ।
किन्तु सन्दिग्ध एवास्ते । यद्येवं सन्दिग्धेऽपि विपक्षे वर्तमानो
धूमादिरहेतुरेव स्यात् । निश्चितविपक्षवृत्तिवत् सन्दिग्धविपक्षवृत्ते
रपि अहेतुत्वात् सर्वमनुमानमुत्सीदेत् । तस्मात् पक्षेण व्यभिचार
चोदनमनुचितमिति व्यतिरेकवानेवायं हेतुः ॥


बाधः न पक्षमात्रदोषः, किन्तु हेतोरपि


यत्पुनरभिहितं—अनिराकृतपक्षवृत्तित्वमस्य नास्तीति—
तत्सत्यम्—वयमप्यमुं पक्षं अध्यक्षवाधितमिच्छाम एव । स तु
न पक्षमात्रपर्यवसितो बाधः, किन्तु हेतुमपि स्पृशति ॥


आस्त इति । प्रकृते तु वह्निः उष्णत्वेन निश्चित इति शेषः ।
समाधत्ते—यद्येवमिति । साध्यतदभाववत्त्वेन सन्दिग्धश्चेत् सः पक्षोऽपि
भवितुमर्हति, तथा सन्दिग्धविपक्षोऽपि भवितुमर्हति । हेतोस्तद्वृत्तित्वज्ञानं च—
हेतुः किं साध्यवद्वृत्तिः ? उत साध्याभाववद्वृत्तिः' इत्येवंरूपं पर्यवस्यति ।
अयं च व्यभिचारसंशय एव । तथा चेदृशदोषस्य सर्वत्र संभवात् अनुमानमे
वोच्छिद्येतेति ॥


ननु पक्षे साध्यस्य सन्दिग्धत्वेऽपि न तस्य सन्दिग्धविपक्षत्वं संभवति,
यतः सर्वमप्यनुमानमुच्छेद्येत । सन्दिग्धसाध्यवान् खलु पक्षः । स च संशयः
सर्वत्र सुलभ एव । पक्षान्तर्भावेण व्यभिचारसंशयः साध्यसंशय एव पर्य
वस्येत् । धूमः किं वह्निमत्पर्वते वर्तते ? उत वह्न्यभाववत्पर्वते ? इति संशये
पर्वते वह्निसत्त्वे आद्यः पक्षः, वह्नेरसत्त्वे द्वितीयः पक्षः प्रत्यवतिष्ठेत । तथा च
पर्वतो वह्निमान् ? उत न ? इत्याकारः पर्यवसन्नः । स च पक्षतारूप इति
पक्षान्तर्भावेण व्यभिचारसंशयः गुण एव, न दोष इति चेत्, प्रकृतेऽपि इमं
न्यायं पश्यतु भवानिति । पक्षेण—पक्षान्तर्भावे ॥


अनिराकृतेति । प्रत्यक्षाद्यबाधितेत्यर्थः । तथा च पक्षे साध्यः प्रत्यक्ष
बाधितः, न तु हेतुरिति बाधः न हेतुदोष इति भावः । सत्यं इत्यर्धाङ्गीकारे ।
अयं पक्षदोष इत्यभ्युपगच्छामः, हेतुदोषो न भवतीति तु नाभ्युपगच्छामः ।
पक्षनिष्ठोऽपि दोषः हेतुमपि दूषयेदेवेति । स तु बाधः इत्यन्वयः ॥


I.292
न हेतुनिरपेक्षात्मा पक्षो नामास्ति कश्चन ।

प्रसाधयितुमिष्टो हि हेतुना पक्ष उच्यते ॥ १५९ ॥

स न साधयितुं शक्यः प्रत्यक्षे प्रतियोगिनि ।

साध्यापहारद्वारेण हेतुर्भवति बाधितः ॥ १६० ॥

अबाधितानुमेयत्वमत एवास्य लक्षणम् ।

न तु हेतुरसिद्धोऽयं ज्वलने वृत्तिसंभवात् ॥ १६१ ॥

अबाधितत्वं न दुरवगमम्


यत्त्वबाधितता ज्ञातुं शक्या नेति विकल्पितम् ।

पक्षस्यापि महाभाग ! कथं तां प्रतिपत्स्यसे ॥ १६२ ॥

प्रयत्ने क्रियमाणेऽपि यदि बाधा न दृश्यते ।

नास्त्येवेत्यवगन्तव्यं व्यवहारो हि नान्यथा ॥ १६३ ॥

अतस्त्रिलक्षणेऽपि हेतौ बाधसंभवादबाधितत्वं रूपान्तरं
वक्तव्यम् ॥


एतदेवोपपादयति—न हेत्वित्यादि । अयमर्थः—वह्निरनुष्णः कृतक
त्वादित्यादौ यद्यपि पक्षे साध्यवत्त्वमेव प्रत्यक्षबाधितं, न तदानीं हेतोरुल्लेखः ।
अथापि पक्षसाध्याद्युल्लेखश्चानुमितिस्थल एव । अनुमितिश्च हेतुशरणैव ।
हेतौ प्रतिष्ठिते सर्वं प्रतिष्ठेत, तस्मिन्नप्रतिष्ठिते न किञ्चित्प्रतिष्ठेत । केनचिद्धेतुना
कुत्रचिदधिकरणे कस्यचित्साध्यस्य साधनेऽभिमते खलु तत्र भवता प्रत्यक्ष
बाधाद्युत्कीर्तनम् ! तादृशदोषोत्कीर्तने च स दोषः बाधितसाध्यकत्वादिरूपः
स्पृशत्येव हेतुम् । अन्यथा खलु अयं सद्धेतुव्यपदेशार्ह एव स्यात् । न हि
एतदपेक्षयाऽतिरिक्तः असिद्ध्यादिस्तत्र हेतौ वर्तते । अतः अबाधितसाध्यकत्वं
सद्धेतोरावश्यकमेवेति ॥


पक्षस्यापीति । न हि बाधस्य दोषत्वं नास्तीति भवानप्यवोचत्, किन्तु
पक्षस्यायं दोष इत्येव । तथा च पक्षे अबाधितत्वज्ञानं भवताऽपि संपादनीयम् ।
तथा च यश्चोभयोः समो दोषः तमेव त्वं ब्रवीषि माम् । तत्त्वजिज्ञासुं
प्रत्याह—प्रयत्न इति । नान्यथेति । सर्वत्रैवं संशये पुरुषप्रवृत्तिरेव न
स्यात् । अतश्च संशयात्मा विनश्यति इति सत्यमुक्तम् ॥


I.293

एवञ्च यदुच्यते—बाधाविनाभावयोर्विरोधादिति—तत्कथञ्चि
द्युक्तं, कथञ्चिदयुक्तम् । पञ्चलक्षणके लिङ्गे यः परिसमाप्तोऽविनाभावः
तत्र नास्त्येव बाध इत्येवं युक्तमेतत् । त्रिलक्षणकलिङ्गाभिप्रायेण
त्वयुक्तमिति ॥


आगमबाधितो हेतुः


एवमागमबाधितोऽपि हेतुर्द्रष्टव्यः । यथा—ब्राह्मणेन सुरा
पेया अदुष्टत्वात्, क्षीरवदिति ॥


अनुमानेनानुमानस्य विरोधासंभवः


ननु ! प्रत्यक्षागमविरुद्धवदनुमानविरुद्धमनुमानं कस्मान्नोदा
ह्रियते ? असम्भवादिति ब्रूमः—न ह्यनुमानविरुद्धमनुमानमवकल्पते ।
अनुमानयोर्हि तुल्यबलयोर्बाध्यबाधकभावः ? अतुल्यबलयोर्वा ? तत्र
तुल्यबलयोस्तुल्यबलत्वादेव न बाध्यबाधकभावः । समाने हि वीर्ये
किं कस्य बाधकम् ? बाध्यं वा ? अतुल्यबलत्वपक्षेऽपि—यत्कृतमल्प
बलत्वमन्यतरस्य तत एव तदप्रामाण्यसिद्धेः किमनुमानबाधया ?
तस्मान्नानुमानविरुद्धमनुमानं बुद्ध्यामहे ॥


अत एवानुमानविरुद्धमनुमानमपश्यता भाष्यकारेणोक्तम्—
यत्पुनरनुमानं प्रत्यक्षागमविरुद्धं न्यायाभासस्सः न्या. भा. 1-1
इति ॥


कथंचिदित्यादि । बाधाविनाभावयोर्विरोधः इति सामान्यत
उक्तिर्न दुष्यति; पञ्चलक्षणके हेतावुभयोर्मेलनासंभवात्; त्रिलक्षणकहेत्वभि
प्रायेणोच्यते चेत् वह्न्यनुष्णत्वानुमानादाबुभयं संभवतीति न विरोध इत्यर्थः ॥


आगमः—ब्राह्मणो न सुरां पिबेत् इत्यादिः ॥


यत्कृतमिति । प्रत्यक्षेणागमेन वोपोद्बलितत्वादेवानुमानस्य प्राबल्यं
वक्तव्यम् । दौर्बल्यं च प्रत्यक्षागमविरोधादेव । तथा च प्रत्यक्षविरोधात्
आगमविरोधाच्च प्राथमिकमनुमानं मृतमिति तेन किं कर्तुं शक्यम् ?


I.294

असत्प्रतिपक्षत्वमपि हेत्वङ्गमेव


यत्र तु तुल्यबले द्वे अनुमाने निपततः स सत्प्रतिपक्षस्य विषयः
इति । असत्प्रतिपक्षत्वं पञ्चमं लिङ्गलक्षणमुपदिश्यते ॥


परस्परविरुद्धहेतुद्वयसमावेशो भवत्येव


ननु ! वस्तूनाद्विरूपत्वात् कथमेकत्र धर्मिणि परस्परविरुद्ध
धर्मद्वयाक्षेपिप्रयोजकहेतुद्वयसन्निपातो भवेत् । अत एव विरुद्धा
व्यभिचारी नाम न हेत्वाभास इहेष्यते । तदतिदुर्लभः सत्प्रतिपक्षो
हेतुरिति कमपहर्तुं पञ्चममिदं हेतुलक्षणमुपदिश्यत इति—
सत्यमेवम्—किन्तु संशयबीजं यत् विशेषाग्रहणं, तदन्यतरनिर्णयाय
भ्रान्त्या प्रयुज्यमानं सत्प्रतिपद्यते—स्थाणुरयं पुरुषधर्मानुपलब्धेः,
पुरुषोऽयं स्थाणुधर्मानुपलब्धेरिति । अन्यतरविषयानुपलंभ एवायं


यत्रेति । नन्वनुपदमेवोक्तं तुल्यबलानुमानद्वयामेलनं, इदानीमस्ति
तदित्युच्यत इति कथमिदम् ? उच्यते—अनुमानयोस्तुल्यबलत्वे बाध्यबाधक
भावो नास्तीत्येतावदेवोक्तम्, न तु तादृशानुमानासंभवः । ननु उभयोर्मेलने
परस्परबाधः कथं न स्यादिति चेत्—न तत्र परस्परबाधः—किन्त्वनिर्णय एव ।
भाष्यकारोऽप्याह—उभयपक्षसाम्यात् प्रकरणसमो निर्णयाय न प्रकल्पते
न्या. भा. 1-2-7 इति ॥


धर्मद्वयाक्षेपि—साध्यद्वयसाधनम् । अत एव—तादृशहेतुद्वयमेलना
संभवादेव । प्राचीनबौद्धैः दिङ्नागादिभिः संशायकतया विरुद्धाव्यभिचारिणोऽङ्गी
कारेऽपि, धर्मकीर्त्यादिभिरेव तन्निरासात् न्या. विं. 3-110 सर्वसंप्रतिपन्नमेत
दिति भावः । विरुद्धाव्यभिचारिशब्दश्च एवं निरुक्तः धर्मोत्तरेण—विरुद्धं न
व्यभिचरतीति विरुद्धाव्यभिचारी । विरुद्धश्चासौ अव्यभिचारी चेति वा
न्या.
बिं. 3-110
इति । कन्दलीकारोऽपि विरुद्धं प्रत्यनुमानं न व्यभिचरति—
नातिवर्तते
243 पु. इत्याह । स्वसाध्यविरुद्धसाधकहेतुमानिति फलितार्थः ।
इदं विस्तरशः कन्दल्यां द्रष्टव्यम् । कमपहर्तुं—कं दोषं वारयितुम् ।
भ्रान्त्येति । अन्यतरधर्मस्य सद्भावावश्यकात् धर्मद्वयस्याप्यनुपलंभः
दोषमूलत्वात् भ्रान्तिरित्युच्यते । तथा च वस्तुनः अद्व्यात्मकत्वेऽपि अनुप
लंभस्य संभवात्, विशेषादर्शनात् संशयादिप्रसक्तिरिति भावः । अस्तु सर्वं !
I.295

संशयाधायी पक्षधर्मान्वयव्यतिरेकोपपत्तिभ्रमेण हेतुरिति प्रयुज्य
मानः सत्प्रतिपक्षो भवतीति प्रकरणसमहेत्वाभासचिन्तायां विस्तरेण
निरूपयिष्यते । पुरुषप्रज्ञाप्रमादमूलत्वाच्च वस्तुनो द्व्यात्मकत्वमिति
तत्रैव वक्ष्यते ॥


लक्षणान्तरमतः कथनीयम्

प्रत्यनेकविकलत्वमवश्यम् ।

तेन लिङ्गमनुमानपथज्ञाः

पञ्चलक्षणकमभ्युपजग्मुः ॥ १६३ ॥

पञ्चलक्षणकाल्लिङ्गात् इतिपद्यस्थगृहीतात्इतिपदव्याख्यानम्


पञ्चलक्षकाल्लिङ्गादिति व्याख्यातम् । व्याप्तिग्रहणसमय
समधिगतस्वरूपस्यापि लिङ्गस्य पुनर्धर्मिणि क्वचिदनवधृतवपुषो
नास्याध्यवसायसाधनत्वमिति द्वितीयं लिङ्गदर्शनमेवापेक्षणीयमिति
गृहीतादित्युक्तम् । लिङ्गं हि ज्ञापकं; न चक्षुरादिवत् कारकम् ।
ज्ञापकस्य चायं स्वभावः, यत् ज्ञातं अनु ज्ञापयतीति । व्याप्तिग्रहण
कालगृहीतमेव व्याप्तिवत् स्मर्यमाणतथैव लिङ्गं लिङ्गिनं गमयिष्यतीति
चेन्न—ग्रहणमन्तरेण व्याप्तिस्मृतेरप्यभावात् 1इत्यलं प्रसङ्गेन ॥


वस्तुनः कथं द्व्यात्मकत्वम् ? इत्यत्राह—पुरुषेति । वस्तुनः एकात्मकस्यैव
पुरुषबुद्धिदोषवशात् द्व्यात्मकत्वप्रतिभासमात्रमित्यर्थः । तत्रैव—हेत्वाभास
चिन्तायामेव ११ आह्निके । लक्षणान्तरं—असत्प्रतिपक्षत्वरूपम् ॥


व्याप्तीत्यादि । महानसादौ वह्निव्याप्यत्वेन गृहीतस्यापि धूमस्य, पुनः
कालान्तरे पर्वतादौ ग्रहणमन्तरा न वह्न्यनुमापकत्वं, ज्ञायमानं हि लिङ्गमनुमिति
करणम्, न स्वरूपसत्—इत्यतो गृहीतात् इत्युक्तमित्यर्थः । क्वचित्
धर्मिणि—पक्षे । अनवधृतवपुषः—अनवगतस्येति यावत् । अध्यवसायः—
अनुमितिः । द्वितीयं—व्याप्तिग्रहणकालिकं प्रथमं, पक्षधर्मताज्ञानकालिकं
द्वितीयमित्यर्थः । अपेक्षणीयमेव इत्यन्वयः । यथा महानसादौ
गृहीता व्याप्तिः कालान्तरे स्मृतैवानुमितिहेतुः, तथा धूमोऽपि स्मृत एवानुमिति
हेतुः कुतो न स्यादित्याक्षिपति—व्याप्तीति । समाधत्ते—ग्रहणमिति । पूर्वं
I.296

नियमस्मृतेः इत्यस्य व्याख्यानम्


नियमस्मृतेरिति । विव्रियतां ! कोऽयं नियमो नाम ?


व्याप्तिः—अविनाभावः—नित्यसाहचर्यमित्यर्थः ॥


नियमो नाम कः ?


आह—नैतावत्येव विरन्तुमुचितम् । तस्य तदविनाभावित्व
मित्यत्र हि निमित्तमन्वेषणीयं तार्किकैः ॥


तादात्म्यतदुत्पत्तिभ्यां व्याप्तिनिरूपणम्


तच्च तादात्म्यतदुत्पत्तिरूपमीक्षितवन्तो भिक्षवः । यो हि
यदात्मा भावः स कथं तमुत्सृजति ? वृक्षात्मिकैव हि शिंशपा तेन
वृक्षत्वमनुमापयति । सोऽयं स्वभावहेतुरुच्यते, वृक्षोऽयं शिंशपा
त्वात् इति । तत्र तादात्म्यं प्रतिबन्धः ॥


गृहीतायाः व्याप्तेः स्मृतौ उद्वोधकं खलु वक्तव्यम् । एकसम्बन्धिज्ञानमपर
सम्बन्धिस्मारकम्
इतिबिधया धूमज्ञानं स्वाधिनाभावसम्बन्धिनः वह्नेः
स्मारकं भवतीति खलु व्याप्तिस्मृतिर्वक्तव्या । तत्र यदि धूमज्ञानमेव स्मृतिरूपं,
तर्हि वह्निज्ञानमपि तादृशमेव स्यात् । तथा च अनुमितिः स्मृतिरूपा वक्तव्या—
तच्च न युक्तमेव । पर्वते वह्नेः पूर्वमननुभूतत्वेनेदानीं स्मृतेरयोगात् । अतः
धूमस्मरणान् न पर्वते वह्न्यनुमितिनिर्वाहः ॥


एतावत्येव—एवमुत्तरदान एव । तार्किकैरिति । न हि श्रद्धाजडा
स्तार्किका इति भावः ॥


भिक्षवः—धर्मकीर्त्यादयः । तथोक्तं प्रमाणवार्तिके धर्मकीर्तिना—
कार्यकारणभावाद्वा स्वभावाद्वा नियामकात् । अविनाभावनियमः,
दर्शनान्न नदर्शनात्
इति । अयमर्थः—अविनाभावस्य नियमः—निर्णयः,
नियताविनाभावो वा, नियामकात्—तादृशनियमहेतुभूतात् कार्यकारणभावात्
स्वभावाद्वा भवति । न तु कदापि अन्वयदर्शनात् व्यतिरेकदर्शनाद्वा भवति ।
व्यक्तीनामनन्तत्वेन असर्वज्ञदुर्ज्ञेयत्वेन अन्वयव्यतिरेकसहचारग्रहस्यासंभवा
दिति भावः । यो हि भावः—पदार्थः यदात्मा—यादृशस्वभावकः । तं—
स्वभावम् । तादात्म्यं प्रतिबन्धः—द्रव्यं घटः इत्यादौ सामान्य

I.297

कार्यं नाम कारणाधीनात्मलाभमेव भवति, न कारणानपेक्ष
मिति । तदुपलभ्यमानं तदनुमापयति—अग्निरत्र धूमात्—इति
कार्यहेतौ तदुत्पत्तिः प्रतिबन्धः । एवं हि द्विविधं प्रतिबन्धमनु
मेयाव्यभिचारनिबन्धनमनुक्त्वा केवलसाहचर्यनियममात्रवर्णनं यत्
पादप्रसारिका सैवेति ॥


उच्यते—पादप्रसारिकैव साधीयसी स्थूलदृष्टिभिरवलम्बिता
वरं, न सूक्ष्मदृष्टिभिः उत्प्रेक्षिताः तादात्म्यादिप्रतिबन्धाः ॥


तादात्म्ये तावद्गमकाङ्गे हेतुसाध्ययोरव्यतिरेके गम्यगमकभाव
एव दुरुपपादः । न खल्वगृहीतं लिङ्गं लिङ्गिप्रतीतिमाधातुमर्हति ।
तत्र लिङ्गबुद्धौ लिङ्गी प्रतिभासते ? न वा ? अप्रतिभासे तद्वुद्ध्या
तदग्रहणात् कथं तस्य तदात्मकत्वम् ? प्रतिभासे तु लिङ्गवत् प्रत्यक्ष
एव सोऽर्थ इति किमनुमानेन ?


विपरीतसमारोपव्यवच्छेदार्थमनुमानमिति चेत्—तत्स्वरूप
ग्रहणे विपरीतारोपणावसराभावात् । न हि शिरःपाण्यादि
विशेषदर्शने सति स्थाणुसमारोपः प्रवर्तते । तत्र तद्भेदादुपपद्येतापि ।


विशेषयोः तादात्म्यं सर्वसम्मतम् । विशेषे सति सामान्यं—यत्र घटत्वं, तत्र
द्रव्यत्वमिति । इयं व्याप्तिर्धर्मयोः । एवं धर्मिणोर्व्याप्तिस्तु तादात्म्यमूलैव ।
यो घटः स द्रव्यमेवेति । यो विशेषात्मा स सामान्यात्माऽपि भवतीति यावत् ॥


तत्—कार्यम् । तत्—कारणम् । पादप्रसारिकैवेत्यादिः नर्मोक्तिः ॥


गमकाङ्गे—व्याप्तिनिश्चायकाङ्गभूते सति । अव्यतिरेके—सति चेति
शेषः । उक्तमेवोपपादयति—न खल्विति । तदग्रहणात्—लिङ्गिनः—साध्यस्या
विषयीकरणात् । प्रत्यक्ष एवेति । उभयोरभेदादित्यर्थः । एतदुक्तं भवति—
हेतुसाध्ययोरभेदे, पक्षे हेतुदर्शनदशायामेव हेत्वभिन्नं साध्यमपि सिद्धमेव ।
तयोर्भेदे च तादात्म्याद्व्याप्तिरिति भग्नमेवेति ॥


विपरीतेति । अवृक्षत्वव्यवच्छेदार्थमित्यर्थः । ननु तत्र अवृक्षत्व
मस्ति चेत् तन्न निषेद्धुं शक्यम्, नास्ति चेत् निषेधो व्यर्थ इति चेत्तत्रोक्तम्—
समारोपेति । अरोपितं तत् व्यवच्छिद्यत इत्यर्थः । अभावस्थले सर्वत्रेय
I.298

न हि शिरःपाण्यादय एव पुरुष इति तद्ग्रहणेऽप्यपुरुषारोपः कामं
भवेत् । इह वृक्षत्वशिंशपात्वयोरभेदात् शिंशपात्वग्रहणे सति का
कथा वृक्षेतरसमारोपस्य !


