II.263

सप्तममाह्निकम्—प्रमेयपरीक्षा


प्रमेयनिर्देशः


एवं प्रमाणपदार्थे परीक्षिते सति यदर्थं तत्परीक्षणं तत् प्रमेयमिदानीं
दर्शयितुमाह—


आत्मशरीरेन्द्रियार्थबुद्धिमनःप्रवृत्तिदोषप्रेत्यभावफलदुःखा
पवर्गास्तु प्रमेयम् ॥ १-१-९ ॥


प्रमाणवदिहाप्येतत्सूत्रं व्याख्यायि सूरिभिः ।

एवं विभागसामान्यलक्षणप्रतिपादकम् ॥

प्रमेयश्रुतिरात्मादिपद1029पर्यन्तवर्तिनी ।

तेषामेव प्रमेयत्वं नान्यस्येति नियच्छति ॥

यथा देवदत्तयज्ञदत्तविण्थुमित्रा भोज्यन्ताम् इति एवकारादिश्रुति
मन्तरेणापि शब्दसामर्थ्यात् त एव भोजनक्रियायोगिनोऽवगम्यन्ते,
नान्ये; तथेहाप्यात्मादयः प्रमेयमित्युक्ते तथैव तदितरप्रमेयनिषेधो
ऽवधार्यते ॥


प्रमेयविभागाक्षेपः


ननु कथं द्वादशविधमेव प्रमेयमवधार्यते, यावता समान
तन्त्रे पृथिव्यानीनिनव द्रव्याणि' रूपादयश्चतुर्विशतिगुणाः, उत्क्षेपणादि
II.264 पंचकर्माणि, परापरभेदेन द्विविधं सामान्यं, नित्यद्रव्यवृत्तयोऽन्त्या
विशेषाः, एकः समवाय इति षट्पदार्थाननुक्रम्य तदवान्तरविशेषैरा
नन्त्यं प्रमेयस्योपवर्णितमस्ति ॥


उच्यते—किं पुनरिह प्रमेयं विवक्षितमिति तत्सामान्यलक्षणं ताव
परीक्ष्यताम् ॥


प्रमेयसामान्यलक्षणम्


आह—सूक्तमिदं—कस्यापि कर्णे पृष्टः कटिं चालयतीति । द्वादश
विधत्वमाक्षिप्तं न प्रतिसमाधत्ते भवान् । प्रयेयस्य सामान्यलक्षणं तु
1030परीक्षते इति


उच्यते—अलं केलिना ! एतदेवात्र प्रतिसमाधानं भवति । न हि
प्रमाणविषयमात्रमिह प्रमेयमभिमतम्, एवंविधस्य प्रसिद्धत्वेन लक्षणा
नर्हत्वात् । प्रमाण एवं ज्ञाते सति तद्विषयोऽर्थः प्रमेयमिति प्रज्ञायत
एव । किं तेन लक्षितेन ? तस्मात् विशिष्टमिह प्रमेयं लक्ष्यते ॥


1031ज्ञातं सम्यगतम्यग्वा यन्मोक्षाय भवाय वा ।

तत्प्रमेयमिहाभोष्टं न प्रमाणार्थमात्रकम् ॥

तच्च द्वादशविधमेव भवति, न न्यूनमधिकं वेति समाहितमित्थं
भवति विभागाक्षेपः ॥


द्वादशानां विशिष्टप्रमेयत्वम्


कुतः पुनरेषः प्रमेयविशेषो लभ्यते ? निःश्रेयसार्थत्वाच्छास्त्रस्य ।
प्रमेयज्ञानस्य प्रमाणज्ञानवदन्यज्ञानोपयोगितामन्तरेण स्वत एव
II.265 मिथ्याज्ञाननिवृत्त्यादिक्रमेण अपवर्गाहेतुत्वप्रतिज्ञानात् । तथाविधस्य
चापवर्गोपायत्वस्यात्मादिष्वेव भावात् ॥


आत्मादीनां प्रमेयत्वोपपादनम्


भवत्वेवम् ! सूत्रस्य तु कथमीदृशप्रमेयविशेषसमर्थने सामर्थ्यम् ?
विशेषनिर्देशात्तु, शब्दप्रयोगसामर्थ्याच्च ॥


सत्यम्, आकाशकालदिगादि प्रमाणविषयत्वात् प्रमेयं भवति । तत्तु
न सप्रयोजनं आत्मशरीरेन्द्रियार्थमनःप्रवृत्तिदोषप्रेत्यभावफलदुःखापवर्गास्तु
प्रमेयम्, अस्यैव निःश्रेयसहेतुत्वादित्याशयः ॥


तदित्थमेष तुशब्दः निःश्रेयसानङ्गभूतप्रमेयान्तरपरिहारद्वारेण
विशिष्टमात्मादि प्रमेयमिह सूचयति ॥


तद्द्वादशविधत्वेऽपि हेयोपादेयभेदतः ।

द्विधोच्यते मुमुक्षूणां तथैव 1032ध्यानसिद्धये ॥

तत्र देहादि दुःखान्तं हेयमेव व्यवस्थितम् ।

उपादेयोऽपवर्गस्तु, द्विधाऽवरिथतिरात्मनः ॥

सुखदुःखादिभोक्तृत्वस्वभावो हेय एव सः ।

उपादेयस्तु भोगादिव्यवहारपराङ्मुखः ॥

आत्मादिज्ञानस्य मुमुक्षुसंपाद्यत्वम्


आत्मनो हि भोगाधिष्ठानं शरीरम् । भोगसाधनानीन्द्रियाणि ।
भोक्तव्या इन्द्रियार्थाः । भोगकारणं मनः । प्रवृत्तिः पुण्यपापात्मिका ।
II.266 रागादयश्च दोषाः शरीरादिजन्महेतवः । एतत्कृतश्च शरीरादियोगवि
योगाभ्यासः प्रेत्यभावः । 1033एतत्कृतमेव च संसारे सुखदुःखरूपं फलं ।
तच्य विविधमेव । 1034विवेकवतः सर्वं दुःखमेवेति । एवं शरीरादि
दुःखान्तं हेयतयैव भावनीयम् । एददनुपयुक्तश्चात्माऽपि तथैव ।
एतद्वियुक्तस्त्वात्मैवापवर्ग 1035उच्यते । स चोपादेयतया भावनोयैत्यत
एवात्मपदसंगृहीतस्याप्यस्य पुनर्निर्देशः, स र्दि परमः पुरुषार्थ इति ॥


तत्त्वज्ञानस्य मोक्षहेतुत्वोपपापनम्


एवमिदं द्वादशविधं प्रमेयं हेयोपादेयतया तत्त्वज्ञानेन भावयन
अभ्यासात् तद्विषयविपरीतग्रहात्मकं मिथ्याज्ञानं क्षिणोति ॥


तत्त्वज्ञानोदयेनास्य मिथ्याज्ञानेऽपबाधिते ।

रागद्वेषादयो दोषाः तन्मूलात्क्षयमाप्नुयुः ॥

क्षीणदोषस्य नोदेति प्रवृत्तिः पुण्यपापिका ।

तदभावान्नतत्कार्यं शरिराद्युपजायते ॥

1036अशरीरश्च नैवात्मा स्पृश्यते दुःखडम्बरैः ।

अशेषदुःखोपरमः सोऽपवर्गोऽभिधीयते ॥

II.267

तदित्थमेव द्वादशविधं प्रमेयं अतिगहनसंसार1037मारवस्थलप्रभवभीम
सन्तापनिर्वापणमहाह्रदतामुपयातीति तदेवोप देशार्हमिति सिद्धम् ॥


आत्मविचारोपक्षेपः


विरक्तसंकथास्तावदसतां तापसोदिताः

आत्मैव त्वस्ति नास्तीति कथं न परिचिन्त्यते ॥

शरीरात्मवादोपक्षेपः


तथा च लोकायतिकाः परलोकापवादिनः ।

चैतन्यखचितात् कायात् नात्माऽन्योऽस्तीति मन्वते ॥

न च तावदात्मा प्रत्यक्षतो गृह्यते, घटादिवत् बाह्येन्द्रियेण, 1038सुखा
दियन्मनसा वा परिच्छेत्तुमशक्यत्वात् । अनुमानं तु न प्रमाणमेव चार्वा
काणाम् । न चात्मसिद्धौ किंचन लिङ्गमस्ति । ज्ञानादियोगस्तु भूताना
मेव परिणामविशेषोपपादितशक्त्यतिशयजुषां भविष्यति । यथा गुड
पिष्टादयः प्रागसतीमपि मदशक्तिं आसादितसुराकारपरिणामाः प्रपद्यन्ते,
तथा मृदाद्यवस्थायां अचेतनान्यपि भूतानि शरीराकारपरिणतानि चैतन्यं
स्प्रक्ष्यन्ति । कालान्तरे च व्याध्यादिना परिणामविशेषमवजहन्ति
तान्येव चैतन्यशून्यतामुपयास्यन्ति । चैतन्यवत्त्वानपायाच्च तावन्तं
कालं तान्येव स्मृत्यनुसन्धानादिव्यवहारनिर्वहणनिपुणतामनुभविष्यन्ति
इति किमनुमानक आत्मा स्यात् ?


II.268

आगमास्तु मनोरथाधिरूढप्रामाण्याः कथमात्मानमवबोधयितुं
क्ष्यन्ति । अयमपि चागमोऽस्त्येव विज्ञानघन एवैतेभ्यो भूतेभ्यः
समुत्थाय तान्येवानु विनश्यति न प्रेत्य संज्ञाऽस्ति
इति । तत् आत्मनो
नित्यस्य परलोकिनोऽभावात् कृतमेताभिः अपार्थकपरिश्रमकरिणीभिः
परलोककथाभिः ॥


आत्मनः अहमर्थत्वम्


तत्र प्रत्यक्षमात्मानमौपवर्षाः1039 प्रपेदिरे ।

अहंप्रत्ययगम्यत्वात् यूथ्या अपि केचन ॥

अस्त्ययमहंप्रत्ययः कश्चित् शरीरसमानाधिकरणः स्थूलोऽहम्
क्षामोऽहं इति । कश्चित् ज्ञातृसमानाधिकरणः—जानाम्यहम्
स्मराम्यहम् इति । तत्र स्थूलादिसमानाधिकरणस्तावदास्तामहं
प्रत्ययः ॥


ज्ञानेच्छासुखदुःखादिसामानाधिकरण्यभाक् ।

यस्त्वहंप्रत्ययस्तत्र नात्मनोऽन्यः प्रकाशते ॥

न हि ज्ञानसुखेच्छादियोगः कायेन्द्रियादिषु1040

न च ज्ञानादिशून्येऽर्थे जानामीत्यादिसंविदः ॥

II.269
ज्ञानमात्रावभासोऽपि वारितः प्रत्यभिज्ञया ।

ज्ञातवानहमेवादौ अहमेवाद्य वेद्मि च1041

नोत्तरस्य च पूर्वस्य न ज्ञानक्षणयोर्द्वयोः ।

न सन्तानस्य चैतस्मिन् प्रत्ययेऽस्त्यवभासनम् ॥

नोत्तरोज्ञानवान् पूर्वं पूर्वो जानाति नाधुना ।

न द्वयोर्द्वयमप्यस्ति सन्तानस्तु न वास्तवः ॥

अवस्तुत्वाच्च नासौ पूर्वं किंचिज्ज्ञातवान्, न चाद्य किंचिज्जाना
तीति । तस्मादहमेव ह्यो ज्ञातवान्, अहमेवाद्य जानामीत्यस्मिन् प्रत्यये
ह्यश्चाद्य चानुवर्तमानो ज्ञाता प्रतिभातीति गम्यते ॥


शरीरं न अहमर्थः


न चासौ कायः, बालाद्यवस्थाभेदेन नानात्वात्, अचेतनत्वाच्च ।
एवंच 1042प्रत्यभिज्ञाऽहंप्रत्ययग्राह्ये ज्ञातरि सिद्धे, सोऽयं स्थूलादिसमाना
धिकरणः अहंप्रत्ययः तदभेदोपचारेण शरीरे वर्तमानो 1043मिथ्येति कल्प
यिष्यते । न पुनरेतदनुरोधेन ज्ञानादिसमानाधिकरणाहंप्रत्ययमिथ्यात्व
कल्पनं युक्तं, अबाधितत्वात् । न खल्बहं जानामीति प्रत्ययः केन चिद
ल्पीयसा दोषकारणेन कलुषीकर्तुं पार्यते । तत् अस्यात्मैव मुख्यो
II.270 विषयः, तदतिरिक्तं वस्तु 1044भाक्त इति । तस्मादहंप्रत्ययगम्यत्वादात्मा
प्रत्यक्ष इति ॥


आत्मनः अहंप्रतीतिविषयत्वे विवादः


अत्र वदन्ति—शब्दमात्रोच्चारणमेतत् अहं जानामि अहमिच्छामि
अहंसुखी अहं दुःखी इति । न तु ज्ञानादिस्वरूपातिरिक्तः तदाश्रयः
कश्चिदेतासु बुद्धिषु परिस्फुरतीति । कथमेकस्यामेव संविदि कर्ता च कर्म
चात्मा भवेत् ॥


1045ग्राह्यग्राहकतैकस्य ज्ञानस्यापाकरिष्यते ।

त्वयाऽपि नेष्यते चेति तथा नास्त्यात्मनोऽपि सा ॥

विज्ञानात्मनः ज्ञातृत्वासंभावः


यच्च अवस्थाकृतं भेदमबलम्ब्य ग्राह्मग्राहकभावसमर्थनमेकस्यैवा
त्मनः कृतं किल द्रव्यादिरूपमात्मनो ग्राह्यं, ज्ञातृरूपं च ग्राहकमिति
तदनुपपन्नम्—द्रव्यादिरूपे ग्राह्ये न ज्ञातरि ग्राह्यता साधिता स्यात् ।
आत्मवर्तिनोऽपि द्रव्यादिरूपस्य घटादितुल्यत्वात्1046


व्यवसायानुव्यवसायर्वैलक्षण्यविमर्शः


यदपि निपुणंमन्यैरुच्यते—भवतु ज्ञातृतेव ग्राहिका । तथापि 1047विषयो
पाधिकृ तोऽस्त्येव भेदः । घटावच्छिन्ना हि हि ज्ञातृता ग्राह्मा, शुद्धैव
II.271 तु ज्ञातृता ग्राहिकेति । घटमहं जानामि इति कोऽर्थः ? कथम्
जानन्तमात्मानं जानामि इत्यस्मत्प्रयोगसंभेदाच्चैवमवकल्पते । अन्यत्र
तु शुद्धविषयग्रहणमेव भवति घटोऽयं इति—तदेतदपि सरलमति
प्रतारणमात्रम्—यथा हि घटोऽयं इत्त्र घटमात्रप्रवणैव संवित्, एवं
अस्मत्प्रयोगसंभेदेऽपि घटमहं जानामि इत्यत्र घटप्रवणैव बुद्धिः


इयांस्तु विशेषः—पूर्वं केवलं घटग्रहणं, अधुना तु ज्ञानविशिष्टघटा
वमर्श इति ॥


विज्ञानस्यात्मत्वे युक्तिः


ननु ! विभज्यमानायां प्रतीतौ घटोऽयं इति तावत् विषयग्रह
णम् । जानामि इति तु ज्ञानग्रहणमपि भवतु नाम । अहमिति तु कस्य
ग्रहणम् ? न चैकस्यामेव प्रतीतौ अंशविभागेव प्रामाण्यमप्रामाण्यं च
वक्तुं युक्तम्—घटमिति जानामीति च प्रमाणं, अहमिति तु न प्रमाण
मिति । तस्मादत्र ज्ञातुरवभासोऽभ्युपेयः ॥


उक्तमत्र नैकस्यां प्रतीतावात्मनः कर्तृता कर्मता च स्यातामिति ॥


ग्राह्यस्यैव न ग्राहकत्वम्


यस्तूपाधिस्त्वयोन्नेतुमुपक्रान्तः, सोऽयं न घटते, घटप्रवणत्वात् ।
घटं अहं जानामि इति प्रतीतेर्विभज्यमानत्वेऽपि घटमिति जानामीति
च अंशद्वयं विषयनिष्ठमेव जातम् । अहमिति तु अयमंशः यद्यात्मविषय
इष्यते, तर्हि स एव तु शुद्धोऽवशिष्यते ग्राह्यो ग्राहकश्चेति । नावस्था
कृतस्तद्भेदः समर्थितः स्यात्1048 । भेदाभावेन चैकस्यैव—ग्राह्यग्राहकभाव
II.272 मनुपाधिकमभिदधता विज्ञानवादवर्त्म संश्रितं स्यात् । तस्मादहंप्रत्ययस्य
ग्राहकाद्भिन्नं ग्राह्यं अभिधित्सता शरीरमेव ग्राह्यमभ्युपगन्तव्यम् ।
ज्ञानसामानाधिकरण्यानुपपत्तेश्च वरमस्य मिथ्यात्वम्, अस्तु नामात्माव
लम्बनता ॥


अत एव कृशश्यामसामानाधिकरण्यधीः ।

शरीरालम्बनत्वस्य साक्षिणी न विरोत्स्यते ॥

अहमर्थस्य शरीरातिरिक्तत्वं नानुभवसिद्धम्


ननु ! ममेदं शरीरं इति भेदप्रतिभासात् कथमहंप्रत्ययः शरीरा
लम्बनः स्यात् ? भोः साधो ! नैवंविधेषु विश्वसितुमर्हतिममात्मा
इत्यपि भेदप्रत्ययदर्शनात् ॥


अथावस्थाभेदादिना यथातथा तत्समर्थनमास्थीयते; तदिह शरीरा
लम्बनत्वेऽपि सैव सरणिरनुसरिष्यते । तस्मात् अहंप्रत्ययः शरीरालम्बन
एवेति, स च ज्ञानादिसमानाधिकरणो मिथ्या, स्थूलादिसमानाधिकर
णस्तु सम्यगिति ॥


मम शरीरम् इति प्रतितेर्मिथ्यात्वम्


ये तु मम शरोरं ममात्मा इति बुद्धी,—ते द्वे अपि मिथ्या,
ममप्रत्ययस्याहंप्रत्ययवत् आत्मानालम्बनत्वात्, शरीरे च भेदानुपपत्तेः ॥


मम पाणिर्भुजो वेति भिन्नत्वादुपपद्यते ।

शरीरं तु ममेत्येषा कल्पना राहुमूर्धवत् ॥

तस्मादहंकारममकारयोः द्वयोरप्यविषयत्वात्1049 आत्मा परोक्ष
इति सिद्धम् ॥


II.273

आत्मनः स्वयंप्रकाशत्वपक्षः


अपरे पुनराहुः— ग्राह्यग्राहकरूपोभयसंपत्तेरेकस्य कर्मत्वं कर्तृत्वं च
युगपदात्मनो मन्यामहे; किन्तु चितिशक्तिस्वभाव1050मपरसाधनमपरोक्ष
मात्मतत्त्वं प्रचक्ष्महे । न ह्यात्माऽन्यजन्येन ज्ञानेन घटादिर्रिव प्रका
श्यते, अपि तु स्वत एव प्रकाश्यते । चेतनत्वमपि तस्य नैसर्गिकमेव,
न करणोपनीतचितियोगनिबन्धनम् । चिद्योगाद्धि चेतनत्वे घटादा
वपि1051 तत्प्रसङ्गः । न चास्ति नियमहेतुः, अनेककारकनिकरपरि
घटिततनुरपि चितिरात्मानमेव ज्ञातारं करोति, न कारकान्तरमिति ।
तस्मात् स्वत एव चित्स्वभावता तस्य भद्रिका । तदिदमात्मप्रकाशनं
संविद्वदवगन्तव्यम् । यदाहुः—संवित संवित्तयैव संवेद्यते, न संवेद्यतयेति ।
नास्याः कर्मभावो विद्यत इत्यर्थः । एवमात्मा ग्राहकतयैव प्रकाश्यते, न
ग्राह्यतयेति तद्वैरुप्यस्य चोदनमनुपपन्नमिति ॥


आत्मनः स्वयंप्रकाशत्वासंभवः


एतदपि न चतुरश्रम्—अपरसाधनमिति कोऽर्थः ? उपायान्तरनिर
पेक्षमेव प्रकाशमानमात्मतत्त्वमास्त इति; तदयुक्तम्—अकरणिकायाः
प्रतीतेरदृष्टत्वात् । अपूर्वं च तत् किमपि यथाभ्युपगतप्रमाणातिरिक्त
मेव प्रमाणं स्यात् । न च नियमकारणमत्र पश्यामः, तथा प्रकाशमानः
स्व एवात्मा प्रकाशते, न परात्मेति1052 । प्रकाशमानत्वेन चात्मनो नून
मनुभूयमानता वाच्या । अनुभूयमानता च अनुभवकर्मत्वम्, इत
रथाऽस्याः प्रत्यक्षतैव न स्यात् ॥


II.274

आत्मनः अपरोक्षत्वनिराकरणम्


अथोच्यते—न प्रत्यक्ष आत्मा, किंन्त्वपरोक्ष इति; नेदमर्थान्तर
वचनम् । शिशव एवं प्रतार्यन्ते, न प्रामाणिकाः । प्रत्यक्षश्च न भवति,
अपरोक्षश्च भवतीति चित्रम् ॥


प्रत्यक्षज्ञानकर्मत्वमस्य नास्तीति चेत्, तर्ह्यपरोक्षत्वमपि मा भूत् ।
प्रकाशत्वादपरोक्षत्वमिति चेत्—न—दीपादेः प्रकाशस्याप्यन्धादिभिरगृह्य
माणस्य प्रकाशमानत्वायोगात् । तस्मात् प्रकाशते चेदात्मा नूनमनुभूये
तापीति बलात् कर्मत्वमपरिहार्यम् । अतश्च तदवस्थैव द्वैरूप्य1053
चोदना ॥


ज्ञानमपि न स्वयंप्रकाशम्


प्रकाशज्ञानपक्षं च प्रतिक्षेप्स्यामः । स चात्मन्यपि तुल्यो न्यायः ।
कल्पनाद्वैरूप्यं च भवतां, आत्मा च स्वप्रकाशः, संविच्च स्वप्रकाशेति ।
न च निपुणमतिरपि विवेकमीदृशमुपदर्शयितुं शक्नोति भवान्—इयं
स्वप्रकाशा फलरूपा संवित्1054, अयं स्वप्रकाशो ज्ञातृरूप आत्मेति । चित्रं
चेदं यत्तयोः द्वयोः प्रकाशयोरन्तराले तद्व्यापारः परोक्षः ज्ञानाख्यः
संपन्नः इति ॥


अहंप्रतीतेः शरीरविषयत्वम्


ननु घटमहं जानामि इत्यत्र त्रयप्रतिभासः—घटं इति विषयः
प्रकाशते, अहं इत्यात्मा, जानामि इति संविदिति ॥


II.275

उक्तमत्र—घटं जानामि इति ज्ञानविशेषणविषयप्रतिभासः । अहं
इति तु शरीरे ज्ञातृत्वभ्रमः, एकस्यात्मनः ग्राह्यग्राहकभावानुप
पत्तेरिति ॥


आत्मनः चैतन्यरूपत्वासंभवः


यदपि स्वतश्चेतनस्वभावत्वमात्मनः कल्प्यते—तदपि न सोप
पत्तिकम् ॥


सचेतनश्चिता योगात् तद्योगेन विना जडः ।

नार्थावभासादन्यद्धि चैतन्यं नाम मन्महे ॥

अत्मनः ज्ञानरूपत्वे दोषः


यदि च स्वत एवार्थावभाससामर्थ्यमात्मनः1055—तत् किमिन्द्रियैः
प्रयोजनम् ? मनष्षष्ठैरिन्द्रियनिरपेक्षपदार्थपरिच्छेदसामर्थ्यपक्षे च सर्व
सर्वज्ञतापत्तिः । अतोऽवश्यं ज्ञानसमवायिनिबन्धनमेवात्मनश्चेतयितृ
त्वम् ॥


न च घटादिभिरतिप्रसङ्गः आशङ्कनीयः । पदार्थस्वभावोपनत
स्यैव क्रियावैचित्र्यस्य सर्वलोकप्रसिद्धत्वात् । 1056चेतनादिक्रियाः कर्म
समवायिन्यो न भवन्ति । गमनादिक्रियास्तु कर्तृसमवायिन्यः । तदियं
ज्ञानक्रियाऽपि कर्तृसमवायिन्येव । न च वस्तुशक्तिरनुयोज्या भवति ॥


न जडत्वाविशेषेऽपि 1057कर्मादौ समवैति चित् ।

न द्रव्यत्वाविशेषेऽपि गन्धः स्पृशति पावकम् ॥

तस्मान्न प्रत्यक्ष आत्मा, नापि स्वतश्चेतयितेति स्थितम् ॥


II.276

आत्मनः मानसप्रत्यक्षगम्यत्वपक्षः


स्वयूथ्यास्तु केचिदाचक्षते—यद्येकस्य कर्तृत्वं कर्मत्वं चानुपपन्न
मित्यप्रत्यत्यक्ष आत्मा इष्यते ? तदयमनुमानेनापि कथं ग्रहीष्यते ?


