II.522

दशममाह्निकम्—संशयपरीक्षा


संशयलक्षणम्


संशयादेः पदार्थगणस्य प्रमाणप्रमेयपदसंगृहीतस्यापिन्यायप्रवृत्तिप्रयो
जनतया पृथग्व्युत्पादनीयत्वस्य प्रागेव समर्थितत्वात्, प्रथमसूत्रे च प्रमेया
नन्तरं संशयोद्देशात्-उद्देशानुक्रमेण तस्य लक्षणं प्रतिपादयितुमाह—


समानानेकधर्मोपपत्तेर्विप्रतिपत्तेरुपलब्ध्यनुपलब्ध्यव्यवस्थातश्च
विशेषापेक्षो विमर्शः संशयः ॥ न्या-सू-१-१-२३ ॥


ननु ! संशयस्य समानधर्मोपपत्त्यादिकारणभेदेन 1493पंचविधत्वात्
सामान्यसक्षणम्, विभागः, विशेषलक्षणानि च वक्तव्यानि । तत्र
सामान्यलक्षणेविभागे च सूत्रद्वयम्, विशेषलक्षणार्थं च पंचानां तत्प्रमे
दानां सूत्रपंचकमित्येवं सप्त सूत्राणि प्रणेतुं युक्तानि । एकं चेदं सूत्रं
श्रूयते । तत्कथमेतद्भविष्यति—उच्यते—सत्यमाह भवान् । किं त्वेकमेवेदं
सूत्रम् आवृत्तिन्यायमाश्रित्य सप्तधा कल्पयिष्यते ॥


सूत्रविभागः


तत्र आचार्यास्तावदेवं व्याचक्षते—समानधर्मोपपत्तेः, उपलब्ध्यनुप
ब्ध्यव्यवस्थातो विशेषापेक्षो विमर्शः संशयः, इतीयत्सूत्रं सामान्यलक्षणा
II.523 प्रतिपादकम् । समानानेकधर्मोपपत्तेः, विप्रतिपत्तेः, उपलब्ध्यनुपलब्ध्य
व्यवस्थातश्चेति विभागसूत्रम् । पुनश्च समानधर्मोपपत्तेः उपलब्ध्यनुप
लब्ध्यव्यवस्थातो विशेषापेक्षोविमर्शः संशय इत्येतदेव सूत्रं प्रथमस्य
संशयस्य विशेषलक्षणप्रतिपादकमिति ॥


सूत्रस्य सामान्यविशेषलक्षणपरत्वम्


ननु ! एतदेव सूत्रं सामान्यलक्षणार्थम्, इयदेव चेदयमन्यूनानति
रिक्तं विशेषलक्षणार्थमिति कथमेतत्—उच्यते—1494विशेषस्मरणकारणभूत
साधारणधर्मग्रहणात्, विशेषाग्रहणात्, विशेषास्मृतेश्च संशयो भवतीति
प्रत्यात्मवेदनीयं तावदेतत् । सूत्रे विशेषापेक्ष इत्यनेन पदेन विशेष
स्मरणमुपदिष्टम् । उपलब्ध्यनुपलब्ध्यव्यवस्थापदेन च विशेषाग्रहण
मितीयत्तावत् द्वयोरणि सामान्यविशेषलक्षणयोः तुल्यम् । समानशब्द
स्त्वाक्षिप्तसामान्यवचनः सन् तत्सामान्यलक्षणमाह । अनुगतसामान्य
त्रचनस्तु विशेषलक्षणमिति ॥


सामान्यविशेषलक्षणप्रतिपादनप्रकारः


कथं पुनरयमेवाक्षिप्तसामान्यवचनः, कथंचानुगतसामान्यवचन इति
—उच्यते—संशयोत्पत्त्यैव समानधर्यमात्रमाक्षिप्यते, यद्गृह्यमाणं विशेष
स्मरणबीजसंस्कारोद्बोधनिमित्ततां प्रतिपद्यते, तद्व्यतिरेकेण संशयानु
त्पादात् ॥


तथा हि—विरुद्धविशेषावमर्शस्वभावस्तावत्संशयः । न च विरुद्ध
विशेषाणां पुरोऽवस्थिते धर्मिणि सन्निहितानाम् अवमर्शनम्, विरुद्ध
II.524 तयैवैकत्र सन्निधानाभावात् । अतः स्मृत्युपारूढानाम् अवमर्शनम् ।
स्मृतिश्च नाकस्मादुद्भवतीति यत्सहचरितानां तेषां विशेषाणां पूर्वं पर्या
येण ग्रहणं वृत्तम्, तद्दर्शनसंस्कारप्रबोधद्वारेण स्मरणकारणमवश्यमेवा
श्रयणीयम् । तत्तु अनुगतं वा भवतु, व्यावृत्तं वा, विप्रतिपत्त्यात्मकं
वा, आन्तरम् उपलब्ध्यनुपलब्ध्यव्यवस्थारूपं वेत्येवमाक्षिप्तसामान्य
वाचिनि समानशब्दे पंचसाधारणरूपावगमात् सामान्यलक्षणार्थता ॥


यदा त्वनुगतमेव धर्मम् आरोहपरिणाहादिस्वभावमाचष्टे समान
शब्दः, तदाविशेषलक्षणार्थ इति ॥


सूत्रयोजानाप्रदर्शनम्


तत्र चेत्थं सूत्रयोजना—समानो धर्मः परिणाहादिः । तस्य 1495गुण
त्वेन प्रतिद्रव्यमन्यत्वेऽपि तुल्यरूपावगतिविषयीकृतत्वात्1496 समानत्वमुप
पद्यते । तस्योपपत्तिः उपलब्धिः । अथापि सत्ता उपपत्तिशब्देनो
च्यते । साऽप्युपलब्ध्यधीनस्थितिरेव भवतीति सर्वथा समानधर्मोपलब्धेः
संशय इत्युक्तं भवति ॥


संशयस्य धर्मिविषयकत्वम्


ननु ! समानधर्मः अर्थान्तरं धर्मिणः । न चार्थान्तरे दृष्टेऽन्यत्र
संशयो भवितुमर्हति—न—अर्थान्तरविशेषत्वात् । अर्थान्तरविशेषस्तु धर्म्ये
वोच्यते, अर्थान्तरेण परिणाहादिना विशेष्यत इति तस्मिन्नेव—साधारण
धर्माध्यासितवपुषि धर्मिणि नयनपथवर्तिनि तद्गतविशेषावमर्शात्मा तत्रैव
II.525 संशयो जायते । योऽयमूर्ध्वत्वविशिष्टो धर्मी दृश्यते, सः स्थाणुर्वास्यात्,
पुरुषोवेति नार्थान्तरत्वं दूषणम् ॥


संशयकारणान्तरम्


तथापि वक्रकोटरत्वकरचरणादिविशेषदर्शिनः न दृष्टः संशय इति
कारणान्तरमुच्यते—उपलब्ध्यनुपलब्ध्यव्यवस्थात इति । विशेषाग्रहणा
दित्यर्थः । कथं पुनरुपलब्ध्यनुपलब्ध्यव्यवस्थात इत्यनेन विशेषाग्रहण
मुच्यते—इत्थमुच्यते—इदन्तयाऽनिदन्तया वा तत्रोपलब्धिः न व्यवतिष्ठते,
अनुपलब्धिर्वा—इति । विशेषग्रहणे हि सति तद्व्यवस्थानं संभवति—
स्थाणुरयम्, न पुरुष इति वक्रकोटरादियिशेषग्रहणे । शिरःपाण्यादि
परिच्छेदे तु—पुरुषोऽयम्, न स्थाणुरिति ॥


संशयकारणान्तरम्


एवमनेन पदेन विशेषाग्रहणमुक्तम् । तथापि 1497प्रेङ्खारूढस्य
साधारणधर्मदर्शिनः विशेषानुपलभमानस्यापि न दृष्टः संशय इति कारणा
न्तरमुच्यते—विशेषापेक्ष इति । विशेषस्मृत्यपेक्ष इत्यर्थः ॥


सौत्रं विशेषपदं विशेषस्मृतिपरम्


ननु ! विशेषापेक्ष इति श्रूयते, न विशेषस्मृत्यपेक्ष इति—सत्यम्—
अश्रूयमाणमपि तत्स्मरणं संशयप्रस्तावादवगम्यते । स्मर्यमाणत्वेन हि
विशेषाणां संशयोत्पत्तावपेक्षा, नानभूयमानतया; अनुभूयमानेषु हि तेषु
संशयच्छेदो भवति, न संशयः ॥


II.526

अपेक्षाशब्दार्थनिरूपणादेव वा स्मृतिर्लभ्यते । विशेषाणां अपेक्षा—
आकाङ्क्षा । ते चानुपलभ्यमानाः पूर्वानुभूताश्च आकाङ्क्ष्यन्ते इतीयं सा
तेषां स्मृतिः । संप्रत्युपलभ्यमानेषु एकान्ताननुभूतेषु वा तेष्वाकाङ्क्षाऽ
नुपपत्तेः ॥


विशेषाग्रहणस्य संशयकारणत्वम्


ननु ! समानधर्मोपपत्तेः विशेषस्मृतेश्चेति—कारणद्वयमेवास्तु किं
वशेषाग्रहणेन । अपि च—


विशेषस्मरणादेव नन्वाक्षिप्तस्तदाऽग्रहः ।

ग्रहणं स्मरणं चैव भवेतां युगपत्कथम् ॥

अस्त्येतत्—किन्तु नातिदूरगतायां निजप्रमदायां अनुरागवतः
कामिनः समानधर्मदर्शने, तद्गतविशेषा1498दर्शने, तदनुस्मरणे च
सन्यपि न भवत्येव संशयः । अतः संशयोत्पत्त्यव्यभिचारे देशकालव्यव
हितविशेषाग्रहणसिद्धये पदान्तरमुपादीयते देशान्तरे कालान्तरे वा चिर
दृष्टानां विशेषाणामिदानीमग्रहणं संशयकारणम्, न विशेषाग्रहणमात्रम् ।
एवममुना पदत्रयेण संशयलक्षणमिदमुक्तम् ॥


संशयकारणानां मेलनासंभवपरिहारः


ननु च ! संभूय कारकैः कार्यमारभत इति न्यायात् समानधर्मो
पलब्धि-विशेषानुपलब्धि—तत्स्मृतिलक्षणकारणत्रयजन्ये संशये ज्ञानयौगपद्य
मापद्यते । क्रमभावित्वे हि बुद्धीनां नैककार्योत्पत्तौ युगपद्व्यापारः
समस्ति1499 । विशेषाश्च बहवोऽपि संभवन्तीति तत्स्मरणान्यपि युगपद्भू
II.527 यांसि भवेयुः—नैतदेवम्—समानधर्मग्रहणानन्तरं पूर्वोपजातविविधविशै
षानुभवपरम्परोपचित पीवरसंस्कारद्वारकमेकमेव तद्विषयं स्मरणं भवि
ष्यति—यथा वर्णानामर्थप्रतीतौ वर्णितम् ॥


विशेषानुपलब्धिः प्रागभावरूपा


उपलब्ध्यनुपलब्ध्यव्यवस्थासूचिता च विशेषानुपलब्धिः अनुपलब्धि
रेव, न सा ज्ञानात्मिका, किन्तु ज्ञानानुत्पाद इति तत् तृतीयं कारणमपि
भवन्न ज्ञानात्मकमिति द्वे एव ज्ञानात्मके कारणे—समानधर्मग्रहणम्,
विशेषस्मरणं च । तयोः प्रथमं समानधर्मग्रहणं विनश्यदवस्थं, विशे
स्मरणं च द्वितीयमविनश्यदवस्थं संशयमुपजनयतः । ईदृशयोश्च ज्ञानयोः
यौगपद्यमविरुद्धमिति शास्त्रे स्थितम्1500


एवं समानधर्मग्रहणात् विशेषाग्रहणात् विशेषस्मृतेश्च संशय इति
पदत्रयेण संशयलक्षणमनवद्यमुच्यत इति ॥


पक्षान्तरेण संशयसूत्रव्याख्यानम्


तदेतदाचार्यव्याख्यानमरोचयन्तः परेऽपरथा व्याचक्षते—सामान्य
लक्षणं तावत् विमर्शपदेनैव प्रतिपाद्यते । न हि पर्यायोच्चारणमात्रमिदं
विमर्शः संशयः इति । किन्तु संशय इति लक्ष्यपदम्, विमर्श इति
लक्षणदम् । प्रमाणपदवच्च1501 निर्वचनसव्यपेक्षम् एतत्पदं लक्षणप्रति
पादनक्षमं भवति । विरुद्धार्थावमर्शो विमर्शः स्थाणुर्वा, पुरुषो वेति ।
इयता च सजातीयसंशयपश्चकानुगतं विजातीतेभ्यः प्रमाणादिभ्यो व्यव
च्चिन्नं सामान्यलक्षणमुक्तं भवति । संशयीत्पादककारणपरिगणनं पुन
II.528 रिन्द्रियार्थसन्निकर्षोत्पन्नग्रहणवदिहापि नोपयुज्यते, कारणान्तराणामपि
आत्ममनस्यन्निकर्षादीनां अपरिहार्यत्वात् ॥


थान्यासाधारणकारणनिर्देशश्चिकीर्षितः, तेनापि कीऽर्थः ?
सामान्यलक्षणस्य प्रतिपिपादयिषितत्वात्, तस्य च विमर्शपदादेव सिद्ध
त्वात् ॥


व्याख्यानान्तरस्य क्लिष्टत्वम्


उपलब्ध्यनुपलब्ध्यव्यवस्थापदप्रतिपाद्यमानविशेषाग्रहणवर्णनं चातीव
क्लिष्टमिति, पुनश्च विशेषलक्षणप्रसङ्गे यथाश्रुतमेव तद्व्याख्येयमि
त्यतिभारः ॥


एवं विमर्शपदेन विजातीयव्यवच्छेदकारिणि सामान्यलक्षणे वर्णिते
समानधर्मोपपत्तेः इत्येकमेव पदं सजातीयसंशयान्तरव्यवच्छेदकारि
विशेषलक्षणक्षमं भवतीति तत्रापि पदत्रययोजनं नोपायुज्यत इति ॥


अत्र व्याख्यानद्वयेऽपि कतरत्साध्विति तद्विदः प्रमाणम् ॥


अनेकधर्मोपत्तिपदार्थविवरणम्


अनेकधर्मोपपत्तेः इत्यत्रापि त्रिपदपरिग्रहणेनैन लक्षणमाचार्या वर्ण
यन्ति । अनेकधर्मोपपत्तेः उपलब्ध्यनुपलब्ध्यव्यवस्थातो विषेषापेक्ष
इत्यसाधारणधर्मग्रहणात् विशेषग्रहणात् विशेषस्मृतेश्च संशय इत्यर्थः ।
एकैकपदोपादानफलं च पूर्ववदत्रापि दर्शयितव्यम् । न चेन्द्रियमनस्सं
योगादिकारणान्तरपरिगणनचोदनं युक्तम्, तेषां 1502सर्वबुद्धिजन्मसुतुल्य
त्वात् । इहासाधारणसंशयज्ञानकारणोपदेशप्रस्तावादिति ॥


II.529

संशयसूत्रव्याख्याने पक्षान्तरम्


अन्ये तु सामान्यलक्षणसम्पादिते विजातीयव्यवच्छेदे केवलसजाती
यव्यवच्छिन्नलक्षणप्रधितपादननिपुणमनेकधर्मोपपत्तिपदमेव पूर्ववद्वर्णयां
चक्रुः ॥


ननु ! अनेकधर्मशब्देन कथमसाधारणो धर्म उच्यते ?—एवमुच्यते
—समानजातीयमसमानजातीयं चानेकम् । तस्मात्परावृत्तो धर्मः अनेक
धर्म इति ॥


यद्वा किमनया क्लिष्टकल्पनया ! अस्त्ययमेकशब्दः समानपर्यायः ।
तत्र स्पष्ट एव नञ्समासेनासमानधर्मः अनेकधर्मः साधारणधर्म उच्यते
एवेति ॥


असाधारणधर्मस्य संशयकारणत्वाक्षेपः


भवत्वेवम् ! असाधारणधर्मस्य तु कथं संशयकारणत्वमिति चिन्त्यम् ।
विरुद्धविशेषानुस्मरणकारणकं हि संशयमाहुः । विशेषाणां च स्मरणहेतोः
संस्कारस्य 1503तदुद्बोधकं भवति, येन सहैते पूर्वं पर्यायेणोपलब्धाः । असा
धारणधर्मस्य तु असाधारणधर्मत्वादेव न केनचित्सह पूर्वं ग्रहण
भवत् । भावे तु असाधारणधर्मतैव हीयेतेत्यतः कथमसौ तत्स्मृतिहेतुः ।
व्यावृत्ततयैव तु स्मृतिहेतुत्वेऽस्य त्रैलोक्यस्मरणनिमित्तता प्रसज्येत, 1504ततो
ऽपि व्यावृत्तत्वादिति ॥