अपि च वृक्षत्वग्रहणे सति सामान्यधर्मग्रहणात् विशेषानध्य
वसायात् कदाचिदशिंशपारोपः स्यात्; न तु शिंशपात्वग्रहणे सति
अवृक्षत्वसमारोपो युक्तः ॥


प्रमातुः शिंशपात्वं हि यस्य प्रत्यक्षगोचरः ।

परोक्षं तस्य वृक्षत्वमिति नातीव लौकिकम् ॥ १६४ ॥

किञ्च साध्यसाधनयोरव्यतिरेकात् यथा शिंशपात्वे च वृक्षत्व
मनुमीयते तथा वृक्षत्वेनापि शिंशपात्वमनुमीयेत, तादात्म्याविशे
षात् । तथा च प्रयत्नानन्तरीयकत्वेनानित्यत्वं साध्यते, तद्वदनित्य-


मेव गतिः । भूतले घटोऽस्ति चेत् तन्न निषेध्यम्, नास्ति चेत् निषेधो
व्यर्थः, अतश्च भूतले घटो नास्तीति प्रतीतिप्रयोगादयो विलुप्येरन् । अतः
निषेधस्थले सर्वत्र प्रतियोगिप्रसक्तिः अरोपात्मिकैव । वस्तुतः अयमपि दृष्टान्तः
प्रकृताननुगुण इत्याह—तत्रेति । अभेदादिति । यद्यपि सिद्धान्ते वृक्षत्वं
परा जातिः, पृथिवीत्ववत्; शिंशपात्वं चापरा, घटत्ववत् इति तयोर्नाभेदः;
तथापि जाति मनङ्गीकुर्वतां स्वलक्षणमात्रं वस्तुस्वरूपमभिदधतां वृक्षत्व
र्शिशपात्वयोरुभयोरपि स्वरूपानतिरेकात्तयोरभेद एव । अत एव स्वरूपस्य
तादात्म्यहेतुरिति व्यवहारः ॥


स्यात्—संभाव्येत । ननु घृतादौ घृतत्वे गृहीतेऽपि इयं पृथिवी ?
उत जलम् ? इति संशयदर्शनात् विशेषग्रहणेऽपि संशयो युज्यत एवेत्यत्राह—
प्रमातुरिति । नातीव लौकिकमिति । अत्यन्तं लोकविरुद्धमित्यर्थः ।
घृतादौ कदाचिद्धनीभावस्य, कदाचिद्द्रवत्वस्य च दर्शनाद्युज्यते संशयः इयं
पृथिवी ? उत जलं इति । प्रकृते तु शिंशपां पश्यन् को वा तत्र वृक्षत्वे
संशयीतेत्यर्थः ॥


शिक्षकपुरुषप्रमादात् कदाचित् कस्यचित् सामान्यमनवगतमपि स्यादित्यत
आह—किञ्चेति । तादाम्यहेतुः खलु अयम् । प्रयत्नानन्तरीयकत्वम्—
I.299

त्वेनापि तत्साध्येत । ततश्च सपक्षव्याप्त्यव्याप्तिभ्यां कृतकत्वप्रयत्ना
नन्तरीयकत्वयोर्यो भेदः उक्तः स हीयेत ॥


व्याप्तेरद्विष्ठत्वम्, तादात्म्यस्य नियमे पर्यवसानं च


ननु च ! अन्यः संबन्धः, अन्यश्च प्रतिबन्धः । द्विष्ठः संबन्धः,
प्रतिबन्धस्तु परायत्तत्वलक्षणः । तत्र शिंशपात्वं वृक्षत्वे प्रतिबद्धम्,
न वृक्षत्वं शिंशपात्वे । प्रयत्नानन्तरीयकत्वमपि अनित्यत्वे नियतम्,
न त्वनित्यत्वं तत्रेति । तथा धूमस्याग्नौ प्रतिबन्धः, न त्वग्नेर्धूमे ।
सत्यमेवम्—किन्त्वेवमुच्यमाने नियम एवाङ्गीकृतो भवेत्,
न तादात्म्यम् । तादात्म्ये हि यथा शिंशपा शिंशपां विना न
दृश्यते तथा वृक्षत्वमपि शिंशपारहितं नदृश्येत, दृश्यते च खदिरादौ
शिंशपारहितं वृक्षत्वं, विद्युदादौ च प्रयत्नानन्तरीयकत्वरहित
मनित्यत्वमुपलभ्यत इति कथमभेदः ?


4-201 प्रयत्नानन्तरकालोत्पन्नत्वम् । अस्य स्वभावानुमानरूपत्वं प्रमाण
वार्तिकधर्मोत्तरटीकादौ न्या. वि. टी. 2-21 उपपादितम् । कृतकत्वे
त्यादि । शब्दे अनित्यत्वेन कृतकृत्वसाधने सपक्षव्याप्तं, तत्रैव प्रयत्ना
नन्तरीयकत्वसाधने तत सपक्षे विद्युदादौ अव्याप्तं इति भेदः तत्र
तत्रोक्तः ॥


ननु ! एकसम्बन्धिज्ञानविधया हेतोस्साध्योपस्थापकत्वेऽपि हेतुसाध्ययो
र्वर्तमानः सम्बन्धः न संयोगादितुल्यः; येन हस्तिदर्शने हस्तिपस्मरणवत्,
हस्तिपदर्शने हस्तिस्मरणवच्च, धूमदर्शनेन वह्न्युपस्थितिवत्, वह्निदर्शनेन
धूमोपस्थितिराशङ्क्येत । किन्तु धूमादेव वह्न्यनुमितिः, न तु वह्नेर्धूमानुमिति
रिति संप्रतिपन्नम् । एवञ्च प्रकृतेऽपि शिंशपात्वेन वृक्षत्वमात्रमेव सिद्ध्येत्, न
तु वैपरीत्येनापीति शङ्कते—नन्विति । न त्विति । विद्युदादौ व्यभिचारात्
इति हेतुः । पूर्वपक्ष्युक्तं व्याप्तेः संयोगादिवैलक्षण्यमङ्गीकरोति—सत्यमिति ।
शिंशपारहितं—शिंशपात्वं विनेति यावत् ॥


I.300
विना साधनधर्मेण साध्यधर्मोऽयमस्ति हि ।

दृष्टस्तद्व्यतिरेकेण तदात्मा चेति कैतवम् ॥ १६५ ॥

अथ विद्युदाद्यनित्यत्वादन्यदेव घटाद्यनित्यत्वं, यत् प्रयत्ना
न्तरीयकत्वाभिन्नमुच्यते; तर्हि धर्मिभेदेन धर्माणां भेदेऽन्वय
ग्रहणानुपपत्तेः सर्वमनुमानमुत्सीदेत् । धूमाग्न्योस्तु कार्यकारणयो
र्भेदात् युक्तं वक्तुम्—धूमस्याग्नौ प्रतिबन्धः, न त्वग्नेर्धूमे । इह तु
साध्यसाधनयोरव्यतिरेकात् न तथा शक्यते वक्तुम् । तथाऽभिधाने
वा नाव्यतिरेकः । सर्वथा तादात्म्यं वा त्यज्यताम्, वृक्षत्वानित्य
त्वाभ्यां शिंशपात्वप्रयत्नानन्तरीयकत्वे वा अनुमीयताम्, नान्त
राऽवस्थातुं शक्यते ॥


स्वभावहेतुकानुमानान्तरनिराकरणम्


यश्चायं—अनित्यः शब्दः कृतकत्वादिति स्वभावहेतुरुदाहृतः—
स कथं स्वभावहेतुः ? इदं हि चिन्त्यताम् । अनित्यत्वं नाम


साध्यहेत्वोः पक्षविशेषणत्वात् धर्मेण इत्युत्कीर्तनम् । हि—यस्मात्
साधनं विनापि साध्यं कुत्रचिद्वर्तते ततस्साधनव्यतिरेकेण वर्तमानः साधनस्वरूप
इति वञ्चनामात्रमित्यर्थः । अन्वयः—यत्र धूमस्तत्राग्निरितिरूपः ।
अनुपपत्तेः—व्यक्तीनां व्याप्तौ भानासंभवेन सामान्यत एव व्याप्तिग्रहणं
वक्तव्यम् । न हि पर्वतीयधूमवह्न्योः व्याप्तिग्रहणसंभवः । उत्सीदेत् ।
अयोगोलकादौ धूमव्यभिचारित्वेऽपि वह्नेः, तदतिरिक्तवह्नेरेव व्याप्तिरित्यपि
वक्तुं शक्यतया सदसद्धेतुविभागस्य दुर्वचत्वादप्यनुमानप्रामाण्यमुत्सीदेदित्यपि
बोध्यम् । धूमे इत्यनन्तरं इतिकरणं द्रष्टव्यम् ॥


उदाहृतः—न्यायबिन्द्वादौ 3-11 इति शेषः । ननु अनित्यत्वादयो
हि स्वरूपरूपाः । अतः तस्य स्वभावहेतुत्वमिति चेत्—तत्राह—इदं हीति ।
कथमिति । धर्माणां स्वरूपरूपत्वेऽपि तन्निरूपकभेदाद्वाऽवश्यं भेदः
एषितव्यः, नो चेत् सर्वपदानां पर्यायतैव स्यादिति भावः ॥


I.301

किमुच्यते ? किं च कृतकत्वम् ? इति । तत्रानित्यत्वं विनाशयोगः,
उत्पत्तियोगश्च कृतकत्वम् । उत्पन्नस्य च भावस्य विनाशः; न
तूत्पाद एव विनाश इति कथं साध्यसाधनयोरव्यतिरेकः ?


परैः स्वभावहेतुकानुमानसंभवसमर्थनम्


अत्र चोदयन्ति—विनाशयोगे ह्यनित्यत्वे विनाशी शब्द इति
बुद्धिः स्यात्, नानित्य इति । एष्या च सा मिथ्या बुद्धिः, शिखरिण
इव कृशानुविशेषितस्य विनाशवतः शब्दस्य गृहीतुमशक्यत्वात् ॥


अभावेन हि धर्मेण तद्वत्ता धर्मिणः कथम् ?

अभावग्रहवेलायां धर्मिणोऽनुपलम्भनात् ॥ १६६ ॥

अनित्यत्वमिति च भावप्रत्ययः कथमभावे भवेत् ? विरुद्धत्वात् ।
तस्मादुभयान्तपरिच्छिन्ना वस्तुसत्ताऽनित्यत्वमुच्यताम् । कृतकत्व
मपि सत्तैव, कारणोत्पादिता धारा सती कथ्यत इति । एवञ्च
सत्तैव साध्यं साधनं चेति सिद्धं स्वभावहेतुत्वम् ॥


सिद्धान्तिना तन्निराकरणम्


तदिदमनुपपन्नम् । साध्यसाधनयोस्तथात्वेनानवभासनात् ।
एवं ह्युच्यमाने शब्दः सत्तावान् सत्तावत्त्वादिति प्रतीतिः स्यात् ।
न चैवं दृश्यते । अपि तु—अनित्यः शब्दः, कृतकत्वादिति ॥


विनाशेति । अनित्यत्वस्य विनाशयोगरूपत्व इति यावत् । सा बुद्धिः
मिथ्या इत्यन्वयः । तत्र हेतुं सदृष्टान्तमाह—शिखरिण इति । यथा वा
वह्निरूपविशेषणविशिष्टः पर्वतः दृश्यते, तथा विनाशविशिष्टः शब्दः न हि गृह्यते,
विशेष्यस्य नष्टत्वात् । अतः अभावग्रहवेलायां धर्मिणः शब्दस्य नष्टत्वेन धर्मिणः
अभावाख्येन धर्मेण कथं वैशिष्ट्यम् ? विशेषणविशेष्ययोः समकालत्वाभावात् ।
भिन्नकालयोरपि विशेषणविशेष्यभावे व्यवहारसामान्यमुच्छृङ्खलं स्यादिति ।
विरुद्धत्वादिति । अभावे भावसत्ताया इति शेषः । अन्तः—अवधिः ।
पूर्वोत्तरावधिद्वयमिति यावत् । वस्तुसामान्यस्य क्षणिकत्वात्—धारा इत्युक्तम् ॥


तथात्वेन—अभिन्नत्वेन—यद्वा, सत्तारूपत्वेन ॥


I.302

अथोभयान्तपरिच्छिन्ना सत्ता साध्या, कारणनिर्वर्त्याऽऽश्रय
समवायिनी च साधनमुच्यते—तदेतदघटमानम्—विनाशरूपस्या
न्तस्य तदानीमविद्यमानत्वेन सत्तापरिच्छेदकत्वाभावात् ॥


बुद्धिस्थेनाथ तेनास्याः परिच्छेदोऽभ्युपेयते ।

शब्दस्यैव परिच्छेदो विनाशेनास्तु तादृशा ॥ १६७ ॥

धर्मः समानकालोऽपि बुद्ध्यैव विषयीकृतः ।

तद्विशेषणतां याति तथा भाव्यपि यास्यति ॥ १६८ ॥

तदेवं विनाशी शब्द इति विशेषणविशेष्यभावसिद्धेः किं
सत्तासाध्यकल्पनया ॥


अभावपदादपि भावप्रत्ययो युज्यत एव


यत्पुनरभिहितम्—अभावे भावप्रत्ययस्त्वतलादिर्न स्या
दिति—तदत्यन्तानभिज्ञस्य चोद्यम् । शब्दप्रवृत्तिनिमित्तस्य तत्र भाव-


समवायिनीति । सत्तेति आकृष्यते । अयं भावः—सत्ताया ऐक्येऽपि
अवच्छेदकभेदाद्भेदव्यवहारः । पूर्वौत्तरावध्यवच्छिन्ना सत्ता अनित्यत्वम् ।
मध्यकालावच्छिन्ना सत्ता कृतकत्वमिति । तदानीं—वस्तुसत्ताकाले । उत्पत्ति
र्यद्यपि वस्तुन्यन्वेति । आद्यक्षणसम्बन्धस्यैवोत्पत्तिपदार्थत्वात् । सम्बन्धस्य च
वस्तुनिष्टत्वात् । विनाशस्तु वस्तुकाले नास्त्येवेति तस्य कथं सत्तापरिच्छेद
कत्वम् ?


शङ्कते—बुद्धिस्थेनेति । समाधत्ते—शब्दस्यैवेति । तदानी
मसताऽपि बुद्धिस्थेन सत्त्वेन यदि विनाशस्य संस्पर्शः, तर्हि तादृशेनैव शब्देन
विनाशस्य सम्बन्धोऽस्तु; किं बकबन्धनप्रयासेन ? अतीतेन धर्मिणा धर्मस्य
यथा योगः, तथा भविष्यताऽपि धर्मेण धर्मिणोऽपि सम्बन्धोऽपि युज्यत एवेति ।
एवञ्चासमानकालिकयोरपि विशेषणविशेष्यभावसम्भवेन सत्तान्वेषणप्रयासो
विफल एवेत्यर्थः ॥


I.303

प्रत्ययेनाभिधानात्—तस्य गुणस्य हि भावात् द्रव्ये तच्छब्दनिवेश
इति । अभावेऽपि अभावत्वमिति दर्शनात् । तस्मात् बुद्धिस्थ
विनाशयोग एवानित्यत्वम् ॥


कृतकत्वमप्युत्पत्तियोग एव, न सत्ता । कारणोत्पादिताश्रया
वच्छेदे तु तस्या इष्यमाणे धर्मिण एव तदवच्छेदो भवत्विति किं
सोपानान्तरेण ॥


वस्तुभेदेन धर्मा अपि मिद्यन्त एवेत्याक्षेपः


ननूत्पादविनाशाख्यं न धर्मद्वयमन्वयि ।

यद्धटे, नास्ति तच्छब्दे; यच्च शब्दे, न तद्धटे ॥ १६९ ॥

गुणस्य—धर्मस्य । द्रव्ये—वस्तुनि । वस्तुनि विद्यमानं कञ्चन
धर्मं निमित्तीकृत्य शब्दस्य प्रवृत्त्या—स धर्मः प्रवृत्तिनिमित्तमित्युच्यते । अभावे
च अभावत्वधर्ममादाय अभावशब्दस्य प्रवृत्तिरिति को दोष इत्यर्थः ॥


कारणेत्यादि । कृतकत्वं हि नित्यात् धर्मिणं व्यावर्तयति । तत्र धर्मि
निष्ठायाः सत्तायाः कारणोत्पादितघटादिनिष्ठत्वमुपपाद्य, तादृशविलक्षणस्य
सत्तायाः नित्येभ्यः व्यावर्तकत्वापेक्षया कृतकत्वं साक्षाद्धर्मिणमेव नित्येभ्यो
व्यावर्तयतु, न तु तदवच्छिन्नसत्तावच्छेदात्—इत्यर्थः । युक्तं चैतत्—नैल्य
पदेन नीलवृत्तिधर्मबोधने प्राप्ते, नीले घटे विद्यमानः गन्धादिरूपः धर्मः न
हि नीलपदेन बोधयितुं शक्यः । भवद्दृष्ट्या तु कारणो पन्नघटवृत्तिसत्तायाः
कृतकत्वपदार्थ वे हि नीलवृत्तिगन्धधर्ममपि नीलत्वपदं बोधयतु । अतः
तत्तच्छब्दप्रवृत्तिनिमित्तभेदनिर्वाहाय धर्माणां साक्षादेव व्यावर्तकत्वं एषितव्यम् ॥


नन्वित्यादि । कृतकत्वादीनां साक्षात् व्यावर्तकत्वं दुर्वचमेव । सर्वानु
गतं सत्तादिधर्मं व्यावर्त्य, तस्याः सत्तायाः विशिष्टवेषेणेतरव्यावर्तकत्वानङ्गीकारे,
कृतकत्वं हि कृतके तद्धटे पर्याप्तम् । एवं अनित्यत्वमपि । तथा च यत्
कृतकं, तदनित्यं इति सामान्यव्याप्तिर्न स्यात् । व्यक्तिभेदेन धर्मभेदात् ।
सत्ता तु सर्वानुगता ॥


यदि च—कृतकत्वमपि कृतकेषु सर्वेषु अनुगतं एकमेव । कृतकस्य
वस्तुनः यो भावः तद्धि कृतकत्वं; तच्च कृतकेषु सर्वेषु स्यादेव । सर्वेषु तेषु
कृतकशब्दप्रयोगे हि प्रवृत्तिनिमित्तमपि सर्वत्र स्यादेवेति व्याप्त्युपपद्यत इत्युच्यते
I.304

अथैक एव धर्मः सर्वभावसंबन्धी इष्येत, तर्हि—

एकभावसमुत्पादे सर्वोत्पादः प्रसज्यते ।

एकप्रलयकाले च सकलप्रलयो भवेत् ॥ १७० ॥

तस्मात् सत्तापक्ष एव वरम् ॥


धर्मिभेदेऽपि धर्माणामनुगतत्वं युक्तम्


नैतदेवम्—धर्मिभेदेऽपि धर्माणां तुल्यरूपाणां अवभासात् ॥


न घटादिस्वरूपं हि नाश इत्यवकल्पते ।

येनानन्वयदोषः स्यात् तद्भेदोपनिबन्धनः ॥ १७१ ॥

एकत्वमपि धर्मस्य नास्ति सर्वेषु धर्मिषु ।

येनैकध्वंससमये सकलध्वंससङ्करः ॥ १७२ ॥

भिन्नत्वेऽपि च धर्माणां समानरूपत्वेनावभासमानत्वात्
अन्वयग्रहणादिकार्याविरोधः । अत एव सामान्यमन्तरेणापि


—तर्हि घटपटादिषु सर्वत्र विद्यमानं कृतकत्वं एकमेवेति, घटे उत्पन्ने घटगत
कृतकत्वस्य उत्पत्त्या, पटगतकृतकत्वस्य तस्य चाभेदात् पटगतकृतकत्वमप्यु
त्पन्नमेवेति, एकस्य उत्पादे सर्वोत्पादः । एवं विनाशेऽपि । यद्यपि केवलस्य
सत्वस्य सर्वत्रैक्यात् व्यावर्तकत्वं न संभवति, अथापि तत्सामग्र्यधीनस्वरूप
विशेषणभेदात् विशिष्टवेषेण व्यावर्तकत्वसंभवः । व्याप्तिस्तु सामान्यात्मनेति
गत्यन्तराभावादङ्गीक्रियते—इति आहत्यार्थः ॥


तद्भेदः—धर्मिभेदः । एकत्वमपि नेति । तुल्यरूपाणां धर्माणां
इति ह्यनुपदमुक्तम् । एतदेवोपपादयति—भिन्नत्वेऽपीत्यादि । अयं भावः—
यद्यपि कृतकत्वादयो धर्माः आश्रयभेदेन भिद्यन्त एव, अतः न एकस्योत्पत्तौ
सर्वोत्पत्तिप्रसङ्गादिः । व्याप्तिस्तु सर्वेषां कृतकत्वानां अनुगतैकरूपेण संभवः ।
अनुगतरूपं तु सर्वत्र जातिरेवेति न निर्बन्धः । घटवत्त्वेन रूपेण निखिलानां
घटवद्भूतलानामुपस्थितौ हि घटवत्त्वमेवानुगतं रूपं, तच्च न जातिरूपम् । एवं
प्रकृतेऽपि यत्र यत्र कृतकपदं प्रयुज्यते, तत्र सर्वत्रापि न कृतकपदभेदः ।
सर्वथा भेदे सति ककारादीनामप्यानन्त्यात्, सर्वो व्यवहारः उच्छिद्येत । यदा
I.305

समानधर्ममूलान्वयादिव्यवहारोपपत्तेः तत्र न सूत्रकारेण सामान्य
ग्रहणं कृतम् । अपि तु साधर्म्यग्रहणमुपात्तम्—उदाहरणसाधर्म्यात्
साध्यसाधनं हेतुः
साध्यसाधर्म्यात् तद्धर्मभावी दृष्टान्त उदा
हरणम्
इति । तेन विनाशोत्पादधर्मयोः साध्यसाधनभावात्,
तयोश्च भेदात्, अनित्यः शब्दः कृतकत्वादिति न स्वभावहेतुरिति
सिद्धम् ॥


कार्यानुमानमपि न संभवति


कार्यहेतुरपि न संभवति । भवतां हि पक्षे क्षणयोर्वा कार्य
कारणभावो भवेत् ? सन्तानयोर्वा ?