आत्मानमात्मनाऽऽत्मैव लिङ्गादनुमिनोति हि ।

तत्र नूनमुपेतव्या कर्तृता कर्मताऽस्य च ॥

तत्रानुमानज्ञानस्य यथाऽऽत्मा याति कर्मताम् ।

तथाऽहंप्रत्ययस्यैषः प्रत्यक्षस्यापि गच्छतु ॥

देहादिव्यतिरिक्तश्च यथा लिङ्गेन गम्यते ।

तथाऽहंप्रत्ययेनापि गम्यतां तद्विलक्षणः ॥

अरूपस्याप्यात्मनः प्रत्यक्षत्वम्


ननु ! आत्मनः किं रूपं1058, यत् प्रत्यक्षेण साक्षात्क्रियते ?—यद्येवं
सुखादेरपि किं रूपं, यन्मानसप्रत्यक्षसमधिगम्यमिष्यते ॥


ननु ! आनन्दादिस्वभावं प्रसिद्धमेव सुखादेः; तर्हि तदाधारत्व
मात्मनोऽपि रूपमवगच्छतु भवान् ॥


सुखादि चेत्यमानं हि स्वतन्त्रं नानुभूयते ।

मतुबर्थानुवेधात्तु सिद्धं ग्रहणमात्मनः ॥

इदं सुखमिति ज्ञानं दृश्यते न घटादिवत् ।

अहं सुखीति तु ज्ञप्तिः आत्मनोऽपि प्रकाशिका ॥

II.277

आत्मनः प्रत्यक्षत्वमन्तरा सुखादेः प्रत्यक्षं न संभवति


अपि च—


ज्ञातृज्ञानविशिष्टार्थग्रहणं किल भाष्यकृत्1059

स्वयं प्रादीदृशत्तच्च किं वा युक्तमुपेक्षितुम् ॥

विशेष्यबुद्धिमिच्छन्ति 1060नागृहीतविशेषणाम् ।

पूर्वं चाननुभूतस्य स्मरणं नावकल्पते ॥

न चानुमानतः पूर्वं ज्ञात्वाऽऽत्मानं विशेषणम् ।

तद्विशिष्टार्थबुद्धिः स्यात् क्रमस्यानवधारणात् ॥

तस्मात् प्रत्यक्ष आत्मा ॥


आत्मनः प्रत्यक्षत्वाभावे प्रतिसन्धानासंभवः


सामानाधिकरण्यं च स्मरणानुभवादिषु ।

अनुसन्धीयमानं यद्दृश्यते तत्कथं भवेत् ॥

पूर्वं अहममुमर्थमनुभूतवान्, अहमेवाद्य पुनरनुभवामि इति तुल्य
विषयं तावत् । तुल्यकर्तृकताऽपि तत्र प्रकाशते, इतरथा त्वनुमातुम
प्यात्मा न शक्येत


ज्ञानेच्छासुखदुःखादि किलेदं लिङ्गमात्मनः ।

एकाश्रयतया ज्ञातं अनुसन्धातृबोधकम् ॥

तथात्वेन च तद्ज्ञानं आश्रयज्ञानपूर्वकम् ।

ज्ञाते तत्राफलं लिङ्गं अज्ञाते तु न लिङ्गता ॥

II.278
तस्मात् प्रत्यक्ष एवात्मा वरमभ्युपगम्यताम् ।

1061वृद्धागमानुसारेण संविदालोकनेन च ॥

आत्मनः अनुमेयत्वपक्षः


अथवाऽभिनिवेशेन किमनेन प्रयोजनम् ।

अनुमेयत्वमेवास्तु लिङ्गेनेच्छादिनाऽऽत्मनः ॥

तदाह सूत्रकारः—


इच्छाद्वेषप्रयत्नसुखदुःखज्ञानान्यात्मनो लिङ्गम्
॥ १-१-१० ॥


इच्छा नाम तावदित्थमुपजायते—यज्जातीयमर्थमु पयुंजानः पुरुषः
पुरा सुखमनुभूतवान्, पुनः कालान्तरे तज्जातीयमर्थमुपलभ्य सुखसाधन
तामनुस्मृत्य तदादातुमिच्छति । सेयमनेन क्रमेण समुपजायमानेच्छा
पूर्वापरानुसन्धानसमर्थमाश्रयमनुमापयति, कार्यस्य निराधारस्यानुपपत्तेः ।
आश्रयमात्रप्रतीतौ चायमन्वयव्यतिरेकवानेव हेतुर्भवति । इच्छा धर्मिणी1062
—आश्रितेति साध्यो धर्मः—कार्यत्वात्, घटादिवत्; गुणत्वात्, रूपा
दिवत् इति वा हेतुर्वक्तव्यः ॥


गुणत्वं चेच्छादीनां अचाक्षुषप्रत्यक्षत्वादिना रसादिवद्दर्शितमा
चार्यैः ॥


आत्मानुमानप्रकारः


एवमन्वयव्यतिरेकवताऽमुना हेतुना अधिष्ठानमात्रेऽनुमिते, तदधि
ष्ठानत्वे च देहेन्द्रियादौ प्रसक्ते पूर्वानुभूतसुखसाधनत्वानुसन्धानसव्य
II.279 पेक्षतदुत्पादनपर्यालोचनया तत्कार्यसमानकर्तृकत्वावगमात् शरीरादि
प्रतिषेधे सति, स एव केवलव्यतिरेकिभवने तु विशिष्टमाश्रयमनुमापयति ।
इच्छा—शरीरादिविलक्षणाश्रया—शरीरादिषु बाधकोपपत्तौ सत्यां कार्य
त्वात् । अत्र च साधर्म्यदृष्टान्तो न संभवतीति वेधर्म्यदृष्टान्तः प्रद
र्श्यते । स च घट एव । योऽभूत् साधर्म्यदृष्टान्तः कार्यत्वे 1063निर्वि
शेषणेऽपि घटः, स एव वैधर्म्यदृष्टान्तः सविशेषणे । यत्र विलक्षणा
श्रितत्वं नास्ति, तत्र सविशेषणं कार्यत्वमपि नास्ति, यथा घटादाविति
न न शक्यते वक्तुम् । तत्र कार्यत्वमात्रयोगेऽपि सविशेषणानां कार्य
त्वाभावात् विलक्षणाश्रितत्वमपि तत्र नास्ति, भूताश्रितत्वेन प्रत्यक्ष
मुपलभ्यमानत्वात् ॥


केवलव्यतिरेकिसमर्थनम्


ननु चान्वयदर्शनमन्तरेण केवलो व्यतिरेकः प्रतीयमानः संदिग्धो
भवति—किं तत्साध्याभावकृतैव तस्य तस्माद्व्यावृत्तिः, उत निमित्तान्त
रकृता ? इति । सन्दिग्धव्यतिरेकस्य हेतोरगमकत्वं निश्चितव्यभिचार
हेतुवदिति तार्किकाः—उच्यते—स्यादेतदेवम्, यदि प्रथममनवगतान्वय
एव केवलव्यतिरेकशरणो हेतुः प्रयुज्येत । यत्र त्वन्वयव्यतिरेकवानेव
हेतुः कंचन 1064विशेषमाश्रित्य केवलव्यतिरेकितामबलम्बते, तत्र न ?
सन्दिग्धव्यतिरेकताऽवकाशं लभते । घटो हि भूतलाश्रितत्वेन प्रत्यक्ष
मुपलभ्यते । तदस्य विलक्षणाश्रयविरहादेव सविशेषणहेतुशून्यता
जाता, निर्विशेषणावस्थायां तद्योगदर्शनादिति न सन्दिग्धो व्यतिरेकः ॥


II.280

अथवा शरीरत्वं सामान्यमिह वैधर्म्यदृष्टान्तीकर्तव्यम् । तत्र हि
सर्वात्मना1065 कार्यत्वस्य शङ्काऽपि नास्ति । न च तद्विलक्षणाश्रितम्,
शरीराश्रितत्वस्य प्रत्यक्षमुपलम्भादिति ॥


इच्छालिङ्गकात्मानुमानम्


तदियमिच्छा 1066प्रथमपदार्थदर्शनादिकार्यसमानकर्तृकतयाऽवगम्य
माना शरीरादिविलक्षणमाश्रयमवगमयति, सविशेषणात्कार्यत्वादिति
स्थितम् । यश्च स विलक्षण आश्रयः तत्राऽऽत्मसंज्ञाऽगमिकी1067


द्वेषादिलिङ्गकात्मानुमानम्


एवमेव द्वेषादेरात्मलिङ्गता वक्तव्या । यज्जातीयस्यार्थस्य सन्नि
धानाद्दुःखमनुभूतवान् पुरुषः, तज्जातीयमर्थं पुनरुपलभमानो दुःखसाध
नतामनुसन्धाय तत् द्वेष्टीति । सोऽपि प्रतिसन्धातारमेकमन्तरेण नोपपद्यते ॥


आभ्यामिच्छाद्वेषाभ्यामनन्तरं प्रयत्नः समुत्पद्यते । सोऽपि यथो
क्तेन क्रमेणानुसन्धानपूर्वक एव । प्रयतमानस्य सुखदुःखे भवतः ।
ते अपि तथैव द्रष्टव्ये ॥


ज्ञानस्यात्मानुमानलिङ्गत्वेनाकथने हेतुः


ज्ञानं तु यद्यपि प्रथममनुसन्धाननिरपेक्षमपि भवति । तदपि च
शक्यत एवात्मलिङ्गमभिधातुम्; तथाप्यनुसन्धानपूर्वेच्छादिकार्यप्रकर
II.281 णात् निर्णयात्मकमेव ज्ञानमुदाहर्तव्यम् । तत्र हि बुभुत्साविमर्शादिपूर्व
कत्वमुपलब्धमिति तदेककर्तृकत्वमुपकल्प्यते1068 । तदेवमिच्छादीन्यात्म
लिङ्गानीति स्थितम् ॥


अनेकहेतुकथने दोषाभावः


शास्त्रे चानेकहेतूक्तिः न दोषाय कथास्विव1069

शिष्यः कश्चित्क्वचित्किंचित् अनुस्मृत्याभिधास्यति ॥

इति कारुणिको हि मुनिरनेकमिह हेतुमार्गमुपदिष्टवान् ॥


आत्मनः अनुमेयत्वेऽपि सुखाद्युपलब्धिसंभवः


ननु ! अत्र चोदितं—अनुसन्धातारमन्तरेण तदेतदिच्छादि कार्यं
नावकल्पत इति कथं ज्ञायते । एकत्र प्रमातरि तद्दर्शनादिति यदुच्यते—
तदिदमेकप्रमातृग्रहणादात्मप्रत्यक्षत्वमङ्गीकृतं स्यात् इति व्यर्थमनुमानम् ।
अग्रहणे तु प्रमातुरेकस्य तत्पूर्वकत्वेनेच्छादेः प्रतिबन्धाग्रहणादशक्यमनु
मानमिति—परिहृतमेतत्—कार्यत्वेनैव लिङ्गत्वमिच्छादेरुपवर्णितम
स्माभिः, न स्मरणादिसमानाधारतयेति ॥


किमर्थस्तर्हि प्रतिसन्धानोपन्यासः ? शरीरादिषु तदाश्रयत्वप्रतिषे
धार्थः1070 । न त्वेवं व्याख्यातवन्तो वयम्, एकस्य प्रमातुः इच्छादिकार्या
श्रयत्वदर्शनात् एकाश्रयत्वानुमानमिति । तस्मान्न दोषः ॥


II.282

आत्मसाधकव्याप्तिग्रहणसमर्थनम्


ननु कथं न दोषः ? शरीराद्याश्रयत्वप्रतिषेधसाधनेऽपि हेतोर्व्याप्ति
ग्रहणासंभवात् । यावद्धि दर्शनस्मश्णेच्छादि कार्यजातमेप्रमातृ
नियततयाऽनवधारितं, तावत् कथमस्मदवस्थाभिः न शरीराद्याश्रयत्व
निषेधस्य तत्पूर्वकस्य चैकात्माश्रितत्वस्य सिद्धिः ॥


क एवमाह—न गृहीतमेककर्तृकतया कार्यमिच्छादीति—यदि गृहीतं
तर्हि वक्तव्यम्, क्व गृहीतम् ? केन वा प्रमाणेन गृहीतमिति । स्वात्म
न्येवेति चेत्, सोऽयं प्रत्यक्ष आत्मा भवेत् । एवमनभ्युपगमे वा न व्याप्ति
ग्रहणमिति ॥


उच्यते—न च प्रत्यक्ष आत्मा, न च व्याप्तेरग्रहणम् । न चैव
धर्म्यन्तरे व्याप्तिर्गृह्यते । किन्तु स्वसन्तान एव । तथापि न सिध्यति
प्रमातृनियततानुमानम् ? कथमिव सिध्यति ? सन्तानान्तरेषु एकप्रमातृ
पूर्वकत्वेन प्रतिसन्धानस्य दृष्टत्वात् ॥


व्याप्तिग्रहणकालासंभवप्रदर्शनम्


ननु ! कोऽत्र व्याप्तिग्रहणकालः ? प्रमाणानुमानबद्धि1071 तद्भेदेन
भवितव्यम् । ततः किम् ? इदं ततो भवति । कथं स्वसन्तान एव
व्याप्तिर्गृह्यताम् ? कथं वा तत्रैव प्रमातृनियमोऽनुमीयतामिति । सेयसु
भयतः पाशा रज्जुः । आत्मा वा प्रत्यक्षः । व्याप्तिर्वा दुरवगमेति ॥


II.283

आत्मनः अप्रत्यक्षेऽपि व्याप्तिग्रहणम्


नैतदेवम्—यथा शाक्यपक्षे—सत्त्वात् क्षणिकत्वानुमाने व्याप्तिग्रहणम्,
तथेहापि भविष्यति । तत्र हि यैव क्रमयौगपद्यव्यावृत्त्या सत्त्वस्य
नित्येभ्यो व्यावृत्तिः, स एव क्षणिकैः अन्वय इति धर्म्यन्तरनिरपेक्षत
यैव साध्येऽपि धर्मिणि प्रतिबन्धग्रहणं च अनुमानं च दर्शितम् । तद्व
दिहाप्येकप्रमातृपूर्वकत्वेन प्रतिसन्धानस्य धर्म्यन्तरे यद्यपि ग्रहणं नास्ति ।
तथापि सन्तानान्तरभेदे यदस्यादर्शनं, तदेवैककर्तृकत्वदर्शनमिति कोऽन
योर्हेतुत्वे विशेषः ?


व्यप्तिग्रहणासंभवाक्षेपपरिहारौ


ननु ! तत्र नित्येभ्यः क्रमयौगपद्यव्यावृत्त्या व्यावृत्तत्वं1072 शक्य
ग्रहणम् । इह तु प्रमातृभेदेन प्रतिसन्धानव्यावृत्तिर्दुरवगमा । स्वस
न्तानेऽपि ज्ञानक्षणाभिन्ना एव प्रमातारः । न च तेभ्यो व्यावृत्तं प्रति
सन्धानमिति ॥


तिष्ठत्वन्वयः, व्यतिरेकमुखेनापि कष्टमिदमनुमानं वर्तते । स्वस
न्ताने सन्तानान्तरवत् प्रमातृभेदाग्रहणात् । तद्भेदग्रहे हि स्वपरसन्तान
विवेको न स्यात् । यद्येवम्, प्रमातृभेदग्रहणाभावात्1073 पुनरप्यात्मा
प्रत्यक्ष आयातः ॥


मैवम्—नात्मा प्रत्यक्षः । प्रमातृभेदो हि स्वसन्ताने न गृह्यत इत्यु
क्तम् । न पुनस्तदैक्यं गृह्यते । अन्यच्च भेदाग्रहणम्—अन्यच्च
तदैक्यग्रहणम् । भेदाग्रहणादेव च व्याप्तिसिद्धेः न कष्टमनुमानम् ॥


II.284

ननु च स्वसन्तानेऽपि प्रमातृभेदाग्रहणं किं प्रमातुरेकत्वात्, उत
ज्ञानानां कार्यकारणभावात् ? इति न निश्चीयते । ततश्च संदिग्धो
व्यतिरेकः—यथा ज्ञानानां कार्यकारणभावो नास्ति, यथा च न तत्कृतोऽयं
व्यवहारः, तथाऽनन्तरमेव सविस्तरं वक्ष्यामः । तस्मादिच्छादिकार्येण
युक्तमेकप्रमात्रनुमानम् ॥


देहादेः इच्छाद्याश्रयत्वासंभवः


ननु चाश्रितमिच्छादि देह एव भविष्यति ।

भूतानामेव चैतन्यमिति प्राह बृहस्पतिः ॥

उक्तं च मदशक्तिवद्विज्ञानमिति—उच्यते—शरीरं तावन्नेच्छादेरा
श्रयः; शैशवयौवनवार्धकादिदशाभेदेन भिन्नत्वात् ॥


तथाहि नान्यदृष्टोऽर्थः स्मर्तुमन्येन शक्यते ।

न चान्येन स्मृते तस्मिन् अन्यस्येच्छोपजायते ॥

तेनाद्यादर्थविज्ञानात् 1074प्रकृत्येच्छासमुद्भवात् ।

एकस्य कार्यचक्रस्य वक्तव्यः कश्चिदाश्रयः ॥

शरीरं च बाल्याद्यवस्थाभेदेन भिन्नम् । अतस्तस्य नाश्रयो भवितु
मर्हति, सन्तानान्तरवत् । यथा हि देवदत्तदृष्टेऽर्थे न यज्ञादत्तस्य
स्मरणं, एवं बालशरीरानुभूते युवशरीरस्य तन्न स्यात् ॥


शरीरस्यैकत्वनिरासः


ननु अवस्थामात्रमेव भिन्नम्; अवस्थातृशरीरस्वरूपमभिन्नमेव
प्रत्यभिज्ञाप्रत्ययप्रामाण्यादवगम्यते । न चेयं प्रत्यभिज्ञा लूनपुनर्जात
II.285 केशनखादिप्रत्यभिज्ञावदन्यथासिद्धा, विनाशस्यानुपलम्भात् । स्तम्भादौ
हि क्षणभङ्गित्वप्रतिषेधः प्रत्यभिज्ञयैव करिष्यते । 1075सा चेहापि तादृश्येव
—तदयुक्तम्—स्तम्भादौ नानात्वकारणाग्रहणात् । इह तु रूपपरिणाम
सन्निवेशाद्यन्यत्वदर्शनात् सादृश्यनिबन्धनेयं भ्रान्तिरेव प्रत्यभिज्ञा । न
खलु शिशुशरीरे, तरुणशरीरे, जरच्छरीरे च तुल्यमेव परिमाणाद्यु
पलभ्यते ॥


शरीरभेदसाधनम्


आहारपरिणामाच्च देहभेदोऽवगम्यते

पाकजोत्पत्तिमार्गेण न जीर्येतान्नमन्यथा1076

न भवेत्परिपोषो हि दधिक्षीरादिभक्षणे ।

1077कांचिकाद्युपयोगे च न दृश्येतास्य रक्तता ॥

क्षीणैरवयवः कैश्चित् कैश्चिच्चाभिनवोद्गतैः ।

अभिन्न एवावयवी कथं भवितुमर्हति ॥

तथा च 1078केचित् पच्यमानस्य घटादेरपि प्रागवस्थाविसदृशरूपादि
योगिनः पाककारणभूतवेगवदग्निद्रव्यसंयोगपर्यालोचनयैव प्रलयोदयौ
कल्पितवन्तः ॥


II.286

पीलुपाकवादवर्णनम्


यद्यपि कन्दुकनिक्षिप्ता घटादयः तृणपर्णादिपिहितवपुषोऽपि तद्वि
वरप्रसृतेन नयनरश्मिना न विनष्टा इत्युपलभ्यन्ते । यद्यपि तत्संख्या,
तत्परिमाणः, तत्सन्निवेशः, तद्देशाश्च पक्वा अपि दृश्यन्ते, यद्यपि पतन्तो
न विभाव्यन्ते, यद्यपि च तदा तेषां कर्त्रादिकारककलापासंभवात्
पुनर्घटनमघटमानमिव लक्ष्यते—तथापि तेषामनुमानेन विनाशः परि
कल्प्यते । सर्वावयवेष्वन्तर्बहिश्च पाकात् पूर्वरूपादिविलक्षणगुणोपलब्धेः
अन्तःप्रवेशः कृशानोरनुमीयते । तेन वेगवता वह्निद्रव्येण नोदनात् अभि
घाताद्वा नूनं घटाद्यारम्भकेष्ववयवेषु क्रिया जायते, क्रियातः विभागः,
विभागात् द्रव्यारम्भकसंयोगविनाशः, तद्विनाशात् द्रव्यविनाश इति ॥


1079अनुप्रवेशपक्षेऽपि सूक्ष्मविवरपरिकल्पनात् अवश्यमवयवसंयोग
विघटनं घटादेरिति विनाश एव ॥


पीलुपाकवादे युक्त्यन्तरम्


अपि च पाकानन्तरं कन्दुकादपकृष्यमाणाः पिठारादयः केचित्
स्फुटिताः, केचिद्वक्रतां गताः, केचित् सन्निवेशान्तरमेव प्रतिपन्ना दृश्यन्ते ।
तस्मादपि पश्यामो नश्यन्तीति ॥


1080तत्संख्यत्वादिति सर्वमनैकान्तिकं सूच्यग्रविद्धकण्ठकोणैः कुम्भा
दिभिः । अतः पूर्वोक्तनीत्या नष्टेषु घटादिकार्यद्रव्येषु परमाणव एव
पच्यन्ते । पक्वाश्च श्यामादिगुणानवजहतः रक्तादिगुणान्तरयोगमनु
II.287 भवन्तः प्राणिगतसुखदुःखोपभोगसाधनभूतादृष्टप्रेर्यमाणाः परस्परं संयुज्य
द्यणुकादिप्रक्रमेण तादृशमेव घटादिकार्यमारभन्ते । तत्रामुष्मिन् क्षणे
ऽमुष्य कार्यस्य प्रसवः, अमुष्य प्रलय इति प्रक्रिया न लिख्यते, ग्रन्थविस्तर
भयात्, अप्रयोजनत्वाच्चेति ॥


आम्रफलादिष्वपि पीलुपाकः


एवं तपनातपपच्यमानेष्वाम्रादिफलेष्वेष एव न्यायः । शरीरे
ऽप्यौदर्येण तेजसा पच्यमानेष्वन्नपानादिषु रसमलधातुभावेन परिणाम
मुपगच्छत्सु प्रायेण प्रतिक्षणमुत्पादविनाशौ संभवत इति स्थैर्याभावात्
कथमनुसन्धानादिकार्ययोगस्तस्येति ॥


पिठरपाकवादसमर्थनम्


अपरे पुनः प्रत्यक्षबलवत्तया घटादेरविनाशमेव पच्यमानस्य
मन्यन्ते । सुषिरद्रव्यारम्भाच्च अन्तर्बहिश्च पाकोऽप्युपपत्स्यते । 1081दृश्यते
च पक्वेऽपि कलशे निषिक्तानामपां बहिः शीतस्पर्शग्रहणम् । अतश्च
पाककाले ज्वलदनलशिखाकलापानुप्रवेशकृतविनाशवत् तदापि शिशिर
तरनीरकणनिकरानुप्रवेशकृतविनाशप्रसङ्गः । न चेदृशी प्रमाणदृष्टिः ।
अतः प्रकृतिसुषिरतयैव कार्यद्रव्यस्य घटादेरारम्भात् अन्तरान्तरा तेजः
कणानुप्रवेशकृतपाकोपपत्तेरलं विनाशकल्पनया । 1082पिठरपाकपक्ष एव
पेशलः ॥


यादृगेव हि निक्षिप्तः घटः पाकाय कन्दुके ।

पाकेऽपि तादृगेवासौ उद्धृतो दृश्यते ततः ॥

II.288

क्वचित्तु सन्निवेशान्तरदर्शनं काष्ठाद्यभिघातकृतमुपपत्स्यते । पाव
कसंपर्ककारित्वे तु सर्वत्र तथाभावः स्यात् । तस्मादविनष्टा एव घटा
दयः पच्यन्ते । सोऽयं तु घटादिन्यायः शरीरे नेष्यते ॥


न ह्यन्नपाकः स्थैर्येऽपि1083 तत्र कुम्भादिपाकवत् ।

चयापचययुक्तं हि शरीरमुपलभ्यते ॥

तस्मात् परिमाणादिभेददर्शनान्नैकं शरीरं इति ज्वालादिप्रत्यभि
ज्ञावत्तत्प्रत्यभिज्ञेति स्थितम् ॥


अवस्थाऽवस्थावतोर्भेदाभेदविमर्शः


यदप्युच्यते अवस्थानामेव नानात्वम्, अवस्थाता पुनरेक एव देहाख्य
इति—तदप्ययुक्तम् भेदाभेदविकल्पानुपपत्तेः । यदि शरीरादव्यतिरिता
एव तदवस्थाः, तर्हि तन्नानात्वात् शरीरनानात्वप्रसङ्गः । एकस्मा
च्छरीरादप्यनन्यत्वात् अवस्थानामप्यन्योन्यं भेदो न स्यात् ॥