II.530

असाधारणधर्मस्य संशयकारणत्वनिरूपणम्


नैष दोषः—प्रकारान्तरेणास्य स्मृतिहेतुत्वात् । इह हि केषुचित्केषु
चित् असाधारणधर्मा धर्मिषु भवन्तः तद्गतसाधारणधर्मान्तरसहचरिता
भवन्ति । तद्यथा पृथिवीत्वगन्धत्वादयो धर्माः पृथिव्यामसाधारणास्सन्तः,
स्नेहवत्त्वादिधर्माश्च तथैवाप्सु द्रव्यत्वसहचारिणो दृष्टाः । रूपादिषु
रूपत्वादिधर्माः गुणत्वसहचारिणः, उत्क्षेपणादिषु उत्क्षेपणत्वादिधर्माः
कर्मत्वसहचारिणः । एवं प्रकृतेऽपि धर्मिणि कस्मिंश्चिदसाधारणो धर्म
उपलभ्यमानः केनापि साधारणधर्मान्तरेण सहचरितो भवतीति भवति
विशेषानुस्मृतिद्वारेण संशयसाधनम् ॥


अनेकधर्मस्य समानधर्माद्विशेषः


ननु ! एवं तर्हि व्यावृत्तत्वादेव समानधर्मादेष संशयः, नानेकधर्मा
दिति—मैवम्—अनेकधर्म एवासौ तेन वर्त्मना विशेषान् स्मारयन्
संशयजन्मने कल्पते । असति हि तस्मिन् किमालम्बनं व्यावृत्तत्वं
स्यादित्यलमतिसूक्ष्मेक्षिकया1505


तस्योदाहरणं भाष्यकारेण दर्शितं शब्दे विभागजत्वम् । यथा हि
पृथिव्यादौ पृथिवीत्वादिः व्यावृत्तो धर्मः द्रव्यत्वाद्यनुगतधर्मसहचारी दृष्टः
एवं शब्दे विभागजत्वं धर्मः केनचित् द्रव्यत्वादीनामन्यतमेन धर्मेण
सहचरितः स्यादिति संशयः ॥


विभागजविभागविमर्शः


ननु ! विभागजत्वमसाधारणो न भवत्येव शब्दधर्मः, विभागजवि
भागेऽपि भावात् । तथा च प्रयोगः—गुणः शब्दः, विभागजत्वात्
II.531 विभागजविभागवत् इति—तत्र केचिदाहुः सत्यमस्ति विभागेऽपि
विभागजत्वम् । शब्दे तु विशेषो विवक्षितः ॥


द्विविधो हि विभागजो विभागः—कारणविभागपूर्वकः, कारणा
कारणविभागपूर्वकश्च । कारणं समवायिकारणमत्राभिप्रेतम् । कारण
विभागपूर्वकस्तावत् तन्तुविभागात् तन्त्वाकाशविभागः ॥


कारणाकारणविभागपूर्वकस्तु अङ्गुल्याकाशविभागात् हस्ताकाश
विभागः; हस्ताकाशविभागादपि शरीराकाशविभाग इति ॥


1506शब्दस्तु नियमेनैव कारणविभागपूर्वकविभागप्रभवः—वंशदलविभा
गात् दलाकाशविभागः; दलाकाशविभागाच्चासमवायिकारणात् शब्दो
निष्पद्यत इत्यनेन विशेषेणास्येदृशविभागजत्वस्यासाधारणत्वं शब्दधर्मस्यो
च्यत इति ॥


विभागजविभागानङ्गीकारपक्षः


अन्ये तु विभागजं विभागममृष्यमाणाः यथाश्रुतस्यैव शब्दे विभाग
जत्वस्यासाधारणधर्मतामाचक्षते ॥


ननु ! किमिति विभागजं विभागं ते न मृष्यन्ते ? अस्ति ह्ययं
तत्सिद्धौ न्यायः—यदा ह्यवयवे कर्मोत्पन्नं अवयवान्तराद्विभागं करोति, न
1507तदाकाशादिदेशात् । यदा त्वाकाशादिदेशात्, न तदाऽअयवान्तरादिति
स्थितिः ॥


II.532

विभागजविभागस्यावश्यकता


किं कृता पुनरियं1508 स्थितिरिति चेत्—उच्यते—या ह्यवयवक्रिया
नभोभागविभागकारिणी, नासौ द्रव्यारम्भकसंयोगप्रतिपक्षभूतं विभाग
मारभमाणा दृश्यते, दिनकरकिरणपरामर्शोपजनितकमलदलविकासकारि
क्रियावत् । तदेव कथमिति चेत्—कमलस्य मुकुलविकासदशयोः प्रत्य
भिज्ञायमानत्वेनाविनाशनिश्चयात् ॥


इयं तु पाट्यमानवंशदलक्रिया द्रव्यारम्भकसंयोगप्रतिद्वन्द्विभूत
विभागारम्भिका, द्रव्यानारंभक संयोगप्रतिद्वंद्विविभागजनिकोपलभ्यते
इति नासौ नभसो विभागमारभेतेत्यत एषा स्थितिरस्तीति विभागज
विभागकल्पना क्रियते ॥


विभागस्यैव संयोगनाशकत्वम्


संयोगान्तं कर्मेति तावत् स्थितम् । अन्यथा हि तस्य कालान्तर
स्थायित्वं, नित्यद्रव्यसमवेतस्य च नित्यत्वं स्यात् । तस्मात् कर्मणोऽ
चिरजीवित्वात् तद्विनाशकेन संयोगेन भवितव्यम् । उत्तरस्तु संयोगः
पूर्वसंयोगोपरमे सति जायते, नान्यथा1509 । न च विभागव्यतिरिक्तः
कश्चन संयोगस्य हन्ता समस्ति ॥


कर्म तूत्तरसंयोगजन्मनिर्ज्ञातकौशलम् ।

न हि प्राक्तनसंयोगविनाशाय प्रकल्पते ॥

तस्मात् विभागेनैव संयोगविरोधिना भवितव्यम् ॥


II.533

यदधिकरणो विभागः तदधिकरणमेव संयोगमुपशमयति, न त्वङ्गु
लिविभागः कुण्डबदरसंयोगोपमर्दाय प्रभवतीत्यतः न वंशदलवृत्तिविभागः
दलाकाशसंयोगमुपहन्तुमलमिति नूनं दलाकाशसंयोगवैरिणा दलाकाश
विभागेन भवितव्यम् ॥


विभागजविभागस्यावर्जनीयत्वम्


तदिदानीं तस्योत्पत्तिकारणचिन्तायां क्रियायां—वंशदलविभागमात्रो
पजनने चरितार्थत्वात्, तं निर्माय विभागान्तरनिर्माणे विरम्य व्यापारा
संवेदनात्, अवश्यं वंशदलविभाग एव प्रत्यासन्नतया दलाकाशविभागा
रम्भकोऽभ्युपगमनीयः । एवमनभ्युपगमे कर्मनित्यत्वप्रसङ्गादिति ॥


विभागजविभागखण्डनम्


अत्र वदन्ति । 1510न कर्मनित्यत्वं अनभ्युपगम्यमानेऽपि विभागजे
विभागे भविष्यति; उत्तरसंयोगस्य कर्मविनाशहेतोरस्तित्वात् । पूर्व
संयोगानुपरमे कथं तदुत्पाद इति चेत्; बाढम् ! उपरत एव पूर्वसंयोगः ।
कस्तस्योपरमहेतुरिति चेत्—


कर्म ह्युत्तरसंयोगनिमित्तं यदुपेयते ।

तदेव पूर्वसंयोगध्वंसकारि भविष्यति ॥

न यज्जनने शक्तं अशक्तं तद्विनाशने ।

हेतुर्दहनसंयोगः पाकजोत्पादनाशयोः ॥

यथा च विभागेऽधिकरणनियमः, यदाधारो विभागः, तदाधारमेव
संयोगं निरुणद्धि; तथा कमंण्यपि नियमः । कर्मापि स्वाश्रयस्य यदन्य
II.534 दिक्संयोगनिबन्धनं, तत् तद्विरुद्धदिग्वृत्तेः संयोगस्योपमर्दकमिति नाति
प्रसङ्गः1511 । एवं कर्माविष्टस्योत्तरसंयोगदर्शनमदूषणं, विगन्तरसंयोगस्य
तेनोपमर्दनात् ॥


एकस्योभयकारित्वेऽदोषः


अपि च यदेव कर्म वंशदलनविभागकारि कथ्यते, तदेव दलाकाश
विभागकारि भविष्यति । को दोषः ?


ननु ! व्योमविभागकारि कर्म, न द्रव्यारम्भकसंयोगप्रत्यनीकभूत
विभारम्भकं, अम्भोरुहर्मवत् इत्युक्तम्—सत्यमुक्तम्, अयुक्तं तु—
शतपत्रपत्रकर्मणोऽपि द्रव्यारम्भकसंयोगप्रतिकूलविभागारम्भकत्वात् । तच्च
कर्म कुड्मलकमलात् विकचकमलस्यान्यत्वनिश्चयान्निश्चितम् ॥


कमलकुड्मलकुसुमयोर्भेदः आवश्यकः


ननु ! तदेवेदमरविन्दमिति संदेहविपर्ययरहिततामरसप्रत्यभिज्ञा
दर्शनात् कथं संकोचविकासदशामात्रभेदात् तदन्यत्वमिति कृतमनया दुरा
शया1512 । शरीरेऽपि सुस्पष्टोपलभ्यमानशैशवयौवनवार्धकादिदशाभेदभिन्न
स्वरूपे प्रत्यभिज्ञानदर्शनात् । न च शरीरकुशेशययोः विशेषलेशमति
कृशमपि पश्याम इति कुतस्तदेकत्वम् ॥


भवतु वा पुण्डरीकस्याविनाशः ! निदर्शनमात्रमिदं तु वर्णितम्, न
तु प्रतिबद्धःकश्चन हेतुरस्तीत्यभ्यधायि, येन वंशदलकर्मणः कोकनद
पल्लवकर्मसाम्यं कल्प्येत । क्रियात्वं त्वप्रयोजकमेव, तत्कर्मणां विचित्र
कार्यहेतुत्वात् ॥


II.535

अवयवावयविविभागयोरैक्यम्


यदि वा नान्यो वंशदलविभागः, नान्यश्च तत्कार्यो दलाकाश
विभागः । किन्तु—


एक एव विभागोऽयं भेदोऽस्याश्रयभेदतः ।

एकत्र 1513देशेऽवस्थानात् व्योम्नो वंशदलस्य च ॥

समानदेशे वृत्तित्वं मूर्तानां हि विरुद्ध्यते ।

व्योम्नस्सर्वगतत्वात्तु विद्यते तत्र सन्निधिः ॥

एकदेशाश्रयत्वे तु यदेकस्माद्विभागकृत् ।

तदेवान्यत इत्यस्ति न विभागो विभागजः ॥

अतिरिक्तविभागनिराकरणम्


अपरे पुनः विभागजविभागपराकरणोपारूढरभसाः संगिरन्ते—
तिष्ठतु तावत् दूरत एव विमागजो विभागः । कर्मजोऽपि न विभागो नाम
कश्चिदस्ति । संयोगविरोधिनि तस्मिन्नभ्युपगम्यमाने मुद्गरादिवत् पूर्व
सिद्धताऽवश्यंभाविनी । ततश्च पूर्वसिद्धो विभागः संयोगमुन्मूलयतीति
घटमुद्गरयोरिव संयोगविभागयोरेकत्र युगपदुपलब्धिर्भवेत । न चैवमस्ति ।
तस्मात् संयोगाभावविषय एव विभक्तप्रत्यय इति न विभागालम्बनतां
प्रतिपद्यते ॥


सत्यपि विभागे तस्मिन् क्षणे संयोगस्याविनाशात् न भवति विभक्त
प्रतिभासः । क्षणान्तरे च संयोगविनाशे सति भवतीत्यन्वयव्यतिरेका
भ्यां संयोगाभावविषय एवावसीयते इत्यतो न प्रत्यक्षगम्यता निभागस्य ।
संयोगभङ्गलिङ्गेन च तत्परिकल्पनक्रियेव तं हिनस्तीति पुरस्तादुप
पादितम् ॥


II.536

कारणत्रेविध्यम्


कथं तर्हि विभागजत्वं शब्दस्य भाष्यकार उदाहृतवान् ? उच्यते—
त्रिविधं कारणं कार्योत्पत्तिं प्रति विधत्ते—समयायिकारणं, असमवायि
कारणं, निमित्तकारणं चेतिः तत्र समवायिकारणं तदुच्यते, यत्राश्रितं
कार्यमुपलभ्यते—यथा पटस्य तन्तवः ॥


असमवायिकारणं तु द्विविधम्—कार्यैकार्थसमवायलक्षणया प्रत्यासत्त्य ।
प्रत्यासन्नं, कारणैकार्थसमवायलक्षणया वा संबद्धम् । तत्र कार्यैकार्थ
समवायेन प्रत्यासन्नं यथा—पटस्य तन्तुसंयोगः । कारणैकार्थसमवायेन
तु प्रत्यासन्नं यथा—पटरूपस्य तन्तुरूपमिति ॥


असमवायिकारणे विशेषः


अवधृतकारणं1514 च तदसमवायिकारणमाश्रयणीयं, अतो बुद्धिजन्मनि
सत्यप्येकार्थममवाये नान्येषामात्मगुणानामिच्छादीनासममवायिकारणत्वं,1515
अपि त्ववघृतसामर्थ्यस्यात्ममनस्संयोगस्यैवेति ॥


समवाय्यसमवायिव्यतिरिक्तं तु कार्योत्पत्तौ निर्ज्ञातसामर्थ्यं यत्
कारणं तत् निमित्तकारणमुच्यत इति ॥


विभागस्यावश्यकता


एवं स्थिते शब्दस्य नित्यत्वे निरस्ते, कार्यत्वे च साधिते तदुत्पत्तौ
आकाशं तावत् समवयिकारणम् । निमित्तकारणानि तु भूयांसि
II.537 सन्त्येव । असमवायिकारणं तु चिन्त्यम् । तच्चाकाशाश्रितमवश्यम् ।
अन्यथा प्रत्यासत्त्यभावात्1516 । तद्गुणान्तराणां च विभुत्वादीनां अनव
धृतशक्तित्वात्1517 वंशदलपाटनसमनन्तरं च शब्दोत्पाददर्शनात् एवं1518
मन्यामहे ॥


क्रिया यदैव संयोगं हन्ति वंशदलाश्रितम् ।

तदैव गगने कंचित् करोत्यतिशयं ध्रुवम् ॥

आकाशातिशयो यश्च क्रियाजः शब्द कारणम् ।

असौ विभागनामेति शब्दे तज्जन्यतोच्यते ॥

तदेवमेतत् यथागममाचार्यमतमभिहितमस्माभिः ॥


कीदृशो विभागः शब्दहेतुः


एतच्च मतिमद्भिविचारणीयम्—किमाकाशातिशयमात्रं किंचित्
समवायिकारणम्, उत यथा मुद्गरदण्डसंयोगकार्ये शब्दे भेरीगग
संयोगस्यासमवायिकारणत्वम्, एवं वंशदलविभागकार्ये तस्मिन् दलगगन
विभागस्येति । दलाकाशविभागोऽपि किं दलविभागजः, उत कर्मज
एवेति ॥


सर्वथा कश्चिदसाधरणो धर्मः संशयहेतुरुदाहर्तव्य इतीयता नः
प्रयोजनम् ॥


II.538

विप्रतिपत्तेः संशयजनकत्वम्


विरूद्धा प्रतिपत्तिः विप्रतिपत्तिः । अस्त्यात्मेत्येके, नास्त्यात्मेत्यपरे ।
सेयं विप्रतिपत्तिरूपलभ्यमाना—1519विशेषस्मरणद्वारेण संशयमावहति ।
न चेह कश्चिदनुगतो व्यावृत्तो वा धर्मः संशयकारणं, अपि तु विप्रतिपत्ति
रेवेति । किं तत्रापि त्रिपदपरिग्रहेण लक्षणवर्णनम्, एकेनैव वा
पदेनेति पूर्ववदाचार्यद्वयमतमनुसरणीयम् ॥


उपव्यब्ध्यलवस्थया संशयः


उपलब्ध्यव्यवस्थातः खल्ववपि भवति संशयः । सच्चोदकमुपलभ्यते
यथा ह्रदादिषु । क्वचिदसच्च भास्करकरनिकरप्रतिफलनतरलितासु
मरुस्थालीषु । तदेवमुपलब्धेख्यवस्थितत्वात् क्वचिदुपलभ्यमाने भवति
संशयः—किमिदं सदुपलभ्यते, किमसदिति ॥


अनुपलब्ध्यव्यवस्थाया संशयः


अनुपलब्ध्यव्यस्थातश्च भवति संशयः । किंचिदसदेव नोपलभ्यते
नभःसमादि । किंचित्सदपि नोपलभ्यते मृदन्तरितशङ्कुमूलजलादि ।
तदन्यत्रानुपलभ्यमाने संशेते पुमान्, किमिदमसदेव नोपलभ्येते, उत
सदिति ॥


अव्यवस्थायाः स्वरूपम्


1520अव्यवस्थशब्देनात्र पूर्वं पर्यायेण प्रवृत्तसदसदाश्रितविशेषादर्शनं
सूचितम्; इदानीं पुनः अर्थक्रियासमर्थतादिर्विशेषदर्शनशून्यचेतसां
II.539 उपलब्ध्यनुपलब्धिमात्रोपपत्तेः संशयो भवतीति वर्ण्यते । न चैवं
सति सर्वत्रानाश्वास इति शङ्कनीयम्, यथानुभवं संशयाभ्युपगमात् ।
सर्वत्र च तदुत्पादकविशेषाग्रहतत्स्मरणादिकारणसान्निध्यासंभवा
दिति ॥