क्षणयोर्नेति वक्ष्यामः क्षणभङ्गनिराकृतौ ।

संभवन्नपि दुर्लक्षः सूक्ष्मत्वाच्च तयोरसौ ॥ १७३ ॥

धूमाग्निसन्तानयोस्तु अवास्तवत्वादेव नास्ति कार्यकारणभावः ।
अर्थक्रियाकारित्वमेव वस्तुत्वम् । यदि धूमः कार्यत्वादनलमनुमाप
येत्—कटुमलिनगगनगामित्वादिधर्मैरपि तस्य गमको भवेत् ।


च पदानि अभिन्नानि, उच्चारणभेदमात्रं, तदा प्रवृत्तिनिमित्तमपि तदनुरूपमेव
वक्तव्यम् । तदादाय व्याप्त्युपपत्तिः । सत्ताद्वारकपक्षे च यस्या अनुगतत्वं
तस्याः न व्यावर्तकत्वं, यस्याश्च व्यावर्तकत्वं न तस्या अनुगतत्वमिति दोषः
दुर्वार एव । सोपानान्तरकल्पनं परमवशिष्यत इति ॥


संभवन्नपीति । पूर्वोत्तरार्धयोः कार्यकारणभाव इति वर्तते । अथवा
असौ इति धर्मी । तयोः—क्षणयोः ॥


धूमाग्निसन्तानयोः—धूमसन्तानस्याग्निसन्तानस्य च । अवास्तवत्वात्—
मिथ्यात्वात् । अतिरिक्तस्य वास्तवस्य सन्तानस्याभावादिति भावः । अर्थेति ।
न्यायबिन्दौ स्वलक्षणस्वरूपमभिधाय तदेव स्वलक्षणमेव परमार्थसत्
अर्थक्रियासामर्थ्यलक्षणत्वाद्वस्तुनः इति खलुक्तम् । सन्तानश्च न स्वलक्षणरूपः ।
कटुत्वं—श्वासरोधकत्वम् । धर्मैरिति—वैशिष्ट्यं तृतीयार्थः । तस्य—वह्नेः ।
कार्यं यादृशं दृष्टं, तादृशमेव कारणं हि तदनुमापयेत् । यथा नीलः पटो नील
I.306

न च कथञ्चित् तत्कार्यत्वं कथञ्चिदतत्कार्यत्वं च धूमस्योपपन्नम् ।
सर्वात्मकस्य तदन्वयव्यतिरेकानुविधाचिप्रभवत्वात् ॥


अथ सर्वात्मनाऽपि तत्कार्यत्वे—


धूमत्वमात्रमेवाग्निसहचारीति मन्यसे ।

सहचारित्वमेवास्तु तदुत्पत्तिकथा वृथा ॥ १७४ ॥

सिद्धान्ते कार्यलिङ्गकानुमानमुपपद्यत एव


ननु भवद्भिरपि कार्यानुमानमङ्गीकृतमेव । यथा शेषवत्
इति व्याख्यास्यते । यथाऽऽह कणव्रतः—कार्यं कारणं संयोगि सम
वायि विरोधि चेति लैङ्गिकम्
वै. सू. 9-2-1 इति—न—साहचर्यो
पलक्षणार्थत्वात् । धूमाग्न्योर्नदीपूरयोर्वा न कार्यकारणभावात्
गमकत्वं यथोक्तन्यायेन; अपि तु नित्यसाहचर्यान्नियमादेवेति ॥


तन्तुमित्यर्थः । सर्वात्मकस्य—यावद्वस्तुस्वरूपस्य । धूमस्वरूपमेव सर्वं
अन्वयव्यतिरेकाधीनवह्निहेतुकम् । न तत्रांशभेदो दृश्यते ॥


अपिः भिन्नक्रमः; तत्कार्यत्वेऽपीत्यन्वयः । धूमत्वेत्यादि । अयमर्थः—
धूमस्वरूपमात्रस्यैव वह्नयधीनत्वेऽपि धूमत्वाकारमात्रं वह्निसहचरितं, न कटुत्वाद्या
कारोऽपि । यस्मिन्नंशे सहचरितो गृह्यते, तदंशमात्रस्य कार्ये सिद्धिः,
नातिरिक्तस्येति चेत्—एवं सति साहचर्यनियम एव शरणीकर्तव्य इति तेनैव
व्याप्तिनिश्चयः । कार्यकारणभावनिर्णयार्थं भवताऽपि तस्यावश्यापेक्षणीय
त्वादिति भावः ॥


कणव्रतः—कणादः । अनेन समानतन्त्रसंवादः प्रदर्शितः । साहचर्येति ।
यद्यपि कार्यानुमानमस्त्यस्माकं वस्तुस्वरूपपर्यालोचनया । गमकत्वं तु न
कार्यकारणभावस्य, किन्तु तयोस्साहचर्यस्यैवेति न विरोध इत्यर्थः ॥


उपर्युक्तकणादसूत्रे विरोधिनोऽपि लिङ्गत्वमुक्तम् । तत् कथं घटताम् ?
विरोधिनोस्साहचर्यासंभवादिति शङ्कते—विरोधिनोरिति । उक्तमेवोपपाद
यति—विरोधिनोरिति । परस्परविरोधे हि न प्रकारान्तरस्थितिः इति
न्यायादित्यर्थः । तयोः भावाभावयोः इत्यन्वयः ॥


I.307

कणादसूत्रसमर्थनम्


विरोधिनोः कथं साहचर्यमिति चेत्; सदसतोर्गम्यगमक
भावात्, विरोधिनोरेकतरदर्शनात् अन्यतरस्याभावोऽनुमीयते ।
भावाभावयोश्च साहचर्यं तयोरस्त्येव । कणादसूत्रे कार्यादिग्रहणं
चोपलक्षणम् ॥


अन्येषामपि हेतूनां भूम्नां जगति दर्शनात् ।

सूर्यास्तमयमालोक्य कल्प्यते तारकोदयः ॥ १७५ ॥

पूर्णचन्द्रोदयाद्वृद्धिरम्बुधेरवगम्यते ।

उदितेनानुमीयन्ते सरितः कुम्भयोनिना ॥ १७६ ॥

शुष्यत्पुलिनपर्यन्तविश्रान्तखगपङ्क्तयः ।

पिपीलिकाण्डसञ्चारचेष्टानुमितवृष्टयः ॥ १७७ ॥

भवन्ति पथिकाः पर्णकुटीरकरणोद्यताः ।

न्येऽपि सौगतोद्गीतप्रतिबन्धद्वयोज्झिताः ॥ १७८ ॥

कियन्तो बत ! गण्यन्ते हेतवः साध्यबोधकाः ।

लोकप्रसिद्धाः तादात्म्यतदुत्पत्त्यवधीरणात् ॥ १७९ ॥

डिम्भहेवाकसदृशं स्वमत्या तत्समर्थनम् ।

अतश्च—

तत्स्वभावस्तत्कार्यमित्यादि व्यसनमात्रकम् ॥ १८० ॥


केषामुपलक्षणमित्यत्राह—अन्येषामिति । अन्येषां—कारकहेतुभाव
रहितानामपि हेतूनां—ज्ञापकहेतूनाम् । शुष्यत्पुलिन...पङ्क्तयः इति विधेय
विशेषणम् । अगस्त्योदये जलाशयाः प्रसन्ना भवन्तीति प्रसिद्धम् । प्रसादश्च
जलस्यानाविलत्वं, तच्च वृष्टिशान्तौ भवेत् । अतः अगस्त्योदये सति वृष्ट्युपरति
रनुमीयत इति तात्पर्यम् ॥


सञ्चाररूपा चेष्टा इत्यर्थः । अन्येऽपीति । किं बहुना ! तादात्म्य
तदुत्पत्तिरहिताः, केवलसाहचर्यमात्रशालिनो हेतवो बहवो वर्तन्त एव ।
कृत्तिकोदयाद्रोहिण्युदयादिरूपा इति तादात्म्यतदुत्पत्तिभ्यामेव व्याप्तिसिद्धिरिति
न युक्तमिति सारम् । उपसंहरति—अतश्चेति ॥


I.308

बौद्धमते सर्वथा व्याप्तिग्रहः न संभवति


अपि च—

व्यावृत्त्योर्लिङ्गलिङ्गित्वं, प्रतिबन्धश्च वस्तुनोः ।

विकल्पैर्ग्रहणं तस्य, कथं सङ्गच्छतामिदम् ? ॥ १८१ ॥

उक्तं चैतत् प्रथम एवाह्निके पु. 88-89 इत्यलं प्रसङ्गेन ।
तस्मादनुमितिहेतुः सम्बन्धः साहचर्यमिति सिद्धम् । न तु
शौद्धोदनिशिष्यपरिकल्पितमुभयमप्येतत् ॥


साहचर्यं तु सहजमेव


यत्त्वभ्यधीयत परैः किमधीनमस्य

तत्साहचर्यमिति तत्र विधिः प्रमाणम् ।

तादात्म्यतज्जननयोरपि चैष तेषां

तुल्योऽनुयोग इति किं विफलैः प्रलापैः ॥ १८२ ॥

अनुमितिकाले व्याप्तेः स्मरणमेव, न त्वनुभवः


नियमो व्याख्यातः । स्मृतेरिति कोऽर्थः ? उच्यते—


नियमो हि गृहीतोऽङ्गं अनुमेयप्रमां प्रति ।

न नारिकेलद्वीपस्थो धूमादग्निं प्रपद्यते ॥ १८३ ॥

साध्यानुमितिवेलायां न चास्ति नियमग्रहः ।

नियमग्रहकाले च न साध्यमनुमीयते ॥ १८४ ॥

साहचर्यं—साहचर्यरूपः सम्बन्ध इत्यन्वयः । विधिः—नियतिः ।
वह्नेरौष्ण्यं, न जलस्येति कुतः ? इत्याक्षेपतुल्योऽयमिति भावः । अन्यथा—
अनयोरेव तादात्म्यतदुत्पत्ती, नान्ययोरिति कथम् ? इत्येषः अनुयोगः तेषामपि
तुल्य एवेति—यश्चोभयोस्समो दोषः इतिन्यायः स्मर्तव्य इति भावः ॥


नारिकेलद्वीपस्थ इति । सर्वथाऽननुभूत वह्निधूमस्वरूप इति
यावत् । अस्तु व्याप्तेः ज्ञाताया एवानुमितिजनकत्वम् । व्याप्तिज्ञानं स्मरणरूप
मेवेति कुतोऽयं निर्बन्धः ? इत्यत्राह—साध्येति । न चास्तीति । न हि
तदानीं व्यापकः वह्न्यादिः प्रत्यक्षः । यत्र च महानसादौ व्याप्तेर्ग्रहणं, तत्र न
वह्न्याद्यनुमितिः । अतोऽगत्या पर्वते वह्न्यनुमितिकाले व्याप्तेः स्मरणमेवेति ॥


I.309
तेन पूर्वगृहीतस्सन् इदानीं स्मृतिगोचरः ।

नियमः प्रतिपत्त्यङ्गं, तथाऽवगतिदर्शनात् ॥ १८५ ॥

द्वितीयलिङ्गदर्शने सत्यपि नियमस्मरणमन्तरेण साध्यप्रमिते
रमुत्पादात् ॥


यत्रापि विषयेऽभ्यस्ते नैव सञ्चेत्यते स्मृतिः ।

तत्राप्यनेन न्यायेन बलात् सा परिकल्प्यते ॥ १८६ ॥

अनुमितिः स्मृतिरूपेति पक्षः


अत एव केचन प्रत्युत्पन्नकारणजन्यां स्मृतिमेवानुमानमुक्त
वन्तः ॥


परोक्षे लिङ्गिनीतिपदप्रयोजनम्


प्रत्युत्पन्नं च कारणं कुत्रचिद्धर्मिणि धर्मान्तरसहचरितलिङ्ग
दर्शनमिति परोक्षे लिङ्गिनीत्युक्तम् ॥


साध्यविशिष्टपक्ष एवानुमेयः, न साध्यमात्रम्


तत्र लिङ्गी तावदुच्यते—धर्मविशिष्टो धर्मी साध्यः, स एव
लिङ्गीति । न धर्मिमात्रं साध्यम्; पर्वतादिधर्मिणः सिद्धत्वात् । न


तथाऽवगतिदर्शनात् इत्येतद्विवृणोति—द्वितीयेति । ननु असकृदभ्यस्त
विषये लिङ्गदर्शनादेवानुमितिः । यथा भोजनस्य तृप्तिसाधनत्वानुमितिः ।
बुभुक्षितः अन्नं पश्यन्नेव भोक्तुमारभते । न हि तत्र मध्ये पूर्वानुभूतान्नाद्युप
स्थितिपूर्वकं व्याप्तिस्मरणमनुभवसिद्धं इति चेदाह—यत्रापीति । सञ्चत्यते—
स्पष्टमनुभूयते । एवञ्च अभ्यासबलात् जायमानं ज्ञानं सुशीघ्रजातत्वात्
अनुमितिवन्न भासते । वस्तुतस्तु स निर्णयः अनुमितिरूप एवेत्यर्थः ॥


केचनेति । एके तावद्वर्णयन्ति, लिङ्गलिङ्गिसम्बन्धस्मृतिरनुमानमिति
इति न्यायवार्तिकं, वाचस्पतिना आचार्यदेशीयमतमाह—एके तावदिति इत्यव
तारितं द्रष्टव्यम् ॥


तत्रेति । लिङ्गी इत्येतद्व्याख्यायते इत्यर्थः । धर्मः—साध्यः, धर्मी—
I.310

धर्ममात्रम्; अग्नेरपि यत्र तत्र सिद्धत्वात् । न च द्वयोस्साध्यत्वम्;
स्वतन्त्रयोस्तयोरपि सिद्धत्वादेव । तस्मादेकस्य द्वयोर्वा स्वातन्त्र्ये
णानुमेयता नावकल्पते इत्यवश्यमन्यतरविशिष्टोऽन्यतरः साध्यो
वक्तव्यः ॥


पक्षविशेष्यकानुमितिरेव स्वारसिकी


तत्रापि तु धर्मविशिष्टो धर्मी साध्यो युक्तः, न धर्मिविशिष्टो
धर्मः । तथा हि—देशविशिष्टे वह्नौ साध्ये षोडशविकल्पाः संभवेयुः ।
सर्व एवाग्निः सर्वदेशविशिष्टः ? अनिर्धारितदेशविशेष
विशिष्टः ? पूर्वानुभूतमहानसादिदेशविशिष्टः ? संप्रत्यु
पलभ्यमानपर्वतादिदेशविशिष्टो वा ? अनुमेयः स्यात् ?


अनिर्धारितविशेषो वा कश्चिदग्निः सर्वदेशविशिष्टः ?
अनिर्धारितदेशविशिष्टः ? पूर्वानुभूतदेशविशिष्टः ?
परिदृश्यमानदेशविशिष्टो वाऽनुमेयः स्यात् ?


पूर्वानुभूतो वाग्निः सर्वदेशविशिष्टः ? १० अनि
र्धारितदेशविशिष्टः ? ११ प्राक्दृष्टदेशविशिष्टः ? १२ उपलभ्य
मानदेशविशिष्टः अनुमेयः स्यात् ?


१३ एवं सिषाधयिषितो वाऽग्निः सर्वदेशविशिष्टः ?
१४ प्रागनुभूतदेशविशिष्टः ? १५ इदानी नुभूयमानदेश
विशिष्टो वाऽनुमेयः ? इति ॥


तत्रैते पञ्चदशपक्षाः प्रत्यक्षविरोधसिद्धसाधनत्वादिदोषोपहता
इत्यनादरणीया एव ॥


पक्षः । अन्यतरेति । पर्वते वह्निः, पर्वतो वह्निमान्—इति द्वेधाऽप्यनुमितेः
सम्मतत्वादित्यर्थः ॥


सर्व एवाग्निः इत्येतदुत्तरविकल्पत्रयेऽपि योज्यम् ॥


अनिर्धारितविशेष इति । विशेषश्चात्र तार्णत्वादिः, महानसीयत्वादिः,
तद्व्यक्तित्वादिकं वा । इदं उत्तरविकल्पत्रयेऽपि संबध्यते ॥


प्रत्यक्षेत्यादि । अत्र आदिना व्याघातग्रहणम् । तत्राद्यपक्षपञ्चके
I.311

यश्च षोडशः पक्षः १६ एतद्देशविशिष्ट एषोऽग्निरिति तत्रापि
देशविशेषावच्छेदमन्तरेणैव वह्निरिति गृहीतुमेव न शक्यत एवेति
प्रथमं देश एव गम्यते । तस्य च पूर्वप्रतिपन्नत्वात् इदानीमनव
गतदहनविशिष्टस्यानुमातुं योग्यत्वात् स एव साध्यो युक्तः ॥


अपि चाग्नेः साध्यतायां अनुपलब्धतद्धर्मः कथमनुमापकः
स्यात् ? अनुपलब्धे तु ज्वलने न तद्धर्मतया धूमो गृहीतुं पार्यते ।
उपलब्धे तु हुतभुजि भवदपि निष्फलमेव धूमस्य तद्धर्मता
ग्रहणम्; अनुमेयस्य तदानीमभावात् । तस्मादग्निविशिष्टः परिदृश्य
मानो देश एव साध्यः । स च स्वरूपतः प्रत्यक्षोऽपि परोक्षधर्म
विशिष्टतया अनुमेय इति धूमधर्मयोगात् अग्निधर्मवान् स एवानु
मीयते । सोऽनुमानस्य विषयो लिङ्गीत्युच्यते । परोक्षग्रहणं चैतदभि
प्रायमेव ॥


परोक्षे इति विशेषणमावश्यकम्


क्वचित्तु व्याप्तिस्मरणसमनन्तरमेव प्रत्यासीदतः प्रमातुः झटिति
समुन्मिषन्नकस्मादेव प्रत्यक्षीभवति विभावसुरिति न तद्विशिष्ट-


प्रत्यक्षविरोधः स्पष्टः । सर्वदेशवृत्तित्वत्य एकस्मिन् वह्नौ, सर्वेषु वा वह्निषु
बाधितत्वात् । षष्ठे सिद्धसाधनम् । सप्तमे अष्टमे च व्याघातः । नवमे
बाधः । दशमे व्याहतिः । एकादशे सिद्धसाधनम् । द्वादशे व्याहतिः ।
त्रयोदशे चतुर्दशे च बाधः । पञ्चदशेऽसिद्धिः ॥


न शक्यत इति । विशिष्टवैशिष्ट्यावगाहिबुद्धौ विशेषणतावच्छेदक
निर्णयस्य कारणत्वादिति भावः । एवञ्च देश एव प्रथममवगतः, तदा च
वह्निर्नानवगत इति अवगतस्य देशस्य विशेष्यत्वं अनवगतस्य वह्नेर्विधेयत्वमेव
च युक्तमिति ॥


अनुमेयस्याभावात् अनुमेयत्वविशिष्टवह्नेरभावात् । तदानीं वह्नेः
सिद्धत्वादित्यर्थः । ननु परिदृश्यमानस्य देशस्य कथमनुमेयत्वमित्यत आह—
स चेति । अरोगोऽयं निष्पन्नः इत्यादौ तथा व्यवहारादिति भावः ।
एतदभिप्रायं—विशेषणस्य परोक्षत्वात् विशिष्टस्यापि परोक्षत्वतात्पर्यकम् ॥


तद्विशिष्टतया—साध्यविशिष्टतया । यत्र यवनिकाद्यन्तरितः यः पुरुषः
धूमं पश्यन् यावत् व्याप्तिं स्मरति, तावदेव यवनिकापगमादिना वह्नीन्द्रिय

I.312

तयाऽपि धर्मिणः परोक्षत्वमवकल्पत इति तद्व्यावृत्तये परोक्ष
ग्रहणम् । नित्य2परोक्षस्यापि चेश्वरादृष्टेन्द्रियादेरनुमेयतां वक्ष्यामः ॥


तस्माद्यथोचिताल्लिङ्गात् यथोक्तनियमस्मृतेः ।

यथोक्तलिङ्गिविज्ञानमनुमानमिति स्थितम् ॥ १८७ ॥

अनुमानप्रामाण्याक्षेपः


ननु ! सत्यनुमानस्य प्रामाण्ये, लक्षणाश्रयः ।

कार्यो विचारः, न पुनः प्रामाण्यं तस्य युज्यते ॥ १८८ ॥

तथा चाहुः—प्रामाण्यस्यागौणत्वात् अनुमानादर्थनिश्चयो
दुर्लभः । पक्षधर्मादिरूपं हि लिङ्गस्य बलाद्गौण्या वृत्त्या दर्शयितव्यम् ।
धर्मे हि साध्ये न हेतोः पक्षधर्मत्वम्, अग्निधर्मत्वात् धूमस्य । धर्मिणि
साध्ये हेतोरनन्वयित्वम्, न हि यत्र धूमः तत्र पर्वत इत्यन्वयः ।
द्वये तु साध्ये द्वयमपि नास्ति । न हि दहनमहीध्रयोः धूमो धर्मः ॥


संयोगात् वह्निप्रत्यक्षं तत्र तस्य जायते । तत्राव्यवहितपूर्वक्षणे व्याप्तिस्मृतेस्सत्वेन
तज्ज्ञानस्यानुमानत्ववारणाय परोक्षपदमित्यर्थः । ननु परोक्षत्वं चानुमिति
कालिकमेव वक्तव्यम् । अन्यथा व्याप्तिस्मरणस्यैवासंभवात् । एवञ्चातीन्द्रिय
वस्तुनः कदाऽप्यननुभवेन तत्र व्याप्तिस्मरणमेव कथमिति चेत् तत्राह—
नित्येति । प्रसक्तमुपसंहरति—यथोचितादिति ॥


लक्षणाश्रयः—लक्षणविषयकः विचारः कार्यः—कर्तुमर्हः । अगौण
त्वात्—यत् अगौणं तदेव किल प्रमाणम्, अन्यथा लौकिकलिपिपत्र
ताम्रशासनादीनामपि प्रमाणत्वप्रसङ्गः । प्रमाणज्ञापकत्वमात्रात् खलु तेषां
प्रमाणत्वम् । अन्यथा प्रमाणेयत्तैव दुर्वचा स्यादिति भावः । अनुमानस्य
गौणत्वमेव विस्तरशः उपपादयति—पक्षधर्मेत्यादि । धर्मे—केवलवह्न्यादौ ।
अग्निधर्मत्वादिति । एकसम्बन्धिविधया ह्यनुमानप्रवृत्तिः । तत्र वह्निव्याप्य
त्वात् धूमस्य व्याप्तयाख्यसम्बन्धानुयोगित्वात् वह्निधर्मः धूम इत्युक्तिः ।
धर्मिणि—केवलपर्वतादौ । न हीत्यादि । वह्निव्याप्यो हि धूमः, न तु
पर्वतव्याप्यः । संयोगसम्बन्धमात्रं तु गगनेऽप्यस्तीत्यप्रयोजकम् ॥


I.313

नाप्येवमन्वयः—यत्र धूमः तत्र पर्वताग्नी इति । धर्मविशिष्टे
धर्मिणि साध्ये, तदुभयमघटमानमेव ॥


नाप्यग्निविशिष्टधराधरधर्मतया धूमः प्रथममुपलब्धुं शक्यते ॥


न चाप्येवमन्वयः—यत्र धूमः तत्राग्निमान् पर्वत इति ।
तस्मादवश्यं पक्षधर्मत्वान्वयव्यवहारसिद्धये धर्मविशिष्टे धर्मिणि
रूढः पक्षशब्दः तदेकदेशे धर्मिणि गौण्या वृत्त्या वर्णनीयः । अन्वय
प्रदर्शनसमये च तदेकदेशे तथैव योजनेऽतिगौणलक्षणत्वादिन्द्रि
यार्थसन्निकर्षजत्वादिवदगौणलक्षणत्वाभावादनुमानमप्रमाणम् ॥


व्याप्तिरपि दुर्ग्रहा


अपि च—


विशेषेऽनुगमाभावात् सामान्ये सिद्धसाधनात् ।

तद्वतोऽनुपपन्नत्वात् अनुमानकथा कुतः ? ॥ १८९ ॥

साहचर्यमपि न व्याप्तिग्राहकम्


साहचर्ये च सम्बन्धे विस्रम्भ इति मुग्धता ।

शतकृत्वोऽपि तद्दृष्टौ व्यभिचारस्य संभवात् ॥ १९० ॥

अघटमानमिति । वैशिष्ट्याभानात् इति हेतुः ॥


प्रथमं—एतदनुमानात् वह्नौ पर्वतीयत्वनिर्णयात् पूर्वम् ॥


न चेत्यादि । तत्र अग्निमान् पर्वत इत्युक्ते हि पर्वतस्याप्यधिक
रणभूतमन्यत् भासेत । स चानुभवविरुद्धः । अन्वयः—यत्र धूमः तत्राग्नि
रिति । पक्षशब्द एव गौणश्चेत्, तमादाय हेतोः पक्षधर्मत्वं तु ततोऽपि गौण
मापन्नमिति भावः । एतादृशपक्षधर्मत्वादिपु. 282विशिष्टलिङ्गस्यानुमान
रूपत्वे तु गौणमेव प्रमाणं तत् ॥


विशेष इत्यादि । पर्वतीयवह्निधूमयोर्न व्याप्तिग्रहसंभवः । सामान्यतः
यत् धूमवत्, तत् वह्निमदिति तु महानसादौ सिद्धमेव । अतः एतादृशवह्निव्याप्य
धूमवान् पर्वत इति परामर्शोऽपि न घटत एवेति अनुमानकथैव गलहस्तिता ॥


मुग्धता—मौढ्यम् । संभवात्—पार्थिवत्वलोहलेख्यत्वयोः शतशः
सहचारदर्शनेऽपि वज्रमणौ व्यभिचारात् । उक्तार्थे पूर्वपक्षिसम्मतिमाह—

I.314

देशकालदशाभेदविचित्रात्मसु वस्तुषु ।

अविनाभावनियमो न शक्यो वक्तुं, आह च ॥ १९१ ॥

अवस्थादेशकालादिभेदाद्भिन्नासु शक्तिषु ।

भावानामनुमानेन प्रसिद्धिरतिदुर्लभा ॥ १९२ ॥

व्याप्तिः असर्वज्ञैर्न गृहीतुं शक्या


भवन्नप्यविनाभावः परिच्छेत्तुं न शक्यते ।

जगत्त्रयगताशेषपदार्थालोचनाद्विना ॥ १९३ ॥

न प्रत्यक्षीकृता यावद्धूमाग्निव्यक्तयोऽखिलाः ।

तावत्स्यादपि धूमोऽसौ योऽनग्नेरिति शङ्क्यते ॥ १९४ ॥

सर्वज्ञानां तु नानुमानापेक्षा


ये तु प्रत्यक्षतो विश्वं पश्यन्ति हि भवादृशाः

किं दिव्यचक्षुषामेषामनुमानप्रयोजम् ॥ १९५ ॥

सामान्यद्वाराऽपि न व्याप्तिग्रहसंभवः


सामान्यद्वारकोऽप्यस्ति नाविनाभावनिश्चयः ।

वास्तवं हि न सामान्यं नाम किञ्चन विद्यते ॥ १९६ ॥

आह चेति । देश-काल-अवस्थाभेदैः एकमेव वस्तु विविधविरुद्धविचित्रशक्ति
युक्तं दृश्यते । एवं वस्तुस्वरूपे अनियते नियमरूपव्याप्तिः कथम् ? तेन
भावानां—वस्तूनां सिद्धिश्च कथम् ?


