II.262

पाणिनिव्याकरणवैशिष्ट्यम्


आदृतमस्खलितव्यवहारैः

1027भोगिमतं श्रुतसङ्गिभिरार्यैः ।

व्याकरणं कथमेतदनादि

प्राकृतलक्षणसाम्यमुपेयात् ॥

शब्दप्रामाण्यनिगमनम्


एवं मृषात्वमुदगीयत येन येन—

च्छिद्रेण कल्पितपिशाचरवैरनार्यैः ।

तत्तत्समग्रमपसारितमित्यतश्च

प्रामाण्यमप्रतिहतं स्थितमागमानाम्1028

प्रमाणविचारनिगमनम्


इति प्रमाणानि यथोपदेशं

एतानि चत्वारि परीक्षितानि ।

प्रवन्वतां संव्यवहारमेभिः

सिध्यन्ति सर्वे पुरुषार्थसार्थाः ॥

इति जयन्तभट्टकृतौ न्यायमञ्जर्यां षष्ठमाह्निकम्


  1. भोगी—शेषः—तदंशभूतः पतञ्जलिः ॥

  2. सर्वमप्येतद्धि वेदप्रमाण्मयसंरक्षणाय ॥