अत्रापि1521 पदत्रयेण एकेन वा पदेन लक्षणोपपादनं पूर्ववद्द्रष्टव्यम् ॥


सौत्रपदानां न पौनरूक्त्यम्


ननु च ! उपलब्ध्यनुपलब्धी सदसतो; समान एव धर्म इति पूर्वेण
गतार्थत्वम्—नैतत्—पूर्वनिर्दिष्टस्योर्ध्वत्वादेर्धर्मस्य ज्ञेयस्थत्वात्, उप
लब्ध्यनुपलब्ध्यीश्च ज्ञातृस्थत्वात् ॥


अत एव च मानसमिमं संशयमाचक्षते, न बाह्यधर्मिसंबद्धसाधारणो
र्ध्वतादिधर्माधिगमाधीनसंशयवत् बाह्येन्द्रियजम् ॥


उपलब्ध्यनुपलब्ध्यव्यवस्थयोर्विशेषः


ननु च ! उपलब्धित्वं अनुपलब्धित्वं वाऽत्र संशयकारणम् ।
तद्धि न ज्ञातरि वर्तते, किन्तु बुद्धाविति कथमयं विशेषः—सत्यमेवम्—
असमानधर्मोऽप्युपलब्धितादिकः यदाश्रितः, तद्धि बोद्धरि वर्तते । अतो
विशेषात् पृथगेव कथ्यते । यथा ह्यसाधारणताश्रयः, एवंप्रकारमेव च
विशेषमाश्रित्य किंचित् पंचविधत्वं विपंच्यते ॥


परमार्ततस्तु सर्वत्रानुगतसंबन्धो दुष्परिहरः, विशेषस्मरणजन्यत्वा
त्संशयस्य । विशेषाणां च येन सह पूर्वं दर्शनमभूत्, तस्मिन्ननुपलभ्य
II.540 माने स्मरणासंभवात् । अतस्तस्यानेकविशेषानुगामित्वात् समानत्वम
परिहार्यम् । अत एव चाक्षिप्तसामान्यवाचिनं समानशब्दं 1522सामान्य
लक्षणे व्याचख्युराचार्या इत्यलमतिविस्तरेण ॥


इति पंचविधः प्रपंचितः

मुनिना दर्शित एष संशयः ।

फलवद्व्यवहारहेतुतां

अनुमानाङ्गतया विभर्ति यः ॥

अनुमानिरपेक्ष एव वा

किल दृष्टे विषयेऽर्थसंशयः ।

वहति व्यवहारवर्तनीं

इति पूर्व च विचारितं बुधैः ॥

—इति संशयपरीक्षा—


अथ प्रयोजनपरीक्षा


यमर्थमधिकृत्य प्रर्वतते तत्प्रयोजनम् ॥ १-१-२४ ॥


यमित्यत्र देशकालपुरुषदशाभेदभिन्नप्रयोजनविशेषव्याप्तये वीप्सा
द्रष्टव्या । अर्थः—अर्थ्यमानः उच्यते, न वस्तुरूप एव, अभावस्यापि प्रयो
जनत्वसंभवात् । 1523अधिकारः—अर्थस्य व्यवसायः । यं यमर्थं आप्तव्यं
हातव्यं वाऽधिकृत्य व्यवसायः प्रवर्तते, तत्प्राप्तये परिहाराय वा चेष्टते
पुरुषः—तत् प्रयोजनमिति ॥


II.541

फलस्य द्विविधत्वम्, आपेक्षिकत्वं च


तच्च गौणमुख्यभेदेन द्विविधम् । मुख्यं सुखप्राप्तिः, दुःखपरिहारश्च ।
तत्साधनं तु गौणम् । सुखसाधनमपि चन्दनधनसारहारमहिलादि प्राप्त
व्यत्वात् मुख्यत्वेन1524 यदा विवक्षितं भवति, तदा तदवाप्त्युपाये गौणता
द्रष्टव्या ॥


तच्च प्रयोजनं देशकालपुरुषशाभेदादव्यवस्थितं भवति । तद्यथा
ग्रीष्मे मरुस्थले निशातमलातकनिकरमिव किरति किरणमिषेण पूषणि,
तृषातुरस्य तुषारकणोत्करदन्तुरमम्बु परमं सुखसाधनम्, तदेव शिशिरे
सकलजगत्कम्पकारिणि दारुणसमीरणशिथिलीकृतनीरेषु काश्मीरेषु
श्लेष्मोपचयजनितजडिमजठरशिखिनः खेदाय जायते । तस्यादनियत
एवायं सुखदुःखसाधनभावो भावानाम् ॥


1525यद्यपि च यदेकदा सुखसाधनमिति विदितमुपयुक्तम्, अतिक्रान्तं
वस्तु तत्—तथापि तज्जातीयत्वलिङ्गावधृतसुखसाधनभावे भावान्तरेऽदि
प्रवर्तन्त एव तदर्थिनः ॥


प्रयोजनस्य प्रवर्तकत्वाक्षेपसमाधाने


ननु ! प्रयोजनस्य प्रवर्तकत्वमयुक्तम्, सदसद्विकल्पाभ्यामनु
पपत्तेः । सत्त्वे कर्णनासादिवत्—न तदर्था प्रवृत्तिः । असत्त्वे तु खपुष्पा
दिवत् न तराम्—नैष दोषः—ईप्साजिहासाविषयीकृतस्य तस्य प्रवर्त
II.542 कत्वात् । न हि तत् 1526खपुष्पादिवदसाध्यम् । नापि शिरःपाण्यादिवत्
सिद्धमेव । अदि तु साध्यत्वेन बुद्ध्युपारूढं तत् प्रवर्तकमिति सर्वलोक
साक्षिकमेतत् । तस्मात् इच्छाविषयीकृतं तत् प्रवर्तकमिति युक्तम् ॥


इत्थं प्रवर्तकत्वे प्रयोजनस्योपपदिते मुनिना ।

भग्ना भवन्ति सर्वे प्रेरकपक्षाः 1527पराभिहिताः ॥

प्रयोजनमतोऽखिलैविधिवचोभिरादिश्यते

प्रयोजननिबन्धनास्तनुभृतामशेषाः क्रियाः ।

क्रिमेरपि यथा तथा किमपि जीवितं बिभ्रतः

प्रयोजनबहिष्कृतं न खलु चेष्टितं दृश्यते ॥

वैतण्डिकः प्रयतते निजपक्षसिद्ध्यै

तां चैष वेद परपक्षनिषेधलभ्याम् ।

तस्मादियं स्वमतसाधनवर्जिताऽपि

युक्ता प्रयोजनवती भवितुं वितण्डा ॥

—इति प्रयोजनपरिक्षा—


अथ दृष्टान्तपरीक्षा


लौकिकपरीक्षकानां यस्मिन्नर्थे बुद्धिसाम्यं स दृष्टान्तः
॥ १-१-२५ ॥


II.543

लौकिकपरीक्षकौ वादिप्रतिवादिनौ दृष्टान्तलक्षणप्रस्तावाद्वेदि
तव्यौ । न तु मूर्खपण्डितौ, 1528प्रकृतासङ्गतेः । तयोश्च सङ्गत्यभावात् ।
तयोश्च यस्मिन्नर्थे—भावस्वभावे अभावात्मके वा बुद्धिसाम्यं—प्रयोज्यप्रयो
जकभावव्यवस्थितसाध्यसाधनधर्माधिकरणत्वे—साध्यव्यावृत्तिपूर्वकसाधन
धर्मव्यावृत्ततायां वा तुल्यरूपा बुद्धिः स दृष्टान्तः । तस्य तथाविधधर्मा
धारत्वं तद्रहितत्वं वा क्ष्यमाणादुदाहरणलक्षणान्मन्तव्यम् ॥


शिष्टमन्यतो ग्राह्यम्


यथा चानुमानलक्षणे तत्पूर्वकं इति प्रतिबन्धग्रहणोपायमात्रं प्रति
पादितम्, तत्स्वरूपं तु अवयवलक्षणे निर्णीतं उदाहरणसाधर्म्यात् साध्य
साधनं हेतुः
तथा वैधर्म्यात् इति; एवमिह वादिप्रतिवादिप्रसिद्धि
मात्रं दृष्टान्तस्य दर्शितम् । रूपं तु तस्य द्विविधमपि 1529तत्रैव वक्ष्यते
साध्यसाधर्म्यात्तद्धर्मभावी दृष्टान्त उदाहरणम् तद्विपर्ययाद्वा विपरीतम्
इति ॥


अनित्यः शब्दः कृतकत्वात्, यत् कृतकं तदनित्यं दृष्टम—यथा घट
इति साधर्म्यदृष्टान्तः । यत्पुनरनित्यं न भवति; तत् कृतकमपि न भवत्येव
—यथाऽऽकाश इति वैधर्म्यदृष्टान्तः । यथोक्तलक्षणवैकल्यात्तु दृष्टान्ता
भासता भवति ॥


आभासभेदविभवः कथयिष्यते तु

तेषामुदाहरणलक्षणवाक्प्रसङ्गे ।

आभासता वचनदोषकृताऽपि काचित्

अस्तीति साऽवयवलक्षण एव वाच्या ॥

II.544
द्विविधोऽपि दृष्टान्तः सुदृष्टिभिर्यत्नतोऽधिगन्तव्यः ।

स हि निश्चलः फलनिधेः अनुमानमहातरोः स्कन्धः ॥

—इति दृष्टान्तपरीक्षा—


अथ सिद्धान्तपरीक्षा


तन्त्राधिकरणाभ्युपगमसंस्थितिः सिद्धान्तः ॥ १-१-२६ ॥


तन्त्र्यतेऽनेन पदार्थस्थितिरिति तन्त्रं प्रमाणमुच्यते । अधिकरणम्
—आश्रयः । तन्त्रम् अधिकरणं यस्य सः, तन्त्राधिकरणः, प्रमाणमूलक
इत्यर्थः । अभ्युपगमः—स्वीकारः, तस्य संस्थितिः इत्थंभावव्यवस्था1530
धर्मनियमः—इदमित्थमिति; इदमिति सामान्यनिर्देशः, इत्थमिति
विशेषनिर्देशः । एवं च तन्त्राधिकरणाभ्युपगमसंस्थितिः—प्रमाणमूला
भ्युपगमविषयीकृतः सामान्यविशेषवानर्थः सिद्धान्त इति सामान्यलक्षण
मुक्तं भवति1531


सूत्रव्याख्याने पक्षान्तरम्


अन्ये तु व्याचक्षते—तन्त्रम्—इतरेतरसंबद्धस्यार्थसमूहस्योपदेशः
शास्त्रम् । अधिक्रियते इत्यधिकरणं पक्ष उच्यते । अभ्युपगमः, यथोक्त
एव । संस्थितिशब्दः प्रत्येकमभिसंबध्यते । तन्त्रसंस्थितिः अधिकरण
संस्थितिः, अभ्युपगमसंस्थितिः इत्यनेन तन्त्रनिर्देशसाम्यात् सर्वतन्त्रप्रति
II.545 तन्त्रसिद्धान्तयोःसूचनम् । इतराभ्यां पदाभ्यां उत्तरयोः अधिकरणभ्यु
पागमसिद्धान्तयोरिति ॥


एताद्व्याख्याने न्यूनता


एतत्तु अपव्याख्यानम् । न ह्येवं सिद्धान्तचतुष्टयानुगतं किंचित्सा
मान्यलक्षणमुक्तं भवति । न चेदं विभागार्थं विशेषसक्षणार्थं वा सूत्रम्,
तत्प्रतिपादनस्योत्तरसूत्रैः करिष्यमाणत्वात् । उक्तस्य च पुनर्वचने प्रयो
जनाभावात् । अतः पूर्वप्रक्रमेणैव सिद्धान्तस्य सामान्यलक्षणवर्णनं
श्रेयः ॥


सिद्धान्तविभागः, लक्षणानि च


तस्य स्वकण्ठेन विभागमाह—


स चतुर्विधः सर्वतन्त्रप्रतितन्त्राधिकरणाभ्युपगम1532संस्थि
त्यर्थान्तरभावात् ॥ १-१-२६ ॥


चतुष्प्रकारो हि सिद्धान्तः—सर्वतन्त्रसिद्धान्तः, प्रतितन्त्रसिद्धान्तः
अधिकरणसिद्धान्तः, अभ्युपगमसिद्धान्त इति ॥


तत्र


सर्वतन्त्राविरुद्धः स्वतन्त्रेऽधिकृतोऽर्थः सर्वतन्त्रसिद्धान्तः ॥


अत्र तन्त्रशब्देन शास्त्रमुच्चते स्वशास्त्रे य उपदिष्टोऽर्थः, सर्वशास्त्रा
विरूद्धश्च स सर्वतन्त्रसिद्धान्तः । यथा—चाक्षुषं प्रमाणमिति ॥


ननु अत्रापि विविदन्ते । ब्रह्मवादिनां हि सर्वैवेयं अविद्या ।
अविद्या च कथं प्रमाणमिति—न—व्यवहारावस्थायां तैरपि तत्प्रामाण्या
II.546 भ्युपगमात्1533 संख्यालक्षणविषयविप्रतिपत्तिस्तु प्रतिशास्त्रं भवतु ।
चाक्षुषं प्रमाणं इतीयति सर्ववादिनामविवादः ॥


प्रतितन्त्रसिद्धान्तलक्षणम्


तन्त्रे अधिकृतोऽर्थ इति वर्थते । यथाऽस्माकर्माश्वरेच्छाप्रेरितपर
माणुनिर्मितानि समानतन्त्रे कणव्रतमते तथैव सिद्धानि, परतन्त्रे च संख्या
शास्त्रे तथा नाभ्युपगम्यन्त इति ॥


यथा वा गुणत्रयात्मिकायाः प्रकृतेः महदहङ्करादिरूपेण भूतसर्ग
ति सांख्यानां स्वतन्त्रसिद्धोऽर्थः; समानतन्त्रेऽपि पातंजले योगाशात्रे सिद्ध
एव, परतत्त्रे तु वैशेषिकादिमते न सिद्ध इति ॥


ननु ! अस्य कथं प्रमाणमूलता1534—स्थाने प्रश्नः, सत्यमेतत्—
आस्माकीने हि प्रतितन्त्रसिद्धान्ते प्रमाणमूलत्वं यथार्थमेव । सांख्य
सिद्धान्तस्य तु प्रमाण—


मूलत्वाभावेऽपि परतन्त्रत्वख्यापनायोदाहृतः ।

तदर्भिप्रायेण वाऽस्य प्रमाणमूलता वक्तव्येति1535

अधिकरणसिद्धान्तलक्षणम्


यत्सिद्धावन्यप्रकरणसिद्धः
साऽधिकरणसिद्धान्तः ॥ १-१-३० ॥


II.547

प्रक्रियत इति प्रकरणं—पक्ष उच्यते । यस्यार्थस्य सिद्धौ सत्यां
प्रकरणान्तरसिद्धिः भवति—सोऽधिकरणसिद्धान्तः, तदधिकरणानामर्था
न्तराणां सिद्धेः ॥


कः पुनः यत्सिद्धौ इति सर्वनाम्ना प्रत्यवमृश्यते, पक्षः हेतुर्वा ?1536
किंचातः ? पक्षः कथं पक्षान्तरसिद्धये कल्पते । हेतुना हि पक्षसिद्धिः
क्रियते, न पक्षेण हेतोः । हेतोस्त्वधिकरणसिद्धान्तत्वे कथं सिद्धान्ताश्रया
न्यायप्रवृत्तिरिति तदुद्देशप्रयोजनं वर्णितम् । न्यायो हि हेतुरेव । स एव
चाधिकरणसिद्धान्तः । न च हेतुर्हत्वाश्रय इति ॥


सिद्धसाध्यभाव आपोक्षिक एव


उच्यते—उभयथाऽप्यदोषः । हेतुरपि क्वचित् पक्षीभवति, पक्षो
ऽपि हेतूभवत्येव । तत्र तावदांजस्येन हेत्वधीना पक्षसिद्धिरिति हेतुरेव
सर्वनाम्नाऽवमृश्यते । तत्सिद्धावन्यप्रकरणसिद्धेः स एवाधिकरण
सिद्धान्तः ॥


कथं तर्हि तदाश्रया न्यायप्रवृत्तिः ?—उच्यते—हेतुरपि तदन्यतरा
सिद्ध इव साध्यमानत्वात् पक्षीभवन् न्यायान्तराश्रयतां प्रतिपत्स्यते ॥


अपि वा—पक्ष एव सर्वनाम्नाऽवमृश्यमानः भवत्वधिकरणसिद्
धान्तः । स च स्पष्ट एव न्यायस्याश्रयः । स च सिध्यन् पक्षान्तरा
ण्याक्षिपन्नेव सिद्ध्यतीत्यधिकरणसिद्धान्ततां भजते ॥