उक्तमेवोपपादयति—न प्रत्यक्षीकृतेति । यथा अग्निमत्सु बहुषु सधूमेषु
सत्स्वपि अयोगोलके व्यभिचारः, तथा धूमवति कुत्रचित् वह्निरपि व्यभिचरितः
स्यादिति भावः ॥


भवादृशा इति नर्मोक्तिः । अनुमानेन प्रयोजनं किम् ? इत्यन्वयः ॥


ननु व्यक्तीनामनन्तत्वेऽपि सर्वव्यक्त्यनुगतसामान्यस्यैकस्य सत्त्येन यत्र
धूमत्वविशिष्टं, तत्र वह्नित्वविशिष्टमितिरीत्या सामान्यद्वारैव व्याप्तिर्ग्रहीष्यते इति
चेत् तत्राह—सामान्येति । तत्र हेतुमाह—वस्तवमिति । एतत्तत्त्वं
सामान्यप्रकरणे व्यक्तीभविष्यति ॥


I.315

भूयोदर्शनेनापि न व्याप्तिनिश्चयः


भूयोदर्शनगम्याऽपि न व्याप्तिरवकल्पते ।

सहस्रशोऽपि तद्दृष्टौ व्यभिचारावधारणात् ॥ १९७ ॥

बहुकृत्वोऽपि वस्त्वात्मा तथेति परिनिश्चितः ।

देशकालादिभेदेन दृश्यते पुनरन्यथा ॥ १९८ ॥

भूयोदृष्ट्या च धूमोऽग्निसहचारीति गम्यताम् ।

अनग्नौ तु स नास्तीति न भूयोदर्शनाद्गतिः ॥ १९९ ॥

साहचर्यनियमोऽपि दुर्ग्रहः


न चापि दृष्टिमात्रेण गमकाः सहचारिणः ।

तत्रैव नियतत्वं हि तदन्याभावपूर्वकम् ॥ २०० ॥

नियमश्चानुमानाङ्गं गृहीतः प्रतिपद्यते ।

ग्रहणं चास्य नान्यत्र नास्तितानिश्चयं विना ॥ २०१ ॥

व्यभिचारेति । पार्थिवत्वलोहलेख्यत्वयोः शतशस्सहचारदर्शनेऽपि
वज्रमणौ व्यभिचारात् । पूर्वंश्लो. 190 क्वचित्सहचारदर्शनं दूषितं, अद्य तु
भूयोदर्शनमिति न पौनरुक्त्यम् । वस्तूनामस्थिरत्वादपि भूयोदर्शनं व्यभिचरत्ये
वेत्यप्याह—बहुकृत्व इति । बहुशः तथेति—तादृशशक्तिविशिष्टोऽयमिति
रीत्या परिनिश्चितः ॥


एवं व्यतिरेकसहचारोऽपि न भूयोदर्शनेनावगन्तुं शक्य इत्याह—
अनग्नाविति । गतिः—अवगतिः ॥


बहुषु उभयव्यतिरेकदर्शनेऽपि यत्र कुत्रचित् व्यभिचारे, भूयोदर्शनं निरुप
योगमेव । यावत्संभवं ग्रहणं त्वनुपयुक्तमित्याह—न चापीति । वास्तविकसह
चारवतोः कुत्रचित्तथा ज्ञानमात्रान्न व्याप्तिनिश्चयः । न हि साहचर्यमात्रं व्याप्तिः,
किन्तु नियतसाहचर्यमेव । नियमश्च ज्ञात एवानुमितिहेतुः, न तु स्वरूपतः । नियम
ज्ञानं च साध्याभाववति सर्वत्र हेतोरभावज्ञानादेव । अतश्च पूर्वोक्तदोषो दुरतिक्रम
एव । ननु वह्निमति महानसादौ धूमदर्शनात् वह्न्यभाववति हदादौ धूमादर्शनात्
I.316

दर्शनादर्शनाभ्यां हि नियमग्रहणं यदि ।

तदप्यसत्, अनग्नौ हि धूमस्येष्टमदर्शनम् ॥ २०२ ॥

अनग्निश्च कियान् ? सर्वं जगज्ज्वलनवर्जितम् ।

तत्र धूमस्य नास्तित्वं नैव पश्यन्त्ययोगिनः ॥ २०३ ॥

तदेवं नियमाभावात् सति वा ज्ञप्त्यसंभवात् ।

अनुमानप्रमाणत्वदुराशा परिमुच्यताम् ॥ २०४ ॥

अनुमानानां प्रामाण्यं दुर्निरूपमेव


अनुमानविरोधोऽपि यदि चेष्टविघातकृत् ।

विरुद्धाव्यभिचारो वा सर्वत्र सुलभोदयः ॥ २०५ ॥

अत एवानुमानानामपश्यन्तः प्रमाणताम् ।

तद्विस्रंभनिषेधार्थं इदमाहुर्मनीषिणः ॥ २०६ ॥

हस्तस्पर्शादिनान्धेन विषमे पथि धावता ।

अनुमानप्रधानेन विनिपातो न दुर्लभः ॥ २०७ ॥

अपि च—


यत्नेनानुमितोऽप्यर्थः कुशलैरनुमातृभिः ।

अभियुक्ततरैरन्यैरन्यथैवोपपाद्यते ॥ २०८ ॥

अनुमानप्रामाण्यसमर्थनम्


अत्राभिधीयते—किमयमनुमानस्वरूपाक्षेप एव क्रियते ? उत
तत्तत्तार्किकोपलक्षिततल्लक्षणाक्षेपः ? इति ॥


वह्निमत्येव धूमो वर्तत इति नियमः ज्ञायत एवेत्यत्राह—दर्शनेति । कियान्—
अनवधिक इत्यर्थः । तदेव विव्रियतेऽनन्तरपादेन । नैवेति । न हि तत्र
सामान्यमुखेनापि ग्रहणं भवेत् । न हि अनग्नित्वं नाम कश्चनानुगतधर्मोऽस्ति,
येन तत्पुरस्कारेण वा नियमो गृहीतः स्यादित्यर्थः ॥


एवमनुमानस्यासाधकत्वमुक्त्वा, बाधकत्वमपि तस्य न संभवतीत्याह—
अनुमानविरोध इति । अनुमानस्यानुमानाद्विरोधाङ्गीकारे तु तादृशप्रत्यनु
मानं सर्वत्र सुलभं इति पूर्वमेवोक्तम् 293 पु. । अनुमानप्रधानेन—
अन्धविशेषणमिदम् । यत्नत्यादि । अत्र नैषा तर्केण मतिरापनेया
कठ. 2-9 तर्काप्रतिष्ठानात् ब्र. सू. 2-1-16 इत्यादिकमप्यनुसन्धेयम् ॥


I.317

तत्रानुमानस्वरूपं चाशक्यनिह्नवमेव, सर्वलोकप्रसिद्धत्वात् ॥


अबलाबालगोपालहालिकप्रमुखा अपि ।

बुद्ध्यन्ते नियतादर्थात् अर्थान्तरमसंशयम् ॥ २०९ ॥

अनुमानापलापे तु प्रत्यक्षादपि दुर्लभा ।

लोकयात्रेति लोकाः स्युः लिखिता इव निश्चलाः ॥ २१० ॥

प्रत्यक्षदृष्टमपि पदार्थजातं तज्जातीयत्वलिङ्गव्यापारेण
सुखसाधनं इतरकारणमिति वा निश्चित्य तदुपाददते, जहति वा
लौकिकाः ॥


अनुमानलक्षणाक्षेपसमाधानम्


अथाविचारितरमणीयतैव तत्त्वं, न तु लक्षणनियमः शक्य
क्रियस्तस्येति लक्षणाक्षेपोऽयमुच्यते—सोऽप्ययुक्तः । यतः—


यं कञ्चिदर्थमालोक्य यः कश्चिन्नावगम्यते ।

कञ्चिदेवाक्षिपत्यर्थमर्थः कश्चिदिति स्थितिः ॥ २११ ॥

तत्र वस्तुस्वभावोऽयमिति पादप्रसारिका ।

दृश्यते ह्यविनाभूतादर्थादर्थान्तरे मतिः ॥ २१२ ॥

अतो यद्दर्शनाद्यत्र प्रतीतिरुपजायते ।

तयोरस्त्यर्थयोः कश्चित् सम्बन्ध इति मन्महे ॥ २१३ ॥

तदात्मतातदुत्पत्ती न श्रद्दधति तद्विदः ।

साहचर्यं तु सम्बन्ध इति नो हृदयङ्गमम् ॥ २१४ ॥

हालिकः—हलं बहतीत्यर्थे ठक् । कृषीबलः—पामर इति यावत् ।
अनुमानमन्तरा केवलात् प्रत्यक्षात् लोकयात्राऽनिर्वाहमेवोपपादयति—प्रत्यक्षेति ।
इतरकारणं—दुःखसाधनम् । न हि पुरतोवर्त्यन्नस्य तृप्तिसाधनत्वं तदानीं
प्रत्यक्षमिति शेषः ॥


अस्त्यनुमानं लोके, परन्तु तत्स्वरूपहेत्वादिकं त्वनिर्वचनीयमिति विकल्पं
द्वितीयं प्रतिवक्ति—अथेति । यं कञ्चिदिति । न हि घटं दृष्ट्वा पटं प्रत्येति
मनुजः, धूमं दृष्ट्वा तु वह्निं सर्वोऽपि प्रत्येत्येव । अतोऽस्त्यनयोर्विशेषः । स
एवाविनाभाव इति व्याप्तिरिति चोच्यत इति भावः । तद्विदः—तयोस्सम्बन्ध

I.318

तस्मिन् सत्येव भवनं न विना भवनं ततः ।

अयमेवाविनाभावो नियमः सहचारिता ॥ २१५ ॥

किंकृतो नियमोऽस्यास्मिन्निति चेदेवमुत्तरम् ।

तदात्मतादिपक्षेऽपि नैष प्रश्नो निवर्तते ॥ २१६ ॥

ज्वलनाज्जायते धूमः न जलादिति का गतिः ?

एवमेवैतदिति चेत्, साहचर्येऽपि तत्समम् ॥ २१७ ॥

तर्कस्य यावान् विषयः स तावति निरूप्यते ।

वस्तुस्वभावभेदे तु न तस्य प्रभविष्णुता ॥ २१८ ॥

अयं च विषयो युक्तेः, यदुक्तं नियमाद्विना ।

नार्थादर्थान्तरे ज्ञानं अतस्तस्य प्रकल्पनम् ॥ २१९ ॥

ततः परं तु नियमोऽप्येष किंकृतः ? इति न युक्तिः प्रभवति ।
तादात्म्यतदुत्पत्त्योरनुपपन्नत्वात् । अतो नियम एव विरम्यते


न च प्रतिभामात्रमानुमानिकी प्रमितिरिति वक्तुं युक्तम्;


विदः । साहचर्यमेव विशिनष्टि—तस्मिन्निति । ततो विना—इत्यन्वयः ।
एष प्रश्नः—किंकृतस्तयोरेव तादात्म्यं तदुत्पत्तिश्चेति प्रश्नः । प्रतिपक्षी उत्तरं
वदति—एवमिति । तथानुभवादिति भावः । तुल्योऽयं समाधिरस्माक
मपीत्याह—साहचर्येऽपीति । ननु अनुमानप्रामाण्यं तर्कविरुद्धं, तर्काश्च
पूर्वमुपपादिताः; इत्यत्राह—तर्कस्येति । स्वभावभेदः—स्वभावविशेषः ।
तर्कोऽपि सर्वत्र नैकरूपः प्रवर्तेत, न हि यदि वह्निर्द्रव्यं तर्हि पृथिव्यादिवन्न दहेत्
इति तर्कः प्रवर्तितुमलम् । धर्मिग्राहकप्रमाणात् तत्तदसाधारणधर्मविशिष्ट
धर्मिसिद्धिं तर्को न निवारयेत् । नियममन्तरा एकज्ञानात् अन्यस्य ज्ञानं
न भवतीति यदुक्तं, अयमेव युक्तेः—तर्कस्य विषयः । विधेयप्राधान्यात्
पुल्लिङ्गत्वम् । तथा च न तर्कस्य निरबकाशत्वमित्यर्थः ॥


ततः परं—एवमनुभवान्नियमसिद्ध्यनन्तरम् ॥


ननु भोजनोत्कण्ठादेः भविष्यद्भ्रात्रागमनज्ञानं पूर्वमुक्तम्, न हि तत्र
नियतसाहचर्यं शपथमन्तरेण शक्यम्, एवमेवानुमानमप्यनिर्वचनीयहेतुकमेव
कुतो न स्यादित्यत्राह—न चेति । प्रतिभास्थलेऽथसत्यत्वनिर्बन्धो नास्ति
I.319

नियतात् कुतश्चिदेव वस्तुनि प्रतीतिदर्शनादित्युक्तत्वात् । नियमश्च
यद्यगृहीत एव प्रतीत्यङ्गं भवेत्, नारिकेलद्वीपवासिभिरपि
धूमदर्शनात् कृशानुरनुमीयेत । न चैवमस्तीति नियमग्रहणमपे
क्षणीयम् ॥


मानसं व्याप्त्यवधारणम्


यच्च विकल्पितं अशक्यं तद्ग्रहणमिति—तत्र केचिदाचक्षते—
मानसं प्रत्यक्षं प्रतिबन्धग्राहीति । प्रत्यक्षानुपलंभाभ्यां अनल
सहचरितमनग्नेश्च व्यावर्तमानं धूममुपलभ्य विभावसौ नियतो
धूम इति मनसा प्रतिपद्यते ॥


मनश्च सर्वविषयं केन वा नाभ्युपेयते ।

असन्निहितमप्यर्थमवधारयितुं क्षमम् ॥ २२० ॥

सामान्यद्वारा व्याप्तिः


न च सकलत्रिभुवनविवरनिरुद्धधूमाग्निव्यक्तिसार्थसाक्षात्करण
मुपयुज्यते, ज्वलनत्वादिसामान्यपुरस्सरतया व्याप्तिग्रहणात् ॥


यत्तूक्तं—सामान्यं वास्तवं नास्तीति—तत् शब्दार्थचिन्ताप्रसङ्गे
प्रतिसमाधास्यते ४ आह्निके


अत्र त्वस्तीति प्रतिभातोऽनुमानमत्यन्तविलक्षणमित्यर्थः । नारिकेलद्वीप
वासिभिः—कदाप्यदृष्टवह्निधूमस्वरूपैः ॥


प्रत्यक्षानुपलंभाभ्यां—वह्निमत्येव दर्शनेन वह्न्यभाववत्वदर्शनेन च ।
उत्तरत्र यथासंख्यमिदमन्वेति । अनलसहचरितं—इत्यस्य धूमं इत्य
नेनान्वयः । विभावसौ नियतः—वह्निनिरूपितनियमवान् । ननु मनसः
बहिर्विषयेऽस्वातन्त्र्यात् कथं प्रतिबन्धग्रहणं मानसमित्यत्राह—मनश्चेति ।
वह्निधूमयोः बाह्यत्वेऽपि तयोर्नियसज्ञानं आन्तरमेवेति भावः ॥


निरुद्धेति । अन्तर्गतेत्यर्थः ॥


I.320

यौक्तिकप्रत्यक्षात् व्याप्तयवधारणरूपपक्षः


अपरे पुनः योगिप्रत्यक्षकल्पं यौक्तिकं सम्बन्धग्राहि प्रत्यक्षं
प्रतिपेदिरे किल । धूमत्वाग्नित्वसामान्यपुरस्कारेण व्याप्यव्यापकयो
रन्वयो नाम गृह्यताम्, व्यतिरेकस्त्वनग्निभ्यः धूमस्य ग्रहीतव्यः ।
अनग्नयश्चातिवितताः । न च तेष्वनग्नित्वं नाम सामान्यमस्ति ।
तेन समस्तत्रैलोक्यान्तर्गताग्न्यनग्निगतान्वयव्यतिरेकग्राहिप्रत्यक्ष
व्यतिरेकेण न प्रतिबन्धोऽवधृतो भवेत् । अनवधृतश्च न प्रमाङ्गम् ।
अस्ति च प्रमेति युक्तिबलात् प्रतिबन्धग्राहकमेकस्मिन् क्षणे प्रत्यक्ष
मिदमशेषव्यक्तिविषयमसंवेद्यमानमपि कल्पितमिति यौक्तिकमुच्यते ॥


व्यतिरेकसहचारनिश्चयं विनापि व्याप्तिर्निर्णीयते


अन्ये पुनः अत एव तत्कल्पनाभयात् भूयोदर्शनपरिच्छिन्न
सामान्यपुरस्सरान्वयमनपेक्षितव्यतिरेकनिश्चयमेव लिङ्गं गमकमभ्यु
पागमन् । यथोक्तम्—श्लोक. वा. 1-1-5, अनु. 134-137


मम त्वदृष्टिमात्रेण गमकाः सहचारिणः इति ॥


योगीति । योगिनो हि सर्वं साक्षात्कुर्वन्तीति श्रूयते । इन्द्रियासन्नि
कृष्टस्य कथं प्रत्यक्षत्वमिति शङ्कायां, कार्यानुरोधेन कारणस्य कल्पनीयतया योग
प्रभावजनितमदृष्टविशेषं कारणमामनन्ति । एवमेवात्रापि यत्र धूमस्तत्राग्निः
इति व्याप्तिः सर्वानुभवसिद्धा । अन्वयग्रहणं यद्यपि सामान्यद्वारा भवेत् ।
अनग्निष्वनुगतसामान्याभावात् व्यतिरेकग्रहणं तु न तथा भवेत् । दृश्यते
त्वनुमितिः । व्याप्तिग्रहणस्यानुमितिमूलकत्वे त्वनवस्था । अतः गत्यन्तरा
भावात् फलबलेन युक्तिमूलकमेव व्याप्तिप्रत्यक्षं प्रथमतः कल्पनीयम् । न
चैकस्मिन्नेव क्षणे युक्तिवशाद्वा सर्वव्यक्तिप्रत्यक्षं नानुभवसिद्धमिति शङ्क्यम् ।
ज्ञानस्यातिसूक्ष्मत्वेन दुर्विज्ञेयत्वादज्ञाततौल्यं भवेत् । ज्ञानद्वयादनुमितिस्थले
यथा वा विशिष्टं ज्ञानं फलबलेन कल्प्यते तथात्राप्युपपद्यते । अतो यौक्तिकप्रत्यक्ष
गम्यः प्रतिबन्ध इति ॥


अत एवेत्यस्यैव प्रपञ्चः—तत्कल्पनाभयादिति । भूयोदर्शन
परिच्छिन्नः सामान्यपुरस्सरः अन्वयः यस्येति बहुब्रीहिः । अदृष्टिमात्रेण—
I.321

अयमाशयः—

भूयोदर्शनतस्तावत् उदेति मतिरीदृशी ।

नियतोऽयमनेनेति सकलप्राणिसाक्षिका ॥ २२१ ॥

तावता च गमकत्वमौत्सर्गिकं सिद्ध्यति । मीमांसकानां तु
विपक्षे दर्शनं बाधकः प्रत्ययः । न च सोऽस्ति, नाद्य यावदनग्नौ
धूमो दृष्टः । अनुत्पन्नेऽपि बाधके तदाशङ्कनमयुक्तमित्युक्तं तैः—


दोषज्ञाने त्वनुत्पन्ने न शङ्क्या निष्प्रमाणता इति ॥

श्लो. वा. १-२-६०

व्यतिरेकनिश्चयः आवश्यकः


एतत्तु न चारु । व्यतिरेकनिश्चयमन्तरेण प्रतिबन्धग्रहणानुप
पत्तेरित्युक्तत्वात् । ज्ञापकत्वाद्धि नियमः स्वग्रहणमपेक्षते ।
नियमश्चायमुच्यते—यत् तस्मिन् सति भवनं, ततो विना न
भवनमिति । भूयोदर्शनतश्च तस्मिन् सति भवनमित्यन्वयमात्र
परिच्छेदादर्धगृहीतो नियमः स्यात्, ततो विना न भवनमित्यस्यार्थ
स्यापरिच्छेदादिति ॥


यत्र कुत्रचिद्वह्निधूमयोरदर्शनत एव, न तु अवह्निषु सर्वत्र तन्निर्णयः अपेक्षित
इत्यर्थः । सहचारिणः—निर्णीतसाहचर्यमात्रबन्तः ॥


ननु व्यतिरेकानिश्चये कथं नियतसाहचर्यं गृह्येत । न हि साहचर्यमात्रं
व्याप्तिः; व्यभिचारात् । अतः अन्वयग्रहणमात्रान्न प्रतिबन्धाबधारण
मित्यत्राह—अयमाशय इति । औत्सर्गिकमिति । एतदुक्तं भवति ।
अनग्नीनां सर्वेषां दुर्ज्ञेयत्वेऽपि कुत्रचिद्ध्रदादौ व्यभिचारादर्शनात् तादन्मात्र
व्यतिरेकग्रहसहकृतादन्वयग्रहादेव व्याप्तिः यावद्बाधं निर्णेष्यत एव । बाधस्य
कुत्राप्यदर्शनात् गृहीता व्याप्तिस्तावत्पर्यन्तं तथैवावतिष्ठत इति । अयमेवार्थः
विव्रियते—अनन्तरवाक्यैः ॥


उक्तमेवोपपादयति—ज्ञापकत्वादिति । ज्ञापकत्वं—एकसम्बधि
ज्ञानविधया इतरज्ञानजनकानां अयं स्वभावः—स्वयं ज्ञातानामेव ज्ञापकत्वमिति
इत्यर्थः ॥


I.322

व्यतिरेकोऽपि गृहीतुं शक्यत एव


अपरे पुनः अनग्नित्वसामान्यमन्तरेणापि योगिप्रत्यक्षकल्पना
मकुर्वन्त एव मानसप्रत्यक्षगम्यमन्वयव्यतिरेकमाहुः । धूमाग्नि
सामान्ये तावत्सहचरिते उपलब्धे, तद्वत्तदभावावपि सहचरिता
वुपलभ्येते एव । धूमत्वसामान्यस्यानग्नौ जलादावदर्शनात् ।
सर्वगतत्वेऽपि सामान्यानां वृत्तिभेदो नियामक इति वक्ष्यते ॥


यद्यपि चानग्नित्वाद्यभावसामान्यं नास्ति; तथाऽपि प्रतिषे
ध्याग्नित्वसामान्यानुगमसिद्ध्यैव तदभावानुगमग्रहणं सिद्ध्यति ॥


स्वपक्षेण व्याप्तिग्रहसमर्थनम्


सकलव्यक्तिविज्ञानमनङ्गं व्याप्तिनिश्चये ।

भावसामान्ययोर्यद्वत् तथैव तदभावयोः ॥ २२२ ॥

पूर्वोक्त320 पु.पक्षात् वैलक्षण्यसूचनाय—योगिप्रत्यक्षेत्यादि ।
धूमाग्निसामान्ये—धूमाग्न्योः सामान्ये । तद्वत्—धूमत्ववह्नित्वद्वारैव ।
वह्न्यभावो नाम वह्नित्वावच्छिन्नप्रतियोगिकाभावः, एवं धूमाभावः—धूमत्वा
वच्छिन्नप्रतियोगिकः । एवञ्च भावयोरिवाभावयोरपि धूमत्वादिकमेवानुगमकं
भवितुमर्हति । अनग्नौ जलादौ धूमत्वावच्छिन्नत्यादर्शने स व्यतिरेकः अन्वय
वदेव वह्न्यभावधूमाभावादिकं सामान्यद्वारा क्रोडीकुर्यादेवेति । ननु धूमत्वादिकं
सर्वगतमिति भवता सिद्धान्तः । अतश्च जलादौ कथं तदभावः, तदवच्छिन्ना
भावो वा ? इत्यत्राह—सर्वगतत्वेऽपीति । जातेः सर्वगतत्वेऽपि समवायेन
सा यत्र वर्तते तत्रैव स्वाभावप्रतीतिं निरुणद्धि, न तु स्वरूपतो यत्र वर्तते तत्र ।
समवायेन जातिः व्यक्तिष्वेव वर्तते । अतस्तत्र तत्प्रतीतिः, व्यक्तेर्जातिव्यञ्जकत्वात् ।
अन्यत्र तु व्यञ्जिकाया व्यक्तेरभावेन तदभावप्रतीतिरित्यादिकं तत्प्रकरणे वक्ष्यत
४ आह्निके इत्यर्थः ॥