अथ व्यतिरिक्ताः शरीरादवस्थाः, तर्हि भेदेन तदुपग्रहो दर्श
यितव्यः । न चासावस्ति । गोत्वादावनुवृत्ता 1084बुद्धिरन्यथाऽसिद्धा
सती जातितद्वतोर्भेदमापादयन्ती न केनचित्प्रतिहन्यते । इह पुनरव
स्थातुरेकत्वग्राहिणी बुद्धिः पूर्वनीत्या प्रमाणबाधितत्वात् भ्रान्तेति ।
तस्मात् शरीरस्य भिन्नत्वात् सन्तानान्तरवत् स्मृत्यनुसन्धानादिकार्य
योगो दुर्घट इति न तस्येच्छादिकार्याश्रयत्वम् ॥


II.289

शरीरचैतन्यवादनिरासः


इतश्च न शरीरस्य ज्ञानादियोगः, परिणामित्वात्, क्षीरवत्;
रूपादिमत्त्वात्, तद्वदेव; अनेकसमूहस्वभावत्वात्, त्रिदण्डादिवत्;
सान्निवेशविशिष्टाच्च भूतत्वात्, वाह्यभूतवत् ॥


चैतन्यशून्यं शरीरं, शरीरत्वात्, भूतशरीरवत् । न शरीरधर्म
श्चैतन्यम्, अयावद्द्रव्यभावित्वात् । न च संयोगादिभिः व्यभिचारः;
तदुपजननापाययोर्निमित्तान्तरजन्यत्वदर्शनात्, इह च तदभावात् ।
विशेषगुणत्वे सतीति वा विशेषणोपादानान्न व्यभिचारः । तद्विशेषगुणत्वे
हि चैतन्यस्य रूपादिवत्तदवस्थानादविनाशप्रसङ्गः ॥


किण्वादिदृष्टान्तदौस्थ्यम्


यत्तु मदशक्तिवदित्युक्तम्—तत्रमदशक्तेर्दृष्टत्वात् अभ्युपगमः, न
तु ज्ञानस्य तत्र दर्शनम् ॥


ननु ज्ञानमपि 1085तदन्वयव्यतिरेकानुविधायि प्रायेण दृश्यते । भूते
ष्वन्नपानाद्युपयोगपुष्टेषु पट्वी चेतना भवति, तद्विपर्यये विपर्ययः ।
ब्राह्मीघृताद्युपयोगसंस्कृते च कुमारशरीरे पटुप्रज्ञता जायते ॥


वर्षासु च स्वेदादिनाऽनतिदवीयसैव कालेन दध्याद्यवयवा एव
चलन्तः 1086पूतनादिक्रिमिरूपा उपलभ्यन्ते । चैतन्ये च गुरुलाघवव्यव
हारोऽपि भूतातिशयसदसत्त्वकृतो भविष्यतीति भूतचैतन्यपक्ष एव युक्ति
युक्तो लक्ष्यते ॥


II.290

नैतच्चारु—चेष्टेन्द्रियार्थाश्रयः शरीरं क्ष्यते । तत्र तदनु
ग्रहात् इन्द्रियानुग्रहे सति पटुकरणत्वात् विषयग्रहणमपि पटुतरमिव
भवति । न च विषयग्रहणादन्यच्चैतन्यं नाम ॥


चेतनानामभौतिकत्वम्


एतेन ब्राह्मीघृतोपयोगोऽपि व्याख्यातः । व्यापकत्वादात्मनः सर्वत्र
भावे सति भोगायतनत्वेन कदाचित् भूतावयवानां उपादानम् । अतः
शुक्रशोणितादिवत् दध्यवयवान् विकृतानुपादास्यते । तथा च स्वेद
जादिभेदेन बहुभेदो भूतसर्गः प्रवर्तते विचित्रकर्मपरिपाकापेक्षयेति
यत्किंचिदेतत् । तस्मान्न सर्वथा भूतानां चैतन्यमिति सिद्धम् ॥


इन्द्रियचैतन्यवादनिरासः


नापीन्द्रियाणि यथोक्तस्य 1087ज्ञानादेः कार्यस्याश्रयतां प्रतिपद्यन्ते—


दर्शनस्पर्शनाभ्यामेकार्थग्रहणात् ॥ न्या-सू-३-१-१


यमर्थमहमद्राक्षं चक्षुषा, तमेवैतर्हि स्पर्शनेन स्पृशामि, यमस्प्राक्ष
स्पर्शनेन, तमधुना चक्षुषा पश्यामि इति कतरदिन्द्रियमेवमनुसन्दधीत ?
न चक्षुः, स्पर्शाविषयत्वात् । न त्वगिन्द्रियं, रूपाविषयत्वात् । तस्मा
दुभयविषयग्रहणसमर्थः कश्चिदनुसन्धाताऽस्तीति स इन्द्रियव्यतिरिक्तो
गम्यते ॥


II.291

गुणगुणिभेदसिद्धिः


अमुनैव प्रसङ्गेन रूपादिव्यतिरेकिणः ।

वक्तव्या गुणिनः सिद्धिरेतद्बुद्धिनिबन्धना ॥

रूपादिषु स्वतन्त्रेषु1088 न ह्येषप्रत्ययो भवेत् ।

न रूपमस्य विषयः न स्पर्शो न च तद्द्वयम् ॥

अतश्च—न गुणव्यतिरिक्तो गुणी, भेदेनाग्रहणात्—इत्यसिद्धः
परोक्तो हेतुः, भेदग्रहणस्य दर्शितत्वात् । वृत्तिविकल्पादीनां तु प्रति
समाधानं सामान्यसमर्थनावसरे 1089कथितम्, अवयविसिद्धौ वक्ष्यते
चेत्यलमवान्तरचिन्तया ॥


इन्द्रियाणामनात्मत्वे हेत्वन्तराणि


इतश्च नेन्द्रियाणां चैतन्यम्, करणत्वात्; वास्यादिवत् । भौति
कानि चेन्द्रियाणि वर्णयिष्यामः । तेन य एष भूतचैतन्यनिराकरणे न्यायो
वर्णितः, स तेष्वपि योजनीयः ॥


अतश्चैवं—


इन्द्रियान्तरविकारात् ॥ न्या. सू. ३-१-१२ ॥


म्रे हि चक्षुषा दृष्टे रसनिष्यन्दसुन्दरे ।

रसनस्य विकारः स्यात् न 1090दन्तोदकसंप्लवः ॥

II.292
बहूनामिन्द्रियाणां च भिन्नाभिप्रायता भवेत् ।

तेनैकत्रैव सन्ताने नानाचेतनता भवेत् ॥

अति तुच्छश्चायमिन्द्रियचैतन्यपक्ष इति किमत्र बहु लिख्यते ॥


मनश्चैतन्यवादनिरासः


ननु ! मनस्तर्हि इच्छादेरधिष्ठानं भविष्यति । तद्धि नित्यमेकं
सर्वविषयं, अभौतिकमिति न प्राक्तनदौषैः स्पृश्यते—उच्यते—मनसोऽपि
तदाश्रयत्वमनुपन्नम् । कुतः ?


ज्ञातुर्ज्ञानसाधनोपपत्तेः संज्ञाभेदमात्रम् ॥ न्या. सू.
३-१-१७ ॥


मनसो हीच्छाद्याश्रयत्वे ज्ञानादौ कर्तृत्वात् तस्यापि बाह्यगन्धादि
विषयज्ञानयौगपद्यानुपपत्तेः तद्ग्रहणकरणघ्राणाद्यधिष्ठानपटुना केन
चिदान्तरसुखदुःखादिविषयग्राहिणा स्मृत्यादिक्रियाकारिणा च करणेन
भवितव्यमिति तत्रात्मसंज्ञा भवेत्, आत्मनि च कर्तरि मनस्संज्ञेति ॥


बाह्यान्तरकरणयोरावश्यकता


न चास्य बाह्यकरणैः सिध्यन्ति सकलाः क्रियाः ।

न च स्मृतिसुखेच्छादौ क्षुरादीनि साधनम्1091

तेनेच्छाकृतिसुखदुःखवेदनानां

आधारो न खलु मनो न चेन्द्रियाणि ।

II.293
देहोऽपि व्रजति न तत्समाश्रयत्वं

तेनान्यं पुरुषमतः प्रकल्पयामः ॥

आत्मसाधने हेत्वन्तराणि


दिक्प्रदर्शनमिदं कृतमिच्छा-

द्वेषयत्नसुखदुःखमतीनाम् ।

लिङ्गताकथनमात्मनि तत्र

त्वस्ति हेतुनिवहो बहुरन्यः ॥

कर्तृप्रयोज्यता खलु दृष्टा दात्रादिकरणजातस्य1092

त्वक्श्रोत्राद्यपि करणं तथैव कर्त्रा प्रयुज्येत ॥

हिताहित1093प्राप्तिविसर्गयोग्या

चेष्टा च दृष्टा नियता शरीरे ।

तच्चेतनाधिष्ठितताममुष्य

गन्त्रीरथादेरिव कल्पयामः ॥

प्राणादिमारुतानामन्तश्चलतां चलाचलगतीनाम् ।

सहजनिजकर्मविकृतौ कारणमनुमीयते किंचित् ॥

इदं च देहादितरत्र दुर्लभं

निरीक्ष्य वृद्धिक्षतभग्नरोहणम् ।

ध्रुवं ग्रहस्येव गतिः प्रकल्पते

निजाश्रक्षेमपरायणो नरः ॥

II.294

मनसः ज्ञानसामान्यकरणत्वम्, अनात्मत्वं च


युक्तं च नैव मनसा ह्यनधिष्ठितानां

स्वार्थप्रमाकरणकौशलमिन्द्रियाणाम् ।

स्यात् कश्चिदिष्टविषयानुगुणः प्रयत्नः

यत् प्रेरितं सधितिष्ठति तानि, चेतः ॥

ज्ञानप्रयत्नादिमतोऽथ कस्य

दृष्टान्तता स्यात् करणादिलिङ्गे ।

1094कार्ये न नः पर्यनुयोग एषः

सामान्यमात्रस्य तवापि सिद्धेः ॥

आत्मनित्यत्वावश्यकता


प्रत्यक्षादिप्रमाणैर्यः व्यवहारः स चात्मना ।

विना नित्येन नेत्येवं ततोऽप्येतस्य कल्पना ॥

यत् प्रत्यक्षं प्रत्यभिज्ञास्वभावं

ज्ञात्रन्यत्वे तस्य न ह्यात्मलाभः ।

ग्राह्यस्यैक्यं यद्वदर्थस्य तस्मात्

सिध्यत्येवं ग्राहकस्यापि पुंसः ॥

अविनाभावग्रहणं लिङ्गज्ञानं तदन्वयस्मरम् ।

लिङ्गिप्रमितिरितीदं न बोद्धृभेदे प्रमाणं स्यात् ॥

II.295
ज्ञाते वनेचरमुखादतिदेशवाक्ये

दृष्टे मृगे विपिनवर्तिनि गोसदृक्षे ।

तत्संज्ञितामितिफलं लभते प्रमातृ-

भेदे न चेदमुपमानमिति प्रतिष्ठम् ॥

वर्णानां श्रवणं क्रमेण समयस्मृत्या पदार्थग्रहः

तत्संस्कारजमन्त्यवर्णकलनाकाले तदालोचनम् ।

आकांक्षादिनिबन्धनान्वयकृतं वाक्यार्थसंपिण्डनं

ज्ञात्रैकेन विनाऽतिदुर्घटमतो नित्यात्मसिद्धिर्ध्रुवा ॥

मयेदं पूर्वेद्युर्विहितमिदमन्येद्युरपरं

विधातव्यं चेति श्रुतिकृषिवणिज्यादिषु जनाः ।

यदेवं चेष्टन्ते निपुणमनुसन्धाय तदमी

ध्रुवं सर्वावस्थानुगतमवगच्छन्ति पुरुषम् ॥

आत्मलक्षणज्ञानस्य फलम्


इत्यात्मलक्षणमवादि यदेतदिच्छा-

द्वेषप्रयत्नसुखदुःखसमाश्रयत्वम् ।

1095तत्सङ्गिनं तदिह हेयतया व्यवस्येत्

तद्विप्रयुक्तमधिगम्यतया मुमुक्षुः ॥

विज्ञानात्मवादोपक्षेपः


अथो तथागताः प्राहुः किं पुंसा कल्पितेन वः ।

1096ज्ञानमात्रेण पूर्वोक्तः व्यवहारः प्रसिद्ध्यति

II.296
ज्ञानं किमात्मवन्नित्यं सौगतैरुपगम्यते

प्राग्दर्शितानुसन्धानकामनादिक्रियाक्षमम् ॥

ज्ञानं बौद्धगृहे तावत् कुतो नित्यं भविष्यति ।

अन्येऽपि सर्वे संस्काराः क्षणिका इति गृह्यताम् ॥

क्षणिकं चेष्यते कार्यं न क्वचित् किंचिदाश्रितम् ।

स्वतन्त्रं ज्ञानमेवातः नान्यस्तेनानुमीयते ॥

इच्छादीनां ज्ञानरूपत्वम्


ज्ञानस्य च प्रभेदोऽयं इच्छाद्वेषसुखादिकः ।

न वस्त्वन्तरमित्येवं न ततोऽप्यन्यकल्पनम् ॥

गुणत्वमपि नास्त्यस्य यतोऽधिष्ठानकल्पना ।

न गुणव्यतिरिक्तश्च गुणी नामास्ति कश्चन ॥

क्षणिकविज्ञानवादे स्मरणाद्युपपत्तिः


निराश्रयेषु विज्ञानस्कन्धेषु1097 क्षणभङ्गिषु ।

कथं स्मृत्यादिकार्यं वा परलोकोऽपि वा कथम् ॥

सत्यपि परलोके कथमकृताभ्यागमकृतविप्रणाशौ पराक्रियेते ? येन
हि ज्ञानेन चैत्यवन्दनादि कर्म कृतं, तस्य विनाशात् न तत्फलोपभोगः ।
यस्य च फलोपभोगः तेन न तत्कर्म कृतमिति—नैषदोषः—कार्यकारण
भावस्य नियामकत्वात् । अनादिप्रबन्धप्रवृत्तो हि ज्ञानानां हेतुफलभाव
II.297 प्रवाहः । एष एव च सन्तान इत्युच्यते । तत्कृतश्चायं अनुसन्धानादि
कार्यनियमः । सन्तानानादित्वात्, तदविच्छेदाच्च परलोकोऽपि न
क्लिष्टकल्पनः ॥


सन्तानसांकर्यनिरासः


यद्यपि सन्तत्यन्तरपतितज्ञानजन्यमपि सन्तत्यन्तरे ज्ञानं 1098दृश्यते,
तथापि न तादृशकार्यकारणभावेन सन्तानव्यवहारः प्रतिसन्धानादिकार्य
निर्वाहो वा; किन्तु उपादानरूपतद्विशेषनिबन्धन एवैष निर्वहति नियमः ।
तस्मिन्नेव सति स्वरूपसन्तानविभागोऽवकल्पते ॥


स्मृतिवत्परिहर्तव्यौ कृतनाशाकृतागमौ ।

तत्सन्तानोपसंक्रान्त्या कुसुमे बीजरागवत् ॥

आह च—


यस्मिन्नेव हि सन्ताने आहिता कर्मवासना ।

फलं तत्रैव बध्नाति कार्पासे रक्तता यथा ॥

यथा यस्मिन्नेव हि कार्पसबीजे वर्णः रक्तताख्यः कृतः, तस्यैव
कुसुममपि रक्तम्, नान्यस्येति; तथा यस्मिन्नेव ज्ञानसन्ताने यादृशी
कर्मवासना, तादृशं फलं तस्मिन्नेव सन्ताने भवति, नान्यस्मिन् ज्ञान
इत्यर्थः । तथा च कृतहानाकृताभ्यागमदोषनिरासः


आत्मनः नित्यत्वासंभवः


नित्यस्त्वात्माऽभ्युपगम्यमानः यदि सुखादिजन्मना विकृतिमनुभवति
तदयं अनित्य एव र्मादिवदुक्तः स्यात् । निर्विकारत्वे तु सताऽ
II.298 सता वा सुखदुःखादिना कर्मफलेन कस्तस्य विशेष इति कर्मवैफल्यमेव ।
तदुक्तम्—


वर्षातपाभ्यां किं व्योम्नः चर्मण्यस्ति तयोः फलम् ।

चर्मोपमश्चेत् सोऽनित्यः खतुल्यश्चेदसत्फलः इति ॥

तस्मादुत्सृज्यतामेषः मूर्धाभिषिक्तः प्रथमो मोहः आत्मग्रहो नाम ।
तन्निवृत्त्या चात्मीयग्रहोऽपि विरंस्यति अहमेव न, किं मम इति1099
तदिदमहंकारममकारग्रन्थिप्रहाणेन नैरात्म्यदर्शनमेव 1100निर्वाणद्वार
मबलम्ब्यताम् ॥


क्षणिकवादोपक्षेपः


तस्य च मार्गः क्षणिकपदार्थनिश्चयः । क्षणिकेषु हि सर्वभावेषु
निराश्रयेषु ज्ञानस्याप्याश्रयविरहात् कुतस्त्यमात्मकल्पनमिति ॥


कथं पुनरेषः सकलप्रमाणातीतः क्षणिकपदार्थवादः शक्यते शाक्यै
रभ्युपगन्तुम् ॥


न खलु क्षणभाङ्गित्वे भावानामक्षजा मतिः ।

प्रमाणं, क्षणिकाकारकल्पनोत्पत्यसम्भवात् ॥

अथवाप्यविनाभूतहेतुज्ञानोपपत्तितः

न भूमिरनुमानस्य विकल्पनियतस्थितेः ॥

स्मरणप्रत्यभिज्ञाने प्रत्युत स्थैर्यसाधके ।

एवं च वंचनामात्रं आशुनाशित्वदेशनाः ॥

II.299

क्षणिकत्वसाधनम्


उच्यते—प्रत्यक्षगम्यं क्षणिकत्वं भवति, न भवतीत्येषं करिष्यते
विचारः । अनुमानं तु संप्रत्येवाभिधीयते—सत्त्वात् क्षणिकाः पदार्था
इति । सत्त्वं तावदर्थक्रियाकारित्वमुच्यते । यथोक्तम् प्र. वा. 1-3-2


अर्थक्रियासमर्थं यत् तदेव परमार्थसत् इति ॥

सत्त्वस्वरूपं किम्


सत्प्रत्ययगम्यत्वे हि सत्त्वे, केशोण्ड्रकादेरपि1101 सत्त्वप्रसङ्गः । सत्ता
सम्बन्धित्वे तु सत्त्वे, सामान्यादीनां तदसम्बन्धादसत्त्वं स्यात् । अर्थ
क्रियासामर्थ्यसत्त्वानुवर्ती च लौकिको व्यवहारः । सत्यपि पुत्रे तत्कार्या
दर्शनात्—अपुत्रा वयम् इति व्यपदिशन्ति लौकिका । पुत्रादन्यस्मि
न्नपि तत्कार्यकारिणि सति सपुत्रा वयम् इति च ब्रुवते । तस्मादर्थ
क्रियाकारित्वमेव सत्त्वम् ॥


सत्त्वस्य क्षणिकत्वसाधकत्वम्


भवत्वेवं, तस्य तु कुत्र कथं वा क्षणिकत्वेन व्याप्तिग्रहणम् ? कुत्रेति
यत् पृच्छसि, यत्र रोचते महाभागाय घटे, पटे वा गृह्यतां व्याप्तिः ॥


किं साध्यधर्मिण्येव व्याप्तिग्रहणमुपपद्यते ?


धीमन् ! कोऽत्र प्रमादः ? न हि दैवनिर्मितः कश्चित् साध्यधर्मी
नाम । ग्रहीतुं शक्यते चेद्व्याप्तिः, यत्र तत्र सा गृह्यतामिति ॥


II.300

सत्त्वक्षणिकत्वयोः व्याप्तिः


यत्तु कथमस्या ग्रहणमिति—तदुच्यते—भावानां हि सत्त्वं क्रम
यौगपद्याभ्यां व्याप्तम् ॥


नित्येषु च पदार्थेषु1102 व्यापकानुपलम्भनात् ।

तद्व्याप्तमपि सत्त्वं हि बलात्तेभ्यो निवर्तते ॥

न च 1103राशिस्तृतीयोऽस्ति तेन गत्यन्तरक्षयात् ।

क्षणिकानेव तान् भावान् सत्त्वं समबलम्बते ॥

तच्च स्वग्राहकाद्बोधात् असन्दिग्धं प्रतीयते ।

ज्ञानोत्पत्त्यैव तद्धेतोः असामर्थ्ये पराकृते ॥

असमर्थात्समुत्पादो दृश्यते न हि कस्यचित् ।

शक्ताशक्तप्रसूतत्वे न तद्बोधोऽस्ति संशयः ॥

अत एव च तज्ज्ञानं प्रमाणं जगदुस्सदा ।

स्वरूपे शक्तिजत्वे तु संशयादेरसंभवात् ॥

किमिदं रजतं, उत शुक्तिकेति विशेषांशे संशेरतां नाम प्रमातारः;
न तु सामर्थ्यं प्रति 1104दोला काचित् संभवति—किमिदं ज्ञानं समर्थेन
जनितम् ? उत तदितरेण ?
इति । असमर्थस्य जनकत्वानुपपत्तेः ।
व्यापकानुपलम्भस्यापि व्याप्तिग्राहिणः स्वत एव प्रामाण्यम् । संशय
विपर्ययोस्तत्राप्यभावात् ॥


II.301

नित्यपदार्थस्यासंभवः


कथं पुनर्नित्येषु पदार्थेषु सत्त्वव्यापकयोः क्रमयौगपद्ययोरनुपलम्भः ?
उच्यते—नित्यो हि भावः क्रमेण वा कार्यं कुर्यात्, यौगपद्येन वा ? पर
स्परपरिहारव्यवस्थितात्मनां तृतीयप्रकारानुपपत्तेः ॥


क्रमशः कार्योत्पत्तिपक्षदूषणम्


न तावत् क्रमेण, स हि समर्थो वा स्यात् ? असमर्थो वा स्यात् ।
समर्थश्चेत् किं क्रमेण ? समर्थस्य कालक्षेपायोगात् । असमर्थस्तु
असमर्थत्वादेव न करोति किंचिदिति तस्यापि किं क्रमेण ?