तस्योदाहरणं—इन्द्रियव्यतिरिक्तः ज्ञाता, दर्शनस्पर्शनाभ्यामेकार्थ
ग्रहणादिति । अत्र इन्द्रियव्यतिरिक्ते ज्ञातरि सिद्ध्यति, तदनुषङ्गीण्य
II.548 र्थान्तराण्यपि सिद्ध्यन्ति—नाना इन्द्रियाणि, नियतविषयाणि; गुणव्यति
रिक्तं द्रव्यं—इत्येवमादीनि ॥


अभ्युपगमसिद्धान्तनिरूपणम्


परीक्षिताभ्युपगमात् तद्विशेषपरीक्षणं
अभ्युपगमसिद्धान्तः ॥ १-१-३१ ॥


अत्र अपरीक्षिताभ्युपगमात् इति यथाश्रुतपंचमीनिर्देशमनुरुध्य
मानाः, प्रमाणमूलाभ्युपगमविषयीकृतोऽर्थः सिद्धान्तः—इति च सामान्य
लक्षणमनुसरन्तः1537 केचित् एवं व्याचक्षते—धर्मिणः शब्दादेः नित्यानि
त्यत्वविचारचर्चायां अपरीक्षितस्यैव—आकाशविशेषगुणत्वादिधर्मपरीक्षा
रहितस्यैवाऽभ्युपगमः कर्तव्यः । ततोऽपरीक्षिताभ्युपगमात् किं
सिद्ध्यति ?—उच्यते—तद्विशेषपरीक्षणमिति । तद्गतनित्यानित्वत्वपरीक्षणं
हि सामान्येन धर्मिण्युपादीयमाने व्योमविशेषगुणत्वादिधर्मपरीक्षारहिते
सत्युपपद्यते । यदि पुनराकाशविशेषगुणत्वविशिष्टः शब्दः धर्मित्वेनो
पादीयते परं प्रत्यसिद्धविशेषणः पक्षो भवेदिति ॥


एवमपि कृते यदि पुरोधर्मिणं विकल्पयेत्—कीदृशस्य सतः शब्दस्य
भवता नित्यत्वं साध्यते—द्रव्यस्य, गुणस्य वेति । स एवं विकल्पयन्
1538अर्थान्तरगमनात्तावत् पराजित एव भवति । जितमप्येनं पुनर्जेतुं स्व
बुद्ध्यतिशयचिख्यापयिषया, परबुद्ध्यवज्ञया च वादी ब्रवीति—अस्तु
द्रव्यं शब्द इति ॥


II.549

पूर्वोक्तव्याख्याननिराकरणम्


एतत्तु व्याख्यानं न बुद्ध्यामहे । एवं व्याचक्षाणानामेषां अभ्यु
पगमसिद्धान्त इति को नु व्यवसित इति । यदि तावत् अनित्यः शब्द
इति द्रव्यत्वगुणत्वादिविशेषरहितः शब्दाख्यधमिनिर्देशो यः प्रथम
मुपात्तः, स एवाभ्युपगमसिद्धान्तः । तत्र अभ्युपागमार्थः क्रीदृशः, कश्च
प्रतितन्त्रसिद्धान्तादस्य विशेषः ॥


अथास्तु द्रव्यं शब्द इति स्वबुद्ध्यतिशयाभिमानेन पश्चादभ्युपगम्य
मानद्रव्यत्वविशिष्टशब्दनिर्देशः अभ्युपगमसिद्धान्तः, तर्हि सूत्रम्, अपरी
क्षिताभ्युपगमात्
इति न योजितम्, अन्यत्रैव तैस्सूत्रार्थो नीत इति1539


तस्मादेवं व्याख्यायते—अपरीक्षिताभ्युपगम एव स्वमतिकौशल्येन
क्रियमाणः अभ्युपगमसिद्धान्तः—अस्तु द्रव्यं शब्द इति । प्रमाणमूलाभ्यु
पगमविषयीकरणं तु सामान्यलक्षणे प्रौढवाद्यभिप्रायेणैव योज्यम् । द्रव्य
त्वमपि प्रमाणमूलं शब्दस्य भवतु; तथापि तस्यानित्यत्वमिति । किल
निरवयवं द्रव्यं अनित्यमिति नास्त्येव, शब्दस्य तु तादृशस्याप्यनित्यत्व
महं साधयामीति ॥


कथं तर्हि पंचमी ? किं पंचम्या ! वस्तु तावदीदृशं यथा व्याख्य
तमस्माभिः ॥


अभ्युपगमात् इत्यत्र पञ्चम्यर्थः


पंचम्यपि चेत्थं योज्यते । किमर्थं पुनरयमपरीक्षित एव शब्दगतद्र
व्यत्वाभ्युपगमः क्रियत इति पृच्छते उत्तरं पंचम्याऽभिधीयते—यस्मादपरी
क्षिताभ्युपगमात् तद्विशेषानित्यत्वपरीक्षणमवकल्पते, तस्मादपरीक्षिताभ्यु
II.550 पगमोऽपि अभ्युपगमसिद्धान्त इति । न तु तद्विशेषणपरीक्षणमेव सामा
नाधिकरण्यनिर्देशात् अभ्युपगमसिद्धान्त इति मन्तव्यं, परीक्षणस्य सिद्धा
न्ताश्रितत्वात् । तस्मात् तद्विशेषपरीक्षणार्थः अपरीक्षिताभ्युपगमः
प्रौढवादिना क्रियमाणः अभ्युपगमसिद्धान्त इति सूत्रार्थः1540 । इत्थमेव च
तत्र तत्र प्रवादुकानां व्यवहारः ॥


इमाश्च सिद्धान्तभिदाश्चतस्रः

न्यायप्रवृत्तेः प्रथमं निमित्तम् ।

प्रवर्तते नैव परीक्षकाणां

अनाश्रिता न्यायकथा कदाचित् ॥

—इति प्रयोजनपरिक्षा—


न्यायावयवपरीक्षा


इह हि स्वयमवगतमर्थं अनुमानेन परस्मै प्रतिपादयता साधनीय
स्यार्थस्य यावति शब्दसमूहे सिद्धिः परिसमाप्यते, तावान् प्रयोक्तव्यः ।
तमेव च परार्थानुमानमाचक्षते नीतिविदः ॥


परार्थानुमाननिराकरणपूर्वपक्षः


ननु ! नैव परार्थानुमानं नाम किंचिदस्तिः वक्त्रपेक्षया; श्रोत्रपेक्षया
वा तदनुपपत्तेः ॥


II.551
वक्त्रान्वमायि स ह्यर्थः नेदानीमनुमीयते ।

श्रोतुः स्वार्थानुमानं तत् वाक्यावगतिहेतुकम् ॥

यथा प्रत्यक्षतो धूमं दृष्टवाऽग्निमवगच्छति ।

तथा तदीयाद्वचनादिति कस्य परार्थता ॥

आगमस्त्वेष भिद्येत कश्चिदर्थोपदेशकः ।

कश्चित्तत्प्रत्ययोपायन्यायमार्गोपदेशकः1541 ॥ इति ॥

परार्थानुमानसाधनम्


सत्यम्—न परमार्थतः परार्थमनुमानमुपपद्यते । किन्तु द्विविधः
प्रतिपत्ता । स्वयमवगतयथाप्रकृतलिङ्गव्याप्तिकः, तद्विपरीतश्च । तत्र
स्वयमवधृतप्रतिबन्धं प्रति नोपदिश्यत एवमनुमानम्, स्वत एव तस्य
तीत्युपपत्तेः । अनवधृतव्याप्तिकस्य तु व्याप्तिरेव व्युत्पाद्यत इति तं
प्रति परार्थमनुमानं तदुपदेशकं वाक्यमेवाख्यायते । तथा हि—


वक्त्रा स्वप्रत्ययेनेदं न हि वाक्यं प्रयुज्यते ।

परो मद्वचनादेव तमर्थं बुद्ध्यतामिति ॥

किं त्वेनमनुमानेन बोधयामीति मन्यते ।

सोऽपि तद्वचनान्नै तमर्थमवबुद्ध्यते ॥

किन्तु व्याप्तिमतो लिङ्गात् स्वयं तत्तु न पश्यति ।

तत्प्रतीत्यभ्युपायत्वात् परार्थमिदमुच्यते ॥

अतश्च श्रोतुः स्वार्थानुमानमेवेदम् । वक्ता तु तथा परं प्रतिपादयन्
परार्थानुमानं प्रयुङ्क्त इत्युच्यते1542


II.552

परार्थानुमानस्य प्रमाणत्वम्


न चानुवादमात्रं तत् वक्तुरित्युपपद्यते ।

यतो व्याप्रियते सम्यक् परस्य प्रतिपत्तये ॥

तेनानधिगतार्थोपदेशकत्वात् नानुवादमात्रम् । स्वावगमापेक्षया त्वनु
वादत्वे नेदानीमाप्तवचनं अननुवादरूपं किंचिद्भवेत्, सर्वस्य स्वोपल
ब्धिपूर्वकत्वादिति ॥


तस्मात् परार्थानुमानवाक्योपपत्तेः तदेकदेशाः अवयवा युक्ता इति
लक्ष्यन्ते ॥


प्रतिज्ञाहेतूदाहरणोपनयननिगमनान्यवयवाः ॥ १-१-३२ ॥


एतच्च सूत्रमेकमेव सामान्यलक्षणमवयवानामभिधत्ते, विभागं च
प्रमाणानामिव—प्रत्यक्षानुमानोपमानशब्दाः प्रमाणानि इति । तत्र
अवयवाः, भागाः, अंशाः, एकदेशाः इत्येवं अवयवशब्दः साधनीयार्थ
प्रतिपत्तिपर्यन्तवचनकलापैकदेशत्वमवयवानां सामान्यलक्षणमाचष्टे ॥


न्यायस्य वाक्यसमुदायरूपत्वम्


यद्यपि चैकवदनविनिर्गतानां 1543निसर्गभङ्गुराणां अदीर्घायुषां अपरि
हार्यक्रमजन्मनां वर्णानां द्रुमाणामिव पारमार्थिकस्समूहो न समत्त्येव;
तथापि सिषाधयिषितार्थप्रतिपादनरूपैककार्योपयोगमूलीकृतात्मनां तेषां
काल्पनिकः कलापः पूर्वमेव वाक्यकल्पनावसरे समर्थित इति तद्भागा अपि
संभवन्त्येव ॥


II.553

पदानामपि वाक्यत्वम्


न च पदानामेवानुमानवाक्यावयवत्वम्, अपि तु खण्डवाक्यानाम्
कैकेन पदेन प्रतिज्ञोदाहरणादीनामभिधातुमशक्यत्वात् । हेतुवचनं तु
एकमपि पदं क्वचिद्भवति—कृतकत्वात्—इति1544 । तदपि वा सविशेषणं
प्रयुज्यमानं पदसमुदायेनैव प्रतिपाद्यते—वस्तुत्वे सति कृतकत्वात्—
इति ॥


उदाहरणवचनमपि घटवत् इत्यालस्यादेव प्रयुंजते । तद्धि व्याप्ति
प्रदर्शनाय एवं वक्तव्यम्—यत् कृतकं तत् अनित्यं दृष्टं, यथा घटः—
इति ॥


तस्मादवयवानामवयत्वमेव लक्षणं, न पदत्वम् ॥


विभागोऽपि प्रतिज्ञादिपदसन्निधाववयवश्रुतेरेवावगम्यते, प्रतिज्ञादयः
पंचावयवाः, न न्यूनाः नातिरिक्ता इति ॥


अवयवसंख्याविमर्शः


ननु अत्र विवदन्ते 1545केचित् नूनतामवयवानामाचक्षते । त्र्यवयवं
द्व्यवयवं वा साधनवाक्यं वदन्तः ॥


अन्ये तु जिज्ञासा, संशयः, शक्यप्राप्तिः, प्रयोजनम्, संशयव्युदास
इति पंचभिस्सह प्रतिज्ञादीन् दशावयवानाहुः ॥


II.554

पक्षान्तरनिराकरणम्


उच्यते—न्यूनता यथाऽवसरं प्रतिसमाधास्यते । आधिक्यमप्ययुक्तम्,
जिज्ञासादीनां अशब्दस्वभावत्वेन वाक्यावयवत्वायोगात् ॥


तथा हि—अप्रतीयमानेऽर्थे प्रतीतिप्रयोजनस्य प्रवर्तिका जिज्ञासा ।
सा चेच्छास्वभावत्वादान्तरः प्रमातृधर्मः न वाक्यावयवः ॥


अर्थक्रियासाधनेऽर्थे विमर्शः संशयः—किमेवमयम्, अयथैवमिति ।
सोऽपि ज्ञानात्मकत्वान्न वाक्यावयवः ॥


प्रमातुः प्रमाणानि प्रवर्तमानानि प्रमेयमर्पयितुं पारयन्तीति सम्भा
वना शक्यप्राप्तिः । साऽपि तथैव न वाक्यावयवः ॥


प्रयोजनं संशयितस्य निर्णयः कथं वाक्यावयवतां स्पृशेत् ॥


संशयव्युदासस्तु प्रत्यक्षोपालम्भः । स च वचनस्वभावत्वेऽपि न
साधनवाक्यस्यावयवत्वं प्रतिपद्यते ॥


तदिमे संशयादयः प्रकरणप्रवृत्तिहेतवो भवन्ति, न वाक्यावयवा
इति सूक्तं प्रतिज्ञाहेतूदाहरणोपनयनिगमनान्यवयवाः इति ॥


प्रतिज्ञालक्षणम्


तेषाम्—


साध्यनिर्देशः प्रतिज्ञा ॥ १-१-३३ ॥


प्रतिज्ञेति लक्ष्यनिर्देशः । साध्यनिदश इति लक्षणम् । शुद्धस्य
धर्मिणो वा,1546 धर्मस्य वा, द्वयोर्वा स्वतन्त्रयोः, धर्मिविशिष्टस्य वा धर्मस्य
साध्यत्वानुपपत्तेः धर्मविशिष्टो धर्मी साध्य इत्यनुमानलक्षणे निर्णीतमेतत् ।
तस्य निर्देशः—परिग्रहवचनं प्रतिज्ञेति ॥


II.555

प्रतिज्ञालक्षणस्य दुष्टत्वाक्षेपः


ननु ! सावधारणत्वाद्वाक्यानां किं साध्यनिर्देश एव प्रतिज्ञेत्यवधा
रणम्, उत प्रतिज्ञैव साध्यनिर्देश इति ॥


यदि साध्यसिदेश एव प्रतिज्ञेत्यवधार्यते, तदा यत एवकारकरणम्,
ततोऽन्यत्रावधारणमिति प्रतिज्ञा नियम्यते, साध्यनिर्देशं मा हासीरिति,
साध्यनिर्देशस्त्वनियमित इति प्रतिज्ञामपहायापि भवेदित्यतिव्यापकं
लक्षणम्1547


अथ प्रतिज्ञैव साध्यनिर्देश इत्यवधार्यते, ततः साध्यनिर्देशो नियम्यते
प्रतिज्ञां मा त्याक्षीदिति । प्रतिज्ञा त्वनियमितेति साध्यनिर्देशमपहायापि
भवेदिति साध्यनिर्देशेन प्रतिज्ञाया अव्याप्तत्वात् अव्यापकं लक्षणमिति1548


उक्तदोषपरिहारः


तदेतदयुक्तम् । न हि सर्वं वाक्यं सावधारणं भवति1549 । यथा
एष पन्थाः स्रुघ्नं गच्छति इति । न हि तत्र—एष एवेति, स्रुघ्नमेवेति वा
गच्छत्येवेति वा नियन्तुं शक्यत इति ॥


अथापि अवधारणममश्याश्रयणीयं, तद्भवतु—साध्यनिर्देश एव प्रति
ज्ञति । न चातिव्याप्तिः, प्रतिज्ञामपहायान्यत्र साध्यनिर्देशस्यादर्शनात्1550
अनियमितोऽप्यसावन्यत्र न च दृश्यते एवेति । तस्मात् साध्यतिर्देश
एव प्रतिज्ञेति स्थितम् । तद्यथा—अनित्यश्शब्द इति ॥


II.556

विशेषणस्य स्वविरुद्धधर्ममात्रव्यावर्तकत्वम्


ननु ! अत्रापि किमनित्य एव शब्दः, इत्यवधारणम्, उत शब्द
एवानित्य इति । तत्र अनित्य एव शब्द इत्युक्ते, तद्गतधर्मान्तरतिर
स्कारात्, कृतकत्वमपि तत्र न भवेदित्यसिद्धो हेतुः । शब्द एवानित्यः
इति त्ववधार्यमाणे घटादावनित्यत्वप्रतिषेधादन्वयशून्यता हेतोः स्यादिति
—नैष दोषः—निरवधारणस्यापि वचनप्रयोगस्य दर्शितत्वात् । अनित्य
एव शब्द इत्यवधारणे वा नानित्यत्वव्यतिरिक्ततदविरुद्धकृतकत्वाद्यशे
धर्मान्तरनिषेधस्तत्र विधीयते । किन्तु, तद्विरुद्धनित्यत्वमात्रनिषेध एव
—अनित्य एव शब्दः, न नित्य इत्यर्थः । तदुक्तम् श्लो. वा. अनु-55