तद्वदित्याद्यनुपदोक्तं स्फुटयति—यद्यपीत्यादिना ॥


भावयोरिति वक्तव्ये, व्याप्तेस्सामान्यप्रधानकत्वेन भावसामान्ययो
रित्युक्तम् । यथा अन्वयग्रहणकाले व्यक्तीनां प्रातिस्विकभानं नोपयुक्तं तथा
I.323

भावयोः साहचर्यं यत् अन्वयं तत् प्रचक्षते ।

व्यतिरेकं तु मन्यन्ते साहित्यं तदभावयोः ॥ २२३ ॥

साध्यसाधनभावस्तु भवेद्यत्राप्यभावयोः ।

तयोरेवान्वयस्तत्र व्यतिरेकस्तु भावयोः ॥ २२४ ॥

तदेवमभावान्वयवद्भावव्यतिरेकोऽपि प्रत्यक्षगम्यो भवत्येव ॥


इयानेव विशेषस्तु भावयोर्यादृशी ययोः ।

व्याप्यव्यापकता सैव व्यत्यस्ता तदभावयोः ॥ २२५ ॥

अभावयोस्तु गम्यगमकभावे भावयोर्व्याप्तिव्यत्ययो द्रष्टव्यः ।
एवञ्च प्रतिषेध्यानुगमपूर्वकसामान्याभावद्वयानुगमप्रत्ययोपपत्तेः
अन्वयव्यतिरेकनिश्चयेऽपि न योगिप्रत्यक्षमुपयुज्यते; भावाभाव
साहचर्यमवधार्य मनसा नियमज्ञानसिद्धेरित्यलं निर्वन्धेन ॥


तस्मात् नियमवत् तद्ग्रहणोपायोऽप्यस्तीति सिद्धम् ॥


व्यतिरेकग्रहणकालेऽपि तदनुपयुक्तमित्यर्थः । ननु भावयोस्साहचर्यमन्वयः,
अभावयोस्साहचर्यं व्यतिरेकः
इति न युक्तं; अभावसाध्यकस्थले वैपरीत्यव्यव
हारादिति शङ्कायां आह—साध्येति । तथा च भावपदं साध्यहेतुपरं,
अभावपदं च तदभावपरमिति भावः । धूमाभाववान् वह्न्यभावात् इत्यादौ
यत्र वह्न्यभावः तत्र धूमाभावः इत्यन्वयः, यत्र धूमः तत्र वह्निरिति व्यतिरेकः;
धूमाभावाभावादेः धूमादिरूपत्वात् । अभावान्वयवद्भावव्यतिरेकोऽपि
इत्येतत् अभावसाध्यहेतुकस्थलाभिप्रायेणोक्तम् ॥


ययोर्भावयोः इत्यन्वयः । व्यत्यस्तेति । अन्वयस्थले हेतुः व्याप्यः,
साध्यः व्यापकः । व्यतिरेकव्याप्तौ साध्याभावः व्याप्यः, हेत्वभावः व्यापकः,
व्यापकाभावात् खलु व्याप्याभाव इत्यर्थः । एतदेवोपपाद्यतेऽनन्तरवाक्येन ।
प्रतिषेध्येति । प्रतियोगिनोः वह्निधूमयोः अनुगमात् तत्प्रतियोगिकयोरभा
वयोरप्यनुगतत्वसिद्ध्या अन्वयव्यतिरेकनिश्चयः सुलभ एव । परं तु व्यतिरेक
साहचर्यस्य प्रकृते आरोपात्मकत्वस्वारस्यात् तदंशे मानसमेव ज्ञानं विवक्षितम् ॥


I.324

पक्षधर्मताज्ञानस्यावश्यकत्वम्


गृहीते नियमे यावत्पुनः क्वचिद्धर्मिणि धूमादेर्लिङ्गस्य ग्रहणं
न वृत्तं, तावन्न भवति लिङ्गिनोऽवगतिरिति सम्बन्धग्रहणकालापेक्षया
द्वितीयं तल्लिङ्गदर्शनमपेक्षितव्यम् । सैवेयं पक्षधर्मतोच्यते ।
पक्षधर्मान्वयव्यतिरेकनिश्चये सत्यपि प्रत्यक्षागमविरोधेन प्रति
पक्षोपनिपातेन वा न गमकत्वमिति तदपरं लक्षणद्वयमुपदिष्टं—
अबाधितविषयत्वं असत्प्रतिपक्षत्वं चेति । तदेवमनुभवसिद्धत्वात्
अनुमानस्वरूपमिव तस्य लक्षणमपि तान्त्रिककथिमप्रत्याख्येयम् ॥


अपि च यदि तान्त्रिकविरचितमवाचकं लक्षणं तत् स्वयमन
वद्यमावेद्यताम् । न तु तद्द्वेषेण लक्ष्यमप्यनुमानं निह्नोतुं युक्तम् ॥


पक्षपदस्य गौणत्वेऽपि प्रमाणस्य न गौणत्वम्


यत्पुनरभाणि 312 पु. प्रमाणस्यागौणत्वादनुमानादर्थ
निश्चयो दुर्लभ इति—तन्न बुद्ध्यामहे—न हि प्रमाणस्य किञ्चि
द्गौणत्वमिह पश्यामः । पक्षधर्मादिपदानि यदि नाम व्याख्यातृभिः
गौणानि प्रयुक्तानि किमेतावता प्रमाणं गौणीभवेत् !


शब्दान्तरेण हि तल्लक्षणाभिधाने न कश्चिद्गौणतादिप्रमादः ॥


क्वचिद्धर्मिणि—पर्वतादौ । द्वितीयं—प्रथमं केवलधूमदर्शनं, ततः
व्याप्तिस्मृतिः, ततः व्याप्यस्य हेतोः प्रकृतपक्षवृत्तित्वानुसन्धानं वह्निव्याप्य
धूमवांश्चायं इत्येवंरूपं द्वितीयम् । न गमकत्वं—नानुमापकत्वं, लिङ्गस्येति
शेषः । तान्त्रिकः—तन्त्रं शास्त्रं सिद्धान्तं वा वेत्तीति । तान्त्रिको
ज्ञातसिद्धान्तः
इत्यमरः ॥


सिद्धान्तोक्तलक्षणस्य दुष्टत्वमभ्युपेत्याह—अपि चेति । अवाचकं—
विवक्षितार्थबोधनाय नालम् । पूर्वमुक्त316 पुटेविकल्पः अत्र स्मर्तव्यः ॥


तन्न बुध्यामह इति । गौणत्वं मुख्यत्वं वा शब्दगतावतिशयौ, न
त्वर्थनिष्टौ तौ । अतः अर्थस्य गौणत्वं नाम को दोष इति न जानीम इत्यर्थः ॥


ननु गौणार्थः, मुख्यार्थः इत्यादिव्यवहारात् शब्दवत् अर्थेऽपि
गौणत्वमस्त्येवेत्यत्राह—शब्दान्तरेणेति । गौणवृत्त्या बोधितः अर्थः गौणः,
I.325

अनुमानप्रामाण्यदूषणप्रतिवचनम्


यदप्यवादि पु. 313विशेषेऽनुगमाभावात् सामान्ये
सिद्धसाधनात्
इति—तदप्यसाधु—साध्यस्य मत्त्वर्थस्य दर्शि
तत्वात् ॥


यदपि अवस्थादेशकालादिभेदात् इत्यभ्यधायि 314-पु.
तदपि न भयावहम्—सम्यगवधृतायां व्याप्तौ विप्लवाभावात् ।
प्रमातुरेव तत्र तत्रापराधः, नानुमानस्येति ॥


यदपि व्याहारि 316 पु.—विरुद्धानुमानविरोधयोः सर्वत्र
संभवात् कुत्रचिच्च विरुद्धाव्यभिचारिण इष्टविघातकृतश्च सुलभ
त्वादिति—तदप्यालजालम्—प्रयोजकहेतौ प्रयुक्ते सत्येवंप्रायाणा
मनवकाशत्वात् ॥


सद्वितीयप्रयोगास्तु न भवन्ति प्रयोजकाः ।

उत्प्रेक्षामात्रमूलत्वाद्धेत्वाभासा भवन्ति ते—इति वक्ष्यामः ॥

मुख्यवृत्त्या बोधितः मुख्यार्थ इति शास्त्रकारैः उपचारात् सङ्केताद्वा उच्यते, न तु
गौणत्वादिरर्थधर्मः । गङ्गायां घोषः इत्युक्ते गौण्या योऽर्थः गङ्गातीरादि
र्बोध्यते स एवार्थः गङ्गातीरे घोषः इत्यत्र मुख्यो भवति । अतः गौणत्व
मुख्यत्वे नार्थधर्मौ, किन्तु शब्दधर्मावेव । एवं प्रकृतेऽपि पक्षपदस्थाने साध्य
विशिष्टधर्मिपदप्रयोगे प्रमाणमगौणं भवति । अतः किमिदं दूषणम् !


साध्यस्येति । यद्यपि धूमसामान्याद्वह्निसामान्यं यत्र कुत्रचित्सिद्धम्,
अथापि प्रकृतपक्षे वह्निसम्बन्धः असिद्ध इति तत्साधनमवशिष्यत एवेति ।
अयमेव सम्बन्धः वह्निमान् इत्यत्र मतुबा बोध्यते ॥


विरुद्धेति । यद्यप्ययं पूर्वं नोक्तः, अथापि सोऽपि तत्र अर्थसिद्ध इति
भावः । आलजालं—अतिवाग्जालमिति यावत् । प्रयोजकहेतौ—
अप्रयोजकशंकायां तद्वारकसत्तर्कविशिष्टसाधकहेतावित्यर्थः । सद्वितीयप्रयोगाः
समानद्वितीयहेतुप्रयोगमात्रम् । अप्रयोजकत्वे हेतुः—उत्प्रेक्षेति । न हि द्वितीय
हेतुप्रयोगमात्रेण हेतोस्सप्रतिपक्षत्वं, सद्धेतावपि तादृशहेत्वाभासप्रयोगसंभवात् ।
किन्तु तुल्यबलत्व एव । उत्प्रेक्षामात्रमूलत्वात् प्रतिहेतोः अप्रयोजकशंकावारक
तर्कासंभवेन न ते प्रयोजकहेतवः ॥


I.326

विरुद्धाव्यभिचारी न सर्वत्र सुलभः


न विशेषविरुद्धश्च न चास्तीष्टविघातकृत् ।

हेतौ सुप्रतिबद्धे हि नैताः सन्ति विडम्बनाः ॥ २२७ ॥

तादृशा चानुमानेन पुंसोऽर्थमधिगच्छतः ।

नान्धेन तुल्यता हस्तस्पर्शानुमितवर्त्मना ॥ २२८ ॥

यत्नेनानुमितो योऽर्थः कुशलैरनुमातृभिः ।

अभियोगशतेनापि सोऽन्यथा नोपपाद्यते ॥ २२९ ॥

मतान्तरेणानुमानद्वैविध्यवर्णनम्


सुशिक्षिततराः प्राहुः—द्विविधमनुमानम्; किञ्चिदुत्पन्नप्रतीति,
किञ्चिदुत्पाद्यप्रतीति । ईश्वराद्यनुमानं तूत्पाद्यप्रतीति ॥


तत्र धूमानुमानादेः प्रामाण्यं केन नेष्यते ?

अतो हि साध्यं बुद्ध्यन्ते तार्किकैरक्षता अपि ॥ २३० ॥

यत्त्वात्मेश्वरसर्वज्ञपरलोकादिगोचरम् ।

अनुमानं न तस्येष्टं प्रामाण्यं तत्त्वदर्शिभिः ॥ २३१ ॥

हेतौ समीचानव्याप्तिविशिष्टे सति एता विडम्बना न सन्ति—न संभवन्ति ।
अतश्च हस्तस्पर्शादिनान्धेन 316 पु. इत्युक्तिर्न युक्तिमती । अतश्च
यत्नेनानुमितः 316 पु. इत्यादिश्लोकोऽपि किञ्चिद्व्यत्यस्य पठनीय इत्याह—
यत्नेनेति । अभियोगः—कलहाह्वानम् ॥


द्विविधमित्यादि । अयमर्थः—कानिचिदनुमानानि स्वतस्सर्वेषामनु
भवसिद्धानि—यथा धूमाद्वह्न्यनुमानम् । कानिचित्तु अन्येनोपदिष्टे एवमिदं
स्यादिति प्रवृत्त्या भवन्ति—यथेश्वराद्यनुमानानि । न हीश्वरानुमानं आबालगोपाल
सिद्धम्; अत इदं उत्पाद्यप्रतीतिकम् । आद्यं तु उत्पन्नप्रतीतिकं प्रमाणमेव ।
द्वितीयं तु न प्रमाणम् । एतदेवानन्तरश्लोकैरुपपाद्यते । केन—पुरुषेण, हेतुना वा ।
अतः—धूमादेः । अस्यानुमानस्योत्पन्नप्रतीतिकत्वमुपपादयति—तार्किकै
रिति । अक्षताः—अपीडिताः । पतिं विश्वस्यात्मेश्वरं, यः सर्वज्ञः इति
श्रुतिं स्मरन्नाह—आत्मेश्वरेत्यादि । यत्तु ईश्वरपरलोकादिगोचरं अनुमानं,
तस्य प्रामाण्यं तत्त्वदर्शिभिर्नेष्टम् । यतस्तद्विषये दुष्टतार्किककुशिक्षणमन्तरा
ऋजुमतीनां अनुमितिर्न जायते ॥


I.327
ऋजूनां जायते तस्मात् न तावदनुमेयधीः ।

यावत्कुटिलितं चेतो न तेषां विटतार्किकैः ॥ २३२ ॥

उक्तपक्षनिराकरणम्


एवं तु कथयद्भिस्तैः परं नास्तिक्यमात्मनः ।

ख्याप्यते स्म, जडत्वं वा, नानुमानाप्रमाणता ॥ २३३ ॥

न हि सम्बन्धग्रहणोपायवैचित्र्यादप्रमाणता भवितुमर्हति ॥


आगमेनानुमानेन तर्कव्युत्पादनेन वा ।

प्रत्यक्षेण गृहीतो वा सम्बन्धो न विशिष्यते ॥ २३४ ॥

ईश्वराद्यनुमानानां तत्प्रसङ्गे सविस्तरम् ।

द्रढिमानं च वक्ष्यामः, इत्यलं बहुभाषितैः ॥ २३५ ॥

प्रमाणमुपगम्यतां तदनुमानमेवंविधैः

अविप्लुतपराक्रमं भवदुदीरितैर्दूषणैः ।

अनभ्युपगमे पुनर्विगतचेष्टिताः प्राणिनः

भवेयुरुपलोपमा इति हि पूर्वमावेदितम् ॥ २३६ ॥

अनुमानलक्षणपरसूत्रव्याख्यानम्


अथेदानीं सूत्रमनुसरामः । तत्पूर्वकमित्यादि । अनुमानमिति
लक्ष्यनिर्देशः । तत्पूर्वकमिति लक्षणम् । तदिति सर्वनाम्ना प्रक्रान्तं
प्रत्यक्षमवमृश्यते । तत् पूर्वं—कारणं यस्य तत् तत्पूर्वकम् ॥


नास्तिक्यं ईश्वरपरलोकानुमाननिराकरणात् । तेषामनुमानैकगम्यत्वं
स्वावसरे निरूप्यते । उपायवैचित्र्यं—एकत्र स्वयंग्रहात्, अन्यत्र तार्किको
पदेशाच्च । उपायवैचित्र्यमेबाह—आगमेनेत्यादि । आगमः—वह्निव्याप्यो
धूमः
इत्याप्तवाक्यरूपः, न्यायावयवरूपो वा । अनुमानं—धूमः वह्निव्याप्यः
यावद्वह्नयधिकरणवृत्तित्वादित्यादिः । तर्कः—यदि धूमः वह्निव्याप्यो न स्यात्
तर्हि वह्न्यभाववद्वृत्तिः स्यात् इत्यादिरूपः । एवंविधैर्दूषणैः इत्यन्वयः ।
पूर्वं—317 पुटे ॥


I.328

एतावत्युच्यमाने निर्णयोपमानादौ तत्पूर्वके प्रसङ्गो न व्यावर्तत
इति तद्व्यावृत्तये द्विवचनान्तेन विग्रहः प्रदर्शयितव्यः, ते-द्वे प्रत्यक्षे
पूर्वं यस्येति । यदेकं अविनाभाविप्रत्यक्षं व्याख्यातं, यच्च द्वितीयं
लिङ्गदर्शनं, ते द्वे प्रत्यक्षे अनुमानस्यैव कारणम्, नोपमानादेः । तत्र
प्रतिबन्धग्राहि प्रत्यक्षं स्मरणद्वारेण तत्कारणम्, लिङ्गदर्शनं तु
स्वत एव ॥


ननु ! प्रत्यक्षमात्रस्य प्रकृतत्वात् प्रकृतावमर्शित्वाच्च सर्वनाम्नः
कुतोऽयं विशेषप्रतिलाभः ? उच्यते—उदाहरणसाधर्म्यात् साध्य
साधनं हेतुरिति वक्ष्यते । हेतुरेव चानुमानं—यदिह लक्ष्यं निर्दिष्टम् ।
न चागृहीतमुदाहरणसाधर्म्यं तद्वैधर्म्यं वा साध्यसाधनं भवतीति
तद्ग्रहणोपायोऽपेक्षितव्यः । प्रत्यक्षव्यतिरिक्ततदवगमोपायपरिकल्पने
चानवस्थादूषणमसकृदभिहितमिति प्रत्यक्षस्यैव तदुपायत्वम् ।
अतोऽनुमानकारणभूतप्रत्यक्षापेक्षया प्रत्यक्षमात्रप्रक्रमेऽपि सर्व
नाम्ना तद्विशेष आक्षिप्यते—यत् प्रतिबन्धग्राहि प्रत्यक्षम्, यच्च
द्वितीयं लिङ्गदर्शनमिति ॥


नेदं लक्षणमतिव्याप्तम्


ननु ! प्रत्यक्षविशेषद्वयपूर्वकत्वमनुमानाभासेष्वपि सव्यभि
चारविरुद्धादिषु संभवतीत्यतिव्याप्तिः—मैवम्—हेतुलक्षणे
साध्यसाधनग्रहणेन तत्प्रतिक्षेपात् । प्रतिबन्धस्वरूपं हि तत्रैव


निर्णयोपमानेति । दूरात् किञ्चित्पश्यन् सामान्यतस्तदवगत्य समीपं
गतस्तन्निर्धारयति । तदेतन्निर्धारणं प्रत्यक्षपूर्वकमेव । एवमुपमानमपि
सादृश्यदर्शनमूलकमेव । प्रसंगः—लक्षणस्येति शेषः, अतिप्रसङ्ग इति यावत् ।
ते इति । वार्तिकेऽप्येवमेव विगृहीतम् ॥


विशेषः—वैलक्षण्यं एतादृशविलक्षणप्रत्यक्षद्वयपूर्वकत्वरूपम् । हेतुरे
वेति—परामृश्यमानं लिङ्गं हि करणम् । तदवगमः—साधर्म्यवैधर्म्यावगमः ।
अतः—प्रकृतत्वात् बुद्धिस्थत्वाच्च ॥


हेतुलक्षण इति । उदाहरणसाधर्स्यात्साध्यसाधनं हेतुः इति
सूत्रोक्त इत्यर्थः । हेत्वाभासानां साध्यसाधकत्वं नास्त्येवेति भावः । तत्र—
हेतुसूत्रव्याख्यानावसरे । वस्तुतस्त्वतिव्याप्तिकथनस्यावकाश एव नास्तीत्याह—

I.329

निपुणमभिधास्यते; इह तु तद्ग्रहणोपायमात्रमुच्यते । सम्यक्प्रवृत्ते च
प्रतिबन्धग्राहिणि प्रत्यक्षे व्याप्तिविप्लवाभावान्नानुमानाभासप्रसङ्गः ।
सामान्यलक्षणानुवादेन च विशेषलक्षणे वर्ण्यमाने तत एव प्रमाणा
भासव्युदाससिद्धेः केवलमिदानीं समानजातीयोपमानादिव्यवच्छेदो
व्रचनीय इति स एव तत्पूर्वकपदेनोपात्तः । अर्थोत्पन्नमव्यभिचारि
व्यवसायात्मकम्
इति फलविशेषणानां सर्वप्रमाणेष्वनुवृत्तेः ॥


युगपच्च क्वचिन्नास्ति व्यापारः शब्दलिङ्गयोः ।

अतो नाव्यपदेश्यत्वविशेषणमिहार्थवत् ॥ २३७ ॥

द्वयोरपि च शब्दलिङ्गयोः ज्ञापकत्वेन स्वरूपग्रहणापेक्षत्वात्,
ज्ञानायौगपद्येन च युगपद्ग्रहणासंभवात् ॥


नाप्यव्याप्तमिदं लक्षणम्


ननु ! एवं निरस्यतामतिव्याप्तिः; अव्याप्तिस्तु कथं निरसिष्यते ?
आगमादिपूर्वकाणां अनुमानानामसङ्ग्रहात् ॥


सामान्येति । तत एव—सामान्यलक्षणानाक्रान्तत्वादेव । व्यवच्छेदः
केवलमित्यन्वयः ॥


ननु अव्यपदेश्यं इत्यस्य कुतोऽत्र नानुवृत्तिरित्यत्राह—युगपदिति ।
उक्तमेव विवृणोति—द्वयोरिति । अयमर्थः—प्रत्यक्षस्थले इन्द्रियं करणं,
इन्द्रियं च न ज्ञातं सत् करणं, किन्तु स्वरूपसदेव । तथा च नामस्मरण—
इन्द्रियरूपसामग्रीद्वयमेलनं तत्र संभवतीति पनसोऽयं इत्यादिशब्दविशेषणकं
प्रत्यक्षं युज्यत इति तद्वारणायाव्यपदेश्यपदं प्रत्यक्षलक्षणे आवश्यकम् । अनु
मितिशाब्दस्थले तु लिङ्गस्य शब्दस्य चोभयोः ज्ञातयोरेव करणत्वम् । तदा च
नामस्मरणरूपं ज्ञानं न भवितुमर्हति, युगपत् ज्ञानद्वयानुत्पत्तेः इति तादृशज्ञान
मेव नोत्पद्यत इति तद्विशेषणानुवृत्तिर्मास्तु ॥


आगमादीत्यादिना अनुमानपरिग्रहः । न हि तत्स्थले प्रत्यक्षद्वयपूर्वक व
मनुमानेऽस्तीत्यर्थः ॥


I.330

तेष्वपि मूलभूतं प्रत्यक्षमेव कारणमिति केचिदाहुः ।
यथोक्तम् श्लो. वा. 1-1-5, अनु. 170


यत्राप्यनुमिताल्लिङ्गाल्लिङ्गिनि ग्रहणं भवेत् ।

तत्रापि मौलिकं लिङ्गं प्रत्यक्षादेव गम्यते इति ॥

यद्वा प्राधान्याभिप्रायेण प्रत्यक्षपूर्वकत्वमुच्यते, न नियमार्थ
मिति नाव्याप्तिः ॥


