I.397

सूत्रयोजनायां पक्षान्तरम्


अन्ये तु ब्रुवते—युक्तमुपदेशपदमेव शब्दलक्षणम् । युक्तं
च तन्निश्चयार्थमाप्तग्रहणम् । पूर्वसूत्रोपात्तविशेषणपदानुवृत्तिस्तु
नोपयुज्यते, सामान्यलक्षणानन्तरं विशेषलक्षणप्रक्रमात् । सामान्य
लक्षणेन च स्मृत्यादिजनकसकलप्रमाणाभासव्युदासे कृते सजातीय
प्रत्यक्षादिव्यदच्छेद एव केवलमिदानीं वक्तव्यः । तत्र च पर्याय
तया पर्याप्तमुपदेशपदमेव बुद्ध्यादिपदवदिति किं विशेषणानुवृत्ति
क्लेशेन ? इति ॥


आप्तपदमपि लक्षणघटकमिति पक्षः


अपर आह—अनवलम्बितसामान्यलक्षणानुसरणदैन्यमनध्या
हृतप्राक्तनविशेषणपदमाप्तोपदेशश्शब्दलक्षणम् । न चाकारकेण
शब्दान्तरकारिणा वा स्मृतिजनकेन वा संशयाधायिना वा शब्देन
किञ्चिदुपदिश्यत इति निर्वचनसव्यपेक्षात् उपदेशग्रहणादेव
तन्निवृत्तिः सिद्धा । मिथ्योपदेशे तु रथ्यापुरुषादिवचसि विपरीत
प्रतीतिकारिणि प्रसङ्गो न निवर्तत इति तत्प्रतिक्षेपार्थमाप्तग्रहणम् ।
ऐतिह्ये यथार्थप्रतीतिहेतावाप्तानुमानान्न प्रमाणान्तरत्वमिति ।
तस्माद्यथाश्रुतमेव सूत्रं शब्दलक्षणार्थं युक्तम् ॥


ऐतिह्यस्य अज्ञातप्रवक्तृकत्वेन आप्तोपदेशरूपत्वाभावात् अतिरिक्तप्रमाणताऽ
पत्तिः । सूत्रे तु चत्वार्येव प्रमाणानि निर्दिष्टानि । तेन गम्यते आप्तपदं न
लक्षणघटकमभिमतं सूत्रकर्तुरिति भावः ॥


अन्ये त्वित्यादि । प्रमाणसामान्यलक्षणेनैव अकारकशब्दादावतिप्रसङ्ग
वारणात् न साध्यसाधनादिपदानामाकर्ष इत्याशयः । पर्यायपदनिर्देशेन कथं
लक्षणप्राप्तिः ? इति शङ्कायां सूत्रकारस्येयं शैलीत्यत्र निदर्शनमाह—बुध्यादीति ।
बुद्धिरुपलब्धिर्ज्ञानमित्यनर्थान्तरम् इतिवदित्यर्थः । शिष्टं बुद्धिपरीक्षायामेव
द्रष्टव्यम् ॥


अनवलम्बित—इत्यादिनाऽनुपदोक्तपक्षवैलक्षण्यं, अनध्याहृत—इत्या
दिना प्रथममुपपादितपक्षवैलक्षण्यम् । न च उपदिश्यते इत्यन्वयः ।
प्रसंगः—अतिप्रसङ्गः । आप्तानुमानादिति । अत एव खलु वेदोप