II.145 मात्रेण वा स्यात् ? प्रतीयमानत्वेन वा ? नैयायिकपक्षे तावत् सत्तया
यौगपद्यमविद्यमानम्, आशुविनाशिनः शब्दस्य दर्शितत्वात् ॥


वर्णानां नित्यत्वेऽपि अर्थप्रत्यायकत्वासंभवः


अथापि मीमांसकमतेन नित्यः शब्द इष्यते, तत्रापि सत्तया यौग
पद्यस्य सकलवर्णसाधारणत्वात्798 केन वर्णसमुदायेन कोऽर्थः प्रत्याय्येतेति
नावधार्यते ॥


अर्थोच्यते—न चक्षुरादीनामिव वर्णानां 799कारकत्वम्, येनागृही
तानामेव सतां यौगपद्यमात्रमर्थप्रत्यायनाङ्गं स्यात् । 800ज्ञापकत्वात्तेषां
गृहीतानां सतां धूमादिवत् प्रत्यायकत्वमिति प्रतीतावेव सामस्त्यमुपयुज्यते
इति ॥


एतदप्यघटमानम् । 801प्रतीतिसामस्त्यं हि किमेकवक्तृप्रयुक्तानां
वर्णानाम् ? उत नानापुरुषभाषितानाम् ? तत्र—एकदा अनेकपुरुषभाषि
तानां कोलाहलस्वभावत्वेन स्वरूपभेद एव दुरवगम इति कस्य सामस्त्यम
सामस्त्यं वा चिन्त्येत ? सत्यपि वा तथाविधे सामस्त्ये नास्त्येवार्थ
प्रतीतिः ॥


एकवक्तृप्रयुक्तानां तु प्रयत्नस्थानकरणक्रमापरित्यागात् अवश्यंभावी
क्रमः । क्रमे च सत्येकैकवर्णकरणिकार्थप्रतीतिः प्राप्नोति । न चासौ
दृश्यत इति व्यस्तसमस्तविकल्पानुपपत्तेः न वर्णा वाचकाः ॥


  1. वर्णानां नित्यत्वं सर्वगतत्वं चात्र हेतुः ॥

  2. कारकत्वं—अज्ञातत्वेऽपि स्वरूपत एव कार्यनिर्वर्तकत्वम् ॥

  3. शाब्दबोधस्य ज्ञानरूपस्य आत्ममनस्संयोगादिरेव कारकहेतुः । वर्णस्तु ज्ञातस्सन्नेव हेतुः ॥

  4. प्रतीतिः—वर्णनां ग्रहणम् ॥