II.361 प्रमेयलक्षणप्रक्रमतोऽवसीयमानत्वात् । हिताहितप्राप्तिपरिहारयोग्यव्यापा
राधिकरणं हि शरीरमुच्यते, न चेष्टामात्रस्याधिष्ठानम्1219 । रथादिना
ऽपि नातिव्याप्तिः, यथोक्तप्रक्रमवशादेव अन्येन प्रेरणायामसत्याम् इति
विशेषलाभात् । आत्मप्रयत्नातिरिक्तप्रेरकनिरपेक्षहिताहितोपादानपरि
त्यागोपाधिकचेष्टाविशेषाश्रयः शरीरमित्यर्थः ॥


शरीरलक्षणे दोषपरिहारः


ननु ! पाषाणान्तर्गतमण्डूकशरीरेषु तदाश्रयत्वादर्शनादव्याप्तिः—
न—योग्यताया—स्तत्रापि भावात् । सत्यामपि क्रियायोग्यतायां सर्वतो
निर्विवरनिबिडदृषत्कर्परोपरुद्धावकाशतया चलितुमसौ न प्रभवति भेको
वराकः । तथा च स्फुटिते तस्मिन्नश्मनि तत्क्षणमेवासौ चलत् दृश्यते
इति निबिडपाशसंयतशरीरवत् तदानीं चेष्टाया अदर्शनेऽपि नाव्याप्तिः ॥


मुमुक्षुशरीरनियमाभावः


मुमुक्षुशरीरमेव लक्ष्यमित्येके । तेन न मण्डूकशरीरादिभिरव्याप्तिः,
अलक्षणीयत्वात्तेषामिति—तदयुक्तम्—नियतस्य मुमुक्षुशरीरस्याभावात्
तादृशिं च भेकादिशरीराणि नितरां निर्वेदकारीणि भवन्ति । मुमुक्षुरपि
कर्मविपाकमनेकप्रकारमाकलयन् मण्डूकीभावमात्मनोऽपि न न
शङ्कते ॥


प्रत्यासन्नापवर्गपुरप्रवेशविपश्चित्तममपश्चित्तममपश्चिमजन्मानं मुमुक्षुं
प्रति लक्षणाद्युपदेशः क्वोपयुज्यते ? इत्यतः पूर्वोक्त एवाव्याप्तिपरि
हारः श्रेयान् ॥


  1. चेष्टते इति व्यवहारः खलु यत्नाधीनव्यापार एव स्वरसः ॥