सहकारिसान्निध्याद्यनुपपत्तिः


सहकार्यपेक्षया करोतीति चेत्—न—असमर्थस्य सहकारिणाऽपि
सामर्थ्याधानानुपपत्तेः । समर्थस्य स्वत एव सामर्थ्ये सति सहकारि
वैयर्थ्यात् ॥


सहकारिसन्निधानेऽपि चास्य स्वरूपेण वा कर्तृत्वं स्यात्, पररूपे
वा ? स्वरूपस्य च प्रागपि भावात्, तस्य च 1105कारकत्वात्, किं सह
कारिणा । पररूपेण कर्तृत्वे—पूर्वरूपपरित्यागात्, तद्रूपान्तरापत्तेश्च
क्षणिकत्वमापद्यते ॥


सहकारित्वमपि दुर्वचम्


एवं सहकार्यपि समर्थासमर्थतया विकल्पनीयः । स्वतोऽस्य सामर्थ्ये
किं परोपकारानुसरणदैन्येन ? असमर्थस्तु सचिवः किमागत्यापि तपस्वी
करिष्यति


II.302

किंच किंचित्करो वा सहकारी स्यात्, अकिंचित्करो वा ? अकिंचि
त्करपक्षे सर्वः सर्वस्य सर्वत्र कार्ये साचिव्यमुपगच्छेत् । किंचित्करश्चेत्
वक्तव्यं, किं करोतीति ॥


उपकारमिति चेत्, स उपक्रियमाणात् भिन्नः, अभिन्नो वा ? अभिन्न
श्चेत्, स एव कृतः स्यात्1106 । भेदे तस्य किमायातम्, यदसौ न पूर्व
वदास्ते ॥


1107कार्यादपि भेदाभेदाभ्यां चिन्त्य उपकारः । न कार्याद्भिन्नः,
अनुपलम्भात् । द्वयरणाभावाच्च । कार्यादव्यतिरेके तूपकारे सह
कारिणा क्रियमाणे कार्यमेव तेन कृतं स्यादिति मूलकारणानर्थक्यम् ॥


एकैकस्य कारकत्वासंभवः


ननु च एक एव भावः कारकः । स एव हि समर्थः । तदितर
पदार्थसन्निधानं तु स्वहेतुवशादुपनीतमिति नोपालम्भमर्हति—नैतद्युक्तम्
—एकस्य कदाचिदपि कारकत्वानुपलब्धेः तत्सामर्थ्यस्य दुरधिगमत्वात् ।
एवं ह्यसौ समर्थं उच्यते, यद्येकः कदाचित् कार्यमुत्पादयन् दृश्येत, न तु
विस्मृत्यापि दृश्यते ॥


अथ कार्यस्यायं स्वभावः, यदेकस्मान्नोत्पद्यते, कारणं तु शक्तमे
वेति—तदप्ययुक्तम्—कार्यस्वभावपराधीनत्वेन1108 कारणस्य सामर्थ्य
विरहप्रसङ्गात् । एवं ह्यसौ समर्थः कथ्येत, यदि कार्यस्वभावमनादृत्य
स्वतन्त्र एक एव प्रसह्य कार्यं जनयेत् । न चैवं दृश्यते इति यत्किं
चिदेतत् ॥


II.303

कारणे सामर्थ्यं दुरुपपादम्


अथ समर्थमेव कारणम् । तस्य त्वयं स्वभावः, यत् सहसैव कार्यं
न करोति, कतिपयक्षणव्यवधाने तु कार्यं करोतीति । यद्येवं न कदा
चित् कार्योत्पादः स्यात् । कार्यीत्पादसमयेऽपि कतिपयक्षणव्यवहित
कार्यजननस्वभावानपयात् पुनः कतिपयक्षणावेक्षणं स्यात् । तेष्वपि
कतिपयेषु क्षणेष्वतिक्रान्तेषु स एवास्य स्वभावस्तदवस्थ इति पुनरप्येवं
भवेदिति कदा नाम—कार्यं जनयेत् । तदेवमादिदोषोपहतत्वात् न
क्रमेण भावानामर्थक्रियासामर्थ्यम् ॥


यौगपद्यपक्षदूषणम्


नापि युगपत्; लोके तथा व्यवहारादर्शनात् । युगपत् कृतकार्य
स्यापि स्थिरस्य पुनरकरणे हेत्वभावः1109 । पुनश्च कुर्वन्नपि भावः कार्यं
न तदेव कुर्यात्, कृतस्य करणायोगात् । कार्यान्तरकरणे तु स एवायं
पुनः क्रमपक्ष आपतेदित्येवं क्रमयौगपद्ये नित्येभ्यः पदार्थेभ्यः निवर्तेते ।
ते च निवर्तमाने सत्त्वस्य व्यापके इति सत्त्वं तेभ्य आदावेव निवर्तते ।
तेभ्यः प्रच्युतं सत्त्वं गत्यन्तरविरहात् क्षणिकेष्वेव निविशते ॥


सत्त्वक्षणिकत्वयोर्व्याप्तिग्रहणम्


अतो यद्यपि कार्यहेतौ धूमाग्न्योरिव, स्वभावहेतावपि वा क्वचित्
वृक्षत्वर्शिशपात्वयोरिव पूर्वमिह साध्यसाधनधर्मयोर्ग्रहणं धर्म्मन्तरे न
वृत्तम्—तथापि 1110साध्यधर्मिण्येव व्याप्तिग्रहणमुपपत्स्यते, विपक्षव्यावृत्तेः
II.304 सुपरिनिश्चितत्वात् । सैव च विपक्षाद्व्यावृत्तिः । स एव चास्य हेतोः
स्वसाध्येनान्वयः । न ह्येवं सम्भवति, नित्येभ्यश्च व्यावृत्तं सत्त्वं, क्षणि
केषु च न निविष्टमिति; तृतीयराश्यभावात् । निराश्रयत्वानुपपत्तेश्च ॥


तदेवं क्वचिद्धर्मिणि व्याप्तौ गृहीताय—यदि स एव कदाचित् परं
प्रति दृष्टान्तीक्रियते, तदैवं नाम भवतु, को दोष इति ॥


क्षणिकत्वानुमानेऽनवस्थापरिहारः


ननु व्यापकानुपलब्धिः अनुमानम् । अनुमानेन चानुमानस्य व्याप्ति
ग्रहणेऽनवस्था ॥


नानवस्था, तावत्येव पर्यवसानात् । न हि व्यापकानुपलष्धेः
अनुमानान्तरात् व्याप्तिनिश्चयः, किन्तु प्रत्यक्षविकल्पादेव । तदनया
व्याप्तिनिश्चयात् सिद्धमेतत्—यत् सत्, तत् क्षणिकमिति ॥


क्षणिकत्वसाधकव्याप्तिग्रहणे पक्षान्तरम्


अन्ये तु रीत्यन्तरेण व्याप्तिनिश्चयमाचक्षते । विरुद्धयोरेकपरि
च्छेदेऽन्यतरनिवृत्तिरवश्यंभाविनी, विरुद्धत्वादेव । विरुद्धे च 1111सत्त्व
नित्यत्वे पूर्वोक्तयैव नीत्या । सत्त्वं च विस्पष्टमुपलभ्यते भावानाम्—
इति तदुपलम्भान्नित्यत्वनिवृत्तिः । नित्यत्वनिवृत्तिरेव क्षणिकत्व
निश्चयः, प्रकारान्तराभावात् ॥


नित्यत्वाग्रहणेऽपि व्यावृत्तिसिद्धिः


ननु ! शीतोष्णयोः पृथगुपलम्भात् विरोधनिश्चये युक्त एकग्रहणे
द्वितीयव्युदासः । इह तु सत्त्वमेवोपलभ्यते, न नित्यत्वमिति कथं तद्वि
II.305 रोधादितरव्यावृत्तिः—नैषदोषः—फृथगुभयानुपलम्भेऽपि सत्त्वसिद्ध्यैव
नित्यत्वनिराससिद्धेः ॥


सत्त्वज्ञानस्य क्षणिकत्वे प्रमाणत्वम्


कथमन्यषिया बुद्धिः अन्यमुदस्यति—उच्यते—


द्विचन्द्रदर्शनस्यैकशशभृद्बिम्बवेदिनी ।

धीरतद्विषयत्वेऽपि यथा मिथ्यात्वकारणम् ॥

तथा स्थैर्यासमाविष्टा सामर्थ्यग्राहिणी मतिः ।

स्थिरत्वाविषयत्वेऽपि तद्व्यवच्छेदकारिणी ॥

सत्त्वं नानास्वभावत्वं स्थैर्यमेकस्वभावता ।

तयोर्विरोधो युक्त्याऽपि वक्तुं न हि न शक्यते ॥

तस्मात् सत्त्वप्रतीतिरेव नित्यत्वनिवृत्तिः, सैव च क्षणिकत्वव्याप्ति
रिति सिद्धं सत्त्वात् क्षणिकत्वम् ॥


कारकत्वमेव क्षणिकत्वपर्यवसायि


अपि च सर्वदा कार्यानुत्पादात् कारकावस्था नूनमेकक्षणस्थायिनी
भावानामुपगन्तव्या । व्यापारावेशवशेन वा 1112श्रोत्रियादिपक्षे, सहकार्या
दिसन्निधनासादनेन वा नैयायिकपक्षे । कारकत्वं नाम वस्तुनः रूपं
एकक्षणवृत्त्येव, कार्योत्पत्त्येव तत्कल्पनात् । ततः पूर्वमुत्तरकालं वा
कारकत्वयोगात् । कारकत्वमेव परमार्थसत्, अकारकस्य ज्ञानजनकत्वा
भावात् अस्तित्वमपि दुर्वचम् । अतश्च सर्ववादिभिरेव प्रायेण क्षणि
II.306 कत्वमिदमभ्युपगतमिति यश एव केवलं सौगताः पीतवन्तः । तस्मात्
सिद्धं यत् कारकं, यच्च सत्, तत् क्षणिकमिति ॥


ध्वंसस्य हेत्वनपेक्षत्ववादः


अतश्च—क्षणभङ्गिनो भावाः, प्रलयं प्रति हेत्वनपेक्षत्वात् । भावो
हि स्वतो नश्वरात्मा भवेत्, तद्विपरीतो वा ?


विनश्वरस्वभावेऽस्मिन् कृतं प्रलयहेतुभिः ।

अनश्वरस्वभावे हि कृतं प्रलयहेतुभिः1113

क्व तर्हि मुद्गरादीनां व्यापारः ? विजातीयसन्ततिजन्मनीति ब्रूमः ॥


अभावस्तु 1114तज्जन्यो न संभवत्येव, प्रमाणविरुद्धत्वात् । भावो हि
स्वरूपेण न भवति, न त्वभावोऽप्यस्य भवतीति । स्वरूपं तु 1115तस्य
वनात्मकं चेत्, सर्वदैव भवेदेव, न न भवेत् । अभवनात्मकं तु
तदेव न भवेत्, परापेक्षाया अभावात् । न हि मुद्गरादिकारणान्तर
सापेक्षः कुम्भादेर्विनाशो भवितुमर्हति; उत्पत्ताविव नाशेऽपि समर्था
समर्थभिन्नाभिन्नोपकारकारिसहकार्यादिविकल्पकलापानपायात् ॥


विनाशस्य विलम्बासहत्वम्


अथ कतिपयक्षणव्यवहितविनाशस्वभावो भावः इष्यते—तर्हि
प्राक्तननयेन कदाचिदपि न विनश्येत् । विनाशसमयेऽपि तत्स्वभावान
पायेन पुनः कतिपयक्षणापेक्षणप्रसङ्गात् ॥


II.307

अपि च यदाऽपि तेन नष्टव्यं, तदाऽप्यस्य न स्वरूपादतिरिक्तः
कश्चन विनाशहेतुरवतरति । तच्च स्वरूपं आद्येऽपि क्षणे तस्य तादृश
मेवेति तदैव वा नश्येत्, न कदाचिद्वा ॥


मृत्योरपक्रान्तः तस्य चेत्प्रथमः क्षणः ।

अविनाशिस्वभावत्वात् आस्तां युगशतान्यपि ॥

न चैवमभ्युपगम्यते । तस्मात् 1116आत्मलाभाविनाभावी भावानां
विनाश इति सिद्धः क्षणभङ्गः ॥


प्रत्यभिज्ञायाः क्षणिकवादप्रतिकूलत्वनिरासः


यदपि क्षणभङ्गसाधकस्य पदार्थस्थैर्यावसायि प्रत्यभिज्ञानविज्ञानं
अनुमानस्य बाधकमभिधीयते—तदपि न पेशलम्—अशिथिलप्रतिबन्धहेतौ
बाधकस्य निरवकाशत्वात् । उक्तं हि—बाधाविनाभावयोर्विरोधान्नैकत्र
समावेशः
इति ॥


अनुष्णस्तेजस्वी, कृतकत्वात् इत्यत्रापि प्रतिबन्धवैधुर्यमेव साध्य
सिद्धिं निरुणद्धि, नाध्यक्षबाध्यत्वम् ॥


अथवा किमनेन निर्बन्धेन ?


अग्निशैत्यानुमानादौ युक्तं प्रत्यक्षबाधनम् ।

तस्य ह्यनन्यथासिद्धिः, इह त्वेतन्न युज्यते ॥

प्रत्यभिज्ञायाः अन्यथासिद्धत्वम्


प्रत्यभिज्ञायाः क्षणभङ्गपक्षेऽपि सदृशपरापरक्षणगणप्रसवप्रतारित
मतीनां उपपद्यमानत्वात् । एवंच सति—


II.308
यदि हि व्याप्तिशैथिल्यं सिद्धं किं प्रत्यभिज्ञया ।

अथ न व्याप्तिशैथिल्यं सिद्धं किं प्रत्यभिज्ञया1117

न चेत्थं प्रत्यभिज्ञैव व्याप्तिविप्लवकारणम्, इतरेतराश्रयप्रसङ्गात् ।
व्याप्तिविप्लवेनानुमाने न्यग्भूते प्रत्यभिज्ञा प्रमाणं भवति,—तस्यां च
प्रमाणीभूतायां व्याप्तिवैधुर्यादनुमानाप्रामाण्यम् ॥


अनुमानप्रामाण्येऽपि समानो दोष1118 इति चेत्—न—तस्य प्रतिबन्ध
महिम्नैव प्रामाण्यसिद्धेः । न हि तस्य प्रत्यभिज्ञादौर्बल्यनिबन्धन
प्रामाण्यम् ॥


प्रत्यभिज्ञास्वरूपविमर्शः


अपि च केयं प्रत्यभिज्ञा नामेति नैपुण्येन निरूपयितुमर्हन्ति अत्र
भवन्तः । किं स एवायं स्तम्भः इत्येकं ज्ञानम्, उत द्वे एते स्मृत्यनु
भवज्ञाने ?


यद्येकं, तदस्य कारणं वाच्यम्, यत उत्पद्यते । नेन्द्रियम्, सः
इत्यस्मिन्नंशे तस्यासामर्थ्यात् । न च संस्कारः, तस्यापि अयं इत्यंशे
कौशलाभावात् ॥


उभाभ्यां न च सम्भूय तद्ज्ञानमुपजन्यते ।

पृथक्पृथक् स्वकार्ये हि निर्ज्ञातं कौशलं तयोः ॥

संस्कारस्य स्मृतिरेव कार्यम्, इन्द्रियस्यानुभव एव । सम्भूय तु
न ताभ्यामेकं कार्यमारभ्यते1119 । न हि मृत्पिण्डतन्तुनिर्वत्येमेकं घटपटरूप
II.309 कार्यमुपलब्धम् । न चेन्द्रियं केवलमीदृशि कार्ये समर्थम् । यथासन्नि
हिताकारमात्रग्राह्यविषयकमिन्द्रियं प्रत्यभिज्ञानमातनोतीति विस्मयः ।
तस्मात् द्वे एते ज्ञाने, स इति स्मरणम्, अयमित्यनुभवः ॥


प्रत्यभिज्ञायाः ज्ञानद्वयरूपत्वम्


स्मृतिः स्मर्तव्यविषया ग्रहणं ग्राह्यगोचरम् ।

न तदैक्यपरामर्शि दृश्यते प्रत्ययान्तरम् ॥

यथा निरन्तरोत्पन्ने घटज्ञानपटस्मृती ।

न तुल्यविषये तद्वत् एते अपि भविष्यतः ॥

प्रत्यभिज्ञाया एकज्ञानत्वेऽपि नेष्टसिद्धिः


यद्वा भवतु नामेदं एकमेव हि वेदनम् ।

तथापि कीदृशं वस्तु स्पृशतीति परीक्ष्यताम् ॥

अतीतकालयुक्तं चेत् स्मरणान्न विशिष्यते ।

अनागतविशिष्टं चेत् सङ्कल्पप्रायमेव तत् ॥

वर्तमानैकनिष्ठं चेत् स्थिरत्वं तर्हि सुस्थितम्1120

कालत्रयपरीतं चेत् विरोधात्तत्तु दुर्लभम् ॥

परस्परपरित्यागव्यवस्थितनिजात्मनाम् ।

एकत्र न समावेशः कथं चिदुपपद्यते ॥

II.310

वर्तमानमात्रग्रहणे क्षणिकत्वसिद्धिः


यथा हि—


नीलाभावाविनाभूतलोहिताद्यपसारणम् ।

कुर्वता नीलबोधेन नीलं भवति निश्चितम् ॥

तद्वदिहापि—


1121तदभावाविनाभूत भूतकालाद्यपोहनम् ।

विदधद्वर्तमानार्थज्ञानं 1122तद्ग्राहितां व्रजेत् ॥

प्रत्यभिज्ञायाः अधिकविषयत्वाभावः


एतेन पूर्वज्ञानविशिष्टार्थग्राहित्वं प्रत्यभिज्ञायाः प्रत्युक्तम् । पूर्व
ज्ञानस्येदानीमसत्त्वेन विशेषणत्वानुपपत्तेः । अगृहीतविशेषणायाश्च
विशिष्टबुद्धेरभावात् ॥


थ उपजननापायरहितवस्तुस्वरूपग्राहिणी प्रत्यभिज्ञेत्युच्यते—
तदप्ययुक्तम्—वर्तमानैकनिष्ठतायाः प्रदर्शितत्वात् । भावानां च विनाश
जन्मनोः वर्तमानो वा कालः—स्यात्, अन्यो वा ? तदन्यस्तावत् ग्रहीतु
मशक्य इत्युक्तम् । वर्तमाने तु तदुत्पादविनाशकाले कथ्यमाने तद्ग्रहणा
त्तदविनाभूतौ भावानामुत्पादविनाशावपि गृहीतौ स्याताम् ॥


सेयं तपस्विनी स्थैर्यं प्रसाधयितुमागता ।

प्रत्यभिज्ञा विनाशित्वं प्रतिष्ठाप्य गमिष्यति ॥

II.311

प्रत्यभिज्ञायाः सादृश्यादिविषयकत्वम्


अपि च लूनपुनर्जातकेशनखादिषु सादृश्यात् दृश्यमाना प्रत्यभिज्ञा
स्तम्भादिष्वपि तद्वदेव न स्थिरतामुपपादयेत् । तत्र बाधकयोगादिति
चेत्—इहाप्युक्त एव बाधकः परस्परविरोधिभूतादिकालसमावेशस्यैकत्र
र्घटत्वादिति । तस्मात् प्रत्यभिज्ञाप्रत्ययस्य बाधकस्याभावात् सिद्ध
मानुमानिकं भावानां क्षणिकत्वम् ॥


क्षणिकत्वस्य प्रत्यक्षगम्यत्वपक्षः


अपरे पुनः प्रत्यक्षगम्यमेव क्षणिकत्वमाचक्षते ॥


नातीतानागतौ कालौ विचारयति चाक्षुषम् ।

वर्तमानः क्षणश्चैकः इति तन्निष्ठमेव तत् ॥

यदि च वर्तमानताव्यतिरिक्तग्राहि प्रत्यक्षमिष्यते तद्वक्तव्यम्—1123किं
पूर्वविज्ञानमनागतकालावच्छिन्नपदार्थग्रहणनिपुणम्, उत उत्तरविज्ञा
मतीतकालालिङ्गितभावाकलनकुशलमिति ॥


तत्र आद्यविज्ञानसमुपजननसमये तत्क्षणातिरिक्तभाविकालासन्नि
धानात् न तेन तद्ग्रहणम्, अनागतग्रहणे वा कथमागामिजन्मग्रहणं
स्यात् ?


उत्तरविज्ञानप्रसवसमयेऽपि भूतकालस्य भूतत्वादेव न सन्निधानम्,
असन्निहितभूतकालग्रहणे वा पूर्वजन्मग्रहणप्रसङ्गः1124


II.312

वर्तमानकालस्य तत्क्षणमात्ररूपत्वम्


अथ वर्तमानानुप्रवेशेन1125 भूतभाविनोः कालयोः ग्रहणं मन्यसे—
र्हि वर्तमानानुप्रवेशात् वर्तमान एव स कालः गृहीतः स्यात्, न
भूतः भावी वा ॥


अथ न कश्चिदेव कालः क्वचिद्गृह्यते, अर्थ एव केवलः प्रकाशत
इति—तदयुक्तम्—तदनवच्छिन्नभावग्रहणस्य भवद्गृहे चानभ्युपग
मात्1126


प्रत्यक्षस्य वर्तमानविषयकत्वम्


ननु कोऽयं कालो नाम शाक्यानां ? न कश्चित् वास्तवः, किन्तु
काल्पनिक एव तद्व्यवहारः ॥


सर्वथेन्द्रियजं ज्ञानं वर्तमानैकगोचरम् ।

पूर्वापरदशास्पर्शकौशलं नाबलम्बते ॥

वर्तमानश्च कियान् कालः ? एक एव क्षणस्ततः । पूर्वः क्षणोऽतीततां
स्पृशति, उत्तरस्त्वनागतताम् ॥


वर्तमानकालस्य न विततत्वम्


ननु च पचति, पठतीति वर्तमानोऽपि हि वितत एव कालः प्रतीयते
—नैतत्सारम्—


II.313
न ह्यस्ति कालावयवी1127 नानाक्षणगणात्मकः ।

वर्तमानक्षणो दीर्घः इति बालिशभाषितम् ॥

क्षणसमुदायात्मकत्वे तु नानारूपत्वमेव तस्य भवेत् । अतीताना
गतक्षणानुप्रवेशात् । तस्मादेकक्षणो वर्तमानः, स चात्यन्तमल्पीयानि
त्येवमेकक्षणपरीतार्थदर्शि चाक्षुषं ततः पूर्वमूर्ध्वं वा न पदार्थसत्तां
गृह्णातीति क्षणिका एव भावाः ॥


प्रत्यक्षेण क्षणिकत्वग्रहणोपपादनम्


ननु च वर्तमानक्षणात् पूर्वमूर्ध्वं वा तदस्तित्ववत् नास्तित्व
मपि न गृहीतमेवेति कथं क्षणिकत्वम् ॥


क एवमाह ? न गृहीतं नास्तित्वम् ? अनुपलब्धेरेव नास्तित्व
व्यवहारात् । उपलम्भो हि भावानां सत्ता, अनुपलम्भश्च
नास्तित्वम् । दर्शनादर्शने एव सदसत्त्वयोर्लक्षणम् । तस्मात् क्षणान्तरे
तदनुपलम्भात् नास्तित्वमेवेत्येवं क्षणिकत्वग्राहि प्रत्यक्षमिति स्थितम् ॥


प्रत्यभिज्ञाया विततकालाविषयकत्वम्


ननु च प्रत्यभिज्ञातो दीर्घकालत्वनिश्चयः ।

किमद्यापि न मुक्तोऽसि तत्प्रामाण्यकुतृष्णया ॥

परीक्षितं हि तस्याः स्वरूपं कार्य च कारणम्

न शक्नोत्येव सा स्थैर्यं उपपादयितुं ध्रुवम् ॥

न पूर्वं नोत्तरं ज्ञानं ग्राहि कालान्तरस्थितेः ।

तदिदं बोध्यमानोऽपि रागान्धो नावबुध्यसे

II.314

पूर्वं हि ज्ञानं तत्कालमेव, उत्तरमपि स्वकालमेव वस्तु गृह्णाति;
तु नास्त्येव ग्रहणम् । अग्रहणमेव हि मध्यमाहुः ॥


धारावाहिज्ञानस्याप्रामाणिकता


नन्वविच्छिन्नदृष्टीनां 1128न हि त्र्युट्यदवस्थितिः ।

स्तम्भादिरवभातीति कथमेतस्य भङ्गिता ॥

नैतदेवम्—तत्राप्येकक्षणवृत्तित्वात् ज्ञानस्य । क्षणान्तरे तु ज्ञान
मेव नास्ति तत्1129 । तत् कस्याविच्छिन्नसत्ता ? कस्य त्रुटितसत्ता ? कस्य
वा बाधकम् ?