प्रत्यक्षानुमानागमपूर्वकाण्यप्यनुमानानि सन्ति


तानीति वा पुनः तावदवबोधाय विग्रहः कर्तव्यः । तानि—
प्रत्यक्षादीनि पूर्वं यस्येति । यद्यपि प्रत्यक्षमेव लक्ष्यत्वेन प्रस्तुतम्;
तथापि व्यवच्छेद्यतयाऽनुमानादीनामपि प्रकृतत्वं न वार्यते ॥


तत्पूर्वकपदार्थशोधनम्


अत्र चोदयन्ति । तदिति करणावमर्शो वा स्यात्, फलावमर्शो
वा । करणावमर्शे इन्द्रियादिकरणपूर्वकं ज्ञानं तत्फलं तत्पूर्वकं
चानुमानमिति पूर्वशब्दस्य द्विः पाठः स्यात् । स चाश्रुतः


मौलिकं—मूले भवं, प्राथमिकमिति यावत् ॥


ननु यथाकथञ्चित्प्रत्यक्षमूलकत्वं सर्वप्रमाणसाधारणम्; प्रत्यक्षं हि सर्व
ज्येष्ठम् । अतो नेदमनुमानासाधारणमित्यत आह—यद्वेति । अयमाशयः—
तत्पदं यद्यपि प्रत्यक्षपरं, अथापि इतरप्रमाणानामपि तदुपलक्षकं, प्राधान्यात्तु
तदुपात्तम् । नात्र तस्य लक्षणेऽपि प्रवेशः ॥


लक्षणवाक्यघटकस्य लक्षणघटनमेव वरमित्यत आह—तानीति । ताव
दवबोधाय—तावद्विवक्षितार्थलाभाय । यद्यपीति । तत्पदं प्रकृतपरामर्शि—
तत्र लक्ष्यत्वेन प्रत्यक्षं प्रकृतं, इन्द्रियार्थसन्निकर्षपदव्यवच्छेद्यतयाऽनुमानं प्रकृतं,
अव्यपदेश्यपदव्यवच्छेद्यतया शब्दोऽपि प्रकृत इति तत्पदेन तेषां ग्रहणं
भवत्येवेति । तथा च तत्पदं बुध्या प्रकृतस्य परामर्शकमित्युक्तं भवति ॥


करणेत्यादि—प्रत्यक्षपदं हि करणवाचि, फलवाचि चेति पूर्वमेवोक्तं,
प्रकृतत्वमप्युभयोरस्ति । अतस्तत्पदग्राह्यं किमिति भवत्येव संशयः । द्विः
पाठ इति । अनुमानं हि व्याप्तिज्ञानं, तच्च इन्द्रियपूर्वकलिङ्गदर्शनपूर्वकम्,
न त्विन्द्रियपूर्वकम् । एवं च इन्द्रियपूर्वकपूर्वकमिति पूर्वक पदस्य द्विः पाठ
I.331

कल्पनीयः । फलावमर्शे तु प्रत्यक्षफलपूर्वकमनुमानफलं भवेत्,
नानुमानमिति तत्पूर्वकशब्दस्य फलवचनस्यानुमानशब्देन करण
वाचिना सह सामानाधिकरण्यं न स्यात्—तत्पूर्वकमनुमानमिति ।
प्रत्यक्षफलेन हि लिङ्गदर्शनेन परोक्षार्थप्रतिपत्तिरुपजन्यते; सा
चानुमानफलं, नानुमानमिति—उच्यते—उभयथाऽपि न दोषः ।
रणावमर्शे तावत् इन्द्रियादिकरणपूर्वकं तत्फलं लिङ्गदर्शनं यत्
तदेव परोक्षार्थप्रतिपत्तौ करणमनुमानमिति न द्विः पूर्वकशब्दस्य
पाठ उपयुज्यते । फलेऽप्यवमृश्यमाने प्रत्यक्षफललिङ्गदर्शनपूर्वकं
यत् अविनाभावस्मरणं तदनुमानं करणमेव, ततः परोक्षार्थप्रतिपत्तेः ॥


यदुक्तं 309 पु.—प्रत्युत्पन्नकारणजन्या स्मृतिरनुमानमिति,
तत्र स्पष्टमेव सामानाधिकरण्यम् ॥


सौत्रं अनुमानपदं अनुमितिपरं वा


फले वाऽनुमानशब्दं वर्णयिष्यामः—अनुमितिः अनुमानमिति ॥


आवश्यक इति । अनुमानफलं—अनुमितिः । अनुमितेः प्रत्यक्षपूर्वकत्व
व्यपदेशः सर्वसंप्रतिपन्नः । अतः अनुमानं प्रत्यक्षपूर्वकपूर्वकं इति कथने
सामानाधिकरण्यमबाधितम् । प्रत्यक्षपदस्य फलपरत्वे लिङ्गदर्शनस्यैव प्रत्यक्ष
पदार्थत्वं वक्तव्यं—तत्पूर्विका चानुमितिरेव, नानुमानमिति तत्पूर्वकमनुमानं
इति बाधितमिति ॥


उभयथापीति । अयमर्थः—तत्पदस्येन्द्रियपरत्वे अनुमानपदं
लिङ्गदर्शनपरं, ज्ञायमानलिङ्गस्यानुमितिकरणत्वेन लिङ्गज्ञानस्याप्यनुमितिकरणत्वा
नपायात् । उक्तं च तथा पु. 282 । तत्पदस्य प्रत्यक्षज्ञानपरत्वे लिङ्गदर्शनं
तत्पदार्थः, तत्पूर्वकं च व्याप्तिस्मरणं, तदेवानुमानपदवाच्यमिति न कश्चिद्दोषः ॥


स्पष्टमेवेति । स्मृतेः प्रत्यक्षज्ञानपूर्वकत्वात् ॥


व्याप्तिस्मृतेः करणत्वस्य अन्ये तुपक्ष एवोक्तत्वात्, स्वमते परामृश्य
मानलिङ्गस्यैव करणत्वात् प्रत्यक्षपदस्य ज्ञानपरत्वे तत्पूर्वकमनुमानं इति
सामानाधिकरण्यहानिः स्वपक्षे—इत्यत आह—फले वेति । भावार्थकप्रत्य
I.332

यतश्शब्दं वाऽध्याहरिष्यामः—प्रत्यक्षफलपूर्वकं परोक्षार्थ
प्रतिपत्तिरूपं फलं यतो भवति तदनुमानमिति ॥


तत्पूर्वकं इत्येतावदेव लक्षणपरम्


अत्र हि प्रथमं लिङ्गदर्शनं, ततः प्रतिबन्धस्मरणं, ततः केषा
ञ्चिन्मते परामर्शज्ञानं, ततः साध्यार्थप्रतीतिः, ततः प्रत्यक्षलक्षणा
वसरवर्णितेन क्रमेण हेयादिज्ञानमितीयति प्रतीतिकलापे यथोपपत्ति
कार्यकारणभावो वक्तव्य इत्येवं तत्पूर्वकपदमेव केवलं अनुमान
लक्षणक्षममिति गुरवो वर्णयाञ्चक्रुः ॥


सर्वं सूत्रं लक्षणपरमिति अन्ये


अन्ये पुनः उपमानाद्यतिव्याप्तिव्युदासाय त्रिविधग्रहणं
व्याख्यातबन्तः । तत्पूर्वकमनुमानम् इत्युच्यमाने सति उप
मानादौ प्रसङ्ग इति त्रिविधग्रहणम् ॥


लिङ्गं वक्ष्यमाणकार्यादिभेदाद्वा त्रिविधं, पक्षधर्मादिरूपत्रय
योगाद्वा त्रिरूपं त्रिविधमुच्यते । लिङ्गे च त्रिविधे सति तदालम्बनं
ज्ञानमुपचारात् त्रिविधमभिधीयते । तेन प्रत्यक्षपूर्वकं त्रिविधलिङ्गा
लम्बनज्ञानमनुमानमित्युक्ते सति नातिव्याप्तिः ॥


यान्तत्त्वेऽनुमानपदमेवानुमितिपरमिति सामानाधिकरण्यमुपपद्यत इति ॥


अनुमानपदस्य करणे प्रसिद्ध्यनुरोधादाह—यत इति ॥


लिङ्गविषयं ज्ञानं, ज्ञानविषयीकृतं वा लिङ्गं प्रमाणंपु. 282 इति
स्वेन कथनात्—केषाञ्चित् इति । गुरवः—भाष्यकारादयः ॥


प्रसङ्गः—अतिप्रसङ्गः । तेषामपि सादृश्यदर्शनमूलकत्वादित्यर्थः ॥


कार्यादीति । कार्यानुमानं, कारणानुमानं, सामान्यतोदृष्टानुमान
मित्यर्थः । पक्षधर्मेत्यादि । पक्षे सत्त्वं, सपक्षे सत्त्वं, विपक्षेऽसत्त्वमित्यर्थः ।
नन्वनेन लिङ्गे त्रैविध्य उक्तं, न त्वनुमाने—इति चेदाह—लिङ्गे चेति । तदा
लम्बनं—तद्विषयकम् । ज्ञायमानलिङ्गस्यानुमानत्वे तु नायं क्लेशः । नाति
व्याप्तिः । उपमानस्य लिङ्गाविषयकत्वात् ॥


I.333

सूत्रादेव हेतोस्निविधत्वलाभः


ननु ! पूर्ववदादिभिः शब्दैः कार्यादिभेदवर्णनं ज्ञास्यामः ।
पक्षधर्मादिरूपत्रयं तु कथमेभिः शब्दैः प्रतिपाद्यत इति । अत्राहुः—
वादादिकथात्रयेऽपि पूर्वमुपादीयमानत्वात् पक्षः पूर्वशब्देनोच्यते;
सोऽस्यास्त्याश्रयत्वेनेति पूर्ववत् लिङ्गमित्येवमनेन पदेन पक्षधर्मत्व
मुक्तं भवति । पक्षे उपयुक्ते सति शेषः सपक्षो भवति । सोऽस्या
स्त्याश्रयत्वेनेति शेषवत् । एवमनेन सपक्षे वृत्तिरुक्ता भवति ।
सामान्यतोदृष्टमित्यनेन विपक्षात् व्यावृत्तं लिङ्गमुच्यते । कथम् ?
अकारप्रश्लेषात् सामान्यतः अदृष्टमिति । तिष्ठतु तावद्विशेषः,
सामान्यतोऽपि न दृष्टम् । क्वेति ? पक्षसपक्षयोर्वृत्तेरुक्तत्वात् परिशे
षात् विपक्षे सामान्यतोऽपि न दृष्टमित्यवतिष्ठते । इत्थं त्रिरूपं लिङ्गं
एभिः शब्दैरुक्तं भवति । तदालम्बनं ज्ञानमनुमानम् ॥


सूत्रस्य सर्वस्यापि लक्षणपरत्वं न युक्तम्


तदेवं लक्षणे कश्चित् सर्वं सूत्रमयोजयत् ।

एवं तु ख्यापितं न स्यात् सूत्रकारस्य कौशलम् ॥ २३८ ॥

किञ्च पञ्चलक्षणमिह शास्त्रे अभ्युपगम्यते इति त्रिरूपे तस्मिन्
वर्ण्यमाने कालात्ययापदिष्टप्रकरणसमयोः प्रसङ्गो न व्यावर्तत इति ।
तस्मात् तत्पूर्वकपदमेव लक्षणप्रतिपादनार्थमनवद्यम् ॥


ज्ञास्याम इति । पूर्ववदिति कारणेन कार्यानुमानं, शेषवदिति कार्येण
कारणानुमानं, एवं कार्यकारणभावरहितस्थले रूपेण रसानुमानादि सामान्यतो
दृष्टं—इत्यादिरीत्या भाष्यादिषु तथा वर्णितम् । कथात्रय इति । वादः, जल्पः,
वितण्डा चेति कथा त्रिविधा वक्ष्यते । उपयुक्ते—निरूपिते । उक्तादन्यः खलु
शेषः । तदर्थलाभप्रकारमाह—तिष्ठत्वित्यादि । विशेषः—पक्षवृत्तित्वादिः ॥


सर्वं सूत्रं लक्षणे अयोजयत् इत्यन्वयः । एवं त्वित्यादि । अनुमान
प्रभेदादीनां वक्तव्ये, उपमानादिव्यावृत्तेः अस्मदुक्तदिशा सुलभत्वे च तदर्थं
एतावत्पदप्रयोगः सूत्रकारस्य न युक्त इत्यर्थः ॥


न व्यावर्तत इति । यद्यपि वाचस्पतिमिश्रैः—तात्पर्यटीकायां
विपक्षव्यतिरेकात् असत्प्रतिपक्षत्वाबाधितविषयत्वयोः संग्रहो वर्णितः, अथापि
I.334

त्रिविधग्रहणं तस्य विभागप्रतिपादकम् ।

भेदाः पूर्ववदित्यादिग्रन्थेन कथितास्त्रयः ॥ २३९ ॥

तत्पूर्वकपदोद्गीतनिर्मलन्यायलक्षः ।

परिम्लानादरोऽन्यत्र सूत्रकृद्वाक्यलाघवे ॥ २४० ॥

त्रिविधं इत्युक्तिस्तदा विरुद्ध्येतैव, पञ्चविधत्वात् हेतोः । विधाशब्दश्च विभाग
एव स्वरसः । पूर्वोक्तदोषस्तु वर्तत एवेदानीमपि इत्युपेक्षितम् ॥


एवं लक्षणपरं तत्पूर्वकपदं व्याख्यातम् । अथ शिष्टे सूत्रे त्रिविध
पदं विभागप्रतिज्ञापरं, शिष्टं विभागपरमित्याचष्टे—त्रिविधेति । त्रयः भेदाः
कथिता इत्यन्वयः ॥


अत्र भाष्यं—विभागवचनादेव त्रिविधमिति सिद्धे त्रिविधवचनं महतो
महाविषयस्य न्यायस्य लघीयसा सूत्रेणोपदेशात् परं वाक्यलाघवं मन्वानस्या
न्यस्मिन् वाक्यलाघवेऽनादरः । तथा चायमित्थंभूतेन वाक्यविकल्पेन प्रवृत्तः
सिद्धान्ते छले शब्दादिषु च बहुलं समाचारः शास्त्रे
इति । अयमर्थः—पूर्ववत्
शेषवत् सामान्यतो दृष्टं च
इति विभागवाक्यादेव अनुमानं त्रिविधं इति
स्पष्टमवगम्यमाने त्रिविधं इति संख्यावाचकशब्दग्रहणपूर्वकमभिधानं किमर्थम् ?
इति चेत्—अतिक्लिष्टस्यानुमानलक्षणस्य तत्पूर्वकं इति सूक्ष्मपदेन लक्षणात्
तत्स्मरणजहर्षवशात् इदमत्यल्पं गौरवं गौरवत्वेन न मेने सूत्रकारः । एतादृशेन
वाक्यविन्यासेनैवास्मिन् शास्त्रे सिद्धान्तादिलक्षणपरेषु समाचारः—विचाररीतिः
बहुलं प्रवृत्तो दृश्यते इति । एतत्सर्वमभिप्रेत्याह—तत्पूर्वकेत्यादि । तत्पूर्वक
इत्येकेनैव पदेन कथितं निर्मलं—निर्दोषं यत् महतो न्यायस्य—अनुमानाख्यस्य
लक्षणं येन, सः सूत्रकृत् अन्यस्मिन् वाक्यलाघवे परिम्लप्नादरः इत्यर्थः ॥


एतेन—पूर्ववदादिवाक्यमभ्युपेत्य त्रिविधपदपरित्यागलाघवापेक्षया
त्रिविधपदेनैव विवक्षितार्थलाभे पूर्ववदादिपदपरित्यागलाघवस्य महत्त्वात्,
तत्परं भाष्यं व्याचख्युर्वाचस्पतिमिश्राः—त्रिविधमिति विभागवचनादेव त्रिविधे
पूर्ववदादौ सिद्धे किमर्थं पूर्ववदाद्युपादानम्
इति—तदेतद्ग्रन्थकारेणोपेक्षितं
मन्तव्यम् । त्रिविधं इत्येतावन्मात्रात् नार्थपूर्तिर्भवेत्—विभागजिज्ञासाया
अशान्तत्वात् । नापि त्रिविधं इतिपदं विभागवाक्यं, किन्तु तत्प्रतिज्ञापरम् ।
अतो नेदं भाष्यानुगुणमपि—इत्यादिर्हेतुरत्रोह्यः । एवं वैभवेन प्रवृत्तं भाष्यं
I.335

विभागवचनात्सिद्धं त्रैविध्यं स्वगिरा भवेत् ।

तथा च शब्दसिद्धान्तच्छलेष्वेवमदीदृशत् ॥ २४१ ॥

पूर्ववदनुमानम्


पूर्ववदिति । यत्र कारणेन कार्यमनुमीयते—यथा जलधरोन्नत्या
भविष्यति वृष्टिरिति ॥


पूर्ववत् पदस्य कारणपरत्वाक्षेपः


अत्र चोदयति—पूर्वं हि कारणमुच्यते । पूर्वमस्यास्तीति
पूर्ववत् कार्यं वक्तुं युक्तम् । तेन कार्यात् कारणानुमानमिहो
दाहर्तव्यम्, न कारणात् कार्यानुमानम् ॥


कारणेन कार्यमनुमातुमप्यशक्यम्


न च कारणेन कार्यमनुमातुमपि पार्यते । कार्यस्य तावत्
पक्षत्वमयुक्तम्; सिद्ध्यसिद्धिविकल्पानुवृत्तेः । सिद्धे हि कार्ये
किमन्यदनुमेयम् ! असिद्धे खपुष्पवन्न पक्षत्वम् ॥


अपि च अस्ति—कार्यं—कारणस्यास्तित्वात् इति व्यधिकरणो
हेतुः; अनित्यः शब्दः—काकस्य कार्ष्ण्यादितिवत् ॥


उक्त्वा हार्दं भावमाह—विभागेति । विभागवचनात् सिद्धमेव त्रैविध्यं स्वगिरा
कण्ठत उक्तं भवेत्—अन्यथा इतोऽपि विभागान्तरं स्याद्वा इति संशयानति
वृत्तेः । तथैव सूत्रकारशैल्यपि दृश्यते—आप्तोपदेशः शब्दः स द्विविधः
दृष्टादृष्टार्थत्वात्
, तन्त्राधिकरणाभ्युपगमसंस्थितिः सिद्धान्तः स च तुर्विधः
सर्वतन्त्रप्रतितन्त्राधिकरणाभ्युपगमसंस्थित्यर्थान्तरभावात्
, वचनविघातः
अर्थविकल्पोत्पत्त्या छलम्
तत् त्रिविधं वाक्छलं सामान्यच्छलमुपचारच्छलं
चेति
इत्यादौ नियमार्थं त्रिविधादिग्रहणम् ॥


मेघस्यौन्नत्यं नाम कार्याव्यबहितप्राक्कालीनावस्थाविशेष एव ॥


पूर्वं—पूर्वपदार्थः । कार्यं अनन्तरं, कारणं हि पूर्वं भवतीति भावः ॥


अत्र कारणस्य सत्त्वात् कार्येणापि भाव्यं इति खलु वक्तव्यम् । अतः
कार्यं—अस्तित्ववत् कारणस्य सत्त्वादिति वक्तव्यं, तदपि न संभवतीत्याह—अपि
चेति ॥


I.336

सत्तायां च साध्यायां भावधर्मस्य हेतोरसिद्धत्वम्, अभाव
धर्मस्य विरुद्धत्वम्, उभयधर्मस्यानैकान्तिकत्वमिति कथं साधयितुं
शक्यते ? तदुक्तम्—


नासिद्धे भावधर्मोऽस्ति, व्यभिचार्युभयाश्रयः ।

धर्मो विरुद्धोऽभावस्य, सा सत्ता साध्यते कथम् ? इति ॥

न च कारणमात्रस्य हेतुत्वं युक्तम्, विना च प्रतिबन्धादिना
व्यभिचारसम्भवात् । कारणविशेषश्च न कश्चिद्विपश्चिताऽपि
निश्चेतुं शक्यः । चलदचलविपुलवपुषामुत्पलदलमलीमसत्विषामपि
पयोमुचाममुक्तपयसामुपरमदर्शनात् ॥


यदि त्वन्त्यदशावर्ति कारणं लिङ्गमिष्यते ।

व्याप्तिस्मरणवेलायां कार्यप्रत्यक्षता भवेत् ॥ २४२ ॥

सौगतमते कारणात्कार्यानुमानसंभवः


ननु ! सौगतैरपि कारणात् कार्यानुमानमङ्गीकृतमेव ।


हेतुना यः समग्रेण कार्योत्पादोऽनुमीयते ।

अर्थान्तरानपेक्षित्वात् स स्वभावोऽनुवर्णितः ॥ इति प्र. वा. 1-8

अथ हेतुदोषानाह—सत्तायामित्यादि । सत्तायाः साध्यत्वेनासिद्धत्वात्
सत्तायाः हेतोरपि सत्तारूपत्वात् स्वरूपासिद्धिः । अभावधर्मत्वे तु
साध्याभावव्याप्तत्वाद्विरुद्धः । उभयधर्मत्वे साधारणानैकान्त्यम् ॥


हेतुभूतं कारणमपि न निर्वक्तुं शक्यमित्याह—न चेति । न हि मृत्पिण्ड
वत्सु देशेषु सर्वत्र घटस्योत्पत्तिः संभाव्यते । निश्चेतुमशक्यत्वमेवाह—
चलदिति । चलदचलवत् विपुलपरिणामवतां नीलरोचिषामपि मेघानां
अमुक्तपयसां सतामेवोपरमदर्शनात् । उपरमः—अवर्षणम् । तथा ह्याभाण
कोऽपि—अश्वप्लुतं वासवगर्जितं च स्त्रीणां च चित्तं पुरुषस्य भाग्यम् । अवर्षणं
चाप्यतिवर्षणं च देवो न जानाति कुतो मनुष्यः
इति ॥


ननु कार्याव्यवहितप्राक्काले कारणं यादृग्रूपविशिष्टं स्यात्, तादृग्रूपविशिष्ट
स्यैव कारणस्य कार्यानुमापकत्वमिष्टमिति चेत्—तत्राह—यदि त्विति ।
प्रत्यक्षता भवेत्—तदानीं कार्यस्योत्पन्नत्वात् ॥


समग्रेणेति । समग्रात् खलु हेतोरनन्तरस्मिन्नेव क्षणे कार्योऽवर्जनीयः,
कारणान्तरानपेक्षणात् । कारणान्तरापेक्षायां हि समग्रत्वमेव न स्यात् ॥


I.337

अग्रन्थज्ञो देवानां प्रियः ! उत्पाद्यतेऽस्मादित्युत्पादो योग्यता
कथ्यते । सा चात्रानुमेया; अत एव तस्याः वस्तुनोऽनन्यत्वात्
स्वभावानुमानमिदमिष्यते स स्वभावोऽनुवर्णितः इति ॥


सिद्धान्ते कारणात् कार्यानुमानसमर्थनम्


अत्राहुः—सर्वमिदमविदितानुमानप्रयोगक्रमस्य दुर्मतेश्चोद्यम् ।
न कार्यमत्र पक्षीक्रियते । न सत्ता साध्यते । न व्यधिकरणो हेतुः
प्रयुज्यते । अपि तु पयोधरा एव धर्मिणः अदूरकालभाविन्या वृष्ट्या
तद्वन्तः साध्यन्ते विशिष्टोन्नतिरूपधर्मादियोगेनेति न पूर्वकथित
दोषावसरः ॥


यथा अग्निमानयं धूमः बहुलपाण्डुतादिधर्मयोगित्वात्—
महानसावधृतधूमवदिति धूम एवाग्निमत्तयाऽनुमीयते । एवं सम
नन्तरोत्पादितवृष्टयोऽमी जीमूताः, सातिशयोन्नत्यादिधर्मयोगित्वात्,
पूर्वोपलब्धपर्जन्यवत् इति जलधरा एव भविष्यद्वृष्टिमत्तयाऽनु
मीयन्ते । यथाऽऽह भट्टः—श्लो. वा. 1-1-5-47