नियमस्तद्विरुद्धाच्च कल्प्यते, नाविरोधिनः

इति ॥ तस्मान्न हेतोरसिद्धत्वम् ॥


प्रतिज्ञावाक्यवैयर्थ्यशङ्का


ननु ! साधनवाक्ये प्रतिज्ञावचनमसमंचतम्, असाधनांगवचनत्वात् ।
हेतुदृष्टान्तवचनाभ्यां हि साध्यसिद्धेः ते एव वक्तव्ये । न च स्वप्रति
पत्तावुपलब्धं सर्वमेव परस्मै आख्येयम् । आख्याने वा धर्मिमात्रमाख्या
यताम् । स्वप्रतिपत्तौ हि पूर्वं पर्वतादेः शुद्धस्य धर्मिणो ग्रहणम् । सिषा
धयिषितहुतवहादिधर्मविशेषरूषितवपुषः एवमभ्युपगमेऽनुमानवैफल्य
प्रसङ्गात्1551 । अतः कथं प्रथममेव साध्यधर्माध्यासितस्वरूपधर्मिनिर्देशकर
णम् ॥


II.557

अपि च विवादादेव प्रतिज्ञार्थौ लभ्यते इति किं स्वकण्ठोक्तेन तेन
प्रयोजनम् ॥


प्रतिज्ञावाक्यस्यावश्यकता


उच्यते—स्वप्रतिपत्तिमनुसरता परस्य प्रतिपत्तिरुत्पादनीयेति स्वप्र
तिपत्तौ प्रथममुपलब्धो धर्मी तावत् आख्येय एव । अनुच्यमाने हि
धर्मिणि निरधिकरणो हेतुः क्वसाध्यं साधयेत् । धर्मिण्यनवच्छिन्ने च
धर्ममात्रेऽनुमानमनर्थकम्, अविवादसिद्धत्वात्; अस्ति हि यत्र क्वचित्
अनित्यत्वमिति ॥


आश्रयासिद्धश्च धर्मिनिर्देशाद्विना हेतुर्नवेदिति अवश्यनिर्देश्यो
र्मो


यद्यपि धर्मिमात्रदर्शनमेव प्रथममभूत्; तथापि किं साधयितुमेष
हेतुः प्रयुक्तो भवेत्1552 इत्युपप्लवशमनाय साध्यधर्मनिर्देशोऽपि कर्तव्यः ।
शब्दः कृतकत्वादिति हि प्रयुज्यमानं तदिदं अन्धपदमिवासाधनं भवेत् ॥


उदाहरणादिना प्रतिज्ञाया नान्यथासिद्धिः


अथ व्याप्तिप्रदर्शनप्रवणेन यत् कृतकं तदनित्यं दृष्टं इति दृष्टान्त
वचसा, तस्मादनित्यः इति निगमनवचनेन वा विरंस्यति स उपप्लव
इति—तथापि श्रोतृबुभुत्सोपरमपरिश्रमफले साधनवाक्ये साधनाधिगमा
काङ्क्षासंपादनाय साध्यं निर्देष्टव्यम्
। न हि शब्द इत्येतावत्युक्ते तत्र
साधनमाकाङ्क्षति कश्चिदिति साधनवचनावसरतत्प्रयोगसाफल्योत्पादना
यैव नूनं अनित्यः शब्दः इति प्रतिज्ञावचनं प्रयोक्तव्यम् ॥


II.558

पक्षप्रतिपक्षपरिग्रह एव प्रतिज्ञा


यच्च विवादादेव प्रतिज्ञार्थस्य लब्धत्वमभिधीयते; तदभ्युपगमन
मेव शब्दान्तरेण प्रतिज्ञायाः । यतः विरुद्धो वादः विवादः । एक आह
नित्यः शब्दः; इतरस्तु अनित्यः इत्याह । सोऽयं पक्षप्रतिपक्षपरिग्रहो
विवादः प्रतिज्ञैव । स तु पक्षप्रतिपक्षपरिग्रहः तदहरेव भवतु, दिनान्तरे
वेति किमनेन विशेषेण । अपरिहार्यं प्रतिज्ञावचनमिति1553


पक्षाभासानां प्रतिज्ञात्वासंभवः


प्रतिज्ञैव च पक्ष इत्युच्यते । तदेवंविधे पक्षलक्षणे प्रदर्शिते बलात्
पक्षाभासाः प्रतिक्षिप्ताः भवन्ति । तद्यथा—अनुष्णोऽग्निः इति प्रत्यक्ष
विरुद्धः पक्षः । न रूपग्राहि चक्षुः इति अनुमानविरुद्धः ॥


शब्दविरुद्धस्तु बहुशाखः—ब्राह्मणेन सुरा पेया इत्यगामविरुद्धः ।
जनयित्री मे वन्ध्या पिता मे ब्रह्मचारी इति धर्मिधर्मपदयोरेव विप्रति
षेधात् स्ववचनविरुद्धः । न चन्द्रः शशी इति लोकप्रसिद्धि
विरुद्धः ॥


उपमानविरुद्धस्तु—न गवयपदवाच्योऽयं गोसदृशः इति ।
अप्रसिद्धविशेषणः नभःकुसुमकृतावतंसः चैत्रः इति । अप्रसिद्धविशेष्यः
सुगन्धि गगनकमलम् इति । अप्रसिद्धोभयः खपुष्पकृतशेखरः वन्ध्या
सुतः
इति ॥


II.559

सिद्धसास्य पक्षाभासत


यत्रापि विशेष्यणयोरूभयोरपि प्रमाणन्तरतः स्वरूपं निश्चि
तमेव, तन्निर्देशोऽपि पक्षाभास एव—शीतं तुहिनं, उष्णोऽग्निः इति
साध्यत्वाभावेन अनुमानप्रयोगावसरविरहादिति । 1554इयमेव च सा
सिद्धसाध्यतोच्यत इति ॥


सर्वेषामपि हेतुदोषत्वमेवं


ये चैते प्रत्यक्षविरुद्धतादयः पक्षदोषाः, ये च वक्ष्यमाणाः साधन
विकलत्वादयो दृष्टान्तदोषाः, ते वस्तुस्थित्या सर्वे हेतुदोषा एव । प्रपंच
मात्रं तु पक्षदृष्टान्तदोषवर्णनम् । तथा चाबाधितत्वं हेतुलक्षणमेवोक्तम् ।
दृष्टान्तदुष्टतया च हेतोरेव लक्षणं अन्वयव्यतिरेकयोरन्यत् हीयत इति,
सर्वे च ते हेतुदोषा एव ॥


अत एव च शास्त्रेऽस्मिन् मुनिना तत्त्वदर्शिना ।

पक्षाभासादयो नोक्ताः हेत्वाभासास्तु दर्शिताः ॥

कश्चिद्धेत्वनपेक्षोऽपि पक्षमात्रप्रतिष्ठितः1555

बोधोऽनुमानारूपस्य स्वावाक्यादिकृतो यथा ॥

हेतुपरीक्षा


एवं लक्षणको हेतुरिति तत्स्वरूपावधारणं सति तदभिधायकं वचनं
मुखमेव लक्ष्यते इत्यर्थात्मकहेतुलक्षणं तावदुच्यते—


II.560

उदाहरणसाधर्म्यात्साध्यसाधनं हेतुः ॥ १-१-३४ ॥
इति ॥


ननु ! अर्थात्मको हेतुः अनुमानम् । तच्च लक्षितमेव पूर्वम्—
तत्पूर्वकं त्रिविधमनुमानम् इति—सत्यम्—तत्र तत्पूर्वकं इति सर्व
नाम्ना परामृष्टप्रत्यक्षमूलतोपवर्णनेन प्रतिबन्धपरिच्छेदोपायमात्रनिरूपणं
कृतम् । इह तु प्रतिबन्धस्वरूपमपि प्रतिपाद्यते ॥


सूत्रे पाठभेदः


तत्रा हि अर्थात्मके हेतौ लक्ष्ये पंचमीमपास्य उवाहरणसाधर्म्ये
साध्यसाधनं हेतुः
इति सूत्रं पठन्ति । व्याचक्षते च साधर्म्यं हेतुरित्युच्य
माने गन्धवत्त्वादेरसाधारणहेतोः साध्यधर्मिव्यक्तिभेदवृत्तित्वेन साधर्म्य
रूपसंभवात्, विरुद्धस्य च पक्षविपक्षवृत्तेः तत्साधर्म्यस्वभावत्त्वात् हेतुत्वं
प्रसज्यत इति तन्निवृत्त्यर्थं उदाहरणग्रहणम् । उदाह्रियतेऽस्मिन् साध्य
साधनयोः प्रयोज्यप्रयोजकभाव इत्युदाहरणं दृष्टान्तः । तेन साधर्म्यं
कस्येति प्रकृतत्वात् प्रत्यासत्तेश्च साध्यर्मिण इत्यवगम्यते । उदाहरण
साधर्म्ये साध्यदृष्टान्तधर्मिसाधारणो धर्मो हेतुरिति नासाधारणादौ तथा
विप्रसक्तिरिति ॥


साध्यसाधनदलप्रयोजनम्


एवमपि प्रमेयत्वादेरनैकान्तिकहेतोः तथा भागासिद्धस्यानित्यत्व
सिद्धये 1556चतुर्विधपरमाणुपक्षीकरणे गन्धवत्त्वादेः प्रकरणसमकालात्ययाप
1557 II.561 दिष्टयोश्च उदाहरणसाधर्म्यसंभवात् हेतुत्वं भवेदिति तद्व्यवच्छेदाय साध्य
साधनग्रहणम् । साध्यदृष्टान्तधर्मिणोश्च समानो धर्म साध्योऽप्यनित्य
त्वादिः भवत्येवेति तस्यापि हेतुता मा प्रसाङ्क्षीदिति साध्यसाधनग्रह
णम् । लिङ्गसामान्यलाभार्थं साध्यसाधनं यदुदाहरणसाधर्म्यं स
हेतुरिति ॥


साध्यसाधनशब्देन च प्रतिबन्धो लक्ष्यते । स च सव्यभिचारा
दिषु नास्तीति न ते हेतवः । प्रतिबन्धश्च पंलक्षणक इत्येकैकलक्षणा
पायकृतहेत्वाभासपंचकनिर्देशादेव सूत्रितवानाचार्यः ॥


उदाहरणसाधर्म्यदलप्रयोजनम्


ननु ! एवं तर्हि साध्यसाधनग्रहणमेव हेतुलक्षणमस्तु । तद्धि
सकलहेत्वाभासव्युदाससमर्थमिति किमुदाहरणसाधर्म्यग्रहणेन—न—समान
जातीयव्यवच्छेदार्थत्वात् । अहेतवो हि विजातीयाः । तद्व्यवच्छेदः
साध्यसाधनग्रहणात् । समानजातीयस्य केवलव्यतिरेकिणः व्यवच्छेदाय
उदाहरणसाधर्म्यग्रहणमिति ॥


केवलान्वयिहेतुविमर्शः


तत्किं केवलान्वयी हेतुरिति लक्ष्यत्वेन विवक्षितः—न—तथाविधस्य
हेतोरभावात् । अन्वयव्यतिरेकवानेव लक्ष्यः । तत्रोदाहरणसाधर्म्य
वैधर्म्यसंभवे तु सति साधर्म्यमप्यस्त्येवेति । न सावधारणं वा1558 विशेष
विधिरूपेणैवेदसुदाहरणसाधर्म्यग्रहणं केवलान्वयिलक्षणं वर्णनीयमिति ॥


II.562

हेतुसामान्यलक्षणम्


ननु ! यदि द्विविधो हेतुरिष्यते, तर्हि सामान्यलक्षणमादौ वक्तव्यम्
ततो विशेषलक्षणमिति—उच्यते—साध्यसाधनग्रहणमेव प्रतिबन्धसूचकं
सामान्यलक्षणं भविष्यति । उदाहरणसाधर्म्यग्रहणं तु अन्वयव्यतिरेकिणो
लक्षणम् । उत्तरसूत्रं च केवलव्यतिरेकिणः । केवलान्वयी हेतुर्नास्त्ये
वेत्येवं पंचमीमुपेक्ष्यार्थात्मकहेतुलक्षणमाचख्युः ॥


प्रसिद्धसौत्रपाठनिर्वाहः


अपि वा भवतु तत्रापि संशयव्यवच्छेदफलः पंचमीपाठः । कश्चि
देवमभिदधीत साध्यसाधनम् इति पर्यायपठनमात्रमेतत्, न हेतु
लक्षणम् । अपि च यत्रैव वृष्टान्तधर्मिणि हेतुधर्मप्रयुक्ततया साध्यधमोऽ
वधारितः, तत्रैव पुनः असाबुपलभ्यमानः तमुपस्थापयतु । धर्म्यन्तरे तु
तदुपलम्भात् भवतु संशयः, किं तत् साध्याविनाभूतमिह हेतोस्सत्त्वं,
उतान्यथेति । स्येदमुत्तरमुच्यते उदाहरणसाधर्म्यात् इति ॥


पञ्चम्यर्थवर्णनम्


अयमर्थः—देशकालव्यक्तिविशेषाणां व्यभिचारात् न तेषु प्रतिबन्धा
वधारणम्, अपि तु सामान्यधर्मयोरेव ॥


व्यक्तिभेदाश्रयत्वे हि नैव व्याप्तिग्रहो भवेत्1559

दृष्टान्तेऽप्यभ्यनुज्ञैवं भवता दीयते कथम् ॥

तदभ्यनुज्ञानात्तु सामान्येन व्यप्तिग्रहणमङ्गीकृतमेव भवति ।
तस्मिंश्च सति उदाहरणसाधर्म्यात् साध्यसाधनमेव भवति, न संशयः;
II.563 संशयस्य विशेषाग्रहणकारणकत्वात् । इह च उदाहरणसाधर्म्यपदोपात्तं
लिङ्गसामान्यमेव विशेषो गृह्यत इति कुतः संशयः ॥


हेतोः पञ्चलक्षणकत्वम्


साध्यसाधनपदमपि न पर्यायमात्रम्, अपि तु पंचलक्षणकप्रतिबन्ध
सूचनेन हेतोः हेतुत्वसमर्थनार्थमे । कस्मात् हेतुर्हेतुर्भवति, साध्य
साधनत्वात्, गमकत्वादित्यर्थः । साध्यसाधनता चास्य पंचलक्षणकात्
प्रतिबन्धाद्विना न निर्वहतीति असौ साध्यसाधनपदेन लक्ष्यते । सोऽपि च
प्रयोज्यप्रयोजकभावगर्भः साधनताङ्गतामेतीति तथाविध एव सूच्यते ॥


1560अत एव चाप्रयोजक एवैकः परमार्थतो हेत्वाभास इति वक्ष्यते ॥


तदिदमीदृशं साध्यसाधनत्वं हेतोः कुतो भवतीति—उदाहरणसाध
र्म्यात्
इति संशयं व्यवच्छिन्दन्त्या पंचम्या कथ्यते ॥


दिङ्नागोक्तदूषणोद्धारः


अतश्च यदुच्यते परैः—


साधर्म्यं यदि हेतुः स्यात् न वाक्यांशो1561 न पंचमी

इति—तदिदमनुपपन्नम्—पंचम्या अर्थात्मकत्वे हेतावनुपयोगात् ।
तत्रापि वा तस्यास्समर्थितत्वात् । वाक्यांशे लक्षणान्तरकरणात् । तच्चे
दमिदानीमुच्यते उदाहरणसाधर्म्यात् साध्यसाधनं हेतुः । यथोक्तादुदा
हरणसाधर्म्यात् विवक्षादिक्रमेण यद्वचनं प्रवर्तते, स हेतुः ॥


II.564

द्यपि च ज्ञानस्याप्युदाहरणसाधर्म्यात् कमंभूतात्, करणात्मकाद्वा
भवत्यभिनिर्वृत्तिः, तथापि वाक्यावयवकरणसामर्थ्यात् वचनमवसीयते ॥


यदि वाक्यावयवकरणमिदम्, किमर्थं तर्ह्यर्थव्युत्पादनम् ?—उक्त
मत्र, तदौपयिकत्वादिति ॥


साध्यसाधनग्रहणं वचनलक्षणे किमर्थम्1562 ? हेत्वाभासवचननिर
सनम् अर्थात्मकहेतुनिरसनादेव हि सिद्धम्—न हेत्वाभासवचनव्यवच्छे
दार्थं तत् । किन्तु हेतुवचनविशेषप्रतिपत्त्यर्थम् । न स्वरूपमात्रनिर्देशकं
वचनम्—कृतकत्वम् इत्येवमादि प्रयोक्तव्यम्; अपि तु हेतुविभ
क्त्यन्तं कृतकत्वात् इति, कृतकत्वेन इति कृतकोऽयमस्मात् इति
बाऽभिधातव्यम् । एवं हि तत् साध्यसाधनं भवतीति ॥


तथा वैधर्म्यात् ॥ १-१-३५ ॥


उदाहरणग्रहणमनुवर्तते, साध्यसाधनमिति च । एतच्च तथाशब्दो
पादानसामर्थ्याद्गम्यते—उदाहरणवैधर्म्यात् साध्यसाधनं हेतुः । अत्रा
प्यर्थात्मकहेतूपूर्वकन्वात् तद्वचनस्यार्थात्मक एव हेतुः प्रथमं प्रयुज्य
इति तल्लक्षणाय पूर्ववत् पंचमीपाठशून्यमेव सूत्रं वर्णयन्ति । वैधर्म्यं
हेतुः
इत्युच्यमाने पक्षवैधर्म्यस्यापि विपक्षवृत्तेः अशेषाश्वव्यक्तिपक्षी
करणे—तुरगा इमे, विषाणित्वात्—इत्येवमादेर्हेतुत्वं स्यात् इति
उदाहरणग्रहणम् ॥