ननु अस्त्येव क्षणान्तरे विज्ञानम्, अविच्छिन्नत्वाद्दृष्टेरिति चेत्—
मैवम्—बुद्धेरदीर्घकालत्वात् ज्ञानान्तरोत्पाद एवासावित्यवधारयत्वायु
ष्मान् ॥


तस्माद्यथैव सन्तानवृत्त्या ज्ञानक्षणोदयः ।

तथैवोत्पाद्यतामेषा स्तम्भक्षणपरम्परा ॥

ज्ञानस्य स्थिरत्वेऽपि न वस्तुस्थैर्यग्रहणम्


सोऽयं अविच्छिन्नदृष्टीनां अत्रुटितपदार्थसत्ताग्रहणाभिमान इत्थ
मुत्थितः ॥


स्थिरेणापि न बोधेन दीर्घकालस्थितिग्रहः ।

न ह्यसन्निहितग्राहि प्रत्यक्षमिति वर्णितम् ॥

II.315
तत्काले सन्निधिर्नास्ति क्षणयोर्भूतभाविनोः ।

वर्तमानक्षणश्चैको न दीर्घत्वं प्रपद्यते ॥

तेन बुद्धेस्स्थिरत्वेऽपि स्थैयेमर्थस्य दुर्वचम् ।

न त्वनन्तरया नीत्या 1130तस्या अपि चिरं स्थितिः ॥

साऽपि हि स्वसंवेद्यत्वात् एकक्षणपरीतैव प्रकाशत इति । तस्मात्
क्षणिकग्राहि प्रत्यक्षमिति सिद्धम् ॥


क्षणिकवादं प्रत्यनुमानं न प्रतिकूलम्


ननु स्थैर्यं पदार्थानामनुमानात्प्रतीयते ।

अन्वयव्यतिरेकाभ्यां मुद्गरादिर्विनाशकः ॥

निश्चीयते घटादीनां तेन पूर्वं 1131तदागमात् ।

विनाशरहितत्वेन सिद्धत्येषामवस्थितिः ॥

न—अनुपलम्भव्यतिरिक्तस्य हेतुमतः विनाशस्यानुपलब्धेः1132 । उप
लम्भ एवास्तित्वं भावानाम्, अनुपलम्भश्च नास्तित्वम् । न च घटानु
पलब्धिः मुद्गरादिकार्या, ततः प्रागपि भावात् ॥


घटकालेऽपि घटानुपलंभः


ननु दृश्यानुपलब्धेः असत्त्वनिश्चयः । स च कपालकाल एव घट
स्यावकल्पते । मध्ये त्वदर्शनं 1133अन्यथाऽपि स्यादिति नादर्शनमात्रमेव
II.316 नास्तित्वम्—मैवम्—त्वदभिमते मध्येऽपि दृश्यस्यैव 1134घटस्यानुपलम्भ
इति तदाऽप्यस्य नास्तित्वमेव ॥


अथापि मध्ये सर्वेषां न घटानुपलम्भनम् ।

तद्वत्कपालकालेऽपि सर्वेषामिति का प्रमा ॥

अनुभवस्सर्वेषां नैकरूपः


यदहं न वेद्मि, तत् परोऽपि न वेदेति चेत्; तर्हि मध्येऽपि घटं सर्व
एव न पश्येयुरिति नास्त्येवासौ कपालीभूतघटवत् । अपि च—


1135यदि यत्त्वं न जानासि तदन्योऽपि न मन्यते ।

स्वजायाजघनस्पर्शसुखमप्येष मा ग्रहीत् ॥

यदि वा बुध्यसे यत्त्वं तदन्योऽप्यधिगच्छति

त्वज्जायाजघनस्पर्शसुखमप्यधिगच्छतु ॥

तदलं ते परगृहवृत्तान्तचिन्तया । यत् पश्यसि तदस्तीति जानीहि
यन्न पश्यसि तन्नास्तीति विद्धि । एवमनुपलम्भ एव भावानां विनाश इति
न तस्य मुद्गरादिकार्यत्वम् । अतोऽनुमानमपि न स्थैर्यसाधकम् । तस्मा
द्यथोक्तक्रमेण प्रत्यक्षमेव क्षणिकपदार्थपरिच्छेदीति स्थितम् ॥


क्षणिकवादे दोषोद्धारः


स्मरणप्रत्यभिज्ञानस्वकर्मफलभोक्तृताः ।

क्षणिकत्वेऽपि कथिताः कार्यकारणभावतः ॥

II.317
तदेवमुपपन्नेयं गृह्यतां क्षणभङ्गिता ।

त्यज्यतां दीर्घसंस्कारकारणं स्थिरताग्रहः ॥

क्षणभङ्गनिरासोपक्रमः


अत्राभिधीयते नैव प्रमाणद्वयमप्यदः ।

भावानां क्षणभङ्गित्वं उपपादयितुं क्षमम् ॥

सत्त्वं नार्थक्रियाकारित्वम्


अर्थक्रियासमर्थत्वं सत्त्वं यत्तावदुच्यते ।

तदसत्कूटहेमादि1136व्यभिचारावधारणात् ॥

किन्त्वबाधितसद्बुद्धिगम्यता सत्त्वभिष्यते ।

सदसद्व्यपदेशस्तु पुत्रादावौपचारिकः ॥

एवं च बाधकाभावपर्येषणपरायणम् ।

न सत्त्वग्राहकं ज्ञानं स्वतः प्रामाण्यमर्हति ॥

सत्त्वे च संशयोऽप्यस्ति सकलप्राणिसाक्षिकः ।

उपलब्ध्यव्यवस्थात इत्येवं वर्णयिष्यते ॥

क्षणिकस्यार्थक्रियाकारित्वासंभवः


अर्थक्रियासमर्थत्वं त्वदुक्तं सत्त्वमस्तु वा ।

तदपि व्याप्तिशून्यत्वान्न हेतुर्गन्धवत्त्ववत् ॥

क्षणिकस्यापि भावस्य सत्त्वं नास्त्येव सोऽपि हि ।

क्रमेण युगपद्वाऽपि न कार्यकरणक्षमः ॥

II.318
क्षणिकस्य क्रमः कीदृग्युपत्करणे पुनः ।

एकवस्तुक्षणस्यापि रूपभेदः प्रसज्यते ॥

कार्याण्येकेन रूपेण भिन्नानि जनयेत्कथम् ।

रूपभेदविरोधात्तु वस्तुनो नास्तिता भवेत् ॥

क्षणिकवादस्य दुर्वचत्वम्


स्थिते च वस्तुसद्भावे1137 क्षणिकत्वं परीक्ष्यते ।

तदसत्त्वे तु तच्चिन्ता व्योम्नि रोमन्थकेलिवत् ॥

ज्ञाने क्षणिकचिन्ता चेत् किं तस्यापि पराकृतौ ।

वहन्त्येतानि शास्त्राणि ज्ञेयाभावे च तत्कुतः ॥

क्षणिकवादे कार्यानुपपत्तिः


अपि च—क्षणिकत्वपक्षे किमेकस्मादेकोत्पादः ? उत बहुभ्य
एकोत्पत्तिः ? अथैकस्मादनेकनिष्पत्तिः ? आहोस्वित् बहुभ्यो बहु
सम्भवः ? इति परीक्षणीयम् ॥


न तावदेकस्मादेकोत्पत्तिः, अलौकिकत्वात् । एकस्मादप्यग्नेः भस्म
धूमेन्धनविकाराद्यनेकप्रकारकार्यकलापोत्पाददर्शनात् । कार्यसिद्धये च
सर्वत्र सहकारिसन्निधापनप्रयत्नदर्शनात्, न वै किंचिदेकं जनकम् इति
ग्रन्थविरोधाच्च ॥


एकस्मात्कारणादनेककार्यासंभवः


एतेन तृतीयः पक्षः निरस्तः एकस्मादनेकोत्पत्तिरिति । एकश्च
नैकं जनयत् क्रमेण जनयेत्, युगपद्वा ? न क्रमेण, स्थेर्यप्रसङ्गात् ॥
II.319 न यगपत्, अदृष्टत्वात् । एकस्य चानेककार्यकरणशक्तियोगेन तद्भे
दान्नानात्वप्रसङ्गः ॥


विरुद्धधर्मयोगेऽपि यदि चैकत्वमिष्यते ।

अनेकक्षणयोगेऽपि भाव एक उपेयताम्1138

बहुभिः कारणैरेकाकार्यस्याप्यसंभवः


अथ बहुभ्य एकोत्पादनमिति पक्ष आश्रीयते—तद्वक्तव्यम्—किं
तदेकं कार्यम् ? कैर्वा बहुभिरुत्पाद्यते इति । न ह्यस्माकमिव भवतां अने
कोपायनिबहनिर्मितं अवयविस्वरूपं कार्यमस्ति; संचितैः संचिता
एव जन्यन्त इत्यभ्युपगमात्1139


यदि चानेककारणकार्यमेकमुच्यते तदस्य कारणभेदोपनतस्वभाव
नानात्वयोगात् एकत्वमेव तावद्विरुध्यते । अन्यथात्वे हि न कारणा
धीनं भावानां रूपमित्याकस्मिकत्वप्रसङ्गः । कारणभेदापादितनाना
त्वस्यापि यदि चैकत्वं, तदैकस्य नानाकालयोगिनोऽप्येकत्वं स्यात् ।
असत्त्वं वा भिन्नस्वभावस्य वस्तुन इति पूर्ववत् वक्तव्यम् ॥


बौद्धमते ग्राह्यग्राहकभावानुपपत्तिः


लोचनालोक1140मनस्कारादिकारणभेदे कार्यमप्येकरूपं ज्ञानं इति चेन्न—
तस्य भवन्मते विषयाकारग्राहकत्वस्वसंवेदनरूपभेदात् । निराकारज्ञान
वादिनो हि बौद्धस्य प्रतिकर्मव्यवस्था न सिध्यति, जनकस्य कर्मणः
II.320 प्रतिभासे स्थैर्यप्रसङ्गात्, एकसामग्र्यधीनत्वपक्षस्य चासम्भवात्1141
सम्भवेऽपि वा ग्राह्यनियमनिमित्ताभावादिति1142


बहुभ्यो बहुसंभवदूषणम्


अथोच्यते—किमनभ्युपगतपक्षोपमर्दनेन । हुभ्यो बहुसंभव
इत्येष एव नः पक्षः । सन्तानवृत्त्या वर्तमाना पूर्वसामग्री सरूपामुत्तर
सामग्रीमारभते । विजातीयकारणानुप्रवेशे तु विरूपामिति ॥


अथ केयं सामग्री नाम ? न समग्रेभ्यो भिन्ना, पृथगनुपलम्भात् ।
अव्यतिरेके तु समग्र एव सामग्री । तत्र पूर्वसमुदायेन उत्तरसमुदायारम्भे
तदन्तर्गतं समुदायिनमेकमेक एवोत्पादयेत्, एकं वा सर्वे संभूयेति ॥


तत्र आद्ये पक्षे सैवेयमेकस्मादेकोत्पत्तिरुक्ता स्यात् । सा च
प्रतिषिद्धा ॥


कार्यसांकर्यप्रसंगस्तन्मते


अथैकैसमुदायिनिष्पत्तौ सर्वसमुदायिनां व्यापारः—स तु क्रमेण
वा, यैगपद्येन वा ? तत्र क्रमपक्षे क्षणिकत्वहानिः । ये हि तत्र पंचषास्स
मुदायिनः क्षणाः वर्तन्ते, ते एकं तमुत्पाद्य पुनरपरमारभेरन्, पुनरन्य
मिति तावत्कालप्रतीक्षणादक्षणिकत्वम् ॥


अथ युगपदेव सर्वनिष्पत्तौ सर्वे व्याप्रियन्ते, तर्हि निकुरुम्बरूपमेव
कार्यं निकुरुम्बरूपादेव कारणादुत्पन्नमिति, कारणविवेकनियमाभावात्
रूपरसादिप्रविभागो न स्यात् । इदं रूपं, एष रसः इति कथं निश्ची
II.321 यते ? चित्रेण चित्रमुत्पादितमिति सर्वं रूपं स्यात् । सर्वो वा रसः ।
यद्वा न रूपं, न रसः, अन्यदेव किंचद्वस्त्वन्तरं तत् स्यात् ॥


कारणेषु वैलक्षण्यमपि तन्मते दुर्वचम्


अथोच्यते—यद्यपि रूपरसादिसामग्री तत्सामग्र्या एव जनिका1143,
तथापि क्वचित् किंचिदुपादानकारणं, इतरत्सहकारि कारणम् । तत्र रूप
क्षणनिष्पत्तौ रूपस्योपादानकारणत्वात् इतरेषां च सहकारिकारणत्वात् न
पदार्थसङ्कर इति—तदयुक्तम्—सर्वथा कारणत्वानपायात् ॥


अस्मिन् पक्षे स्थैर्यापत्तिः


अपि च येन स्वरूपेण रूपस्य रूपं प्रत्युपादानकारणता, तेनैव यदि
रसं प्रति सहकारिकारणता तदा पुनरपि रूपरसयोरविशेषः । अथान्येन
रूपेण रूपस्य रूपोपादानता, अन्येन च रससहकारितेति, तर्हि स्वभाव
भेदान्नानात्वम्, नानत्वे च स्थैर्यम्, असत्त्वं वेत्युक्तम्—


अथ नास्त्यनयोः किंचिद्विरुद्धत्वं स्वभावयोः ।

कथं बौद्धगृहे जातस्त्वमेवमभिभाषसे1144

भावानां परस्परपरिहारव्यवस्थितरुपत्वादस्त्येवैषां 1145लक्षणिको
विरोधः ॥


II.322

क्षणिकवादे कारणविशेषव्यवस्थापनं दुकरम्


अपि च क्षणिकत्वे पदार्थानां, इदमत्रोपादानकारणं, इदं सहकारि
कारणमिति विशेषोऽपि दुरवगमः । तथा हि—किमिदमुपादानं नाम ?
किं स्वसन्तानविनाशेन बीजादिवत् कार्यजनमुपादानम्, उत
स्वविशेषसमर्पणेनोत्पादकमिति । यदि पूर्वः पक्षः, परलोकचर्चा
चार्वाकवदुपेक्षिता स्यात्1146 । ज्ञानसन्तानविनाशेन ज्ञानान्तरारम्भप्र
सङ्गात् ॥


स्वविशेषार्पणपक्षेऽपि सर्वविशेषार्पणं वा स्यात्, कतिपयविशेषार्पणं
वा ? सर्वविशेषार्पणे निर्विकल्पज्ञानं सविकल्पकस्य नोपादानकारणं
स्यात्1147


क्षणिकवादे हेतुदर्शनं व्याप्तिस्मारकं न स्यात्


लिङ्गदर्शनजन्या च प्रतिबन्धस्मृतिः कथम् ।

कथं वा रसविज्ञानं रूपज्ञानादनन्तरम् ॥

सन्तान1148भूयस्त्वाद्भविष्यतीति चेत्—न—एकप्रमात्रधीनप्रतिसन्धानौ
पनिबन्धनव्यवहारप्रतिबन्धविप्लवप्रसङ्गात् । नित्यमेकमात्मानमन्तरेण
सन्तानैकतायामपि तावदसौ व्यवहारो नावकल्पते । किमुतैकत्रैव देव
दत्तसन्तानभूयस्त्वे सतीति ॥


II.323

कतिपयविशेषार्पणेन तु यद्युपादानता, तदानीं रूपमपि ज्ञानोपादान
कारणतां प्रतिपद्येत । तस्मान्नोपादानकारणं नाम किंचित् । तन्निरासेन
च तद्वैलक्षण्यलक्ष्यमाणस्वरूपस्य सहकारिणोऽपि व्युदासो वेदितव्यः ॥


सहकार्यधीनत्वे स्थैर्यसिद्धिः


अपि च—


प्रतिक्षिपसि त्पक्षे सर्वथा सहकारिणम् ।

स्वयं चाङ्गीकरोषीति, भिक्षो ! रागीव लक्ष्यसे ॥

भिन्नाभिन्नोपकारादिविकल्पास्त्वत्प्रकल्पिताः ।

सहकारिप्रतिक्षेपकारिणः क्वाधुना गताः ? ॥

1149आ ! ज्ञातं युक्तिशक्त्यैषः युष्माभिरुपकल्पितः ।

दोषो न बाधते युष्मान् मन्त्रोत्थापितसर्पवत् ॥

क्षणिकावादे कार्यकरणभावासिद्धिः


अथवा—तिष्ठतु तावदुपादानसहकारिकारणविवेकः ! कार्यकारण
भाव एषः भदन्तसिद्धान्ते दुरुपपादः । परोत्पत्तावव्याप्रियमाणमेव
यदि कारणमुच्यते सर्वं सर्वस्य कारणं स्यात् ॥


न चालब्धात्मनस्तस्य1150 व्यापारः परजन्मनि ।

लब्धात्मनस्तु व्यापारे स्थितिस्सिद्धा क्षणान्तरे ॥

II.324

आनन्तर्यमात्रं न कारणत्वगमकम्


अथ ब्रूयात्—इदं प्रतीत्य इदं प्रतीयते इति इदंप्रत्ययतामात्रमेव1151
कार्यकारणभाव इति—तथापि लब्धात्मनः क्षणस्य प्रतीतिरिति द्वितीय
क्षणावस्थानमपरिहार्यमेव ॥


न चानन्तर्यमात्रेण कार्यकारणग्रहः ।

1152अहेतुफलभावेऽपि तथाऽनन्तर्यदर्शनात् ॥

व्यापारस्तु परोत्पत्तौ नास्त्येव क्षणभङ्गिनः ।

न वर्तमानकालस्य न भूतस्य न भाविनः ॥

तुलादृष्टान्तवैरूप्यम्


अथ मन्येथा यथा तुलान्तयोर्नामोन्नामौ भवतः1153, एवं पूर्वोत्तरयोः
क्षणयोः नाशोत्पादावित्येवं पूर्वक्षणविनाशेनोत्तरक्षणनिवृत्तेः इयतैव
तौ कार्यकारणभावमश्नुवीयातामिति—एतदप्यमनोरमम्—न ह्ययमायु
ष्मता सम्यगवधृतस्तुलादृष्टान्तः ॥


तत्रान्यदेव हेमादि नामोन्नामनिबन्धनम् ।

न्नामो न तु नामेन तेन वा स विधीयते ॥

इह हि न पूर्वेण क्षणेन, नापि तद्विनाशेनोत्तरः क्षण उत्पद्यते । न
च हेमस्थानीयमिहान्यदस्तीत्यनुत्पाद एवावशिष्यते ॥


II.325
सर्वथा पनिष्पत्तौ निर्व्यापारं न कारणम् ।

सव्यापारस्य कर्तृत्वे क्षणिकत्वं तु दुर्घटम् ॥

इथं च सत्त्वं व्यावृत्तं क्षणिकेभ्यो विशेषतः ।

तेनासाधारणत्वेन यायात्संशयहेतुताम् ॥

सत्त्वं क्षणिकत्वविरुद्धस्यैव साधकम्


अथवा लब्धात्मनः पदार्थस्य परोत्पत्तौ व्याप्रियमाणत्वेन कार
त्वावधारणात्, द्वित्रक्षणस्थायित्वमवश्यमनन्तरनीत्या भवेदिति प्रत्युत
सत्त्वादक्षणिकत्वसिद्धेः विरुद्धोऽयं हेतुः ॥


अतश्चैवं, नित्यानामेवार्थक्रियाकारित्वोपपत्तेः समवाय्यसमवायि
निमित्तभेदेन त्रिविधा कार्यकारणसामग्री परस्परसंसर्गमागत्य यथा
सन्निधानं कार्यं प्रसूत इति कृतं क्रमयौगपद्यविकल्पैस्तावकैः । यदैवा
विकलसंसर्गा सामग्री तदैव कार्योत्पत्तिः ॥


कार्याणां क्रमादेवोत्पत्तिः


1154अत एव च कार्याणां युगपन्न समुद्भवः ।

न चापि कारणं नित्यं सामग्री न हि सर्वदा ॥

प्राणि1155कर्मविपाकोऽपि सामग्यन्तर्गतोऽस्ति नः ।

सर्वस्य सुखदुःखादिहेतोस्तदुपपादनात् ॥

न च समग्रव्यतिरेकाव्यतिरेकविकल्पः अस्मत्पक्षे सामग्रीं अपबा
धते; समग्रधर्मत्वात् सामग्र्याः । समग्रापेक्षया च सामग्र्या एव च
तमबर्थातिशययोगात् करणमिति प्रमाणसामान्यलक्षणे वर्णितमेतत् ॥


II.326

कारणानां प्रत्येकसामर्थ्यप्रश्नोऽपि व्यर्थः


समर्थत्वासमर्थत्वविकल्पोऽपि सङ्गतः ।

सामग्र्या एव सामर्थ्यं ततः कार्यस्य दर्शनात् ॥

तदन्तर्गतस्य तु कारकजातस्य शकटाद्यङ्गस्येव सामर्थ्यं यावत्,
तावदभ्युपगतमेव तदपेक्षस्य सामग्र्याः साधकतमत्वस्य निर्वहणात् । न
हि भवति कृष्णाच्छुक्लतर1156 इति ॥


अविकलं तु सामग्र्या एव सामर्थ्यं, यदनन्तरं कार्यनिष्पत्तिरिति
कार्यनिष्पत्तिदर्शनादेवावगम्यते ॥


कारकत्वं न क्षणिकम्


यदपि एकक्षणस्थायि कारकं स्यादित्युद्धोषितं परैः—तदप्यसत्—
कार्यनिष्पत्तिपर्यन्तत्वादवस्थानस्य । एकेन च क्षणैन कार्यनिष्पत्तेर
घटमानत्वात् । कार्यनिष्पत्तेरूर्ध्वं तु सामग्री विप्लवते1157 न समग्राणिः
तेषामेकैकशः क्वचित्क्वचिदुपलम्भात् चक्रसूत्रदण्डादीनाम् । इत्थं
स्थिराणामेव पदार्थानां अर्थक्रियासामर्थ्यः समर्थिसमिति न ततः क्षण
भङ्गसिद्धिः ॥


एवंच त्त्वनित्यत्वयोः विरोधात्—सत्त्वप्रतीत्यैव एकचन्द्रबुद्धि
वत् तदितरनिराकरणमित्यादि यत् प्रलपितं तत् प्रतिक्षिप्तं भवति ॥


II.327

ध्वंसस्यानपेक्षत्वनिराकरणम्


यदप्यभाणि नाशं प्रत्यनपेक्षत्वात् क्षणिकाः पदार्था इति—तदपि
यत्किंचित्—दण्डादिव्यवहारान्वयव्यतिरेकानुविधायिनस्तत्कार्यस्य घटा
द्यभावस्य विस्तरतः प्रमाणचिन्ताऽवसरे प्रसाधितत्वात् । प्रध्वं
साभावश्च विनाश इत्युच्यते ॥


नश्वरानश्वरत्वादिविकल्पास्तु न साधवः ।

सामग्र्यधीनः प्रध्वंसः भावानामात्मलाभवत्1158

मुद्गरादिसामग्र्या घटस्य किं क्रियते ? मृत्पिण्डादिसामग्र्या
किमस्य क्रियते ? आत्मलाभ इति चेत्, अनयाऽप्यात्महानं करिष्यते ॥


भावाभावयोरुभयोरपि हेत्वधीनत्वम्


ननु ! 1159नश्वरश्चेत् तत्कारणमफलम्, अनश्वरत्वे त्वशक्तमिति—
उत्पत्तावपि तुल्योऽयं प्रलापः । भवनस्वभावश्चेत् घटः स्वत एव भवति,
किं दण्डादिकारकसामग्र्या ? अभवनस्वभावस्तु कर्तुमशक्यः, खर
विषाणवदिति ॥


कारकव्यापारकार्यत्वदर्शनात् अपर्यनुयोग एष इति चेत्, विनाशे
च समः समाधिः, उत्पत्तिवत् विनाशस्यापि कारकान्वयव्यतिरेकानु
विधायित्वात्


II.328
तस्मादुत्पन्नमात्रस्य विनाशो नास्ति वस्तुनः ।

आविनाशकसद्भावादवस्थानमिति स्थितिः ॥

घटादीनां नित्यत्वापादनपरिहारः


ननु ! सापेक्षाणां 1160भावानां नावश्यंभाविता भवेदिति घटस्य
विनाशहेतुर्नोपनिपतेदपि कदाचित्—1161इत्येवमसौ किं नित्य एव भवत्विति
—अहो ! महान् प्रमादः, उत्सन्नाः प्रजाः, पतितो महान् वज्राशनिः,
दुष्परिहरोऽयं दोष उत्थितः । यदि घटो नित्यो भवेत्, एष कालाग्नि
रुद्र इव त्रिभुवनमपि भस्मीकुर्यात् ॥


घटादीनां सावयवत्वेन नाशावश्यंभावः


अपि च, रे मूढ ! सावयवस्य, आश्रितस्य कार्यस्य च नूनमवयव
विभागात्—आश्रयविनाशाद्वा यदा कदाचिद्भवितव्यमेव विनाशेनेति
कस्तन्नित्यत्वशङ्कावसरः ? तथा हि न रामाभिषेककलशमद्य यावदनु
वर्तमानमीश्वरवेश्मन्यपि पश्यति लोक इत्यवश्यंभावी तस्य विनाश
हेतुः । तस्मात् सहेतुको विनाश इति न स्वत एव विनश्वरा भावाः ॥


वस्तुस्थैर्यं प्रत्यक्षसिद्धम्


अपि च प्रत्यज्ञा स्वतेजोविभवविधूतबौद्धसिद्धान्तध्वान्तसिद्धान्त
संततिरभङ्गुरमेव भावनिवहमनिशमुपदर्शयन्ती दिनेशदीधितिदशशत
II.329 विभागवती 1162सर्वतो जाज्वलीतीति कस्तस्य सत्यं क्षणभङ्गिनो भावा
नभिदध्यात् । यच्च किंचन तस्यामपभाषितं—तत्सर्वमसमंजसम् ॥


प्रत्यभिज्ञाप्रामाण्यम्


यत्तावदिदं विकल्पितं—स एवायमिति किमेकं विज्ञानम्, उत द्बे ?
इति—तत्रोच्यते—सामानाधिकरण्येनैकविषयावद्योतनाप्रवणैकप्रतीति
संवेदनात् केयं द्वित्वाशङ्का ? योऽयमयं सः, यः सः सोऽयमित्येकत्वा
वमर्शिनी खल्वियमेका । स्वतस्तु याऽनेकप्रतीतिरनुभूयते घटोऽयमिति
न्न निरन्तरोत्पन्नघटज्ञानपटस्मरणवत् भिन्नविषयं बुद्धिद्वयमिति ॥


प्रत्यभिज्ञायाः प्रत्यक्षत्वम्


यत्तु किमेकप्रतीतिजन्मनि करणमिति—


कार्यं चेदवगम्येत किं कारणपरीक्षया1163

कार्यं चेन्नावगम्येत किं कारणपरीक्षया ॥

न च कार्यमकारकं भवितुमर्हति, कार्यत्वस्यैवानुपपत्तेः इति भवि
तव्यमेव तत्र कारणेन । अस्ति च संस्कारसहितमिन्द्रियमस्याः प्रतीतेः
कारणं पृथक् । कार्यताऽपि तयोर्दर्शनादे1164 गभ्यते । तदिह सन्निहित
योरेककार्यजन्मनि व्यापारात् तदपि किमिति नेष्यते । मृत्तन्तुकार्यमेक
मदर्शनादेवानभ्युपगतम् । इदं तु दृष्टत्वाद्दुरपह्नवम् ॥


II.330

1165क्वचित्तु केवलेन्द्रियव्यापारादपि—कार्यादर्शनान्न सर्वत्र तथाविध
स्यैव तस्य कार्यकारित्वं, सहकार्यपेक्षेण कार्यान्तरजननात् ॥


प्रत्यभिज्ञाविषयनिर्णयः


यत्तु उक्तं—कीदृशोऽर्थः प्रत्यभिज्ञायामवभातीति—तत्रैते वादिनः
शतकृत्वो दत्तोत्तरा अपि यत्पुनरस्माननुयुंजते, तेन बलवदुद्विग्नाः स्मः ।
उक्तमत्र प्रमितयः प्रष्टव्याः, न तु वादिन इति । अतीतकालविशिष्टो
वर्तमानकालावच्छिन्नश्चार्थ एतस्यामवभासते ॥


