485

एतदुक्तं भवति—सान्तरत्वादवयविद्रव्याणां तदविनाशेनाग्नेर्येऽनुप्रवेशः
सोऽप्रतिघात इति । प्रवेशेऽविघातमुक्त्वा निःसरणेऽप्यविघातमाह—
अन्तर्व्यवस्थितस्य वा द्रव्यस्य मधूदकादेः बहिरवस्थितहस्तादिप्राप्तिः । तस्य
कीदृशस्य बहिरित्यत आह—अव्यूह्यमाना अवयवा यस्य द्रव्यस्य कलसादेः तस्य
बहिरिति ॥ ४७ ॥


नेतरेतरधर्मप्रसङ्गात् ॥ ३ । १ । ४८ ॥


आदर्शोदकयोः प्रसादस्वाभाव्याद्रूपोपलब्धिवत् तदुपलब्धिः ॥
३ । १ । ४९ ॥


द्रव्यान्तरासंपृक्तद्रव्यसमवायः स्वच्छतेत्यर्थः । प्रसङ्गात् प्रतिबिम्ब
भ्रमोत्पादक्रममाह—आदर्शादिष्विति । यदभिमुखमग्रमिति । द्रष्टुः पुरुषस्याभि
मुखं नयनरश्मेः परावृत्तस्याग्रं तदभिमुखं मुखादि पश्यति । सारूप्यनिबन्धनत्वाद्
विभ्रमाणां सारूप्यमिहाप्याह—यथाग्रतोऽवस्थितस्य पुरुषस्य मुखं
लोचनरोचिरग्रसंबद्धमभिमुखम् एवमेतदपीति । नन्वादर्शे प्रतिहतश्चेत् नयनरश्मिः
परावृत्तः कथं पश्चादभिमुखमुखविभ्रमहेतुः ? हन्त भोः पातमात्रादादर्शज्ञानेन
भवितव्यम् पश्चात् प्रतिबिम्बविभ्रमेण, न चैवमस्ति यौगपद्यप्रतिभासादित्यत
आह—आदर्शेति । कुतस्तर्हि मणिकृपाणदर्पणतलेषु नानानिर्भासः प्रतिबिम्बावभास
इत्यत आह—आदर्शरूपानुग्रहात् त्विति ॥ ४९ ॥


॥ इन्द्रियभौतिकत्वप्रकरणम् ॥

इन्द्रियनानात्वप्रकरणम्


दृष्टानुमितानां हि नियोगप्रतिषेधानुपपत्तिः ॥ ३ । १ । ५० ॥