तथाप्यसाधारणादेः उदाहरणवैधर्म्यस्य हेतुता प्रसज्यत इति पूर्ववत्
साध्यसाधनग्रहणं प्रतिबन्धसूचकं सकलहेत्वाभासव्यवच्छेदकं योजनीयम् ॥


तस्मादेव सकलहेत्वाभासव्यवच्छेदसिद्धेः उदाहरणवैधर्म्यग्रहणं समान
जातीयान्वयव्यतिरेकिहेतुव्यवच्छेदाय व्याख्येयम् ॥


II.565

अन्वयव्यतिरेकिवैलक्षण्यं केवलव्यतिरेकिणः


ननु ! यैधर्म्यशब्दः केवलान्वयिनमेव हेतुं अव्यतिरेकं व्यवच्छेत्तु
मलम्, तस्य वर्धम्यंशून्यत्वात् । अन्वयव्यतिरेकिणस्तु हेतोः उदाहरण
साधर्म्यवत् तद्वैधर्म्यस्यापि भावात् कथमनेन व्यावर्तनम् ? उच्यते—


वैधर्म्यशब्दोपादानात् केवलान्वयिनो यथा ।

निवृत्तिर्गम्यते तद्वत् अन्वयव्यतिरेकिणः ॥

साध्यसाधनशब्दो हि प्रतिबन्धोपलक्षणः ।

व्याख्यातः प्रतिबन्धश्च व्यतिरेकान्वयात्मकः ॥

वैधर्म्यसाधनेऽप्यस्मिन् स एव यदि वर्ण्यते ।

पूर्वत्रकथनाद्व्यर्थं वैधर्म्यग्रहणं भवेत् ॥

केवलव्यतिरेकाख्यप्रतिबन्धाभिधित्सया ।

वैधर्म्यवचनं तस्मात् सफलं व्यवतिष्ठते ॥

अध्याहृतैवकारं वा तद्व्युदासाय पठ्यताम् ।

विशेषविधिरूपेण व्याख्यानं वा विधीयताम् ॥

केवलान्वयिहेतुश्च न कश्चिदुपलभ्यते ।

तेन पूर्वोक्त एवास्य व्यवच्छेद्यो भविष्यति ॥

पूर्वसूत्रेऽवधारणाभावः


ननु ! एवं तर्हि अनेनैव न्यायेन पूर्वसूत्रं केवलात्वयिलक्षणार्थं स्यात्;
यथेह वैधर्म्यंग्रहणं साधर्म्यव्यवच्छेदकम्, एवं तत्र साधर्म्यग्रहणं वैधर्म्य
व्यवच्छेदाय स्यादिति—उक्तमत्र—न केवलान्वयी नाम हेतुः संभवती
त्यलक्षणीय एवासौ । तदेवमन्वयव्यतिरेकवतो हेतोः लक्षणाय पूर्व
सूत्रम् । इदं तु केवलल्यतिरेकिलक्षणायेति स्थितम् ॥


II.566

पञ्चम्यन्तपदपाठपक्षः


अर्थात्मकहेतुलक्षणपक्षेऽपि पंचमीपाठः पूर्ववत् संशयपराकरणफलत्वेन
वर्णनीयः । वचनात्मकहेतुलक्षणेऽपि तथैव सूत्रं योज्यम् । यथोक्त
वैधर्म्यात् प्रवृत्तं वचनं साध्यसाधनं हेतुविभक्त्यन्तं प्रयोक्तव्यमिति


केवलव्यतिरेकिनिराकरणम्


तदेतदाक्षिपन्ति—लक्ष्ये सति लक्षणं वक्तव्यं भवति । केवलव्यति
रेकी तु नाम न समस्त्येव हेतुरिति कस्येदं लक्षणमुच्यते । प्रतिबन्धेन हि
हेतोर्गमकत्वमुक्तम् । प्रतिबन्धश्च पंचलक्षणको व्याख्यातः । एकैकलक्षण
विरहनिबन्धनाश्च पंचहेत्वाभासा भविष्यन्ति । तत् पक्षधर्मत्वविरहिण
1563इवासिद्धस्य हेतोरन्वयशून्यस्यापि न हेतुता युक्ता । केवलव्यतिरेकमात्र
शरणेन हेतुना साध्यसिद्धौ तथाविधसिद्धिसुभिक्षसंभवात् यत् यस्मै
रोचते, स तत्सर्वं साध्येत्1564 । असाधारणस्य वा किमिति हेतुत्वं व्यति
रेकवतोऽपिनेष्यते ॥


केवलव्यतिरेकव्याप्तेरसाधकत्वम्


अपि च—


अन्वयस्यापरिच्छेदात् व्यतिरेकेऽपि संशयः ।

साध्याभावकृता तस्मात् व्यावृत्तिरुत वाऽन्यथा ॥

अन्वये हि क्वचिद्गृहीतेऽन्यत्र हेतुव्यावृत्तिरवगम्यमाना साध्यव्या
वृत्तिकृतैवेति अवधार्यते, नेतरथा । इत्थमेव च सन्दिग्धव्यतिरेकता
व्यावर्तते, नान्यथेति ॥


II.567
सन्दिग्धव्यतिरेके च साध्यसाधनता कथम् ।

लक्ष्याभावादतश्चेदं कथ्यते तस्य लक्षणम् ॥

केवलव्यतिरेक्यभावे सूत्रनिर्वहिः


तस्मान्न साध्यसाधनग्रहणेन हेतुद्वयसामान्यलक्षणमभिधाय, उदा
हरणसाधर्म्यग्रहणेन अन्वयव्यतिरेकिणो लक्षणम्, उदाहरणवैधर्म्यग्रहणेन
च केवलव्यतिरेकिणो वर्णनीयम् । अपि तु सूत्रद्वयेनैस्यैवान्वयव्यति
रेकवतो हेतोर्लक्षणं व्याख्येयम् । अन्वयव्यतिरेकयोर्गमकाङ्गत्वात् एके
नान्वयनिरूपणं, अपरेण च सूत्रेण व्यतिरेकव्युत्पादनम् । अत एव भाष्य
कारः किमेतावद्धेतुलक्षणम् ? नेत्युच्यते—तथा वैधर्म्यात् इत्ये
कवाक्यतयैव व्याख्यातवान् । उदाहरणमपि च सूत्रद्वये तुल्यमेव अन्वय
व्यतिरेकिहेतोरुक्तवान् उत्पत्तिधर्मकत्वात् इति ॥


केवलव्यतिरेकिसाधनम्


अत्र वदन्ति—यदि वयं कंचन शुष्कमेव केवलव्यतिरेकिणं हेतुमुप
गच्छेम, तत एवमनुयुज्येमहि । किन्त्वन्वयव्यतिरेकवानेषु हेतुः क्वचित्
साध्यविशेषे विशेषणवशात् केवलव्यतिरेकितामबलम्बत इति ब्रूमः ।
तद्यथा—इच्छादिगतं कार्यत्वमात्मसिद्धौ । तत्र हि कार्यत्वमात्रं
आश्रितत्वमात्रेण व्याप्तमुपलब्धमन्वयव्यतिरेकयुक्तमेव, घटादेः कार्यस्या
श्रितस्य दृष्टत्वात् । यत्र चाश्रितत्वं नास्ति, तत्र कार्यत्वमपि नास्त्येव,
व्योमादौ । सोऽयमन्वयव्यतिरेकवानेव हेतुः यदा परिदृश्यमानशरीराद्या
श्रयव्यतिरिक्ताश्रयाश्रितत्वे साध्ये 'देहादिषु बाधकोपपत्तौ सत्यां कार्य
II.568 त्वात् इति1565 सविशेषणः प्रयुज्यते, तदा केवलव्यतिरेकी संपद्यते । देहा
दि यतिरिक्तस्याश्रयस्यात्मनो नित्यपरोक्षत्वेनान्वयानुपलम्भादिति ॥


दृशस्य चान्वयमूलस्य तस्यां दशायां केवलव्यतिरेकितामुपगतस्यु
हेतुत्वोपगमात् न पूर्वोक्तदोषावसरः । न हीदृशा हेतुना सर्वः सर्वं
साधयितुमुत्सहते । न चासाधारणस्य हेतुत्वं इत्थं स्थिते प्रसज्येत ।
पंचलक्षणत्वमपि पूर्वाश्रयापेक्षमस्य भविष्यति ॥


केवलव्यतिरेकिणि दोषोद्धारः


यच्च सन्दिग्धव्यतिरेकित्वमाशङ्कितं—तदप्यन्वयव्यतिरेकमूले
केवलव्यतिरेकिणि निरवकाशम्, कार्यस्याश्रितस्योपलम्भात्, अश्रितत्वव्या
वृत्त्या व्योमादौ च कार्यत्वव्यावृत्तिदर्शनात् । इदानीं घटादौ शरीरे
वा सविशेषव्यावृत्तिर्दृश्यमाना विशिष्टाश्रयव्यावृत्तिकृतैवावगम्यत
इति न सन्दिग्धो व्यतिरेकः । एतच्चात्मसिद्धिप्रसङ्गे निर्णीतमिति
निरपवादः केवलव्यतिरेकी हेतुरस्त्येव लक्ष्य इति तल्लक्षणार्थमुत्तरसूत्रम् ।
अन्वयव्यतिरेकिहेतुलक्षणार्थं पूर्वसूत्रम् । केवलान्वयी हेतुर्नास्त्येव ।
सामान्यलक्षणे तु अनुमानलक्षणवत्, साध्यसाधनपदाद्वाऽवगन्तव्यम् ॥


भाष्यविरोधपरिहारः


भाष्याक्षराणि तु काममुपेक्षिष्यामहे । अथवा यथा कर्थचिद्वा
व्याख्यास्यामः । केवलव्यतिरेकिणं त्वीदृशमात्मादिप्रसाधने परममस्त्रमु
पेक्षितुं न शक्नुम इति अयथाभाष्यमपि व्याख्यानं श्रेयः ॥


II.569

उदाहरणनिरूपणम्


साध्यसाधर्म्यात्तद्धर्मभावी दृष्टान्त उदाहरणम् ॥ १-१-३६ ॥


यथा तत्पूर्वकमनुमानं इत्यत्र प्रतिबन्धग्रहणोपायमात्रं प्रतिपादितम्,
इह तु प्रतिबन्धस्वरूपमुदाहरणसाधर्म्यमुक्तम् । एवं लौकिकपरीक्षकाणां
यस्मिन्नर्थे बुद्धिसाम्यं स दृष्टान्तः,
इत्यत्रं वादिप्रतिवादिप्रतिपन्नत्वं द्विवि
धस्यापि दृष्टान्तस्य सामान्यलक्षणमुक्तम् । इह तु प्रयोज्यप्रयोजकभाव
व्यवस्थितसाध्यसाधनधर्माधिकरणत्वमेकस्य, द्वितीयस्य च तद्रहितत्वं
लक्षणमुपपाद्यते ॥


उदाहरणसूत्रविवरणम्


तत्र साध्यसाधर्म्यात्तद्धर्मभावी इति साधर्म्यदृष्टान्तस्य लक्षणम् ।
1566वचनाधिकारेऽपि अर्थात्मकदृष्टान्तचिन्तनं तदौपयिकत्वात् हेतुवत्
कर्तव्यम् ॥


साध्यः—धर्मविशिष्टो धर्मी, तेन साधर्म्यं—समानो धर्मः—लिङ्ग
सामान्यं यत् उदाहरणसाधर्म्यं पूर्वमुक्तं, तदेव द्विष्ठत्वादुभाभ्यां व्यपदि
श्यते इति इह च साध्यसाधर्म्यपदेनोक्तम् । तस्मात् साध्यसाधर्म्यात् यः
तद्धर्मभावी—तस्य—साध्यस्य धर्मः—नित्यत्वादिः यस्मिन् भवति, सः
तद्धर्मभावी । पंचम्या प्रयोजकत्वमुच्यते । हेतु धर्मप्रयुक्तो हि साध्य
धर्मः यत्रास्ति, सः साधर्म्यदृष्टान्त इत्यर्थः । स एव च वचसः कर्मतां
प्रतिपद्यमानः उदाहरणं भवतीत्यर्थवचनवाचिनोः दृष्टान्तोदाहरणशब्दयोः
सामानाधिकरण्यमविरुद्धम् ॥


II.570

दृष्टान्त एवान्वयख्यापकेन वचनेनोच्यमानः उदाहरणं—
इत्युक्ते सति तदभिधायकं वचनं उदाहरणं भवत्येव । यद्यत् कृतकं,
तत्तदनित्यं दृष्टं—यथा घट इति ॥


कार्येण कारणानुमानस्यापि संग्रहः


ननु ! एवं यत्र हेतुकृता साधर्म्यवत्ता, यथा—जलधरोन्नमनवृष्ट्यादौ,
तादृश एवं दृष्टान्त उपदिष्टो भवेत्—न यत्र साध्यधर्मकृता हेतुसत्ता, यथा
धूमानुमान इति—अदर्शनज्ञो देवानांप्रियः—नात्रोत्पत्त्यपेक्षया प्रयोज्य
प्रयोजकभावो विवक्षितः, किन्तु ज्ञप्त्यभिप्रायेण । ज्ञप्तौ च धुम एवाग्नेः
प्रयोजकतां प्रतिपद्यते । न हि धूमाग्न्योः कार्यकारणभावेन गभ्यगमक
भावः । किन्तु नित्यसाहचर्येणैव नियमनाम्ना संबन्धेनेत्यसकृदुक्तम् ॥


कारक—ज्ञापकरूपहेतुद्वैविध्यम्


धूमः स्वरूपतो नाम जायतां जातवेदसः ।

अग्निस्तु नाक्षिपत्येनं स एव ह्यग्निमाक्षिपेत् ॥

प्रयोजकत्वमग्नेश्च पंचम्या यदि कथ्यते ।

यत्र यत्राग्निरित्येवं तन्निर्देशः प्रसज्यते ॥

यस्य प्रयोजकत्वं हि चिख्यापयिषितं भवेत् ।

यच्छब्देन च पूर्वत्र स हि निर्देशमर्हति ॥

भवेदेवं च हेतुत्वं 1567धूमं प्रति विभावसोः ।

न च तद्युज्यते वक्तुं अनैकान्तिकदोषतः ॥

प्रयोजकत्वमिच्छन्ति तस्मान्नोत्पत्त्यपेक्षया ।

अपि तु ज्ञप्त्यभिप्रायं हेतोरेवोचितं च तत् ॥

II.571

तस्मात् हेतुधर्मप्रयुक्तः साध्यधर्मः यत्र ख्याप्यते, स साधर्म्य
दृष्टान्तः । तद्वचनमुदाहरणमिति सिद्धम् ॥


वैधर्म्योदाहरणम्


तद्विपर्ययाद्वा विपरीतम् ॥ ३-२-३७ ॥


दृष्टान्त उदाहरणं इति वर्तते । तदिति साध्यसाधर्म्यपरामर्शः ।
तच्च यद्यपि पूर्वसूत्रे लिङ्गसामान्यं व्याख्यातम्—तथाप्युभयस्य संभवा
दिहानुमेयसामान्यं साध्यसाधर्म्यं द्रष्टव्यम् । तद्विपर्ययात्—साध्या
भावात्, तद्विपरीतः—अतद्धर्मभावी—साधनरहितः यो दृष्टान्तः, स
वैधर्म्यदृष्टान्तः पूर्ववत् वचसः कर्मतामापद्यमानः वैधर्म्योदाहरणं भवति ।
विपरीतं इत्युदाहरणापेक्षया नपुंसकलिङ्गनिर्देशः ॥


वैधर्म्यदृष्टान्ते विशेषः


किमर्थं पुनः साध्याभावात् साधनाभावो वैधर्म्यदृष्टान्तो वर्ण्यते, न
पुनः साधर्म्यदृष्टान्तस्थित्या साधनाभावादेवं साध्याभाव इति—उक्त
मत्र—


व्याप्यव्यापकभावो यः साध्यसाधनधर्मयोः ।

स एव वैपरीत्येन मन्तव्यस्तदभावयोः इति ॥

किं कारणम् ? साधनधर्मे हि धूमे साध्यधर्मेणाग्निना व्याप्तेऽग्निः
तत्र निवेशमलभमानोऽन्यत्रानवकाशाधूम एव निविशते । एवं साध्य
धर्माभावेऽनग्नौ साधनधर्माभावेनाधूमेन व्याप्ते सति धूमस्तत्रालब्धाव
काशः अनन्यगतित्वादग्नावेव निविशत इति ॥


II.572

साधर्म्यदृष्टान्ताद्वैधर्म्यदृष्टान्तवैपरीत्यम्


यदि तु साधर्म्यदृष्टान्तवत् तथैव व्याप्यव्यापकभावः ख्याप्यते—
स्साधनाभावे साध्यं नास्तीति—तदा धूमाभावेनानग्निना व्याप्तेन अग्नि
तत्रालब्धनिवेशः धूममेवाबलम्बेतेति स्यात् । न चैतन्निर्वहति, अधूमेऽपि
वह्निदर्शनात् इत्येवं 1568सपक्षैकदेशवृत्तेर्हेतुत्वमपि प्रसिद्धं हीरेत, व्याप्ति
वैधुर्यादिति ॥


