453 समुदायं च समुदाय्यव्यतिरिक्तं1822 मन्यमानस्य1823 परस्योदाहरणं द्रष्टव्यम् ।


तदेतद् वार्त्तिककार आक्षेप्तुं पृच्छति—किं पुनरस्येति । उत्तरम्—किं
शरीरेति ।
आक्षिपति—नेति । समानधर्मणो धर्मिणो दर्शनात् संशयो न पुनरदर्शनादि
त्यर्थः । समाधत्ते—नेच्छादिसूत्रेति । इच्छादयो हि कार्यत्वात् लिङ्गमात्मन इति
दर्शितम् । तान्येव तु लिङ्गानि दर्शयिष्यन्त्येषितारं परीक्षिष्यन्ते1824 । किं देहेन्द्रियव्यतिरिक्त
एषितैभ्यः सिध्यति, आहोस्विदभिन्न इति युक्तो विचारः ।


अपि चायमात्मशब्दाभिधेयो धर्मी सर्वतन्त्रसिद्धः केवलमस्य शरीरेन्द्रियादि
भेदाभेदे1825 वादिनां विवाद इत्याह—अविप्रतिपत्तेश्चेति । ननु चात्मासत्त्वे परैः
प्रमाणान्यजातत्वादीन्युपन्यस्तानि, तत्र कथं न तत्सत्त्वे विप्रतिपत्तिरित्यत
आह—असत्त्वप्रतिपादकप्रमाणासंभवाच्चेति । वाद्येवासौ न भवति यो धर्मिणि
विप्रतिपद्यते । न हि धर्मिणि विप्रतिपद्यमानस्यास्ति किञ्चित् प्रमाणं सर्वस्य
तस्याश्रयासिद्धेरप्रमाणत्वात् । अभावस्य च भावाधीननिरूपणस्यात्यन्तासद्भावा
निरूपणेनानिरूपणात् । तस्माद् धर्म्यभाववादी न लौकिको नापि परीक्षक
इत्युन्मत्तवदुपेक्षणीय इति भावः ।


1826धर्म्यसिद्धिवादीनां प्रमाणमुपन्यस्यति—न नास्तीति । निराकरोति—नास्त्या
त्मेति ।
यत् पुनरपरे समादधुः


अनादिवासनोद्भूतविकल्पपरिनिष्ठितः ।

शब्दार्थस्त्रिविधो धर्मी भावाभावोभयाश्रयः ॥

भावाश्रयो यथा नीलमिति । अभावाश्रयो यथा शशविषाणमिति । उभयाश्रयो
यथा अमूर्तमिति । अमूर्तं हि भवति विज्ञानं भवति च शशविषाणम् ।

तस्मिन् बाह्यानुपादाने साध्येऽस्यानुपलम्भनम् ।

तथा हेतुर्न तस्यैवाभावः शब्दप्रयोगतः ॥

  1. °य्यनति°C

  2. मन्वानस्यC

  3. दर्शयन्त्येषितारं परीक्ष्यन्तेC

  4. शरीरेण
    सह भेदा°
    C

  5. धर्म्यसत्त्ववा°J