II.144

स्फोटवादस्य नैयायिकप्रतिकूलत्वम्


ननु ! एवमस्तु । स्फोटोऽन्य एवार्थप्रतिपादको भवतु । का
क्षतिर्नैयायिकानाम् ? कथं न क्षतिः ! आप्तप्रणीतत्वेन हि शब्दस्य प्रमाण्यं
तैरुक्तम् । स्फोटस्य च नित्यत्वेन नाप्तप्रणीतत्वम् । अतश्च यस्यानि
त्यत्वं वर्णात्मनः शब्दस्य साधितम्, नासावर्थप्रतीतिहेतुः । अतो न
प्रमाणम् । यश्चार्थप्रतीतिहेतुः स्फोटात्मा शब्दः, तस्य नानित्यत्वम्, न
चाप्तप्रणीतत्वमिति797 अस्थाने नैयायिकाः क्लिष्टा भवेयुः । तस्मादनि
त्यानां वर्णानामेव वाचकत्वं प्रतिष्ठापनीयम् । पराकरणीयश्च स्फोट
इति ॥


वर्णा एवार्थप्रत्यायका इति प्रतिज्ञा


तदुच्यते—गकारादिवर्णावगमे सत्यर्थप्रतीतेर्भावात्, तदभावे
चाभावात् तेषामेवार्थप्रत्यायनसामर्थ्यम् । त एव च श्रवणकरणकावगम
गोचरतया शब्दव्यपदेशभाज इति न प्रतीत्यनुपारूढः स्फोटो नाम शब्दः
कश्चित् प्रत्यक्षानुमानातीतः परिकल्पनीयः ॥


अनित्यानां वर्णानामर्थप्रत्यायकत्वाक्षेपः


आह—कथमेवं भविष्यति ? दूरापेता इमे मनोरथाः । कुतो
वर्णानामर्थप्रत्यायकत्वम् ? ते हि वर्णा गकारादयः अर्थं प्रतिपादयन्तः
समस्ताः प्रतिपादयेयुः ? व्यस्ता वा ? न तावद्व्यस्ताः; एकैकवर्णाकर्णने
सत्यप्यर्थप्रतीतेरनुत्पादात् । सामस्त्यं वर्णानां नास्त्येव । तद्धि सत्ता

  1. शब्दनित्यत्ववत् स्फोटनित्यत्वादिकमपि न वेदप्रामाण्योपपादकम् । इतर व्यावृत्तमीश्वरोपदिष्टत्वमेव तदुपपादकं भवेत् । वेदप्रामाण्यसमर्थनमेव हि न्याय शास्त्रस्य परम उद्देशः ॥