अपि च धुमाभावेनाग्न्यभावे व्याप्ते कथ्यमाने सत्यधूमो नियमितो
भवति अनग्निं मा हासीत् इति । ग्निस्त्वनियमित इति 1569स्वात
न्त्र्यादधूमवद्धूममपि स्पृशेदिति व्यभिचारात् प्रतिबन्धो विप्लवेत ।
तदुक्तम्—


यदा तु साध्याभावेन हेत्वभावो विरुद्ध्यते ।

तदा साध्यं ततो दृष्टं अवतिष्ठेत साधने ॥

एवं नियवितं साध्यं साधने ख्यापितं भवेत् ।

साधनं तु स्वतन्त्रत्वात् साध्याभावेऽपि संभवेत् ॥

समव्याप्तिकस्थलेऽपि तुल्यो न्यायः


तस्मात् यत्रापि समव्याप्तिकौ साध्यसाधनधर्माविति सपक्षैकदेशवृ
त्तित्वेनाहेतुत्वमाशङ्क्यते, तत्रापि साधनधर्मस्य विपक्षात् व्यावृत्तिमभि
धित्सता साध्याभावे साधनाभावो दर्शयितव्यः । यत्रानित्यत्वं नास्ति,
तत्र कृतकत्वमपि नास्ति, यथाऽऽकाश इति ॥


II.573

योऽप्यविद्यमानविपक्षो हेतुः, सोऽपि सुतरां ततो व्यावृत्तो भवति,
तदभावात्तत्रावृत्तेरिति । अतश्च सर्वपदार्थानित्यत्ववादी एवमपि वैधम्य
दृष्टान्तं प्रदर्शयन् न वार्यते—यत्र नित्यत्वं नास्ति, तत्र कृतकत्वमपि नास्ति
यथाशशविषाणादाविति ॥


ते एते साधर्म्यवैधर्म्योदाहरणे अन्वव्ययतिरेकवति हेतावुभे अपि
संभवन्ती विक्ल्पेन प्रयोक्तव्ये । एकेनैव व्याप्तेः प्रदर्शनात् किमन्येन
कृत्यम् ॥


उभयविधव्याप्त्योरावश्यकता


केचित्तु व्याप्तिसौष्ठवप्रदर्शनाय द्वयोरपि प्रयोगमिच्छन्ति । स
भवतु, मा वा भूत् । नेदं महद्विमर्दस्थानम् ॥


ननु ! हेतूदाहरणाधिकमिति निग्रहस्थानमिदमादिष्टम्—न—
समानजातीयाभिप्रायं तद्भविष्यति । साधर्म्यदृष्टन्तानेकत्वे वैधर्म्यदृष्ट
त्तानेकत्वे वा1570 तन्निग्रहस्थानमित्यास्तामेतत् ॥


सःध्यर्म्यं दृष्टान्ताभासाः


इत्थै साधर्म्यवैधर्म्यदृष्टान्तस्वरूपे व्युत्पादिते बसात्तल्लक्षणरहिता
दृष्टान्ताभासा भवन्ति । तत्र साध्यविकलः, साधनविकलः, उथयविकल
इति वस्तुदोषकृतास्त्रयः साधर्म्यदृष्टान्ताभासाः । अनन्वयः, विपरीता
न्वय इति द्वौ वचनदोषकृतौ । यथा नित्यः शब्दः अमूर्तत्वात् इत्यत्र
ब्रुद्धिवत् इति साध्यविकलो दृष्टान्तः । परमाणुवत् इति साधनविकलः
घटवत् इति उभयविकलः । व्योम्नि नित्यत्वान्मूर्तत्वं विद्यत इन्य
II.574 नन्वयः । यदमूर्तं तन्नित्यमिति वक्तव्ये, यन्नित्यं तदमूर्तमिति विपरीता
न्वय इति ॥


वैधर्म्यदृष्टान्ताभासाः


वैधर्म्यदृष्टान्ताभासा अपि पंचैव साध्याव्यावृत्तः, साधनाव्यावृत्त उभया
व्यावृत्त इति वस्तुदोषास्त्रयः । अव्यतिरेकः विपरीतव्यतिरेक इति वचन
दोषौ द्वौ । यथा तत्रैव हेतौ—यत्र नित्यत्वं नास्ति, तत्रामूर्तत्वमपि नास्ति,
यथा परमाणुष्विति साध्याव्यावृत्तः । यथा बुद्धाविति साधनाव्यावृत्तः ।
यथाऽऽकाश इत्युभयाव्यावृत्तः । नित्यत्वामूर्तत्वे घटे न विद्येते इत्यव्य
तिरेकः । यत्र नित्यत्वं नास्ति, तत्रामूर्तत्वनपि नास्ति इति वक्तव्ये,
यत्रामूर्तत्वं नास्ति तत्र नित्यत्वमपि नास्ति इति विपरीतव्यतिरेक
इति ॥


एते च वस्तुवृत्तेन हेतुदोषा एव, तदनुविधायित्वात् । अत एव
हेत्वाभासवत् सूत्रकृता नोपदिष्टाः । अस्माभिस्तु शिष्यहिताय प्रदर्शिता
एवम् ॥


उपनयलक्षणम्


उदाहरणापेक्षः तथेत्युपसंहासे न तथेति वा
साध्यस्यापेनयः ॥ १-१-३९ ॥


उदाहरणम् आत्मलाभे अपेक्षत इति—उदाहरणापेक्षः पक्षधर्मीपसं
हारः1571 उपनयः । द्विविधश्चासौ—तथेति, न तथेति वा, उदाहरणद्वै
II.575 विध्यात् । तत्र साधर्म्योदाहरणापेक्षः तथेत्युदनयः । यत् कृतकं
तदनित्यं दृष्टं, यथा घटः, न च तथा कृतकः शब्दः इति । वेधर्म्यो
दाहरणापेक्षस्तु न तथेत्युपनयः—यन्नित्यं, तदकृतकं दृष्टं—यथाऽऽकाशः
न च तथा कृतकः शब्द इति । अत्रापि निषेधद्वययोगाद्विधिरेव
गम्यते ॥


सौत्रपदवैयर्थ्यशङ्कापरिहारौ


ननु ! साध्यस्य इत्यवाचकः सूत्रावयवः । पक्षधर्मोपसंहारो
ह्युपनयः, न साध्योपसंहारः । साध्यो हि धर्मः, धर्मी वा स्यात् न
तर्यीरन्यतरस्याप्ययमुपसंहार इति—उच्यते—साध्यो1572 धर्म्येव, न धर्म
इह विवक्षितः । तत्रायं हेतोरुपसंहारः—तथा च कृतकः शब्दः इति ।
सेयं साध्यस्येति सप्तम्यर्थे षष्ठी मन्तव्या । साध्ये धर्मिणि हेतोरुपसंहारः
उपनय इति ॥


षष्ठ्याः सप्तम्यर्थसंभवः


नन्वाधारविवक्षायामिह प्राप्नोति सप्तमी ।

संबन्धमात्रे वा वाच्ये कथमाधारतोच्यते ॥

नैतत्, संबन्धसामान्येऽप्युक्ते भवति धर्मिणा ।

योगो विशेषचिन्तायां1573 तस्य त्वाधारता भवेत् ॥

विशेषेऽन्तर्निगूढे च प्रायः षष्ठीप्रयुज्यते ।

शेषो नामाविवक्षैव कारकाणामिति स्थितिः ॥

II.576
तथा च राज्ञः पुरुषः ब्राह्मणस्य कमण्डलुः ॥

तरोः शाखेति सर्वत्र विशेषोऽन्तर्व्यवस्थितः ॥

अतश्च धर्माय जिज्ञासा—धर्मजिज्ञासा । सा हि 1574तस्य ज्ञातुमिच्छा
शा-भा-1-1-1 इतिवत् संबन्धमात्रसमर्पिकाऽपि सेऽयं षष्ठी विशेषयर्य

वसाना भविष्यतीति सूक्तं साध्यस्योपसंहार इति ॥


उपनयस्य व्यर्थत्वाक्षेपः


ननु ! उपनयवचनमनर्थकम् । पक्षहेतुदृष्टान्तवचनैः किं न पर्या
प्तम् ? यदर्थमुपनयवचनमुच्चार्यते । यदि धर्मिणि हेतोः सत्त्वसिद्धये
तदभिधानम्—तदैष वृथैव श्रमः । पक्षधर्मवचनेनैव कृतकत्वात् इत्ये
वमादिना सिद्धत्वात् ॥


अथ साध्यदृष्टान्तधर्णिणोः 1575साम्यापादनाय तदुच्चारणं, तदपि
न चतुरश्रम्—उदाहरणसाधर्म्यात् इत्यनेनैव गतार्थत्वात् । दाहर
णसाधर्म्यवचनं हि हेतुवचनमेव भवेत् ॥


अथ स्वप्रतिपत्तौ तदर्थदर्शनात् परं प्रति तद्वचन—तत्रापि परामर्श
ज्ञाने विवदन्ते ॥


अपि च स्वयं दधिभक्षणसमनन्तरं यदि कदाचिदनुमेयमतिरुपजायते,
तत् किमपरस्मै तदुपदिश्यताम् ॥


प्रतिज्ञादीनां क्रमेऽप्याक्षेपः


योऽप्ययं प्रतिज्ञाहेतूदाहरणोपनयनिगमनप्रयोगक्रम आश्रीयते, सोऽपि
स्वप्रक्रियानुरागुनिर्मित एव, न वस्तुबलप्रवृत्तः । तथा हि—यद्यत्
II.577 कृतकम्, तत्तदनित्यं दृष्टम्, कृतकश्च शब्द इतीयतो वननात् को नाम
शब्दानित्यतां नावगच्छेत् । त्वमेवात्र सत्यव्रतधनः प्रमाणम् । डिण्डि
रागं1576 परित्यज्याक्षिणीनिमील्य चिन्तय तावत्, किमियताऽर्थं बुद्ध्यसे
न वा । तस्मात् स्वप्रक्रियापक्षपातमपास्य पंचावयवमेवं क्रमकं वाक्यं
उपेक्ष्य यथोक्तमेव1577 वाक्यं प्रयुङ्क्ष्वेति ॥


उपनयस्यावश्यकतावर्णनम्


अत्रोच्यते—इदं तावत् भवान् पृष्टो व्याचष्टाम् । किं स्वप्रतिपत्ति
मनुसरन्तः परप्रतिपादनाय वाक्यरचनां कुर्मः, उत परहृदयानुवर्थनेनेति ।
तत्र पराभिप्रायस्य वैचित्र्यात् परोक्षत्वाच्च दुरवगमत्वेन न विद्मः किं
विदध्महे ? किं भुवमुत्क्षिपामः ? किमरत्निना परं पीडयामः ? उत
हस्तसंज्ञया व्यवहरामः ? आहो हेतुमात्रमेव केवलं प्रयुज्महे ? किं वा
त्र्यवयवं वाक्यमभिदध्मः ? उत पंचावयवादपि वाक्यादभ्यधिकमाख्यान
कमस्मै वर्णयमः ? इत्येवमनवस्थितत्वात् पराभिप्रायस्य स्वप्रति
पत्तिमेवानुसरता परः प्रत्याय्यः ॥


प्रतिज्ञादिक्रमस्य युक्तत्वम्


तत्र स्वप्रतिपत्तौ पर्वतादिधर्मी प्रथमं दृष्ट इति स प्रतिज्ञाय कथ्यते ।
ततोऽपि धूमादिलिङ्गमुपलब्धमिति हेतुवचनेन तदावेद्यते । ततो यत्र
धूमस्तत्राग्निः यथा महानसः इति व्याप्तिस्मरणमभवदिति दृष्टान्तवचसा
II.578 तदभिधीयते । ततः तथा चायं धूमः इति परामर्शज्ञानमुदपादीति
तदुपनयवचनेन प्रतिपाद्यते । ततः तस्मादत्राग्निः इत्यनुमेयज्ञानमुप
जायते इति निगमनेन तदुच्यते । ततः परप्रतिपत्तिपर्यवसानात् किमन्य
दुपदिश्यमानमिति । न च दधिथक्षणसदृशं 1578अतोऽन्यतममपि भवितुम
र्हति, अनुमेयप्रतिपत्तावुपायत्वात् ॥


सर्वैरुपनयस्यापरित्याज्यता


येषामपि मते परामर्शज्ञानं नाति, तैरप्युपनयवचनमवश्यमेवापरि
हार्यम्; अनुमेयप्रतिपत्तये दृष्टान्ते दर्शितशक्तिरेव हेतुः प्रभवति नान्य
थेति । अतो यद्यपि पक्षधर्मवचनेन हेतुधर्मिसंबन्धमात्रमुपपादितम्—
तथापि अधुना दृष्ठान्ते दर्शितशक्तिधर्मः सः तस्मिन् धर्मिणि तथाविधो
हेतुः स्यात्, न वति असिद्ध्याशङ्काशमनमुपनयवचनमन्तरेण न भवत्येवे
त्यवश्यं प्रयोक्तव्यं तदिति । स्वप्रतीत्यनुसरणेन च वाक्यरचनायाः
स्थतत्वात् क्रमोऽपि यथोक्त उपयुज्यते ॥


अवयवद्वयवादनिरासः


अत एव च यत् कृतकं, तदनित्यं दृष्टं इत्यभिधानं अनुपपन्नम्,
अनवगते धर्मिणि, तद्वर्तिनि च हेतौ प्रथममेव व्याप्तिस्मरणासंभवेन तद्व
चनायोगात् । तदिदमवयविविपर्यासवचनं अप्राप्तकालनिग्रहस्थानमुप
देक्ष्यामः ॥


अपि च यत् कृतकं, तदनित्यं दृष्टं, कृतकश्चशब्दः इत्येतावदेव
प्रयोक्तव्यमिति वदता भवता कृतकश्च शब्दः इतीदमुपनयवचनमनु
II.579 ज्ञातम् कृतकत्वादिति पक्षधर्मवचनं तु निह्नुतम् । कृतकश्च शब्दः
इत्येतावदेव हेतुवचनमिति चेत्—न—प्रयोजकस्य पंचम्यादिना निर्देशा
र्हत्वादिति यत्किंचिदेतत् ॥


एकावयववादनिरासः


यदप्युच्यते प्र. वा. 3-26


……विदुषां वाच्यो हेतुरेव हि केवलः

इति—तदप्यचारु—विद्वद्भिर्वित्त्वादेव हेतोरपि प्रज्ञानात् । अपूर्वा इमे
विद्वांसः, ये प्रतिज्ञाद्यवयवचतुष्टयस्यार्थं जानन्ति, हेतुवचनस्य तु न
विन्दन्तीति1579 । तस्मात् पराशयस्य सर्वथा दुर्बोधत्वात् पूर्वोक्तेनैव क्रमेण
स्वानुभवसाक्षिकेण वाक्यरचनां कृत्वा परः प्रत्याय्य इति ॥


निगमनलक्षणम्


हेत्वपदेशात् प्रतिज्ञायाः पुनर्वचनं निगमनम् ॥ १-१


हेतुः दृष्टान्तधर्मिणि निर्ज्ञातशक्तिः साध्ये धर्मिणि अपदिश्यतेऽने
नेति हेत्वपदेश—उपनयः । तस्मात्—हेत्वपदेशात् प्रवृत्तं प्रर्तिज्ञायाः पुनर्व
चनं निगमनम् । निगम्यतेऽनेने पूर्वोक्ताः अवयवाः—एकत्र साध्येऽर्थे
समर्प्यन्ते—नियोज्यन्त इति निगमनम् । तस्मात् कृतकत्वादनित्यः
शब्दः
इति । तदिदं निगमनं साधर्म्यवैधर्म्यभेदेन हेतोः दृष्टान्तस्य च
तदपेक्षिणश्च तथा न तथा इत्युपनयस्य द्वैविध्येऽपि प्रतिशावचनव
त्तुल्यमेव भवति ॥


II.580

निगमनलक्षणाक्षेपः


ननु ! प्रतिज्ञावचनमेव तावत् असाधनाङ्गवचनत्वात् अपार्थकम् ।
तस्या एव पुनर्वचनं निगमनमधुना सफलं भविष्यतीति केयं कथा ? प्रति
ज्ञायाः पुनर्वचनम्
इति च न वाचको ग्रन्थः; साध्यनिर्देशो हि प्रतिज्ञा
सिद्धनिर्देशस्तु निगमनमिति ॥


वाचके वा ग्रन्थे, पौनरुक्त्यादेव निगमनस्य वैफल्यम् । स्वप्रतिपत्तौ
च परामर्शज्ञानान्तरं साध्यावगतिरेव भवन्ती दृश्यते । सा परस्याप्युप
नयवचनश्रवणसमनन्तरमुपजायत एवेति किं तदुक्त्या प्रयोजनम् ॥


उक्ताक्षेपपरिहारः


उच्यते—प्रतिज्ञायास्तावत् साफल्यं समर्थितमेव । तस्याश्चेदं पुन
र्वचनं सिद्धसाध्यभेदे सत्यपि धर्मिधर्मनिर्देशमात्रसाम्यादुच्यते । सिद्ध
साध्यभेदादेव च न पौनरुक्त्यकृताफल्यम् । स्वप्रतिपत्तये च परामर्श
ज्ञानानन्तरं साध्यबुद्धिरुत्पन्ना सा परस्मै कथ्यमाना न निष्प्रयोजना
भवति ॥


स्माद्धेतोरिदं साध्यं अहमज्ञासिषं यथा ।

तथा त्वमपि जानीहि मा स्म विघ्नोऽत्र ते भवेत् ॥

एवमुक्ते संशयानस्य संशयः शाभ्यति, विपर्यस्तमतेश्च विपर्ययः ।
तदर्थश्चायं परार्थानुमानोपन्यासश्रमः । तदिदं—1580विपरीत प्रसङ्गप्रतिषे
धार्थं निगमनमाहुः ॥


II.581

असाधारण्यनिरासकत्वपक्षः, तन्निरासश्च


ये तु यथाश्रुतसाध्यनिर्देशात्मकप्रतिज्ञापुनर्वचनसमर्थनलोभा
द्यापि प्रतिज्ञायाः सिद्धिमबुध्यमानाः असाधारणाशङ्काव्यवच्छेदाय
निगमनवचनमिच्छन्ति—ते न सम्यगभ्ययुः—असाधारणाशङ्कायाः दृष्टा
न्तवचनेनैव निरस्तत्वात् । 1581विशेषस्य हि हेतुत्वसंभावनायामसाधा
रणाशङ्का स्यात् । यत् कृतकं, तदनित्यं इति तु दृष्टान्तवचसा
सामान्यस्य हेतुत्वे कथिते कथमसाधारणत्वमाङ्क्येत ?


