460 भाष्यम्—भिन्ननिमित्ताविति । भिन्नमिन्द्रियं निमित्तं ययोः । अनन्यकर्तृकौ
आत्मैककर्तृकौ समानविषयौ द्रव्यमेकं विषय इत्यर्थः ॥ १ ॥


न विषयव्यवस्थानात् ॥ ३ । १ । २ ॥


पूर्वपक्षसूत्रम्—न वि…नात् ॥ यद्भावाभावानुविधायिनौ ज्ञानभावाभावौ
तच्चेतनम् । इन्द्रियभावाभावानुविधायिनौ च ताविति तदेव चेतनमिति भावः ।


सिद्धान्तभाष्यम्—संदिग्धत्वादहेतुः । अनन्यथासिद्धावन्वयव्यतिरेकौ
कारणत्वमात्रे प्रमाणम्, न तु कर्ता न चेतनश्चेतनं वा करणमित्यत्रेत्यर्थः ॥ २ ॥


तद्व्यवस्थानादेवात्मसद्भावादप्रतिषेधः ॥ ३ । १ । ३ ॥


विषयव्यवस्थानं च विरुद्धमिन्द्रियादीनामचैतन्यस्य साधनादित्याह—
यच्चोक्तमिति । तद्व्य…धः ॥ सर्वज्ञ इत्यस्य विवरणं सर्वविषयग्राही
सर्वेषामिन्द्रियाणां प्रमाणान्तराणां च ये विषयास्तद्ग्राही । इन्द्रियान्तराणि प्रमाणा
न्तराणि च पुनर्व्यवस्थितविषयाणि तेनार्वाग्दृगपि सर्वज्ञ इति सिद्धम् ।
तत्रेदमभिज्ञानमिति । असाधारणं चिह्नमभिज्ञानमुच्यते । तच्चाप्रत्याख्येयमनुभव
सिद्धत्वात् । चेतनवृत्तमभिज्ञानमप्रत्याख्येयमुदाह्रियत इति योजना । अनियतपर्यायम्
अनियतक्रममित्यर्थः । अनेकविषयमर्थजातमिति । अनेकः पदार्थो विषयो
यस्यार्थजातस्य तत् तथोक्तम् । क्वचित् पाठोऽनेकविधमर्थजातमिति । स सुगम एव ।
आकृतिमात्रं त्विति सामान्यमात्रमित्यर्थः ।


1845चैतन्यं त्वात्मनः स्वातन्त्र्ये सत्यव्यवस्थानाच्चक्षुरादिवदिति1846,

  1. स्वं चैतन्यंC

  2. °दिति हेतुः ।C