एकस्य कालद्वयसंबन्धः न विरुद्धः


ननु पूर्वापरौ कालौ परस्परविरोधिनौ ।

नैकत्र विशतस्तेन तद्भेदाद्वस्तु भिद्यते ॥

नैतदेवम्—केयूरकिरीटकटककुण्डलादिभेदेऽपि देवदत्तस्याभदात् ।
अवयव्यस्ति, नास्तीति परीक्षणं वादान्तरगमनम् । अपवर्गाह्निके च
विस्तरेणावयवी साधयिष्यत इत्यास्तामेतत् ॥


कुण्डलादीनामविरोधादिति1166 चेत्—न—लाक्षणिकविरोधाभ्युपगमात्1167
परस्परपरिहारव्यवस्थितात्मनो हि सर्वे भावा इति भणद्भिर्भवद्भिरभ्यु
पेयत एषां विरोधः ॥


II.331

एकस्य कालद्वयसंबन्धो न विरुद्धः


ननु ! केयूरादीनां विरोधेऽपि तदाऽवस्थानादेकदेवदत्तसंबन्धित्वम
भ्युपपद्येतापि । भूतवर्तमानयोस्तु 1168युगपदसन्निधानात् कथं तद्वि
शिष्टता स्तम्भादेरुच्यते—प्रतीयते च द्वौ कालौ, न च सन्निहिताविति
चित्रम् ॥


किं भूतोऽपि काल इदानीमस्ति—मैवम्—नासावस्तीत्युच्यते, अपि
त्वासीदिति । अस्तीत्युच्यमानः वर्तमान एव स्यात्, न भूतः ॥


हन्त तर्हि भूतः भूतत्वादेव नेदानीमस्तीति कथं प्रतिभासते ? भूत
त्वेनैवेति ब्रूमः । भूतः कालो भूततयैव गृह्यते, वर्तमानोऽपि वर्तमान
तयैव, अर्थस्तूभयानुगत एक एव, तथा ग्रहणात् ॥


भूतकालस्येदानीं भानसंभवः


ननु भूतकालस्येदानीमभावात् तद्विषयं ज्ञानमनर्थजं स्यात्—न—
धर्मिणस्तदवच्छिन्नस्य ज्ञानजनकस्य भावात् । भूतः कथमवच्छेदक
इति चेत्, तथा प्रतिभासात् । प्रतीतिमवमृशतु भवान् स एवायम्
इति । यः पूर्वमासीत्, स इदानीमप्यस्तीति । सोऽयमतीतकाल
विशिष्टोऽर्थ एतस्यां बुद्धाववभासते ॥


प्रत्यभिज्ञाया इन्द्रियजत्वम्


ननु । असता भूतकालेन विशेषितमर्थं कथमिन्द्रियजा प्रतीतिरा
लम्बनीकुर्यात् ? उच्यते—


II.332
अन्त्यसंख्येयसंवित्तिकाले प्रागवलोकिताः ।

यथा 1169शतादिज्ञानानि जनयन्ति पदातयः ॥

अतीतकालसंसर्गो भवन्नेवं विशेषणम् ।

स्तम्भादिप्रत्यभिज्ञायाः कारणत्थं प्रपद्यते ॥

अविद्यमानस्यापि विशेषणतया भानसंभवः


संख्येयाः पदातयः सन्ति, अतीतकालस्तु नास्तीति चेत्—कपि
त्थेषु भक्ष्यमाणेषु किं वक्ष्यति देवानां प्रियः ? शतं कपित्थानां भक्षि
तवान् वाहीक इति प्रतीतिदर्शनात् । न च नवनवतावनुपयुक्तेषु
कपित्थेषु 1170एकत्रैव शतं मया भक्षितम् इति मतिः । अतः यथा
तत्रातिक्रान्तान्यपि नवनवतिकपित्थानि शतप्रतीतिहेतुतामुपयान्ति, प्रति
भासोपारूढत्वात्; एवमतीतकालयोगोऽपि प्रतिभासमानः प्रत्यभिज्ञा
माधास्यतीति ॥


विकल्पानां प्रामाण्यम्


विकल्पमात्रं शतप्रत्यय इति चेत्, भो महात्मन् ! किं वा तव न
विकल्पमात्रम् । किन्तु जीवन्त्यमी सविकल्पकप्रामाण्यवादिनः ॥


यश्च 1171सामान्यसंसिद्धौ प्रकारः प्राक् प्रदर्शितः ।

योज्यः स एव द्वित्वादिसंख्यासद्भावसिद्धये ॥

इत्यलं कथान्तराक्षेपेण ॥


II.333

प्रत्यभिज्ञायां गतकालस्य विषयत्वम्


ननु ! अतिक्रान्तग्राहि प्रत्यभिज्ञानं, इन्द्रियार्थसन्निकर्षजं चेति नः
कौतुकमिदम् । किं तत्कौतुकम् ? अर्थस्तावदस्य पुरोऽवस्थितोऽस्त्येव
जनकः स्तम्भादिः ॥


ननु ! अस्ति, स तु वर्तमानकाल एव—न केवलं, वर्तमानकाल
योगिनाऽर्थेन तत्प्रत्ययजननात्, तस्य वर्तमान इवातीतोऽपि कालः
अवच्छेदकतां प्रतिपद्यते । स च तदवच्छिन्नोऽर्थः इदं च ज्ञानमादधाती
त्यर्थजमेतत् इन्द्रियजमपि भवति, तद्भावाभावानुविधानात् ॥


अतीतविषयकस्यापीन्द्रियजन्यत्वम्


ननु ! अतीतेऽर्थे कथमिन्द्रियं प्रवर्तते ?


कस्यैष पर्यनुयोगः ? नेन्द्रियस्य, अचेतनत्वात् । पुरुषस्तु अवि
ष्फारिताक्षस्तु लभत इति सोऽप्यननुयोज्यः ॥


प्रत्यभिज्ञाया अबाधितत्वम्


ननु ! अतीतग्राहित्वात् अप्रामाण्यं कल्पयितुं युक्तमस्या बुद्धेः,
नेन्द्रियस्यातीतेऽपि सामर्थ्यं दृष्टपूर्वमिति—मैवम्—अप्रामाण्यं नाम
बाधकप्रत्ययात् कल्प्यते, न चासावस्ति प्रत्यभिज्ञायाम् । अनुमानं तु
बाधकं प्रतिक्षिप्तम् ॥


प्रत्यभिज्ञाया अप्रामाण्ये हेतुर्नास्ति


ननु ! कारणदोषादपि कल्प्यत एवाप्रामाण्यम् ॥


आयुष्मन् ! सोऽप्युच्यताम् ॥


1172 II.334

उक्त एवेन्द्रियस्यातीतग्रहणविषये सामर्थ्यविरहः । वत्स !
म्यगुक्तवानसि । नायमिन्द्रियस्य तिमिरादिरिव दोषः । अतीते
काले स्वतन्त्रे तस्यासामर्थ्यम्, न तद्ग्राह्यवर्तमानवस्तुविशेषणीभूते ।
संस्कारसचिवस्य चास्य सामर्थ्यम्, न केवलस्येत्युक्तम् । तस्मादतीतकाल
विशेषितपुरोवर्तिवर्तमानस्तम्भादिपदार्थविषयमिन्द्रियार्थसन्निकर्षोत्पन्नमे
वेदं प्रत्यभिज्ञाज्ञानमिति सिद्धम् ॥


प्रत्यभिज्ञाया मानसत्वं वा


अथवा पूर्वविज्ञानविशिष्टग्राहि मानसम्

इष्यतां प्रत्यभिज्ञानं 1173गन्धवत्कुन्दबुद्धिवत् ॥

यथा हि लोचनगोचरेऽपि कुन्दकुसुमे तदविषयगन्धविशेषिते बाह्ये
न्द्रियद्वारकं ग्रहणमघटमानमिति मानसमेव सुरभि कुसुममिति ज्ञानं, एवं
पूर्वविज्ञानविशेषितस्य स्तम्भादेर्विशेषणमतीतक्षणविषय इति मानसी
प्रत्यभिज्ञा । पूर्वप्रवृत्तबाह्येन्द्रियोपजनितज्ञानविशिष्टबाह्यविषयग्राहिणि
II.335 चान्तःकरणेऽभ्युपगम्यमाने सति नान्धाद्यभावप्रसङ्ग1174 इति बहुशः
कथितम् ॥


ननु ! कुन्दादेर्विशेषणं वर्तमानमस्ति सौरभम् । इह त्वतीतं पूर्व
विज्ञानमिति कथं विशेषणम् ?—उक्तमत्र । किं तेन सता करिष्यसि ?
शतादिबुद्धिष्वतिक्रान्तस्यापि कपित्थादेः कारणत्वदर्शनादिति ॥


तदेवमन्तःकरणजन्मनाऽपि प्रत्यभिज्ञानेन स्थैर्यमवस्थाप्यत एव
भावानाम् ॥


वस्तुस्थैर्यवादः


या तु 1175मुण्डितकेशादिप्रत्यभिज्ञानतुल्यता ।

स्तम्भादिप्रत्यभिज्ञायाः कथ्यते साऽप्यसङ्गता ॥

तत्रान्तराले मुण्डितशिरोदर्शनमेव बाधकम् । इह तु न
किंचिदस्ति ॥


अत एव शब्दे दैव स्फुरन्त्या विनाशबुद्ध्या वैधुर्यमुपनीता
प्रत्यभिज्ञा1176 स्थास्नुतामुपस्थापयितुमसमर्थेत्युक्तम् ॥


ज्वालादावपि तैलवर्तिक्षयाद्यनुमानबाधितत्वात् भ्रान्ता प्रत्यभिज्ञा,
न तु तथा स्तम्भादावनुमानमपि बाधकमस्ति । सत्त्वानुमानं तु
निरस्तमेव ॥


II.336

अनुमानेन प्रत्यक्षबाधेऽपि नात्र तद्युक्तम्


यद्यपि नैष नियमः—प्रत्यक्षानुमानयोर्विरोधे प्रत्यक्षं बलीय इति,
त्वरिततरपरिभ्रमितचक्रीभवदलातग्राहिणः प्रत्यक्षस्य अनुमानबाध्यत्व
दर्शनादिति—तथापि प्रकृतं क्षणिकत्वानुमानं अन्यथासिद्धं, अनन्यथा
सिद्धं तु प्रत्यक्षमिति प्रत्यक्षमेव क्षणिकत्वानुमानस्य बाधकम् ॥


न चेतरेतराश्रयत्वम्, अनुमानमिथ्यात्वनिबन्धनप्रत्यभिज्ञाप्रत्यक्ष
प्रामाण्यानभ्युपगमात् । स्वहेतुबलवत्तयैव प्रत्यभिज्ञाप्रत्यक्षं प्रमाणम् ।
तस्येदं दैन्यम्, यदनुमानमिथ्यात्वे सति 1177तत्प्रमाणी
भविष्यतीति ॥


ज्ञानस्य क्षणिकत्वासंभवः


आस्तां वा प्रत्यभिज्ञानं, य एष प्रथमाक्षजः ।

स्तम्भादिबोधस्तेनापि बाध्यते क्षणभङ्गिता ॥

तुल्यसामग्र्यधीनत्वस्य निराकृतत्वात्, निराकारत्वस्य निराकरिष्य
माणत्वात्, अन्वयव्यतिरेकोपकृतमानसप्रत्यक्षनिश्चितजनकत्वस्य चार्थ
स्यावभास्यत्वनिश्चयात्, उत्पन्नोऽर्थो ज्ञानं जनयति, जातेन च तेन ज्ञानेन
गृह्यत इति बलात् द्वित्रक्षणावस्थायित्वमस्यापद्यत1178 इति कुतः
क्षणिकत्वम् ?


II.337

घटादीनां स्थिरत्वम्


यदि लब्धस्वरूपोऽपि न नष्टः प्रथमे क्षणे ।

हेत्वन्तराद्विनाशोऽस्य न स्वरूपनिबन्धनः1179

विचित्रा च पदार्थानां प्रतीतिरिह दृश्यते ।

चिरन्तनमतिः काचित् काचित्तत्कालजा मतिः ॥

सलिलाहरणव्यग्रकुम्भावगतिरन्यथा ।

तथैव कन्दकाकृष्टकुम्भावगतिरन्यथा ॥

रविगुप्तपक्षनिरासः


एतेन रविगुप्तोऽपि परिम्लानमुखः कृतः ।

क्षणिकत्वक्षमाध्यक्षसमुत्प्रेक्षणपण्डितः ॥

तथा हि—वर्तमानवस्तु 1180विग्रहग्राहिविज्ञानं अनन्तरोक्तनयेन स्वजन
कार्थप्रतिभासनात् द्विक्षणस्थायितामर्थस्य गमयतीत्युक्तम् । आद्यं च
किंचिद्विज्ञानं अनागतकालस्पर्शि1181 भवति । यथाऽऽह भट्टः—


रजतं गृह्यमाणं हि चिरस्थायीति गृह्यते

इति । उत्तरमपि प्रत्यभिज्ञानं तीतकालावच्छिन्नमर्थमवद्योतय
तीति दर्शितम् ॥


II.338

अतीतकालग्रहणेऽप्युत्पत्तेरग्रहणम्


न चातीतानागतजन्मग्रहणमाशङ्कनीयम्, इयति कारणसामर्थ्य
नियमात् । न ह्यतीतानागतजन्मग्रहणमशक्यक्रियमिति दपि दृश्य
मानं ग्रहणं, तदप्यपह्नोतुं युक्तम् ॥


न चैतावताऽतीतानागतकालावच्छिन्नवर्तमानवस्तुग्रहणमात्रेण सामा
न्यतोदृष्टेन अदृष्टमप्यतीतानागतज्ञानं कल्प्यम् । यथादर्शनं हि
वस्तूनि व्यवस्थाप्यन्ते, न तु किंचिद्दृष्टवाऽन्यदपि कल्प्यते, दृष्टमपि वा
निह्नूयते इति ॥


वस्तूनां स्थिरत्वं प्रत्यभिज्ञाग्राह्यम्


अपि च अनिमेषदृष्टेरत्रुटितसत्ताकस्तम्भादिपदार्थग्राहि प्रत्यक्षमुप
पद्यते । तत् कथं क्षणिकग्राहि कथ्यते ॥


यच्च तत्र विकल्पितं—अतीतानागतक्षणयोः असन्निहितत्वेन प्रत्यक्ष
ग्राह्यताऽनुपपत्तेः वर्तमानक्षणस्य चातिसूक्ष्मत्वात् तत्कालग्राहिणा प्रत्यक्षेण
क्षणिकत्वमेव गृहीतं भवतीति—तदुपपन्नम्1182—मा नामाभूदतीतानागत
कालग्रहणं, वर्तवान एव तु तत्रानिमेषदर्शने कियान् काल इति चिन्त्य
ताम् । निमेषकृतस्यापि दर्शनविच्छेदस्यानवकाशात् । यावद्धि दर्शनं
न विच्छिन्नं, तावान् वर्तमानः काल इति तद्ग्रहणेन स्थैर्यं गृहीतं भवति,
न क्षणिकत्वम् ॥


II.339

वर्तमानकालस्य न क्षणरूपत्वम्


ननु ! तावानसौ कालः क्षणसमुदायो भवति, न क्षणः । क्षणश्चैक
एव वर्तमानो भवति । अतः पूर्वापरौ क्षणावतीतानागतौ भवतः । तयोश्च
न ग्रहणमित्युक्तम् ॥


भो महात्मन् ! सिद्धे क्षणकत्व एव एवं शक्यते वक्तुम्, न तत्साध
नावसरे । कालो ह्येको नित्यो विभुरिति साधितोऽनुमानपरीक्षायाम् ।
न तु क्षणसमुदायात्मा कालः । कालस्य तु भेदाः क्रियोपजननविनाशाद्यु
पाधिनिबन्धनाः कल्प्यन्त इत्यपि तत्रैव परीक्षितम् । तदयमनिमेषदृष्टेः1183
दर्शनविच्छेदानुपग्रहात् तावानेकः कालः स इति वर्तवान एव भवति1184
नानाक्षणसमुदायः । क्षणसमुदायात्मकेऽपि वा काले दर्शनविच्छेदानव
धारणात् क्षणसमुदाय एव वर्तमानीभवतु ॥


कालस्याप्रामाणिकत्वेऽपि न क्षणिकत्वसिद्धिः


ननु ! कालो नाम न कश्चित् पारमार्थिकः पदार्थ एव परिदृश्यमानः
वर्तमानादिव्यवहारहेतुः । स च न चिरमनुभूयत इति क्षणिक
उच्यते—


भिक्षो ! अलमवान्तरगमनेन । मा भूत् कालः । पदार्थ
स्त्वनिमेषदृष्ट्यविच्छेदान्न नश्यन् दृश्यत इति न क्षणिकग्राहि
प्रत्यक्षम् ॥


II.340

ज्ञानस्यास्थिरत्वेऽपि वस्तुस्थैर्योपपत्तिः


ननु ! भवद्भिरपि न स्थिरं ज्ञानमिष्यते । क्षीणे च ज्ञाने सोऽर्थो
द्वितीयक्षणे केन गृह्येत ? ज्ञानान्तरेण तु गृह्यमाणः स एवेत्यत्र को
निश्चयः ?


अनिमेषदृष्टेर्ज्ञानं न क्षीयत एवेत्येके ॥


अथवा किं न एतेन । न हि विषयप्रतिभासकाले ज्ञानमवभासत1185
इति असकृदुक्तं, वक्ष्यते च । तेन तत्कीदृशमिति कुतो वयं विद्मः ।
अर्थस्त्वविच्छिन्नसत्ताक एव गृह्यते । ज्ञानं तु वर्तमानकालमप्यतीता
नागतकालग्राहि भवति; स्मरणमिव, भूतभविष्यद्वृष्ट्यनुमानमिव ॥


इन्द्रियस्य, सन्निकर्षस्य, अर्थस्य च स्थिरत्वम्


ननु ! इन्द्रियव्यापारो न क्षणान्तरस्थायीति तस्मिन्नसति कुतोऽ
र्थस्य विततकालताग्रहणम् ?


भदन्त ! भवतु, श्रान्तोऽसि । ज्जस्वैवंब्रुवाणः । निमेष
कृतोऽपि विच्छेदोऽस्य नास्ति । अथ च न स्थिरः इन्द्रियव्यापार इति
ग्राहिकतामात्रम् । सन्निकर्षश्चास्य विषयग्रहणे व्यापारः । 1186स च स्थिर
एव । तस्माद्विततकालस्य वस्तुनः प्रत्यक्षेण ग्रहणमिति स्थितम् ॥


II.341

ध्वंसस्य हेतुजन्यत्वाद्वस्तुस्थैर्यसिद्धिः


एवंच स्थिते न स्वरूपमात्रनिबन्धन एव भावानां विनाशः, किंतु
हेत्वन्तरनिबन्धनो भवति । ततश्च आविनाशहेतूपनिपातात् अवस्थानमेव
भावानाम् । अविद्यमानविनाशकारणानां 1187च नित्यत्वमेव व्योमादीना
मिति सिद्धम् ॥


सत्त्वासत्त्वयोर्दर्शनादर्शनरूपत्वाभावः


यत्पुनरभाणि—दर्शनादर्शने एव सत्त्वासत्त्वे भावानामिति—तदपि
व्यामूढभाषितम् । दर्शनादर्शनाभ्यां भावाभावयोः परिच्छेदः, न पुनः
दर्शनादर्शने एव भावाभावौ ॥


अभावश्च विस्तरतः प्राक् प्रसाधितः । स च सहेतुक इति न स्वत
एव विशरारवो भावाः ॥


क्षणिकवादे व्यवहारानुपपत्तिः


एवं त्वनिष्यमाणे पदार्थस्थैर्यपक्षे—ज्ञानजनकस्य नियतस्य वस्तुनो
दर्शनम्, दर्शनविषयीकृतेऽस्य प्रवृत्तिः, प्रवृत्तिविषयीकृतस्य प्राप्तिरिति
व्यवहारो न स्यात्, अर्थक्षणनानात्वात् ॥


क्षणिकवादे बाध्यबाधकभावानुपपत्तिः


बाध्यबाधकभावश्च क्वचित् ज्ञानानां दृष्टः । स च न स्यात्;
पूर्वावगतरजतादिविषयाभावग्राहिणो ज्ञानस्य गृहीतमुद्गरदलितश्वधटा
भावज्ञानवत् बाधकत्वानुपपत्तेः ॥


II.342

पूर्वदृष्टस्य स्मरणं, स्मृतस्य कस्य चित् प्रत्यभिज्ञानं, प्रत्यभिज्ञातस्य
च गृहादेरेवार्धकृतस्य समापनं इत्यादयश्च व्यवहारा विलुप्येरन् ॥