यदि पुनरुपनयवचनेन साध्ये धर्मिणि हेतोरुपसंहारात् असाथारण
त्वमाशङ्क्येत, तन्पुनर्दृष्टान्तधर्मिवृत्तित्वमस्य दर्शयितव्यम् । तस्मिन्
दर्शिते पुनः तद्वृत्तित्वात् धर्मिण्यसिद्धत्वमाशङ्कनीयम् । पुनस्तद्व्या
वृत्तये धर्मिणि हेतोरुपसंहारो विधेय इत्येवमसाधारणासिद्धायशङ्काभ्यां
गच्छेदिति न कदाचित् साध्यप्रतीतिर्भवेदिति नासाधारणशङ्काव्युदासाय
तत्प्रयोगः, किन्तु पूर्वरीत्यैवेति ॥


तस्माद्विवक्षितेऽर्थे यथोदितक्रमनिवेशिनोऽवयवान् ।

एकत्र संघटयितुं निगमनवचनं प्रयोक्तव्यम् ॥

परार्थानुमानपरमफलम्


त इमे प्रतिज्ञादयो निगमनपर्यन्ताः पंचावयवाः यथासंभवमागमादि
प्रमाणानुगृहीताः परस्परानुषक्ताश्च स्वार्थं साध्यन्ति । तत्र मुख्यया
वृत्त्या प्रतिपाद्येनानुमानेनैव सर्वेऽवयवा अनुगृह्यन्ते । प्रपंचाय तु प्रमाणा
न्तरानुग्रह एषामुच्यते ॥


II.582

प्रतिज्ञायास्तावदागमोऽनुग्राहकः उपेयते, उपदेशस्वभावत्वात् ।
अनित्यः शब्दः इति वक्ता तु एवंविधे विषये ऋषिवदस्वतन्त्रत्वात् ।
अनुमानमुपदिशति । प्रतिज्ञावचनं तु तच्छायानुपातित्वात् । शब्दप्रामा
ण्यसिद्ध्यर्थे वा शास्त्रे तत्प्रतिज्ञायाः शब्दविषयत्वादागमानुगृहीतत्वमुच्यते ॥


हेतुवचनमनुमानेनानुगृह्यते ॥


उदाहरणं तु प्रत्यक्षेण, तन्मूलत्वाद्व्याप्तिपारिच्छेदस्य ॥


यथा गौः, तथा गवयः इतिवत् यथा घटस्तथा शब्दः इत्यनया
च्छायया उपमानकारणभूत वनेचरादिवचनसदृशत्वात् उपमानं उपनयस्या
नुग्राहकमभिधीयते ॥


निगमनस्य तु सर्वावयवानामेकत्र नियोजनार्थत्वात् सर्वप्रमाणानु
ग्राह्यतैव ॥


प्रतिज्ञादीनां प्रयोगक्रमः


इतरेतरानुषक्तत्वात् प्रतिज्ञां विना निराश्रयो हेतुर्भवेदिति सा पूर्वं
प्रयोक्तव्या अनित्यः शब्दः इति । ततो हेतुं परोजिज्ञासत इति हेतुवचन
मुच्चार्यते कृतकत्वात् इति । हेतौ श्रुते क्वास्य व्याप्तिरवधृतेति दर्शयि
तुमुदाहरणमुच्यते यत् कृतकं, तदनित्यं दृष्टं—यथा घटः इति । एव
मुक्ते दृशो निर्ज्ञातशक्तिरेष हेतुः साध्ये धर्मिणि भवेत्, न वेत्यसिद्धता
शङामपाकर्तुमुपनयः प्रसज्यते । ततः अमुना क्रमेण तवापि साध्यप्रतीति
र्भवतु
इति सर्वावयवानेकत्र साध्येऽर्थे समर्थयितुं निगमनमभिधीयते ।
अन्यतममवयवमन्तरेण सकलमिदमनुषक्तार्थवाक्यं स्यादिति पंचावयवमेव
यथोपदिष्टक्रमकं वाक्यं प्रयोक्तव्यम् ॥


II.583

अवयवपरीक्षोपसंहारः


इत्यारब्धोपकारः तदनुगुणफलैः आगमादिप्रमाणैः

अत्योन्यापेक्षिणोऽमी नियतमवयवाः साधयन्त्यर्थजातम् ।

यश्चैतेषां प्रमेये वचसि च चतुरस्तस्य जातिप्रयोग-

प्रायैः शक्यो न पक्षः क्षपयितुमिति हि

व्याहरद्वृत्तिकारः1582

॥ इत्यवयवपरीक्षा ॥
॥ इति श्री भट्टजयन्तकृतौ न्यायमञ्जर्या दशममाह्निकम् ॥

  1. समानधर्मोपपत्तिः, अनेकधर्मोपपत्तिः, विप्रतिपत्तिः, उपलब्ध्यवस्थ, अनुपलब्ध्यव्यवस्था इति पञ्च ॥

  2. विशेषाः—स्थाणुत्वपुरुषत्वादयः ॥

  3. न हि गुणः सामान्यम् ॥

  4. तथा चा ननुगतस्यापि कुत्रचिदनुगमकत्वमनुभव बलात् ॥

  5. डोलायमानास्थितिमारूढस्यं ॥

  6. ज्ञानानां द्विक्षणावस्थायित्वात्, अयौगपद्याच्च ॥

  7. विशेषाः—वक्रकोटरत्वादयः ॥

  8. अन्यथा तेषां कुत्रापि कारणत्वं न स्यात् ॥

  9. प्रमीयते अनेनेति किल तत्र निर्वचनम् ॥

  10. ज्ञानसामान्यकारणत्वात् ॥

  11. शब्दत्वादिः नित्यानित्यव्यावृत्तत्वात् उभयकोट्युपस्थापकः इत्युक्तः, न तु साक्षात् संशयकारणम् ॥

  12. स्वव्यतिरिक्तसर्वेभ्योऽपि ॥

  13. मानवबुद्धेरतिविचित्रत्वादेवमपि संभवतीति प्रदर्शनमात्राभिप्रायं तदिति गृह्यतामित्याशयः ॥

  14. शब्दः—इत्यस्य विभागजेत्यादिः ॥

  15. आकाशदेशोऽत्र अवयविदेशः विवक्षितः । क्रिया हि कदाचित् पूर्णेऽवयविनि, कदाचिदवयवैकदेशे च जायते ॥

  16. अनारंभकसंयोगप्रतिद्वंद्विविभागजनिका क्रिया आरंभकसंयोगप्रतिद्वंद्विविभागजनिका न भवति इतीयं स्थितिः ॥

  17. अन्यथा—पूर्वसंयोगानाशे ॥

  18. न भविष्यति—इत्यन्वयः ॥

  19. In the print edition there is a footnote reference, but no corresponding note.

  20. अन्यथा हि परिणामवादप्रसरप्रसङ्गः ॥

  21. देशः—दिग्देशः । दिगेव हि सर्वत्र मुख्यो देशः ॥

  22. कारणत्वेन संप्रतिपन्नमेवेत्यर्थः ॥
  23. ज्ञानादीनामिच्छाद्यसमवायिकारणत्वपरिहाराय असमवायिकारणसामान्यलक्षणे ज्ञाना-दिभिन्नत्वविशेषणस्यावश्यकत्वात् ॥
  24. व्यधिकरणयोः कथं कार्यकारणभावः ॥

  25. शब्दोत्पत्ताविति शेषः ॥

  26. इदमत्र तत्त्वम्—सिद्धान्ते हि अवयवावयविनावत्यन्तंभिन्नौ । संयोगविभागौ च नियमेनाव्याप्यवृत्ती । अतः अवयवसंयोगविभागाभ्यामेवावयविनि तावुपपादनीयौ ॥

  27. विशेषस्मरणं—कोटिद्वयस्मरणम् ॥

  28. उपलब्धेख्यवस्था अनुपलब्धौ, अनुपलब्धेरव्यवस्था उपलब्धौ च विश्राम्यतीति अनयोः को भेद इति शङ्कां वारयति—अव्यवस्थेत्यादिना ॥

  29. व्याख्यान इति शेषः ॥

  30. सामान्यलक्षणे—संशयसामान्यलक्षणे ॥

  31. अधिकृत्य—इत्यत्रैकदेशः अधिकारः ॥

  32. अर्थकामावपि हि पुरुषार्थवर्गपरिगणितौ ॥

  33. प्रयोजनस्य प्रवर्तकत्वं आक्षिप्य सामाधत्ते—यद्यपीत्यादिना । अस्यैव विवरणमुपरिष्टात् ॥

  34. न हि खपुस्पे कस्यचिदीप्सा भवति ॥

  35. पूर्वं एते पक्षा विचारिता विस्तरेण ॥

  36. प्रकृतं खलु न्यायशास्त्रम् । वस्तुतस्तु लोकस्यैव एतच्छास्त्रलक्ष्यत्वात् दृष्टान्तव्यवहारस्य सर्वत्र दर्शनात् लोकव्यवहारेऽपि दृष्टान्तप्रयोगदर्शनात् ऐहिकामुष्मिकपरौ उत्तानगंभीरप्रज्ञपरौ वा लौकिकपरीक्षकशब्दौ ॥

  37. In the print edition there is a footnote reference, but no corresponding note.

  38. संस्थितिः—अविचाल्यनिर्णयो वा ॥

  39. तन्त्राभ्युपगमः—शास्त्राश्रितः निर्णयः इत्यर्थो वा ॥

  40. संस्थितिपदं सामान्यलक्षणानुगमसूचकम् ॥

  41. अयमंशः सर्वापलपिनां माध्यामिकानामपि समानः ॥

  42. तत्तन्त्रदृष्टा इतराण्यप्रामाणिकानि खलु । अतश्च तस्य तन्त्रत्वमेव कथम् ?

  43. वस्तुतस्तु—सर्वेषामहि शास्त्राणां व्यवस्थितविषयत्वात्, तत्तन्मर्यादानतिक्रमेण तेषां प्रमाणसिद्धत्वमस्त्येव । सांख्यतन्त्रं हि तत्त्वक्षेत्रनियतम् । न्यायतन्त्रं च स्थूलजगद्विषयकम् ॥

  44. साध्यं तु साध्यत्वादेव न विकल्पितुमर्हति ॥

  45. अर्थान्तररूपनिग्रहस्थान प्राप्त्येति शेषः ॥

  46. परस्परविरुद्धौ खलु तावुभौ ॥

  47. अपरीक्षितमभ्युपगम्य इति सूत्रितव्यं स्यात्तदेत्यर्थः ॥

  48. तथा च परपक्षाभ्युपगमोऽपि स्वप्रौढिमसूचकः आवश्यक इति प्रयोजकत्वमस्तु पच्चम्यर्थः ॥

  49. अतश्च परार्थानुमानं शब्द एवान्तर्भूतम् ॥

  50. तथा च मानसपरामर्शजनकत्वात्तद्वाक्यसमुदायत्य न तस्य शब्दरूपत्वम्, किन्त्वनुमानरूपत्वम् ॥

  51. वर्णानां वृक्षाणामिव मेलनासंभवहेतवः—निसर्गेत्यादयः ॥

  52. वर्णसमुदायस्यैव पदत्वेऽपि एकाक्षराणां कः इत्यादीनां यथा पदत्वम्, तथैव संसर्गविशिष्टार्थबोधकत्वे एकस्य पदस्यपि वाक्यत्वमविरूद्धम् ॥

  53. केचित्—बौद्धाः । अन्ये—भिमांसकाः ॥

  54. न हि यत्र कुत्रचित् वह्निः साध्यः । किन्तु अधिकरणविशेषे ॥

  55. तथा च वह्निमान् इत्यस्यापि प्रतिज्ञात्वं स्यात् ॥

  56. तथा च पर्वतः इत्यस्यापि प्रतिज्ञात्वं स्यात् ॥

  57. किन्तु तथा विवक्षायां सत्यामेव ॥

  58. पक्षमन्तरा कथ्यमानस्य तस्य साध्यत्वाभावात् ॥

  59. प्रतिज्ञावाक्येनैव पक्षे साध्यसिद्धेः, उपरितनवाक्यानां वैयर्थ्यम् । अयं बौद्धानामाक्षेपः ॥

  60. स्वस्य दर्शनमन्यत्, परव्युत्पादनं चान्यत् इत्यर्थः ॥

  61. तथा च पर्वतो वह्निमान् इति वाक्येनैव पर्वते वह्निज्ञानसंभवेऽपि व्याप्तिव्युत्पादनार्थं इतरावयवानां प्रयोगः ॥

  62. सिद्धसाध्यतेति विशेष्यामिप्रायेण स्त्रीलिङ्गनिर्देशः ॥

  63. परं त्वस्यापि तादृशपक्षकत्वात् हेतुदोषत्वभेव । अयमर्थः एकज्ञानविषयकत्वरूपसंबन्धकल्पनायां विश्रान्तः ॥

  64. पृथिव्यप्तेजोवायुपरमाणवः चतुर्विधाः ॥

  65. अर्थः—धूमादिः । लिङ्गमेवानुभितिकरणमिति प्राचीनाः ॥

  66. एतेन केवलान्वयिनोऽपि क्रोडीकरणम् ॥

  67. प्रातिस्विकव्यक्तिषु व्यप्तिग्रहासंभवात् ॥

  68. साधकस्यैव हेतुत्वात्, असाधको हेत्वाभास इति स्पष्टम् ॥

  69. साधर्म्यस्य हेतुत्वे, तस्य वस्तुत्वेन, अवयववाक्यार्थत्वं न स्यात् ॥

  70. अर्थः खलु साधनम्, न वचनम् ॥

  71. असिद्धस्य हेतोरिवेत्यन्वयः ॥

  72. घटः नित्यः घटत्वात्, यन्नैवं तन्नैवम्, यथा पट इत्यपि प्रयोक्तुं शक्यत्वात् ॥

  73. इदमेव देहाद्यनाश्रितत्वे सति कार्यत्वात् इति नवीनभाषयोच्यते । परिशेषानुमानानां सर्वेषामपीयमेव रीतिः ॥

  74. न्यायावयवनिरूपणपरं हि प्रकरणम् ॥

  75. हेतुत्वं—अनुमानविधया ॥

  76. धूमो हि सपक्षैकदेशे वह्निमत्ययोगोलके नास्ति ॥

  77. स्वातन्त्र्यं—नियमाभाव एव ॥

  78. पूर्वं समयकरणवेलायामेव तथैवकरणेतु अयमपि न दोषः ॥
  79. हेतोः पक्षवृत्तित्वोपसंहार इत्यर्थः ॥

  80. साध्यविशिष्टपक्षस्य साध्यत्वात् पक्षः साध्यः ॥
  81. संबन्धत्वसामान्येनाधारत्वमर्थः, न त्वाधारत्वेनेत्यर्थः ॥

  82. तस्य इति षष्ठीमुक्त्वा धर्माय इति कथनादेवं गम्यत इत्यर्थः ॥

  83. साम्यापादनं—सपक्षवदेवायं पक्षोऽपि इति प्रदर्शनम् ॥

  84. डिण्डिकाः—क्षपणकाः । तेषां रागः—स्वरविशेषः—एवमपि, तथापि इत्यनिर्णयप्रदर्शकः । नर्मोक्तिरियम् ॥

  85. यथोक्तं—उदाहरणोपनयरूपम् ॥

  86. अतः—एषु पञ्चावयशेषु ॥

  87. तथा च हेतुवचनमपि विफलभेवेति भावः ॥

  88. विपरीतप्रसङ्गः—बाधापादनम् ॥

  89. विशेषस्य—पक्षमात्रवृत्तेः ॥

  90. —सूत्रवृत्तिकारः, भाव्यकार इति यावत् ॥