तस्माद्धर्मविशिष्टस्य धर्मिणः स्यात् प्रमेयता ।

सा देशस्याग्नियुक्तस्य, धूमस्यान्यैश्च कल्पिता इति ॥

देवानाप्रियः—देवानांप्रिय इति मूर्खे इति निपातः । देवानां
क्रीडासक्तत्वेन मूर्खत्वात् तत्प्रियस्यापि मूर्खत्वमिति कैय्यटः । देवानां प्रियस्य
छागस्याज्ञत्वाद्वा तथा । योग्यता—सामर्थ्यम् । तस्याः—योग्यतायाः ॥


तद्वन्तः—वृष्टिमन्तः, कीदृशवृष्टिमन्तः—अदूरकालभाविन्या वृष्ट्या
वृष्टिमन्तः । अनुमानाकारस्त्वनुपदमुच्यते ॥


कार्यस्य सिद्धप्रायत्वात्—समनन्तरोत्पादितेति । पूर्वोपलब्धेति ।
एतत्पूर्वमनुभूतेत्यर्थः । सा देशस्येति । अत्र न्यायरत्नाकरः—सा च
देशस्यैव, धर्मित्वादित्याह—सा देशस्येति । नैय्यायिकास्तु धूममेव धर्मीकृत्य
तस्यैवाग्निविशिष्टस्यानुमेयतामाहुरित्याह—धूमस्येति


I.338

कारणात् कार्यानुमानोपपादनम्


यत्तु—पूर्वं कारणमुच्यत इति—तत्सत्यम् । पूर्वमस्यास्तीति
पूर्ववत्—कारणगतमुन्नतत्वादिधर्मजातमुच्यते; तदेव लिङ्गमिति
ग्रन्थदोषोऽपि न कश्चित् । न च कारणमात्रस्य हेतुत्वं ब्रूमः, येनास्य
विधुग्प्रत्ययोपनिपातादिकृतः व्यभिचारः स्यात् । अपि च विशिष्टमेव
कारणं हेतुः । न च कारणविशेषो दुरवगमः;


गम्भीरगर्जितारम्भनिर्भिन्नगिरिगह्वराः ।

रोलम्बगबलव्यालतमालमलिनत्विषः ॥ २४३ ॥

तुङ्गत्तटिल्लतासङ्गपिशङ्गोत्तुङ्गविग्रहाः ।

वृष्टिं व्यभिचरन्तीह नैवंप्रायाः पयोमुचः ॥ २४४ ॥

अनभ्युपगमे चैवनुमानस्य जीवितम् ।

न स्यात् धूमविशेषाणामपि बोद्धुमशक्तितः ॥ २४५ ॥

कारणगतेत्यादि । पूर्वमस्यास्ति इत्यत्र षष्ठ्याः सम्बन्धसामान्य
मर्थः—सम्बन्धश्च धर्मधर्मिणोः । अतश्च धर्मसम्बन्धी यथा धर्मी, तथा धर्मि
सम्बन्धी धर्मो भवति । तथा च विशेष्यतया धर्मिविशिष्टः धर्मः पूर्ववत्पदार्थ
इति भावः । ग्रन्थदोषः—शब्ददोषः । विधुरप्रत्ययः—विरोधि
सामग्री । स्वरूपमात्रस्य कारणत्वे हि विरोधिसामग्रीकालेऽपि तस्मात् कार्यं
स्यात् । बयं तु न तथा ब्रूमः । कारणमात्रं न फलोपधायकं, अपि तु किञ्चिद्रूप
विशिष्टमेवेत्यर्थः । अपि च—अपि तु ॥


विशेषस्य सुगमत्वमेबाह—गंभीरेत्यादि । आरंभः—उपक्रमः ।
कार्ष्ण्ये दृष्टान्ताः—रोलम्बादयः । गबलः—महिषशृङ्गः । तुङ्गत् इति क्विबन्तः,
बिजृंभन्त्य इत्यर्थः । अस्य सर्वस्यापि पयोमुचः इति विशेष्यम् ।
न स्यादित्यादि । धूमाद्वह्न्यनुमानं सर्वानुभवसिद्धम् । धूमोत्पत्त्यनन्तरक्षणे
वह्नेर्निर्बाणेऽपि उपरिदेशे धूमोपलंभात् वह्न्यनुमितौ जातायां तत्र
वह्नेर्नष्टत्वेन व्यभिचारात् धूमाद्वयनुमितिर्वा कथं भवेत् । अतः कारणान्तर
मूलकः क्वाचित्कव्यभिचारः न दोषाबह इति कारणात् कार्यानुमानमपि भवत्येव ॥


I.339

अनुमेयस्य परोक्षत्वम्


यदपि कार्यप्रत्यक्षत्वमाशङ्कितम् पु. 359—तदप्ययुक्तम्—
न हि वृष्ट्यनुमानसमय एव शिरसि सलिलकणाः पतन्तः पयोदमुक्ता
दृश्यन्ते ॥


परोक्षे लिङ्गिनि ज्ञानमनुमानम् इति च विशेषणोपादानात्
यत्र तत्र न तदानीमेव वृष्टिः प्रत्यक्षीभवति, तदुदाहरणं भविष्यति ॥


अपि च अनुजातावयवक्रियतयाऽनाशङ्क्यमानविनाशेऽन्त्य
तन्तौ जातया क्रियया पटनिष्पत्त्यनुमाने क्रियमाणे न पटप्रत्यक्षता;
कालव्यवधानसम्भवात् । तथा हि—एकतस्तावदन्त्यतन्तौ क्रिया-


पयोदमुक्ताः सलिलकणाः इत्यन्वयः । कालस्यातिसूक्ष्मत्वात्
किञ्चिदिव व्यवधानमपि संभाव्यमेवेति भावः ॥


वस्तुतस्त्वेतदाशङ्काया अवसर एव नास्तीत्याह—परोक्ष इति । यत्र
तत्र—यत्र क्वचित् । यद्वा—यत्र न तदानीमेव वृष्टिः प्रत्यक्षीभवति तत्र
इत्यन्वयः । अयमर्थः—न हि स्वशीर्षोपरि मेघं पश्यत एवेदमनुमानं—अनु
मानस्य परोक्षविषयकत्वेन दूरोंत्तादृशमेघं दृष्ट्वा वृष्ट्यनुमानात् । अतश्चानुमिति
काले न वृष्टिप्रत्यक्षम् ॥


ननु स्वशीर्षोपरि मेघं पश्यतोऽप्यनुमानमनुभवसिद्धम् । मार्गे गच्छन्
स्वोपरि कृष्णमेघं पश्यन्, अचिराद्भविष्यद्वृष्टिमनुमिमानः शीघ्रं गच्छति,
निवर्तते वा । अनुमानकाले वृष्टेरभावात् तदानीं परोक्षविषयकत्वं निर्बाधम् ।
अतश्च अनुमानकाले कार्यप्रत्यक्षापत्तिरूपो दोषो दुरपह्नव एव । न चैतद्दोषः
प्रथमकल्पेऽनुपदमुक्ते नास्तीति स एवास्त्विति वक्तुं शक्यं; कार्यसमर्थस्य
कारणस्य कालक्षेपायोगात् । यदा सामग्री संपूर्णा तदा तदनन्तरक्षणे कार्यं
भवेदेव यावत्पर्यन्तं कार्यं न दृश्यते तावत् सामग्री न मिलितेत्येव वक्तव्यम् ।
ततश्च व्यवधानपक्षोऽपि न साधीयान्—इति शङ्कायां सदृष्टान्तं तं साधयति—
अपि चेत्यादिना । अन्त्यतन्तौ क्रियोत्पत्तावपि अवयव्यन्तरे पटनाशक
क्रियोत्पद्येत चेत् पटस्यैव नाशः स्यादित्यतः—अनुपजातेत्यादि । एकतः—
I.340

दर्शनम्, अविनाभावस्मरणम्, परामर्शज्ञानम्, अनुमेयप्रतीतिरिति
त्रिचत्वारः क्षणाः । अन्यतस्तु—क्रिया, क्रियातो विभागः,
विभागात्पूर्वसंयोगनिवृत्तिः, तत उत्तरसंयोगोत्पादः, ततः पट
निष्पत्तिः । निष्पन्ने पटे क्षणान्तरे रूपादिगुणारंभः—रूपादिजन्मनि
पटस्य समवायिकारणत्वात् कारणस्य कार्यादवश्यं पूर्वकाल
भावित्वम्, अतो निष्पन्नोऽपि नूनमेकस्मिन् क्षणे नीरूपः पटो
भवतीति न तदैव प्रत्यक्षः—ततः क्षणान्तरे रूपोत्पादात् रूपवद्द्रव्य
मिन्द्रियसन्निकर्षात् प्रत्यक्षं भविष्यतीति अतिवहव एते क्षणाः ।
अतो न कार्यप्रत्यक्षत्वम् ॥


अनुमित्युत्पत्तौ । मध्ये परामर्शाङ्गीकारपक्षे चत्वारः क्षणाः, तदनङ्गीकारे तु
त्रयः । अन्यतः—पटप्रत्यक्षोत्पत्तौ । निष्पन्न इति । पटस्य निष्पत्तिमात्रादपि
न तत्प्रत्यक्षं, चाक्षुषप्रत्यक्षे रूपस्य कारणत्वेन तत्र रूपोत्पादस्यावश्यकत्वात्
इत्यर्थः । क्षणान्तरे—पटोत्पत्त्यनन्तरक्षणे । ननु नेदमनुभवसिद्धम्, पटः
उत्पन्नः, तत्र रूपं त्वनिष्पन्नमिति । तादृशस्य पटस्य केनापि कुत्राप्य
दर्शनात् । उत्पन्नः खलु पटः पटत्वविशिष्ट इव रूपादिविशिष्ट एवोत्पद्येत ।
अतः पटोत्पत्त्यनन्तरक्षण एव रूपोत्पत्तिर्न युक्तेत्यत्राह—रूपादिजन्मनीति ।
अयं भावः—कार्यसामान्यं प्रति द्रव्यं समवायिकारणं, अतश्च पटगतरूपं प्रति
पट एव समवायिकारणम् । कारणत्वं च नियतपूर्ववृत्तित्वम् । ततश्च पट
रूपोत्पत्तेः पूर्वक्षणे पटेन भाव्यमेव । तादृशस्य पटस्य कुत्राप्यदर्शनात्
इत्युक्तिरतिरमणीया ! रूपशून्यं पटं को वा पश्येत् ? ननु पूर्वक्षणे तन्तवः
अनन्तरं पटः, अनन्तरं पटे रूपं, अनन्तरं पटेन्द्रियसन्निकर्षः, अनन्तरं पटप्रत्यक्षं
इतीयति क्रमे तन्तुकालानन्तरं मध्यकाले पटस्याप्रत्यक्षत्वेऽऽपादिते कः समाधिः ।
न हि मध्ये किञ्चित्कालं पट एव न दृश्यत इत्यनुभवसिद्धमेतदिति चेत्;
एकस्मिन् क्षणे उत्पलपत्रशतभेदन इव कालस्यातिसूक्ष्मत्वेन मध्येऽन्तरा
लाग्रहणोपपत्तेः । अतः उत्पन्नं द्रव्यं क्षणमगुणं निष्क्रियं च तिष्ठति इति
सुष्ठूक्तम् । अतिबहवः—अष्टौ । एवञ्च अनुमितिश्चतुर्थक्षणे जायते,
प्रत्यक्षस्तु अष्टमक्षणे जायते । अनुमितिक्षणे पटस्याभावाञ्च न तत्प्रत्यक्षापत्तिः ।
अयमेव न्यायः कार्यस्थले सर्वत्र द्रष्टव्य इति ॥


I.341

नापि विधुरप्रत्ययादिना कार्यानुत्पत्तिः । अनुत्पन्नावयवक्रियत्व
विशेषणोपादानेन तद्विनाशाशङ्कनात् । क्रियातश्चोत्तरोत्तरकार्याणा
मवर्श्य भावित्वात् ॥


कारणात् योग्यतानुमानं न साधु


यदपि हेतुना यः समग्रेण इत्यादिना योग्यताऽनुमानं
व्याख्यातम्—तदप्यसाधु—स्वभावानुमानस्य निरस्तत्वात् ।
लोकश्च कारणादविकलात् कार्यमेव कल्पयति, न योग्यतामित्यलं
प्रसङ्गेन ॥


शेषवत्पदव्याख्यानम्


शेषवदिति—यत्र कार्येण कारणमनुमीयते—यथा नदीपूरेणो
परितने देशे वृष्टिरिति । अत्रापि वृष्टिमदुपरितनदेशसंसर्गलक्षणो
नदीधर्मः तद्धर्मेणैव विशिष्टेन पूर्णतादिनाऽनुमीयते । वृष्टिमत्पृष्ठ
देशसंसृष्टा इयं नदी—फेनिलकलुषत्वादिविशिष्टषूरोपेतत्वात्—
पूर्वोपलब्धैवंविधधुनीवत् ॥


अयं देशो वा वृष्टिविशिष्टदेशान्तरसंसृष्टः विशिष्टनदीपूर
वत्त्वेनानुमीयत इति प्राक्तनवैयधिकरण्यादिचोद्यचक्रस्येहापि नास्ति
प्रसरः ॥


तद्विनाशाशङ्कनादिति । तेन हि विशेषणेन विरोधिसामग्र्यभावः
प्रदर्शितः इत्यर्थः । ननु भवता विशेषणदाने किं विरोधिसामग्री बिभ्येत् ?
इत्यत्राह—क्रियात् इति । क्रियायाः क्षणचतुष्टयावस्थाननियमेन स्वकार्यस्य
चावश्यनिर्वर्तनीयत्वेन मध्ये क्रियान्तरं न प्रविशेत् । एकस्यां हि शाखायां
क्रियायामुत्पन्नायां क्रियायाश्चलनरूपत्वेन विभागपूर्वसंयोगनाशोत्तरसंयोगाः
अनतिक्रमणीया एव । ननु तत्क्रियाया अव्यवहितपूर्वक्षणे विरोधिक्रियायां सत्यां
कः प्रतीकारः ? इति चेत्, विरोधिक्रियाया अपि क्षणचतुष्टयावस्थानेन
उक्तयुक्तीनां तुल्यत्वात् ॥


अनुमीयते—इत्यनन्तरं तत् शेषवदिति पूरणीयम् । सिद्धे हि कारणे
नानुमेयं, असिद्धे खपुष्पवन्नानुमेयं
इत्यादिदूषणाभासं स्मरन्नाह—अत्रापीति ।
तद्धर्मेणैव—नदीधर्मेणैव ॥


विशिष्टेति । फेनिलकलुषत्वादिविशिष्टेत्यर्थः ॥


I.342

फलतत्त्वियं वाचो युक्तिः—कार्येण कारणमनुमीयते कारणेन
कार्यमनुमीयत इति; परमार्थतस्तु धर्मीं धर्मवत्त्वेन धर्मवाननुमीयत
इति स्थितिः । यदाह भट्टः श्लो. वा. 1-1-5 अनु. 24


स एव चोभयात्माऽयं गम्यो गमक एव च ।

असिद्धेनैकदेशेन गम्यः सिद्धेन बोधकः इति ॥

ननु सूत्रभाष्यादौ, कारणात् कार्यानुमानं पूर्ववत्, कार्यात् कारणानुमानं शेषवत्
इति कथ्यते; भवता तत्तद्धर्मविशिष्टस्य धर्मिणः, देशस्य वाऽनुमानं तदित्युच्यत
इति कथमिदमिति शङ्कायामाह—फलत इति । धर्मीत्यादि । कश्चिद्धर्मी
केनचिद्धर्मेण किञ्चिद्धर्मवाननुमीयत इत्यर्थः । स एवेत्यादि । सोऽयं पक्ष एव
उभयात्माहेतुविशिष्टस्वरूपः साध्यवत्स्वरूपश्चेति स एव गम्यः गमकश्च । एकस्यैव
कथमुभयमित्यत्राह—असिद्धेनेति । असिद्धेनैकदेशेन—धर्मेण, विशिष्टवस्तुन
एकदेशो हि विशेषणम्, सः गम्यः—साध्यः, सिद्धेन चैकदेशेन—धर्मेण सः
बोधकः—गमकः । अतश्च एकदेशविशिष्टश्च धर्म्येवात्रानुमीयते 27 श्लो.


अत्र रोधोपघातसादृश्येभ्यो व्यभिचारादनुमानमप्रमाणम् २-२-३७
नैकदेशत्राससादृश्येभ्योऽर्थान्तरभावात् ३७ इत्यत्र महर्षिणा यदनुमान
परीक्षणं कृतं तदत्रैव प्रसक्तत्वात्प्रदर्श्यते, न हि ग्रन्थकारेण सूत्रक्रम आद्रियते—
सूत्रयोश्चायमर्थः—कार्यात् कारणानुमानं न घटते । तद्धि, नदीपूरेण,
पिपीलिकाण्डसंचारेण मयूररुतेन वा वृष्ट्यनुमानम् । एतत्सर्वं व्यभिचरितमेव ।
नदीप्रबाहस्योपरिदेशे सेतुबन्धादिनिरोधादपि वृष्टिशून्यकाले प्रवहेत् नदी ।
नीडोपघातादपि पिपीलिकाण्डसंचारो दृश्यते । मयूरवत् मनुष्येण कूजनमपि
संभवेत् । अतो व्यभिचरितत्वात् कार्येण कारणानुमानं न संभवतीति प्रथम
सूत्रार्थः ॥


अत्र प्रतिविधीयते द्वितीयसूत्रेण—नेति । कुतः ? प्रकृतानुमानहेतुभूतस्य
नदीपूरस्य, पिपीलिकाण्डसंचारस्य, मयूरवाशितस्य च व्यभिचारिभ्यः
एकदेशत्राससादृश्येभ्यो विलक्षणत्वात् । रोधोपघाताज्जातः खलु प्रबाहः
एकदेशः—अल्पः, यावान् यथा च प्रभूतवर्षात् नदी प्रवहति न तथा रोधेन ।
वृष्टेः प्राक् पिपीलिकाण्डसंचारः यादृशः न तादृशः सार्वत्रिकः त्रासात् भवति ।
I.343

कार्यानुमाने दोषोद्धारः


यत्तु सेतुभङ्गहिमविलयनादिनाऽपि नदीपूरोपपत्तिर्दृष्टेति—
तत्राप्युच्यते—


आवर्तवर्तनाशालिविशालकलुषोदकः ।

कल्लोलविकटास्फालस्फुरत्फेटच्छटाञ्चितः ॥ २४६ ॥

वहद्बहलशैवालवनशाद्बलसङ्कुलः ।

नदीपूरविशेषोऽपि शक्येत न वेदितुम् ॥ २४७ ॥

प्रमातुरपराधोऽयं विशेषं यो न पश्यति ।

नानुमानस्य दोषोऽस्ति प्रमेयाव्यभिचारिणः ॥ २४८ ॥

रोधोपघातसादृश्यव्यभिचारनिबन्धनम् ।

अनुमानाप्रमाणत्वमतो वक्तुमसांप्रतम् ॥ २४९ ॥

पारंपर्येण वृष्टिश्च नदीपूरस्य कारणम् ।

पतद्धनपयोबिन्दुसन्दोहस्यन्दनक्रमात् ॥ २५० ॥

यादृशं मयूरवाशितं, न तादृशं पुरुषस्य । मन्दमतिमिरेषां वैलक्षण्याग्रहणे
पुरुषस्यापराधोऽयं न हेतोः । अतः विलक्षणात् कार्यात् कारणानुमानं युक्तमेवेति
द्वितीयसूत्रार्थः ॥


तदेतत्सर्वं संगृह्णाति—त्त्वित्यादि । प्रतिरुद्धस्य जलस्य प्रवहणहेतुः
उक्तः—सेतुभङ्गः । एवमन्यदप्यूह्यमित्याह—हिमेत्यादि । सेतुभंग
प्राबाहापेक्षया प्रवर्षजवृष्टेर्वैलक्षण्यमाह—आवर्तेत्यादि । वर्तना—स्थितिः ।
ननु वृष्टेः प्रवाहस्य च कार्यकारणभावो नास्त्येव । वर्षणं नाम आका
शात् जलकणिकापतनम् । तस्य च कथं महाप्रबाहहेतुत्वम् । वृष्टिः खलु
भूप्रदेशे । तस्मात्प्रसृतानां कुल्यादीनां नद्यां पतने नदी प्रवहते । अतः
उभयोः कार्यकारणभावाभावात् कथमेतदनुमानम् ? इत्यत्राह—पारंपर्येणेति ।
पारंपरिकत्वमात्रान्न कारणत्वहानिः, व्यवहाराधीनत्वात् कार्यकारणभावस्य ।
व्यवहरति च तथैव सर्वोऽपि लोक इत्यर्थः ॥


I.344

सामान्यतोदृष्टपदव्याख्यानम्


सामान्यतोदृष्टं तु—यत् अकार्यकारणभूताल्लिङ्गात् तादृशस्यैव
लिङ्गिनोऽनुमानम्—यथा कपित्थादौ रूपेण रसानुमानम् । रूप
रसयोः समवायिकारणमेकं कपित्थादिद्रव्यम्, न तु तयोरन्योन्यं
कार्यकारणभावः ॥


शाक्यदृष्ट्याऽपि वर्तमानयोः क्षणयोः इतरेतरकार्यकारणता
न सम्भवत्येव ॥


धर्मिणश्च रूपवत्त्वेन रसवत्ताऽनुमानात् असिद्ध्यादिचोद्यानां
पूर्ववदनवकाशो वक्तव्यः ॥


भाष्यप्रदर्शितसामान्यतोदृष्टानुमानविमर्शः


यत्पुनर्भाष्यकारेण भास्करस्य देशान्तरप्राप्त्यागत्यनुमानमुदा
हृतं—तदयुक्तम्—देशान्तरप्राप्तेर्गतिकार्यत्वात् कार्येण कारणानु
मानं शेषवदेवेदं स्यात् ॥


तादृशस्य—कार्यकारणभावशून्यस्य ॥


शाक्येत्यादि । धर्मधर्मिभावमनभ्युपगच्छतोऽपि बौद्धस्य रूपक्षण
रसक्षणयोः परस्परं कार्यकारणभावो न सम्मत इति चेत्, धर्म्यतिरिक्तं
धर्ममभ्युपगच्छतां सैद्धान्तिकानां का कथेति भावः ॥


धर्मिण इत्यादि । कश्चिद्धर्मी केनचिद्धर्मेण किञ्चिद्धर्मवानेवानुमीयत्
इत्यादि पूर्वमेवोक्तम् ॥


गत्यनुमानं—एकस्मिन् देशे दृष्टस्य देशान्तरे दर्शनं तद्वस्तुनः क्रिया
मनुमापयति । प्रातः पूर्वदिशि दृष्टस्य सूर्यस्य सायं पश्चिमदिशि दर्शनं सूर्यस्य
देशान्तरप्राप्तिमूलकं, तच्च गतिपूर्वकमिति—सूर्यः गतिमान् पूर्वकालिक
दर्शनावच्छेदकदेशभिन्नदेशावच्छेदेन दर्शनविषयत्वात्—इत्यनुमानं भाष्ये
उक्तम् ॥


I.345

अपि च देशान्तरप्राप्तिर्देशान्तरसंयोगः । न च दशशतांशो
र्देशान्तरेण शैलादिना संयोगः संभवति । नभसा तु भवन्नपि दिशा
वा दुर्लक्ष्यः, प्रत्यक्षेतरवृत्तित्वात्; पवनवनस्पतिसंयोगवत्
मातृगर्भसंयोगवद्वा ॥


अथ देशान्तरे तरणिदर्शनं हेतुरुच्यते, तस्यापि गतिकार्यता
पारम्पर्येण विद्यत एव—गत्या प्राप्तिः, प्राप्त्या च तत्र दर्शनमिति ॥