क्षणिकवादनिराससंग्रहः


अथ सन्तानमाश्रित्य क्रियते तत्समर्थनम् ।

न, तस्य भिन्नाभिन्नत्वविकल्पानुपपत्तितः ॥

अभेदपक्षे क्षणवत् व्यवहारो न सिध्यति ।

व्यतिरेके तु चिन्त्योऽसौ वास्तवोऽवास्तवोऽपि वा ॥

अवास्तवत्वे पूर्वोक्तं कार्यं विघटते पुनः ।

वास्तवत्वे स्थिरो वा स्यात् क्षणिको वेति चिन्त्यताम् ॥

सन्तानिनिर्विशेषः स्यात् सन्तानः क्षणभङ्गुरः ।

न सिध्येत्पुनरप्येवं व्यवहारः पुरोदितः1188

अथापि नित्यं परमार्थसन्तं

सन्ताननामानमुपैषि भावम् ।

उत्तिष्ठ, भिक्षो ! फलितास्तवाशाः

सोऽयं समाप्तः क्षणभङ्गवादः ॥

तदेवं सति सन्तानच्छद्मनो विनिवारणात् ।

लोकयात्रा स्थिरैरेव पदार्थैरुपपाद्यताम् ॥

क्षणिकवादे प्रमाणाभावः


एवमनन्तरनिगदितदूषणनिकुरम्बविनिहतप्रसरम् ।

नाध्यक्षं क्षणिकत्वे, न चानुमानं प्रमाणं स्यात् ॥

II.343
क्षणभङ्गे निरस्ते च कार्यमाधारवद्ध्रुवम् ।

अतो ज्ञानादिकार्येण युक्तमाश्रयकल्पनम् ॥

सुखादेरपि कार्यस्य विज्ञानाद्व्यतिरिक्तता ।

प्रागुक्तेति तदप्यन्यद्भवत्यस्यानुमापकम् ॥

क्षणिकवादे पारलौकिकविलोपः


किंच नांगीकरोषि त्वमात्मानं पारलोकिनम्

उपैषि परलोकं च विदितं ते बकव्रतम् ॥

कर्मसन्तानिनाऽन्येन यत्कृतं चैत्यवन्दनम् ।

ततोऽद्य फलमन्येन भुज्यतेऽकृतकर्मणा ॥

न च निर्वृत्तिरप्यस्य चैत्यवन्दनकर्मणा

ज्ञानक्षणेन नैकेन किंचित् कर्म समाप्यते ॥

कार्यकारणभावाश्च यस्त्वयोक्तः स दूषितः ।

कार्यकारणभावेऽपि न ह्यन्यत्वं निवर्तते ॥

अनैकान्तिकता चास्य सन्तानान्तरबुद्धिभिः ।

उपादानत्वरूपोऽपि विशेषः प्राङ्निराकृतः ॥

कार्पासरागसंक्रांन्तिदृष्टान्तो यश्च वर्णितः ।

सोऽप्ययुक्तः स्वरूपेण तत्रतस्यैव दर्शनात् ॥

य एव रागः कार्पासबीजे समुपकल्पितः ।

स एव दृश्यते पुष्पे न तु तस्मात्फलान्तरम् ॥

1189एर्व कर्मानुवृत्तिः स्यात् फलभोगस्तु दुर्घटः ॥

II.344

क्षणिकवादे कृतहानादिरनिवार्यां


कर्मानुवृत्तिरप्येषा न चैकस्यास्ति कस्यचित् ।

कार्यकारणयोर्भेदात् कार्पासकुसुमादिवत् ॥

अन्यत्रैव हि कर्म स्यात् अन्यत्रैव च तत्फलम् ।

न च सन्तानभोगाय कश्चित्कर्मानुतिष्ठति ॥

फलमस्मान्ममैव स्यात् इति सर्वः प्रवर्तते ।

सर्वथा शाक्यभिक्षूणां परलोको विसंष्ठुलः ॥

न तत्प्रसाधने तेषां काचिद्गमनिकाऽस्ति वा ॥

ज्ञानसन्तानस्याविच्छेदोऽपि दुर्वचः


गर्भादौ प्रथमं ज्ञानं विज्ञानान्तरपूर्वकम् ।

ज्ञानत्वादित्ययं हेतुः अप्रयोजक1190 इष्यते ॥

मूर्छाद्यनन्तरोद्भूतज्ञानैश्च व्यभिचार्यताम्

मूर्छितस्यापि विज्ञानमस्तीत्येतत्तत्तु कैतवम् ॥

न ह्यर्थावगतेरन्यद्रूपं ज्ञानस्य किं चन ।

मूर्छादिषु कुतस्तत्स्यात् कुतो वा 1191कललादिषु ॥

कललादिदशायां वा यदि विज्ञानमिष्यते ।

मातापितृस्थयोरस्तु शुक्रशोणितयोरपि ॥

ततश्चैकत्र संताने चेतनद्वयमापतेत् ।

चेतनानां बहुत्वं वा दम्पत्योर्बहुपुत्रयोः ॥

II.345

सन्तानानां सौसादृश्यमपि दुर्वचम्


न चैष नियमो लोके सदृशात्सदृशोद्भवः ।

वृश्चिकादेस्समुत्पादः गोमयादपि दृश्यते ॥

शरीरान्तरसंचारचातुर्यं च धियां कथम् ।

ज्वालादिवन्न मूर्तत्वं न च व्यापकताऽत्मवत् ॥

जननमरणाद्युपपादनमपि क्षणिकवादे दुर्घटम्


1192आतिवादिकदेहेन नीयन्ते चेद्भवान्तरम् ।

नन्वातिवाहिकेऽप्यासां कथं संचारसंभवः ॥

आस्तामेवैष वा जीवेद्देहेऽपि पथि गच्छताम् ।

प्रदेशान्तरसंचारो ज्ञानानां भवतां कथम् ॥

न ह्येषां भूतधर्मत्वं न स्वतो गतिशक्तिता ।

न च जात्यादिवद्वृत्तिः न च व्यापकताऽऽत्मवत् ॥

एवं यदैव निष्क्रान्तः विहारकुहराद्भवान् ।

तदा काष्ठीभवेद्देहः ज्ञानसंक्रान्त्यसंभवात् ॥

तदयं संक्षेपार्थः त्यक्तव्यो वा निरस्य 1193कौरुकुचीम् ।

सुरगुरुवत्परलोकः नित्यो वाऽऽत्माऽभ्युपेतव्यः ॥

II.346

आत्मनः ज्ञानसुखाद्युपपत्तिः


यत्त्वस्य चर्मगगनोपमतां विकल्प्य

नाशित्वमुक्तमथवा विफलत्वमेव ।

तन्नैव साधु सुखदुःखशोपभोग-

योगेऽपि नाशमधिगच्छति 1194नायमात्मा ॥

विकृतिश्च तस्य सुखदुःखजन्मना

न हि तादृशी भवति लुप्यते यया ।

सहकारिकारणवशात्तु जायते

तदवश्यमेव समुपैति भोक्तृताम् ॥

अवस्थावादः


अथवोपजनव्ययस्वभावः

स्वदशाभेदसमन्वये हि पुंसः ।

फणिनः किल कुण्डलाद्यवस्था-

नुगतस्येव न भिन्नतेति केचित्1195

अवस्था एवैताः प्रसभविलयातङ्कविधुराः

अवस्थाता त्वेकः स्फुरति निरपायस्थिरवपुः ।

असत्यस्मिन् पूर्वावगतविषयाऽनुस्मृतिभुवां

न सिद्धिः कार्याणामिति निपुणमावेदितमिदम् ॥

II.347

आत्मनः स्थिरत्वज्ञानेन लाभः


ननु 1196विमृशति भोगे कर्म नित्योऽपि नात्मा

न हि नरकनिमग्नो मन्यते कश्चिदेवम् ।

किल यदमकार्षं प्राग्भवे कर्म पापं

फलमुपनतमस्माद्भुज्यते तन्मयेति ॥

कार्योपभोगसमये किमनेन1197 कृत्यं

नास्य प्रवृत्तिरधुना न निवृत्तिरस्मात् ।

यस्स्वप्रवृत्तिजननौपयिकोऽवमर्शः

शास्त्रादसौ भवति शास्त्रविदामवश्यम् ॥

विमर्शोऽयं पश्चादपि भवतु दृष्टे तु विषये

मया यूना यत्तत्किमपि सदसद्वा कृतमभूत् ।

ततो वृद्धोऽद्याहं फलमनुभवामीति तदयं

पुमानस्ति स्थायी सुकृतफलभोगादिनिपुणः ॥

क्षणिकवादिनां क्रियावैरूप्यम्


नास्त्यात्मा फलभोगमात्रमथ च स्वर्गाय चैत्यार्चनं

संस्काराः क्षणिकाः युगस्थितिभृतश्चैते विहाराः कृताः ।

सर्व शून्यमिदं वसूनि गुरवे देहीति चादिश्यते

बौद्धानां चरितं किमन्यदियती दम्भस्य भूमिः परा ॥

II.348

अर्वाचीनचार्वाकमतम्


अत्र सुशिक्षितचार्वाक आह—यावच्छारीरमवस्थितमेकं प्रमातृतत्त्वं
अनुसन्धानादिव्यवहारसमर्थमस्तु नाम, कस्तत्र कलहायते । शरीरादूर्ध्वं
तु तदस्तीति किमत्र प्रमाणम् ? न च पूर्वशरीरमपहाय शरीरान्तरं
संक्रमति प्रमाता ॥


पारलौकिकात्मा नास्ति


यदि ह्येवं भवेत्, तदिह शरीरे शैशवदशानुभूतपदार्थस्मरणवत्
अतीतजन्मानुभूतपदार्थस्मरणमपि तस्य भवेत् । न हि तस्य नित्यत्वा
विशेषे च, शरीरभेदाविशेषे च स्मरणविशेषे कारणविशेषमुत्पश्यामः,
यदिह जन्मन्येवानुभूतं स्मरति, नान्यजन्मानुभूतमिति । तस्मादूर्ध्वं
देहात् नास्त्येव प्रमातेति नित्यात्मवादमूलपरलोककथाकौरुकुचीमपास्य
यथासुखमास्यताम् ॥ यथाऽऽह—


यावज्जीवं सुखं जीवेन्नास्ति मृत्योरगोचरः ।

भस्मीभूतस्य देहस्य पुनरागमनं कुतः ॥ इति ॥

आत्मनः स्थिरत्वस्यौत्सर्गिकत्वम्


अत्रोच्यते—न खलु निपुणमिव सुशिक्षितमायुष्मता चार्वाकाचार्य
चातुर्यम् । यावच्छरीरमेकमनुयायि प्रमातृतत्त्वमस्तीति यदुक्तवानसि
तन्न विस्मर्तुमर्हसि1198 । न चास्तित्वाविनाभावी भावानां विनाशः स्वाभा
विकः, किन्तु हेत्वन्तरनिमित्तक इति सौगतैस्सह कलहमतिमात्रमधुनैव
II.349 कृत्वा समर्थितोऽयमर्थः । न च विनाशहेतुः प्रमातुरतिचिरमपि विचार्य
माणः कश्चित् कुतश्चित् अवाप्यते । न चानुपलभ्यमानोऽप्यसौ कल्पयितुं
पार्यते ॥


आत्मनो विनाशहेतुर्नास्ति


न ह्यात्मा पटदिरिव सावयव उपलभ्यते, यदवयवविभागादिना
नङ्क्ष्यतीसि गम्यते । उत्पत्तिरपि नात्मनो दृष्टा, यतस्तदविना
भाविनः निरवयवस्यापि कर्मादेरिव विनाशः प्रतीयते । न चैष कस्य
यिदात्मागुणः, यैनाश्रयविनाशाद्वा विरोधिगुणान्तरप्रादुर्भावाद्वा प्रध्वंसमा
सादयेत् ॥


न चैवं शक्यते वक्तुम्—किं विनाशहेत्वनुमानेन ? प्रत्यक्ष एवास्य
विनाशो दृश्यत इति । यतो न शरीरवदसौ दह्यमानः, शकुनिभि1199रव
लुप्यमानो वा कदाचिदुलब्ध इति । तस्माद्विनाशादर्शनात् विनाशहेत्वनु
मानासंभवाच्च अस्ति चेदात्मा नित्य एवेत्यवधार्यताम् ॥


तस्मात् भूतचैतन्यमेव चिरन्तनचार्वाकाचार्यवत् परलोकापलाप
परितोषालम्बनयत्किंचित्कारित्वसुलभसुखासिकासक्तहृदयैर्वरमाश्रितुम् ।
आशरीरमवस्थिते तु प्रमातृतत्त्वे सति न फलन्त्येते परलोकापलापमनो
रथाः । भूतचैतन्यपक्षोऽपि च पुरा पराकृत एव । तस्मादस्ति नित्यः
परलोकी प्रमातेति ॥


नित्यत्वे सति पूर्वदेहसंबन्धः, भविष्यद्देहान्तरसंबन्धश्चास्य न
दुरुपपादः ॥


II.350

आत्मनः विभुत्वेऽपि शरीरान्तरप्राप्त्यादि युज्यते


शरीरान्तरसंचारस्त्वस्य नास्तीति यदुक्तं—तद्युक्तमेव । व्यापिनः
सर्वत्र विद्यमानस्यात्मनः कः संचारार्थः ?


व्यापित्व एव किं प्रमाणमिति चेत्—सर्वत्रैव कार्योपलम्भः प्रमाणम् ।
इतो वाराणसीमपि गतस्य मे भदत्येव स्मरणेच्छादिकार्ययोगः । स
चात्मैकप्रभवः । आत्मनश्च शरीरस्येव न तत्र गमनम्, अमूर्तत्वात् । न
शरीरगुणवत्, 1200तदनाश्रितत्वात् । न प्राणादिवत्, अन्तश्शरीरवृत्तित्वा
भावात् ॥


आत्मनः न शरीरान्तर्वर्तित्वम्


अन्तश्शरीरवृत्तित्वाभाव एव किं प्रमाणमिति चेत्—उच्यते—अन्त
श्शरीरवृत्तित्वे हि द्वयी गतीः, एकदेशवृत्तित्वं, सर्वशरीरापूरकत्वं वा ॥


तत्र सर्वशरीरापूरकत्वे शरीरपरिमाणानुविधायित्वात् बालयुव
स्थाविरशरीरवत् पूर्वनीत्या परिमाणान्यत्वेन तदन्यत्वात् पुनरपि प्रति
सन्धानादिकार्यवैधुर्यप्रसङ्गः । करिमशकशरीरयोगे च कर्मपरिणामो
पनते तस्य संकोचविकासौ प्राप्नुतः । तौ च नित्यस्य विरुध्येते ॥


एकदेशवृत्तित्वे तु तदनधिष्ठितानामवयवानामनात्मकत्वात् मृत
शरीरावयवत् अयथेष्टविनियोज्यता—काष्ठीभावः स्यात् ॥


आत्मनो न स्वज्ञानेन सर्वशरीरव्यापकत्वं


प्रदोपवदेकदेशवृत्तेरप्यात्मनः सकलशरीराधिष्ठातृत्वमिति चेत्—
वर्तिप्रदेशोपचिततेजःपिण्डवदेकत्र शरीरावयवे सविशेषचैतन्यसंवित्तिः
स्यात् ॥


II.351

अस्त्येव हृदयदेशे तदतिशय इति चेत्—न—अनुपलम्भात् । दहन
हिमकृपाणादिस्पर्शेषु न हृदयस्य, प्रदेशान्तरस्य वा शरीरे वेदनाविशेषं
पश्यामः । तस्मान्न हृत्पुण्डरीके दीपवदवस्थानमात्मनः ॥


आत्मनोऽविभुत्वपरवचनगतिः


अत एव—


अङ्गुष्ठमात्रं पुरुषं निश्चकर्ष यमो बलात्

इति व्यासवचनमनेवंपर1201मवगन्तव्यम् ॥


यदि तु मनोवदेकदेशवृत्तेरणुपरिमाणस्याशु संचरतः शरीराधिष्ठातृ
त्वमात्मनः कथ्यते—तथापि सहसैव चिरप्रोषितागतदयितजनदर्शनोद्भ
तसकलशरीरव्यापिस्वेदरोमांचादिदर्शनं विरुध्यते । न च द्वयोरण्वोरात्म
मनसोः कर्तृकरणव्यवस्थाऽपि निर्वहतीति । तस्मान्नाणुरात्मा, न च
शरीरमात्रपरिमाण इति व्यापक एवावशिष्यते । तदेवं वाराणस्या
मपि अयमात्मा विद्यत एवेति तत्र तत्कार्यदर्शनमवकल्पते, नान्येन गमना
दिप्रकारेणेति ॥


ऐकात्म्यवादनिरासः


ननु ! सर्वत्र सुखदुःखज्ञानादिकार्यदर्शनात् सर्वप्राणिनामेक एवात्मा
भवेत्—न—सुखदुःखव्यवस्थादर्शनात्, बन्धमुक्तव्यवस्थोपपत्तेश्चात्म
भेदस्य दर्शयिष्यमाणत्वात् ॥


II.352

विभोरपि कर्तृत्वोपपत्तिः


व्यापिनः तथं कर्तृत्वमिति चेत्1202, ज्ञानचिकीर्षाप्रयत्नसमवाय
एवास्य कर्तृत्वम्, न व्यापारयोग इति निर्णीतमेतत् ॥


ननु ! व्यापिन्यात्मनि कथं शरीराद्बहिरण्वपि तत्कार्यं न दृश्यते—
कर्माक्षिप्तशरीरेन्द्रियादिसहकारिसन्निधाननिबन्धनो हि तत्कार्योत्पादः ।
स कथं ततो बहिर्भवेत् इति ॥


तस्मादनन्तरोक्तेन प्रकारेणोपपादितम् ।

नित्यत्वाद्व्यापकत्वाच्च परलोकित्वमात्मनः ॥

आत्मनः देहातिरिक्तत्वे हेत्वन्तराणि


सूत्रकारस्तु पारलौकिकत्वसिद्धये हेत्वन्तराणि प्रत्यपादयत् । सद्यो
जातस्य बालस्य 1203वदनविकासरोदनाद्यनुमितो हर्षशोकादियोगस्तोवदस्ति ।
युवशरीरादौ रोदनादि शोकादिकारणकमवगतम् । आननविकासादि
हर्षहेतुकम् । एवं शिशोरपि तन्निबन्धनः तदुत्पादः । तौ च हर्षशोकौ
सुखदुःखसाधनाधिगमतदनुस्मरणान्यतरकारणकौ भवितुमर्हतः, तथा दृष्ट
त्वात् । इह चास्य न सुखदुःखसाधनपदार्थानुभवस्तादनीमस्ति—इति
तदनुस्मरणमेव हर्षशोकहेतुर्भवेत् ॥


तदनुस्मरणपि तदनुभवप्रभवम् । अनुभवश्चेह जन्मनि सद्यो
जातस्य न समस्तीति जन्मान्तरानुभूतसुखदुःखसाधनानुस्मरणनिमित्तक
एवास्य हर्षशोकसमुत्पाद इति जन्मान्तरानुगमान्नित्य आत्मा ॥


II.353

शिशोस्सुखदुःखानुस्मरणम्


ननु ! अभिनवजीवलोकावलोकनाह्लादनिबन्धन एवास्य मुख
विकासः, तथा योनिद्वारनिर्गमनोद्गतनिरर्गलक्लेशपीडितस्य तस्य रोदन
मिति न जन्मान्तरानुभूतस्मरणं कल्पयितुं युक्तम्, अतिप्रसङ्गात्—मैवम्—
सुखदुःखहेतुमीदृशमननुभवतोऽप्यकस्मादेव1204 हर्षशोकदर्शनात् ॥


शिशोर्मुखविकासादेरहेतुकत्वनिरासः


ननु ! कमलमुकुलविकासादिवत् स्वाभाविकमेव शिशोर्मुखविका
सादिकार्यं स्यात्—स्वाभाविकं नाम किमुच्यते, किमहेतुकम्, अविज्ञात
हेतुकम्, अनियतहेतुकं वा ?


न तावदहेतुकं कार्यं संभवति, कार्यत्वहानिप्रसङ्गात् ॥


नाप्यविज्ञातहेतुकं तद्भवितुं युक्तम्—कार्यमुपलभ्यते । तद्धेतु
परिज्ञाने यततां भवान्; किमुदास्ते ? न चासौ ज्ञातुमशक्यः, कार्यस्यैव
तत्र ज्ञापकत्वात् ॥


नाप्यनियतहेतुकं कार्यं किंचिदस्ति । कार्योत्पादननियमेनैव हेतु
नियमसिद्धेः । अत एव तत्कार्यमुपपादयितुकामाः तन्नियतमेव कारण
मुपाददते लौकिकाः ॥


गोमयवृश्चिकादेरुपपत्तिप्रदर्शनम्


यत्राप्यनियतो हेतुः वृश्चिके गोमयादिकः ।

अभियुक्तस्तु तत्रापि विशेषं न न मन्वते1205

II.354

तदेव कारणनियमोऽपि कार्यविशेषदर्शनाद्दुरपह्नव इति मुख
विकासस्य हर्ष एव कारणमवगम्यते, सहस्रकृत्वस्तथा दर्शनात् ॥


अचेतनानां तु तामरसादीनां विकासकारणं तरणिकिरणनिकरपरि
ष्वङ्गाद्युपलब्धमिति तदपि न स्वाभाविकम् ॥


तस्मान्मुखविकासस्य हर्षः, हर्षस्य च स्मृतिः ।

स्मृतेरनुभवो हेतुः स च जन्मान्तरे शिशोः ॥

जन्मान्तरानुभूतानां न सर्वेषां स्मरणम्


ननु ! शिशोर्जन्मान्तरानुभूतस्मरणे सर्वदा सर्वस्मरणप्रसङ्गः—न—
यावत्कार्यं कारणकल्पनात् । न हि सर्वदा सर्वानुस्मरणं संवेद्यते ।
न च तत्कल्पनायां कारणमुपलभ्यते । न चैकदर्शनात् सर्वं कल्प्यं, दृष्ट
मपि वा निह्नोतव्यमिति परीक्षकाणामुचित एष पन्था इत्यसकृदुक्तम्1206


शिशोस्तन्यपानप्रवृत्त्या जन्मान्तरसिद्धिः


अपि च पयसस्तृप्तिहेतुतामनुस्मरन् बालकः स्तन्याभिलाषेण मातु
स्तनतटे दृष्टिं निदधाति । न चाद्य तेन तस्य तत्साधनत्वमवगतमिति
जन्मान्तरे सम्बन्धग्रहणमस्य वृत्तमिति मन्यामहे ॥


न चायस्कान्तदृष्टान्तसमाश्रयेण स्वाभाविकमेव तत् बालकस्य कुच
कलशनिकटोपसर्पणमिति वक्तुमुचितम्, अनन्तरमेव निरस्तत्वात् ॥


गर्भस्थशिशोः पोषणकारणम्


ननु च गर्भशय्याशायिनोऽपि परिपोषदर्शनात् तत्साधनोपादाने
तदनुस्मरणमेव प्राप्नोति—यदि कार्यमवगम्यते तत्रापि तत्कारणमवगम्य
II.355 ताम्, को दोषः ? तत्र तु जनयित्रीजठरपतितान्नपानपरिपाकसंक्रान्त्या
तत्परिपोषमायुर्वेदविदो वदन्तीति कथं तत्र स्मतणादिकल्पना ॥


कल्पनायां वा प्रथमं निषेकानन्तरमेव कललादिशुक्रशोणितविकार
संभवात् तद्दशास्वपि स्मरणकल्पनाप्रसङ्गः । न च तत्कल्पनायामपि
काचिदस्माकं क्षतिः1207 । अयं तु स्तन्याभिलाषेण कुचक्षीरकलशावलो
कनोपसर्पणादरो दारकस्य तदनुस्मरणकृत एवेति सर्वथा जन्मान्तर
संबन्धानुमानान्नित्योऽयमात्मेति ॥


जन्मान्तरसमर्थकहेत्वन्तरम्


अतश्चैवं—


वीतरागजन्मादर्शनात् ॥ ३-१-२५ ॥


रागादिवासनाभ्यासेन सुदृढप्ररूढेनानादिप्रबन्धप्रवृत्तेन अपरित्य
ज्यमानाः सरागा एव जन्तवो जायन्ते । न खलु लोके कश्चन तादृशो
दृश्यते प्राणी, यो जातो वीतरागश्चेति । स एष सरागो जायमानः पूर्वो
पचितां रागादिवासनामनुसरतीति सिद्धो जन्मान्तरसंबन्धः ॥


जगद्वैचित्र्यहेतुतया कर्मपरंपरासिद्धिः


तथा च केचिज्जजायन्ते लोभमात्रपरायणाः ।

द्रव्यसङ्ग्रहणैकाग्रमनसो मूषकादयः ॥

मनोभवमयाः केचित् सन्ति पारावतादयः ।

कुजत्प्रियतमाचंचुचुम्बनासक्तचेतसः ॥

II.356
केचित् क्रोधप्रधानाश्च भवन्ति भुजगादयः ॥

ज्वलद्विषानलज्वालाजालपल्लविताननाः ।

जगतो यच्च वैचित्र्यं सुखदुःखादिभेदतः ॥

कृषिसेवा1208दिसाम्येऽपि विलक्षणफलोदयः ।

अकस्मान्निधिलाभश्च विद्युत्पातश्च कस्य चित् ॥

क्वचित्फलमयत्नेऽपि यत्नेऽप्यफलता क्वचित् ।

तदेतद्दुर्घटं दृष्टात्कारणाद्व्यभिचारिणः ॥

तेनादृष्टमुपेतव्यमस्य किंचन कारणम् ।

जगद्वैचित्र्यकारणस्य न भौतिकत्वम्


अदृश्यो भूतधर्मस्तु जगद्वैचित्र्यकारणम् ॥

यदि कश्चिदुपेयेत को दोषः कर्मकल्पने ॥

संज्ञामात्रे विवादश्च तथा सत्यावयोर्भवेत् ॥

भूतवद्भूतधर्मस्य न चादृश्यत्वसंभवः1209

दृष्टश्च 1210साध्वीसुतयोः, यमयोस्तुल्यजन्मनोः ॥

विशेषो वीर्यविज्ञानसौभाग्यारोग्यसंपदाम् ।

स्वाभाविकत्वं कार्याणां अधुनैव निराकृतम् ॥

तस्मात् कर्मभ्य एवैष विचित्रजगदुद्भवः ॥

II.357

कर्मणां शक्तिवैचित्र्यम्


कर्मणां ननु वैचित्र्यं कर्मान्तरकृतं यदि ।

अनिष्टं तत्1211 स्वतस्सिद्धं जगत्येव तदिष्यताम् ॥

कर्मणां शास्त्रतो ज्ञाता विचित्रफलशक्तता ।

दृष्टार्थेषु च वाक्येषु दृष्टा प्रत्यक्षतोऽपि सा1212

तस्माद्दृष्टस्य कार्यस्य युक्ता कारणकल्पना ।

कारणस्य त्वदृष्टत्वात् किं हेत्वन्तरचिन्तया ॥

कार्यकारणभावपरंपरायां नानवस्था दोषः


हेत्वन्तरं तु तद्धेतोः नास्तीत्येतावतैव किम् ।

दृष्टस्याप्यस्य कार्यस्य युज्यते हेत्वपह्नवः ? ॥

हेत्वन्तरनिमित्तेऽपि कर्मवैचित्र्यकल्पने ।

संसारस्य त्वनादित्वात् नानवस्था भयाबहा ॥

तथा च पुण्यः पुण्येन पापः पापेन कर्मणा ।

जायते जन्तुरित्येवं धर्मशास्त्रेषु पठ्यते ॥

तस्मात् कुतर्कमूलेन दृष्टकार्योपपातिना ।

सर्वलोकविरुद्धेन चोद्येन कृतमीदृशा ॥

तस्मात् कल्प्यानि कर्माणि दृष्टकार्योपपत्तये ॥

II.358

स्थिरस्यात्मनः आवश्यकत्वम्


एषां च क्षणभङ्गित्वात् संस्कारद्वारिका स्थितिः ।

स कर्मजन्यसंस्कारः1213 धर्माधर्मगिरोच्यते ॥

विना च नित्यमात्मानं न धर्माधर्मयोः स्थितिः ॥

नित्यस्तस्माद्भवति पुरुषः स्वप्रणीतानुगच्छ—

द्धर्माधर्मक्रमपरिणतानन्दतापोपभोगः ।

प्रामाण्यं च स्फुटमभिहितं पूर्वमेवागमानां

तेभ्योऽप्यात्मा जनननिधनातीततत्त्वः प्रसिद्धः ॥

आत्मानित्यत्ववचनगमनिका


यद्विज्ञानघनादिवेदवचनं तत्पूर्वपक्षे स्थितं

पौर्वापर्यविमर्शशून्यहृदयैः सोऽर्थो गृहीतस्तथा

1214मैत्रेय्या परिचोदितस्तु भगवान् यद्याज्ञवल्क्योऽब्रवीत्

1215आत्मा नैव विनश्यतीति तदिदं सिद्धान्तसारं वचः ॥

तेनात्मनित्यत्वसमर्थनेन

सुस्पष्टसिद्धः परलोकमार्गः

य एव 1216देहान्तरसंगमोऽस्य

तमेव तद्ज्ञाः परलोकमाहुः ॥

II.359

जन्मान्तरज्ञानप्रयोजनम्


इति कबलने 1217मांस्पाकानां, परस्वपरिग्रहे,

कितवजनतागोष्ठ्यां, वेश्यामुखाम्बुजचुम्बने ।

रतमतिरभूद्धूर्तो मत्वा भवान्तरनास्तितां

तदयमधुना तत्संसिद्धेरहो बत दूयते ॥

तस्मान्नित्योऽयमात्मा न च कलुषफलस्तस्य नैसर्गिकोऽयं

रागद्वेषादियोगोऽपि तु सकलगुणापोढमेवास्य रूपम् ।

तेनानादिप्रबन्धोपचितपरिणमत्कर्मपाकोपनीतं

दुःखं संत्यज्य निःश्रेयसमखिलभयातीतमाप्तुं यतेत ॥

॥ इति श्री भट्टजयन्तकृतौ न्यायमञ्जर्यां सप्तममाह्निकम् ॥

  1. पद्यते—गम्यते इति पदं—मोक्षः ॥

  2. भवान् परीक्षते—इत्यन्वयः ॥

  3. सम्यक् ज्ञातं मोक्षाय, असम्यग्वा ज्ञातं भवाय वा—इत्यन्वयः ॥

  4. ध्यानं—चिन्तनम् । हेयोपादेययोश्चिन्तनं हानाय, उपादानाय च ॥

  5. एतत्कृतं—जननमरणावृत्तिरूपप्रेत्यभावकृतम् ॥

  6. परिणामतापसंस्कारदुःखैः गुणवृत्तिविरोधाच्च दुःखमेव सर्वं विवेकिनः इति योगसूत्रम् 2-76