अथ देशान्तरे तपनदर्शनं पक्षीकृत्य दर्शनत्वेन च, दर्शन
शब्दवाच्यत्वेन वा तस्य गतिपूर्वकत्वमनुमीयते—देशान्तरे दिवा
करदर्शनं गतिपूर्वकम्, देशान्तरदर्शनत्वात्—तच्छब्दवाच्यत्वाद्वा,
देवदत्तदेशान्तरदर्शनवदिति; तथापि पारम्पर्येण गतिकार्यता न
निवर्तत एव । न हि दर्शनत्वं गोत्वादिवत् सामान्यमस्ति; किन्तु
भावप्रत्ययेनात्र दर्शनोत्पादिका शक्तिरुच्यते । सा च नातीन्द्रिया


वस्तुतः सूर्यस्य देशविशेषप्राप्तेर्हेतुत्वमेवासंभवीत्याह—अपि चेति ।
दशशतांशुः—सहस्रकिरणः सूर्यः । उदयाचलाद्यभिप्रायेण—शैलादिनेत्यु
क्तम् । अयमर्थः—अत्र देशपदार्थः भूविशेषः ? उताकाशः ? उत दिक् ?
नाद्यः तयोस्सम्बन्धाभावात् । नान्त्यौ, आकाशदिशोरतीन्द्रियत्वेन
संयोगिनोरन्यतरस्यातीन्द्रियत्वे तत्संयोगस्याप्यतीन्द्रियत्वात् । वायुवृक्ष
संयोगवत्, मातृगर्भसंयोगवद्वा । तथा च देशान्तरप्राप्तेरतीन्द्रियत्वेन न तेन
सूर्यगत्यनुमानं संभवेत् । नभसा दिशा वा तु—इत्यन्वयः ॥


अथेति । देशपदार्थः यः कोऽपि भवतु, देशान्तरे दृष्टस्य देशान्तरे
दर्शनं तु दुरपह्नवमित्यर्थः ॥


पूर्वोक्तदिशा देशान्तरस्यैवातीन्द्रियत्वे देशान्तरदर्शनमप्यसंभवीत्यतः—
दर्शनशब्दवाच्यत्वेनेति । न ह्यत्र गतिपूर्वकत्वस्य दर्शनस्य च कार्यकारण
भावोऽस्ति, दर्शनं प्रतीन्द्रियादेरेव कारणत्वादिति भावः । गतिकार्यतेति ।
हेतुभूतस्य दर्शनत्वस्येति शेषः । पारंपर्येण गतिकार्यत्वं दर्शनत्वस्योपपादयति—
न हीति । दर्शनत्वं—देशान्तरे दिनकरदर्शनम् । तथा च ज्ञानत्वं
प्रत्यक्षत्वं वा जातिरूपं भवेदपि, देशान्तराधिकरणकदिनकरविषयकचाक्षुषत्वरूपं
I.346

नित्या काचित्; अपि तु स्वरूपसहकारिस्वभावैवेति दृश्यमानं
स्वरूपमपि शक्तिवर्गे पतति । दृश्यमानं च देशान्तरप्राप्त्यात्मक
मिति गतिकार्यम् ॥


एवं दर्शनशब्दवाच्यत्वेऽपि हेतूकृते वक्तव्यम् । गत्या देशान्तर
प्राप्तिर्जन्यते, तया तत्र दर्शनम्, तेन शब्दप्रयोगः, स एव वाच्यत्व
मिति भावप्रत्ययेनोक्तः । तस्मात् सर्वथा गतिकार्यत्वानपायात्
शेषवदेवेदमनुमानम् ॥


तदेतद्भाष्यकारीयमुदाहरणमीदृशम् ।

रूपाद्रसानुमानं तु तस्माद्युक्तमुदाहृतम् ॥ २५१ ॥

अकार्यकारणप्रायहेतूनां च प्रदर्शितः ।

भदन्तकलहेऽस्माभिरुदाहरणविस्तरः ॥ २५२ ॥

प्रकारान्तरेण सूत्रव्याख्यानम्


एवं तावन्मतुब्व्याख्यया त्रैविध्यमनुमानस्य वर्णितम् । एतत्तु
फल्गुप्रायमिव मन्यन्ते । नियमात्मकसम्बन्धबलादेव लिङ्गस्य गम
कत्वमुक्तम्, न कार्यादिस्वरूपेण । तत्किमीदृशत्रैविध्येन दर्शितेनेति
वतिप्रत्ययमाश्रित्यान्यथा व्याचक्षते ॥


तादृशदर्शनत्वं तु नीलघटत्वादिवत् न जातिः, अन्यथा देवदत्तदेशान्तरदर्श
नत्वादीनामपि जातिरूपताप्रसङ्गः ॥


शेषवदेवेति । वाचस्पतिमिश्रोऽप्येवमेवाह । परन्तु सूर्यगतेः
नित्यातीन्द्रियत्वेन न कदापि तत्र गतिदेशान्तरप्राप्त्यादीनां कार्यकारणभावः
गृहीतुं शक्य इत्येतावन्मात्रेण तस्य सामान्यतोदृष्टत्वमुक्तं भाष्ये । उत्तर
त्रापि पु. 348 इदं द्रष्टव्यम् ॥


भदन्तकलहे—बौद्धमतनिराकरणे पु. 307


न कार्यादीति । तादात्म्यतदुत्पत्तिभ्यामनुमानं बौद्धानामेव, तत्तु
खण्डितमेवेति वस्तुगस्या सन्नपि कार्यकारणभावः प्रकृतेऽनुपयुक्त एवेत्यर्थः ॥


I.347

पूर्ववदिति । अत्र सम्बन्धग्रहणकाले लिङ्गलिङ्गिनोः प्रत्यक्षतः
स्वरूपमवधार्य पुनस्तादृशैव लिङ्गेन तादृगेव लिङ्गी गम्यते, तत्
पूर्वेण तुल्यं वर्तत इति पूर्ववदनुमानम् । यथा—महानसे धूमाग्नी
सहचरितौ दृष्ट्वा पुनः पर्वते धूमाग्न्यनुमानम् ॥


पूर्ववत् इत्यत्र वति प्रत्ययोपपादनम्


ननु ! प्रत्यक्षप्रतीत्या विषयगतसकलविशेषसाक्षात्करणक्षमया
तुल्या नानुमानिकी मतिरिति कथं क्रियातुल्यत्वम् ? तदभावात् कथं
वतिः ? सत्यमेवम्—तथाऽपि वह्नेरेव तादृशस्य वैलक्षण्यापादक
विशेषावच्छिन्नस्य लिङ्गेन ग्रहणात् अदूरविप्रकर्षेण क्रियातुल्यत्व
मुपपत्स्यते ॥


पूर्वेणेति—तथा च तेन तुल्यं क्रिया चेद्वतिः इति हि वतिः ॥


ननु क्रिया चेत् इति सूत्रणात् क्रियाप्रयुक्ततौल्यमेव तत्र विवक्षितम् ।
प्रकृते च प्रत्यक्षस्य विषयप्रकाशनक्रिया यादृशी न तादृशी अनुमानस्य ।
प्रत्यक्षं हि स्वविषयं विशदतममुपस्थापयेत्, अनुमानं तु विशदतस्मेव ।
प्रत्यक्षस्यापरोक्षज्ञानत्वात् प्रत्यक्षेण वह्निग्रहणकाले तद्गतपरिमाणरूपस्पर्श
संख्यादिविशिष्टो भासते, न तथाऽनुमाने । अनुमानं हि परोक्षप्रमितिजनकम् ।
अतस्तुल्यक्रियत्वाभावान्न तुल्यार्थे वतिः प्रकृते युज्यते इति शङ्कते—नन्विति ।
सत्यमिति । अयं भावः—पुरोवस्थितधर्मिणि यावन्तो धर्मा वर्तन्ते ते
सर्वेऽपि न प्रत्यक्षेऽपि भासन्ते । अतीन्द्रियाणां गुरुत्वादीनां तत्र भाना
संभवात् । ऐन्द्रियिकेष्वपि न सर्वे भासन्ते, किन्तु पुरुषापेक्षानुगुणमेव । न हि
वह्निप्रत्यक्षत्वस्थले सर्वत्र तद्गततार्णत्वादिकमपि भासते । एवञ्च यावदपेक्षित
धर्मविशिष्टो धर्मी प्रत्यक्षे भासते । अनुमितावपि तादृश एव भासते ।
प्रत्यक्षदृष्टवह्निसजातीयवह्निः खल्वनुमेयः । एवञ्च प्रत्यक्षानुमानयोरिदमेकमेव
परं वैलक्षण्यं, आद्यं अपरोक्षजनकं, द्वितीयं परोक्षजनकम् । एवं स्वरूप
वैलक्षण्ये सत्यपि विषयप्रकाशनांशे नात्यन्तवैलक्षण्यम्, संशयविपर्ययाद्यतीत
प्रमारूपत्वादुभयोरपि । अतश्च प्रत्यक्षानुमानयोः विप्रकर्षः—वैलक्षण्यं विषय
प्रकाशनांशे—नातीव वर्तत इति पूर्ववत्—प्रत्यक्षतुल्यं अनुमानं भवत्येव ॥


I.348

शेषवत्पदव्याख्यानम्


शेषवन्नाम् परिशेषः । स च प्रसक्तप्रतिषेधे अन्यत्राप्रसङ्गात्
शिष्यमाणे संप्रत्ययः । यथा—क्वचित्प्रदेशे धूमेनाग्निमात्रेऽनुमिते,
किमिन्धनोऽयमग्निः इति विमर्शे प्रसक्तानां तृणपर्णकाष्ठादीनां
अप्रसङ्गाच्च गोमयेन्धनोऽग्निः परिकल्प्यते । यथा वा—शब्दे द्रव्य
कर्मत्वप्रतिषेधात् सामान्यादावप्रसङ्गाच्च गुणत्वानुमानं वक्ष्यते ॥


सामान्यतोदृष्टपदव्याख्यानम्


सामान्यतोदृष्टं तु—यत्र सम्बन्धकालेऽपि लिङ्गिस्वरूपम
प्रत्यक्षं—नित्यपरोक्षमेव सामान्यतो व्याप्तिग्रहणादनुमीयते—यथा
शब्दाद्युपलब्ध्या श्रोत्रादि करणम् । इन्द्रियाणामतीन्द्रियत्वात् न
कदाचित् प्रत्यक्षगम्यत्वम् । अथ च छेदनादिक्रियाणां परश्वधादि
करणपूर्वकत्वेन व्याप्तिग्रहणात् शब्दाद्युपलब्धिक्रियाणां करण
पूर्वकत्वमनुमीयते ॥


अनुमानानां प्रत्यक्षपूर्वकत्वेऽपि त्रिविधत्वोपपादनम्


अत्र वतिव्याख्याने चोदयन्ति । पूर्ववदेवमेकमनुमान
मुक्तं स्यात्, न त्रिविधम् । यतो न तावदनवगतव्याप्तिकं लिङ्गं


अग्निमात्रे—अग्निसामान्ये । गोमयं—गोश्च पुरीपे इति मयट् ।
प्रकृते शुष्कं गोमयं—करीषो विवक्षितः । अयं परिशेषः प्रत्यक्षमूलक एव
बहुल इत्यतो दृष्टान्तान्तरमाह—द्रव्येत्यादि । शब्दो गुणः द्रव्यादिषट्
कानात्मकत्वे सति पदार्थत्वात् इति परिशेषानुमानम् । तत्र, शब्दो न द्रव्यं,
एकद्रव्यसमवेतत्वात्; न कर्म स्वसजातीयशब्दान्तरजनकत्वात्; न सामान्यादिः
जातिमत्त्वात् इत्यनुमानं ज्ञेयम् । विस्तरस्तु तत्प्रकरणे वक्ष्यते ॥


सम्बन्धकाले—सम्बन्धग्रहणकाले । सम्बन्धः—व्याप्तिः । कदा
चित्—कदाचिदपि । छेदनादि परश्वधादि इति निदर्शनार्थम् । तथा च
क्रियाणां करणपूर्वकत्वनियमादित्यर्थः । क्रिया—धात्वर्थः ॥


एवं—पूर्ववत्पदस्य एवं व्याख्याने । पूर्वोक्तं सर्वमप्यनुमानं
I.349

गमकं भवति । विशेषाणामनन्तत्वेन च तदन्वयव्यतिरेकयोर्दुरवगम
त्वात् सर्वत्र सामान्येनैव व्याप्तिग्रहणम् । यच्चेत्थं व्याप्तिज्ञानं तत्तुल्यं
त्रितयेऽपि । अतः सर्वं पूर्ववदेव स्यात्; वतेः सर्वत्र संभवात् ॥


तदेतदयुक्तम्—अवान्तरविशेषस्य सुस्पष्टस्य भावात् ।
व्याप्तिपूर्वकमनुमानम् इत्येतावता यद्येकविधमुच्यते—तत्सत्यमेवं
प्रकारमेवेदम् । तस्मिन् सत्यपि तु साम्ये भेदान्तरसंभवात्
त्रैविध्यमस्य प्रतिपाद्यते ॥


तथा हि—धूमज्वलनयोः पूर्वं प्रत्यक्षेण ग्रहणात् इदानीं तेनैव
धूमेन स एवाग्निरनुमीयत इति पूर्ववदिदमनुमानमुच्यते—यत्
प्रत्यक्षपूर्वकमिति प्रसिद्धम् ॥


प्रत्यक्षपूर्वकमेव दृष्टम्, पूर्वदर्शनानुरोधेनैवानुमानप्रवृत्तेः सर्वं पूर्ववदेवेति इतरे
अनुमाने नावशिष्येते इत्यर्थः । ननु पूर्ववदनुमानं वह्निधूमादिव्यक्तिविषयकं,
सामान्यतोदृष्टं तु न व्यक्त्याश्रितं, किन्तु सामान्याश्रितमित्यस्ति विशेष इति
चेत् तत्राह—विशेषाणामिति । वह्निधूमव्यक्तीनामसर्वज्ञदुर्विज्ञेयत्वेन
तत्रापि व्याप्तिः सामान्याश्रितैवोपपादिता पूर्वमेव ॥


अवान्तरेत्यादि । अयं भावः—पूर्ववत् पदेन प्रत्यक्षपूर्वकत्वमात्रं
नोच्यते; तस्य सामान्यलक्षणरूपत्वेन अनुमानत्रयानुगतत्वात् । किन्तु प्रत्यक्ष
पूर्वकत्वेऽपि किञ्चित्किञ्चिद्वैलक्षण्यात् विभागः प्रदर्शितः । विभागस्थले सर्वत्रापि
खल्वेवमेव । तत्र यज्जातीययोर्व्याप्तिदर्शनं तज्जातीयस्यैव साध्यस्य सिद्धिः
पूर्ववदित्युच्यते । महानसे दृष्टजातीयस्यैव वह्नेः पर्वतेऽनुमानात् । नात्र साध्यं
सर्वदाऽतीन्द्रियम्; व्याप्तिग्रहणवेलायां, पर्वतसमीपगमने वा प्रत्यक्षमेव तत् ।
सामान्यतोदृष्टानुमाने तु साध्यं सर्वदाऽतीन्द्रियमेव, दृष्टसजातीयमपि न । न हि
वास्यादीनां छेदनकरणत्वं यादृशं तादृशमेव उपलब्धिकरणत्वं श्रोत्रस्य । छेदन
क्रियातोऽत्यन्तविलक्षणा हि ज्ञानरूपक्रिया । अतस्तत्र दृष्टसजातीयत्वं नास्त्येव ।
न हि यो धूमवान् स वह्निमान् इतिवत् यः शब्दसाक्षात्कारः सः श्रोत्रकरणकः
इति हेतुसाध्यव्यक्तयोर्व्याप्तिरवगन्तुं शक्यते, श्रोत्रेन्द्रियस्यातीन्द्रियत्वात् ।
तथा च पूर्ववदनुमाने व्यक्त्योरेव व्याप्तिः, अनुगमकतया तु सामान्यं प्रविशते ।
सामान्यतोदृष्टानुमाने तु सामान्यमेव पुरतो भाति, आश्रयतया परं
व्यक्तिभानमिति अनुभववैलक्षण्यमस्तीति । परिशेषानुमानस्य वैलक्षण्यं
तु स्पष्टमेव ॥


I.350

ननु ! धूमान्तरेण वह्न्यन्तरानुमानं किं न प्रत्यक्षपूर्वकम् ? क
एकमाह—न पूर्ववदिति ! कथं तर्हीदमुच्यते—तेनैव धूमेनेति ?
जात्यभिप्रायमेतदुच्यते, न व्यक्त्यभिप्रायम् ॥


ननु ! सामान्यतस्तर्हि तत्परिच्छेदात् सामान्यतोदृष्टमेवेदं
स्यात्—न—सामान्यतोदृष्टस्य नित्यपरोक्षानुमेयैकविषयत्वात् ॥


प्रसक्तप्रतिषेधादिना च नियतसाध्यपरिच्छेदहेतुः परिशेषानु
मानमुच्यते—यथा गोमयेन्धनदहनानुमानमुदाहृतम्, शब्दे वा
गुणत्वकल्पनम् ॥


सामान्यतोदृष्टं तु नित्यपरोक्षविषयमुदाहृतमेव श्रोत्राद्यनु
मानम् । तदेवं भेदसंभवात् त्रिविधमनुमानमिति युक्तम् ॥


एकस्मिन्नपि विषये त्रिविधानुमानसंभवः


आस्तां वा उदाहरणभेदः । एकत्राप्युदाहरणे त्रैविध्यमभिधातुं
शक्यते । यथा—इच्छादिकार्यं-आश्रितम्-कार्यत्वात्-घटवत् इत्या
श्रयमात्रे साध्ये पूर्ववदनुमानम् । प्रसक्तशरीरेन्द्रियाद्याश्रयप्रति-


तेनैव धूमेन इत्यादेस्तद्व्यक्तिपरत्वं भ्राम्यन् पृच्छति—नन्विति ॥


अत्र आदिपदेन अन्यत्राप्रसङ्गस्य ग्रहणम्, प्रतिषेधमात्रं तु तुच्छस्यापि
वर्तते । यथेत्यादि । अयं वह्निः गोमयेन्धनः, तृणाद्यजन्यत्वे सति
इन्धनजन्यत्वात्; शब्दः, गुणः, द्रव्याद्यनात्मकत्वे सति प्रमेयत्वात् इत्यादौ हि
हेतुसाध्यव्यक्त्योर्व्याप्तिरेव नास्ति, नापि अतीन्द्रियसाध्यकत्वम् । परिशेष
त्वरूपं तु तत्प्रकरणे १० आह्निके परीक्ष्यते ॥


इच्छादीति । इच्छादिकं आत्माश्रितं आत्मव्यतिरिक्तानाश्रितत्वे सति
आश्रितत्वात् इति परिशेषानुमाने विशेष्यासिद्धिवारणाय—इच्छादि, आश्रितं,
कार्यत्वात् घटवत् इति प्रयोगे इदं पूर्ववदनुमानम् । अत्र—यदितरानाश्रयत्वे
सति आश्रितत्वं यत्र तत्र तदाश्रितत्वं, कपालेतरानाश्रितः आश्रितश्च घटः
कपालाश्रितः इति व्याप्तेः प्रयोगात् सामान्यतोदृष्टमपि भवति, विशेषव्याप्ते
र्दुर्वचत्वात्, साध्यनिविष्टः आत्मा हि अतीन्द्रियः । यद्यपि तत्तदात्मा
तस्य तस्य प्रत्यक्षः, अथापि आत्मसामान्यस्यैव साध्ये निविष्टत्वात्तदती

I.351

षेधेन विशिष्टाश्रयकल्पने तदेव परिशेषानुमानम् । अनुमेयस्य
नित्यपरोक्षत्वात् तदेव सामान्यतोदृष्टं च


तर्हि परिशेषानुमानस्य सामान्यतोदृष्टस्य च को विशेषः ?
उच्यते—परिशेषानुमानप्रवृत्तावन्यः पन्थाः; सामान्यतोदृष्ट
स्यान्यः । इच्छादिकार्यं देहादिविलक्षणाश्रयम्—शरीरादिषु बाधक
प्रमाणोपपत्तौ सत्यां कार्यत्वादिति सामान्यतोदृष्टस्य क्रमः । परि
शेषानुमानस्य त्वित्थं प्रवृत्तिः—इच्छादेराश्रयत्वेन प्रसक्तानि शरीरे
न्द्रियमनांसि निषिध्यन्ते, दिक्कालादौ च तत्प्रसङ्गो नास्ति, तत्पारि
शेष्यादात्मैव तदाश्रय इति । परिशेषानुमाने च सर्वत्र नैष नियमः—
साध्यस्यातिपरोक्षत्वमिति;—गोमयाग्निकल्पनादिदर्शनात् । सामा
न्यतोदृष्टं तु नित्यपरोक्षविषयमेवेति सूक्तं त्रैविध्यम् ॥


प्रभाकरोक्तसामान्यतोदृष्टानुमानम्


अपरे पुनः अदृष्टस्वलक्षणविषयं शक्तिक्रियानुमानं सामा
न्यतोदृष्टमुदाहरन्ति; देवदत्तादावपि क्रियायाः परोक्षत्वात् ।


न्द्रियत्वम् । विशिष्टाश्रयः—आत्मरूपः ॥


को विशेष इति । हेतुसाध्यव्यक्त्योर्व्याप्त्यग्रहणेन पूर्ववतो वैलक्षण्य
सत्त्वेऽपि सामान्यतोदृष्टान्न विशेषः, अतीन्द्रियसाध्यकस्य तौल्यादित्यर्थः ।
अन्यः पन्था इत्यादि । प्रसक्तप्रतिषेधः परिशेषानुमानस्यासाधारणं कृत्यम् ।
तेन शिष्यमाणे संप्रत्ययश्च । सामान्यतोदृष्टे तु अन्यप्रसक्तिरेव न इति विशेषः ॥


शबरस्वामिना—तत्तु द्विविधं; प्रत्यक्षतो दृष्टसम्बन्धं, सामान्यतो दृष्टसम्बन्धं
इत्युक्तं भाष्ये । एतद्व्याख्यातृभिः प्रभाकरमिश्रैः बृहत्यां—अदृष्टस्वलक्षण
विषयमनुमानमस्ति क्रियादिषु
इत्युक्तम् । बृहतीव्याख्यातृभिः शालिकनाथैश्च—
क्रियादिषु क्रियायां शक्तौ च इत्यनेन बृहत्युक्तेन आदिपदेन शक्तेस्संग्रहः
प्रदर्शितः । प्रकरणपञ्चिकायां च अयमर्थः विस्तरेण निरूपितः । एतत्सर्व
मालोढ्याह—अपरे पुनरिति । स्वलक्षणं—स्वासाधारणं स्वरूपम् । ननु
भाष्ये सामान्यतोदृष्टसम्बन्धं यथा—देवदत्तस्य गतिपूर्विकां देशान्तरप्राप्ति
मुपलभ्यादित्यगतिस्मरणम्
इति कथनात् देवदत्तक्रियायाः प्रत्यक्षत्वमुक्तम् ।
तत् कथं क्रियाया अनुमेयत्वम् ? इत्यत्राह—देवदत्तादावपीति । संख्या
I.352

चलतीति प्रत्यये हि न देवदत्तस्वरूपातिरिक्तक्रियातत्त्वप्रतिभासः ॥


य एव देवदत्तात्मा तिष्ठत्प्रत्ययगोचरः ।

चलतीत्यपि संवित्तौ स एव प्रतिभासते ॥ २५३ ॥

अविरलसमुल्लसत्संयोगविभागप्रबन्धविषयत्वाच्चलतीतिप्रत्य
यस्य न सर्वदा तदुत्पादः ॥


कथं तर्हि नित्यपरोक्षे क्रियास्वलक्षणेऽनुमानं क्रमत इति चेत् ?
कार्यस्य कादाचित्कत्वेन कारणपूर्वकत्वात् परिदृश्यमानस्य द्रव्य
स्वरूपस्य कारणत्वे सर्वदा कार्योत्पादनप्रसङ्गात् सर्वदा तत्स्वरूप
सद्भावात्, न च सर्वदा कार्यमुत्पद्यत इति तदतिरिक्तक्रियानुमानम् ॥


भावात् 1-1-20 इति सूत्रभाष्ये