  7. यद्यपि तदत्यन्तविमोक्षोऽपवर्गः न्या-सू इति आत्यन्तिकदुःखनिवृत्तिरेव मोक्ष इत्युक्तम् । परन्तु दुःखास्यन्ताभावस्य स्वतः पुरुषार्थत्वासंभवात् तद्विशिष्ट आत्मैव परमपुरुषार्थः । सूत्रं तु प्राप्ताप्राप्तविवेकन्यायेन प्रवृत्तम् ॥

  8. अशरीरं वा व सन्तं न प्रियाप्रिये स्पृशतः इति श्रुतिः ॥

  9. मारवं—मरुसंबन्धि ॥

  10. अहं सुखी इत्यत्रापि शरीरमेव भासत इत्याशयः ॥

  11. उपवर्षः पूर्वोत्तरमीमांसावृत्तिकारः । भगवतोपवर्षेण प्रथमे तन्त्रे आत्मास्तित्वाभिधानप्रसक्तौ शारीरके वक्ष्यामः इत्युद्धारः कृतः इति शाङ्करब्रह्मसूत्रभाष्यम् 3-3-53

  12. प्रत्येकसमुदायादिविकल्पैरसंभवादिति हेतुः ॥

  13. एतस्मिन् प्रत्यये प्रत्यभिज्ञायां न केवलं पूर्वज्ञानक्षणस्य, न केवलं उत्तरस्य तस्य, न द्वयोः ज्ञानक्षणयोस्सन्तानस्य च अवभासनं अस्ति । एतदेवोपपादयति अनन्तरवाक्यैः । न वास्तवः, अतिरिक्तसन्तानानङ्गीकारादिति हेतुः ॥

  14. प्रत्यभिज्ञाऽहं प्रत्ययः—प्रत्यभिज्ञारूपः अहंप्रत्ययः ॥

  15. मिथ्येति—न चासौ कायः इत्याद्युक्तहेतुनेति शेषः ॥

  16. भाक्तः विषय इत्यर्थः ॥
  17. आत्मा अहंप्रत्ययगम्यश्चेत्, तत्प्रत्ययविषयोऽप्यात्मा, तादृशप्रत्ययाश्रयोऽप्यात्मेति एकस्यैव कर्तृत्वकरणत्वे विरुद्धे स्याताम् ।

  18. तथा चात्मनः घटादिवत् पराक्त्वमेव स्यात् ॥

  19. विषयगतः उपाधिः । स चानुपदं प्रदर्शितः ॥
  20. न ह्यात्मनः घटावच्छिन्नत्वं, तदनवच्छिन्नत्वं च कदापि वक्तुं शक्यम् ॥

  21. आत्मनः—इति शेषः ॥

  22. अपरसाधनं—साधनान्तरानधीनप्रकाशम् ॥

  23. अस्वयंप्रकाशस्यात्मत्वे चैतन्याश्रयत्वे च घटस्यापि चैतन्याश्रयत्वमस्त्वित्यापादने नोत्तरं वक्तुं शक्यमित्यर्थः ॥

  24. स्वं प्रतीति शेषः ॥

  25. द्वैरूप्यं—कतृत्वं, कर्मत्वं च ॥

  26. संवित्—आत्मधर्मभूता ॥

  27. आत्मनः ज्ञानरूपत्वात्, ज्ञानस्य च सविषयत्वनियमात् ॥

  28. चेतयते इति क्रियाः ॥

  29. कर्म—घटादिः ॥

  30. रूपं—आकारः ॥

  31. न्यायभाष्यम् 3-1-15 ॥

  32. न इच्छन्ति—इत्यन्वयः ॥

  33. In the print edition there is a footnote reference, but no corresponding note.

  34. धर्मिणी—पक्षः ॥
  35. शरीरादिषु बाधकोत्पत्तौ सत्यां इति विशेषणरहिते कार्यत्वे ॥
  36. विशेषं—प्रयोगविशेषम् ॥
  37. शरीरस्य सर्वैरपि अनित्यत्वाङ्गीकारात् ॥

  38. प्रथमेति—पूर्वसंजातेत्यर्थः । दर्शनविशेषणम् ॥

  39. आगमिकी—वेदसिद्धा ॥

  40. कुत्रचित् जिज्ञासापूर्वकत्वात् ज्ञानस्य, इच्छैवादौ सूत्रकारैरुपात्तेत्यर्थः ॥

  41. जल्पादिकथायां खलु द्वितीयहेतुप्रयोगे हेत्वन्तररूपं निग्रहस्थानम् ॥
  42. शरीरस्य क्षणिकत्वेन प्रतिसन्धानासंभवात् ॥
  43. तद्भेदेन—कालभेदेन ॥

  44. सत्त्वस्य इति शेषः ॥

  45. स्वापरसन्तनविवेकाभावादिति हेतुः ॥

  46. प्रकृत्य—प्रारभ्य ॥

  47. सा—प्रत्यभिज्ञा । एवं च प्रत्यभिज्ञाऽप्रामाण्ये स्तम्भादेरपि स्थिरत्वं न सिद्धयेत् ॥

  48. अन्यथा—शरीरपरिणामाभावे ॥

  49. अवन्तिसोमधान्याम्लकुञ्जलानि च काञ्चिके इत्यमरः ॥

  50. केचित्—पीलुपाकवादिनः ॥

  51. पिठरपाकवादे ॥

  52. पूर्वस्थितसंख्यासमानसंख्यावत्वात् ऐक्यमिति न । सूक्ष्मावयवविश्लोषस्य ज्ञातुमशक्यत्वात् । तत्रावयविनाशाङ्गीकारात् ॥

  53. अवयविनः सच्छिद्रत्वे युक्तिमाह—दृश्यत इत्यादि ॥

  54. पिठरः स्थाल्युखा कुण्डम् इत्यमरः । अवयवीति यावत् ॥

  55. शरीरस्येति शेषः ॥

  56. अनुगमकतया खलु गोत्वादिसिद्धिः ॥

  57. तत्—शरीरम् । शरीरप्रेरणादौ शरीरान्तरानपेक्षणात् प्रायेण इति ॥

  58. पूतना—इति क्रिकृमिसंज्ञा ॥

  59. ज्ञानादेः कार्यस्य—ज्ञानादिरूपकार्यस्य ॥

  60. स्वतन्त्रेषु—द्रव्यरूपेषु । यदि रूपं द्रव्यवत् स्वतन्त्रं स्यात् दृष्टमेवस्पृशामि इति न स्यात् ॥

  61. कथितं—तुल्यव्यायातिदेशात् ॥

  62. सूत्रगतविकारपदस्य भाष्योक्तं विवरणं—दन्तोदकसंप्लवः इति । दन्तोदकं—लालाजलमिति यावत् ॥

  63. रूपादिसाक्षात्कारकरणतयैव चक्षुरादीनां सिद्धेः ॥

  64. इदमेव आत्मा इन्द्रियाद्यधिष्ठाता करणं हि सकर्तृकम् इत्युक्तम् ॥

  65. प्राप्तिविसर्गै—उपादानहाने ॥

  66. कार्यसामान्यं करणजन्यमिति, तच्च करणं ज्ञानप्रयत्नादिमांस्तु न शरीरादिः, किन्त्वतिरिक्तः कश्चित् । स एवात्मा ॥

  67. तत्संगिनं—इच्छाद्वेषप्रयत्नादिमन्तम् । अशेषविशेषगुणोच्छोदो हि मोक्षः सिद्धान्ते ॥

  68. ज्ञानमात्रेण—न तु ज्ञानाश्रयेण ॥

  69. रूपविज्ञानवेदनासंज्ञासंस्काररूपपञ्चस्कन्धात्मको जीवः । तत्र विज्ञानमप्येकः ॥

  70. मातापितृवासनायाः पुत्रे संक्रमणम्, गुरोः ज्ञानस्य शिष्ये संक्रमणं च दृश्यते । परन्त्वत्र सहकारित्वमेव, न तूपादानत्वम् ॥

  71. उच्यते किल अहमेव न किञ्चिच्चेद्भयं कस्य भविष्यति इति ॥

  72. नैरात्म्यदर्शनं—अहमर्थक्षये सति जायमानः अनुभवः ॥

  73. तत्रापि किल अस्ति इति प्रतीतिस्समाना ॥

  74. व्यापकं—अर्थक्रियाकारित्वम् ॥

  75. तृतीयः राशिः—क्रममौगपद्यातिरिक्तः कल्पः ॥

  76. दोला—डोला, संदेहः ॥

  77. समर्थत्वेन इत्यादिः ॥

  78. उपकारस्य वस्तुस्वरूपत्वापत्येति हेतुः ॥

  79. कार्यं—प्रकृतं फलम् ॥

  80. कार्यस्यायं स्वभावः इति खलूक्तम् ॥

  81. वस्तुस्वरूपस्य तदानीमपि सत्त्वात् ॥

  82. साध्यधर्मिणि—साध्यरूपधर्मिणि ॥

  83. सत्त्वनित्यत्वे—अर्थक्रियाकारित्वं, स्थिरत्वं च ॥

  84. श्रोत्रियपक्षे—अतिरिक्तशक्त्यङ्गीकारपक्षे ॥

  85. एतेन नाशस्य कारणापेक्षा निराकृता ॥

  86. तज्जन्यः—मुद्गरादिजन्यः । भावस्य स्वरूपच्युतिः अभावः । तथा चात्रैव मुद्गरादिव्यापारः । न त्वभावोत्पत्तौ ॥

  87. तस्य—अभावस्य ॥

  88. वस्तुनः स्वरूपलाभे, तदविनाभावी विनाशः ॥

  89. पक्षद्वयेऽपि प्रत्यभिज्ञाया अप्रमाणत्वात् ॥

  90. दोषः—अन्योन्याश्रयः ॥

  91. स्मृतित्वानुभवत्वयोः कदापि सामानाधिकरण्यासंभवात् ॥

  92. इयं परिहासोक्तिः । वर्तमानमात्रविषयकत्वे क्षणिकत्वमेव हि सिद्ध्येत् ॥

  93. तदभावः—वर्तमानाभावः ॥

  94. तद्ग्राहितां—स्थिरत्वविषयकत्वम् ॥

  95. कालद्वयविशिष्टवस्तुग्रहणे स्थिरत्वं सिद्ध्यति । तन्न संभवति । पूर्वकालविषयकस्योत्तरकालाविषयकत्वात् । उत्तरकालविषयकस्य पूर्वकालाधिकविषयकत्वात् ॥
  96. न चेष्टापत्तिः, ग्रहणस्मरणयोरवैलक्षण्यप्रसंगात् ॥
  97. वर्तमानदिवसप्रतीतौ अनेकक्षणानां पूर्वापरभावापन्नानां एकस्मिन् दिवसे भानात् एवमुक्तम् ॥

  98. सर्वत्र प्रतीतिषु कालस्य विशेषणतया भानाङ्गीकारात् ॥

  99. निरवयवद्रव्यं किल कालः ॥

  100. न हि भातीत्यन्वयः ॥

  101. क्षणिकत्वात् ज्ञानानाम् ॥

  102. तस्याः—बुद्धेः चिरं स्थितिरपि न इत्यन्वयः ॥

  103. तदागमात्—मुद्गरादिनिपातात् ॥

  104. अनुपदमेव विनाशस्य हेतुज न्यत्वनिरासात् ॥

  105. अन्यथा—देशान्तरनयनादिना, आलोकाद्यभावेन वा ॥

  106. पूर्वापरेति शेषः ॥

  107. यदि न मन्यते—इत्यन्वयः । भवता ज्ञातमपि अन्यो जानीयात् । भवता ज्ञातमपि अन्यः न जानीयाच्च ॥

  108. सत्यहेमकूटहेमयोरुभयोरपि एकरूपज्ञानजनकत्वात् सत्त्वं स्यात् p. 300

  109. बाह्यार्थशून्यवादिनः किल ते ॥

  110. तथा च वस्तुनां स्थिरत्वसिद्धिः ॥

  111. अयमेव प्रतीत्यसमुदयवादः तदिष्टः ॥

  112. चित्तामोगो मनस्कारः इत्यमरः ॥

  113. तस्यानुपदमेव दूषितत्वात् ॥

  114. क्षणिकवादे नियामकत्वस्य दुर्वचत्वात् ॥

  115. न तु कार्यस्येति शेषः । अतश्च कार्ये सांकार्यं नापादयितुं शक्यमित्यभिमानः ॥

  116. करणाकरणादिविरुद्धधर्मयोगाद्धि क्षणिकत्वं साध्यते ॥

  117. लाक्षणिकः—तत्तदसाधारणधर्मविशेषकृतः ॥

  118. आत्मस्थानापन्नस्य नाशाङ्गीकारात् ॥

  119. निर्विशेषणकं हि ज्ञानं निर्विकल्पकम् । तथा च निर्विकल्पापेक्षयाऽतिरिक्तविषयकत्वं न स्यात् ॥

  120. भूयस्त्वम्—एकोपादानकानेकविज्ञानपरम्परारूपम् ॥

  121. बौद्धानां मन्त्रदिसिद्ध पहासोऽयम् ॥

  122. आत्मा—स्वरूपम् । स्वयं लब्धस्वरूपं चेत्, अनन्तरमन्यमुत्पादयेत् । अतश्चान्ततः क्षणद्वयसिद्धिरनिवार्या ॥

  123. पूर्वापरभावमात्रं कार्यकारणभावप्रयोजकम् ॥

  124. अन्यथासिद्धवस्तुषु इदं संमतम् ॥

  125. अन्यतरस्य नमनं अन्यतरस्योन्नमनहेतुः ॥

  126. अत एव—कार्यस्य सामग्रीमेलनाधीनत्वादेव ॥

  127. कर्मविपाकः—धर्माधर्मौ कार्यसामान्यकारणभूतौ ॥

  128. कृष्णात् कृष्णतरो भवती । प्रत्येकमल्पशक्तित्वेऽपि सामग्रीदशायां मिलिता शक्ततरा भवति सामग्री ॥

  129. विप्लवते—रिक्तसामर्थ्या भवति । अन्ततः अदृष्टविशेषस्य गलितत्वात् ॥

  130. भावानां स्वरूपलाभः यथा सामग्र्यधीनः, तथैव तेषां स्वरूपच्युतिरपि सामग्र्यधीना ॥

  131. घटः इति शेषः । यदि घटः नश्वरस्वभाववान् तर्हि कारकवैयर्थ्यम् । अनश्वरत्वे कारकाणि तदुत्पादनसामर्थ्यशून्यानि भवेयुः ॥

  132. भावानां—पदार्थानाम् । परापेक्षत्वमेव हेतुः । यथा घटादिः दण्डचक्राद्यपेक्षः, कदाचित् सामग्रीवैकल्यान्न भवत्यपि, एवं ध्वंसोऽपि कदाचिन्न भवत्यपि । ततश्च एकोऽपि वा घटः नित्यः स्यादित्याक्षेपः ॥

  133. इत्येवमित्यादि आशयोद्धाटनम् । उपहसति—अहो इत्यादि ॥

  134. सूर्यालोकरहितसमयेऽपि हि प्रत्यभिज्ञा भवति ॥

  135. उच्यतां यत्किञ्चित्कारणम्, आवश्यकत्वात् ॥

  136. दर्शनं—अन्वयव्यतिरेकानुभवौ ॥

  137. ननु तर्हि इन्द्रियजन्यं सर्वमपि प्रत्यभिज्ञा स्यादिस्यत्राह—क्वचिदित्यादि ॥

  138. भूतभविष्यत्त्वयोस्तु विरोधः स्पष्टः ॥

  139. न हि कुण्डलविशिष्टवेषेण केयूरविशिष्टत्वं संभवति ॥

  140. यद्यपि सिद्धान्ते युगपत्सन्निधानं न; किन्त्वेकवस्तुनि । परन्तु क्षणिकवाददृष्ट्याऽयमाक्षेपः ॥

  141. शतादिगणनवेलायां अन्तिममेव वस्तु इन्द्रियसन्निकृष्टम् । अथापि शतपदात्यादिज्ञानं प्रत्यक्षमेवेति सर्वे वदन्ति । तद्वदिहापि ॥

  142. एकत्रैव—हठात् एकक्षणे ॥

  143. अनेकव्यक्त्यनुगतसामान्यग्रहणन्यायेनैव, अनेककालानुगतव्यक्तेरपि ग्रहण मुपपादनीयमिति भावः ॥

  144. तथाचार्थजन्यत्वात्तस्य प्रत्यक्षत्वम् ॥

  145. इदमत्र तत्त्वम्—लौकिकसन्निकर्षद्वयजन्यमेकं ज्ञानमिव, संस्कार-इन्द्रियजन्यं सुरभि कुसुमम् इत्यादिज्ञानमपि सर्वसंमतम् । कुसुमं तु चाक्षुषम्, सौरभं तु घ्राणग्राह्यम् । इन्द्रियद्वयं तु युगपन्न प्रसरति । संस्कारस्य इन्द्रियसहकारित्वात् निरंशत्वाच्च प्रत्यभिज्ञायाः प्रत्यक्षमेव तत् । अथवा संस्कारजन्यस्मृत्युपस्थापितं विशेषणं भासते । इयमेव ज्ञानलक्षणेत्युच्यते । तथा च लौकिकालौकिकसन्निकर्षद्वय जन्यं ज्ञानं प्रत्यभिज्ञेति न दोषः । ग्रन्थकारस्तु अलौकिकं सन्निकर्ष नाङ्गीकरोतीति मानसं तदिति वदति । मानसत्वे बाह्यत्वेनानुभवस्यास्वारस्यापत्त्या अनन्तरकालिकैः अलौकिकस्सन्निकर्षः अङ्गीक्रियत इति ज्ञेयम् ॥

  146. मनसः बाह्ये विषयेऽप्रवृत्त्येति हेतुः । मनः बाह्ये नैव प्रवर्तत इति न । स्वातन्त्र्येण न प्रवर्तते इत्येव ॥

  147. लूनपुनर्जातकेशादीत्यर्थः ॥

  148. प्रत्यभिज्ञा—स एवायं गकारः इत्यादीति शेषः ॥

  149. अनुमानमिथ्यात्वाधीनं न प्रत्यक्षप्रामाण्यम्, किन्तु स्वकारणादेव ॥

  150. अयं घटः इति खलु निषयाभिमुखोऽनुभवः । स च पूर्वं विषयस्य ज्ञानाभिमुखत्वकृतः । विषयस्य ज्ञानाभिमुख्यमेव विषयीकरणम् । अतः अन्ततः क्षणद्वयावस्थानं ज्ञानानामावश्यकम् ॥

  151. अन्ततः ज्ञानस्य द्विक्षणावस्थानमावश्मकमित्युक्तम् । घटादौ तु वैलक्षण्यात् स्थित्वस्य सिद्धिः ॥

  152. विग्रहः—स्वरूपम् ॥

  153. न हि समनन्तरे क्षणे सर्वं नङ्क्ष्यतीति कस्यापि प्रतीतिः ॥

  154. कालस्यातीन्द्रियत्वेन अंशतस्सत्यत्वात् ॥

  155. अनिमेषदृष्टिः—परमात्मा ॥

  156. तत्तद्वस्तुदृष्टयेति शेषः । तावन्निमेषाः दिनानि वा यत् एवं वर्तते, तावनेक एव सः कालस्तस्य भवति ॥

  157. ज्ञानं तु अनुव्यवसायेन मानसेन गृह्यते ॥

  158. सः—विषयः । इदमत्र तत्त्वम्—कालः अतीन्द्रियः, नित्यः, व्यापकश्च । परन्तु उपाधिवशात्तत्तद्व्यवहारः । उपाधीनां घटादीनां प्रत्यक्षत्वात् प्रत्यक्षत्वेन व्यवहारः । जन्यमात्रत्य कालोपाधित्वात्, घटः यावत्कालं वर्तते, तावान् एकः घटकाल इत्युच्यते । क्षणोपाधिदृष्ट्या घटस्य नानाकालसंबन्धेऽपि घटस्य स्वकालदृष्ट्या न नानाकालसंबन्धः, किन्तु एक एव स काल इति न कश्चन विरोधः ॥

  159. विनाशकारणानि—असमवायिकारणनाशादीनि ॥

  160. अतश्च सन्तानिनः अतिरिक्तत्वे, सत्यत्वे च स्थिरत्वसिद्धिः । अयमर्थः समनन्तरश्लोके स्पष्टः ॥

  161. कथञ्चित्कर्मानुवृत्तावपि सुखदुःखानुभवस्यान्तिमक्षण एव संभवेन, अन्यः कर्ता, अन्यो भोक्ता इत्यनिवार्यमेव ॥

  162. कललं—गर्भपिण्डावस्थाभेदः ॥

  163. अन्यथा घटादीनामपि तथैवानादित्वं स्यात् ॥

  164. आतिवाहिकदेहः—अन्तराभवदेहः ॥

  165. कौरुकुची—निर्वक्तुमशक्यः उद्वेगविशेषः । शब्दानुकरणमिदम् ॥

  166. सिद्धान्ते आकाशस्य तुच्छत्वानङ्गीकारात्, विशिष्टरूपेण विकारित्वेऽपि स्वरूपप्रच्युतेरभावाच्च न हानिः ॥

  167. तथोक्तं भट्टेन—विक्रियामात्रवाचित्वे न युच्छेदोऽस्ति तावता इति ॥

  168. नित्योऽप्यात्मा सुखदुःखभोगे तद्धेतुभूतं कर्म न हि विमृशति । अतः किं लाभ इत्याक्षेपः । विमृशत्येव, कार्यसामान्यस्य सहेतुकत्वज्ञानादिति समाधानम् ॥

  169. अनेन—पूर्वोक्तज्ञानेन । कार्यस्य निरोद्धुमशक्यत्वादिति हेतुः । उत्तरस्वप्रवृत्तिशिक्षणं भविष्यतीति न वैफल्यमिति सारम् ॥

  170. यावच्छरीरमवस्थितिरङ्गीकृता चेत्, तेनैव न्यायेन निस्यत्वमिति भवेदेव ॥

  171. शकुनिः—मांसादनः गृघ्रादिः ॥

  172. तत्—शरीरम् ॥

  173. औपाधिकपरिमितत्वपरमित्यर्थः । अन्यथा परमात्मनोऽपि तथाश्रवणात् विभुत्वं न स्यात् ॥

  174. विभोश्चलनाद्यसंभवादिति हेतुः ॥

  175. निद्रादिष्वपीति शेषः ॥

  176. सुषुप्त्यादौ इति शेषः ॥

  177. अन्यथा मृदः कुतो न वृश्चिकोत्पत्तिरिति प्रश्नः दुरुत्तरः स्यात् ॥

  178. एतज्जन्मन्यप्यनुभूतं सर्वं न हि स्मर्यते । अदृष्टमेवात्र नियामकम् ॥

  179. जन्मान्तरसिद्धेरिति शेषः ॥

  180. सेवा—गुरुसेवा । गुरुसेवादीनां समानत्वेऽपि शिष्ययोः ज्ञानसंपत्तौ दृश्यते तारतम्यम् ॥

  181. अत्तश्चादृष्टस्य भूतधर्मत्वे तस्य प्रत्यक्षत्वापत्तिः ॥

  182. साध्वीयमपदाग्यां कारणान्तरनिराकरणम् ॥

  183. अनवस्थाप्रसङ्गो हेतुः । यत्र कुत्रचित् स्वभाववादस्यावश्यकत्वादादावेव तच्छरणीक्रियतामिति भावः । समाधत्ते—कर्मणामित्यादिना ॥

  184. सा—विचित्रफलशक्तता । आयुर्वेददास्त्रवाक्येषु हरीतक्यादौ सा दृष्टा ॥

  185. संस्कारः—अतिशयः ॥

  186. बृहदारण्यकोपनिषदि ६ अध्याये द्रष्टव्यम् ॥

  187. अविनाशी वा अरे अयमात्मा इति श्रतिः ॥

  188. परलोकपदेन एतल्लोकमपि क्रोडीकर्तुं व्याख्याति—देहेत्यादि ॥

  189. मांस्पाकाः—मांसपाकाः ॥