639 जल्पवितण्डाभ्यां तत्त्वकथनं करोति विद्यापरिपालनाय । मा भूदीश्वराणां मतिविभ्रमेण
तच्चरितमनुवर्तिनीनां प्रजानां धर्मविप्लव इति । इदमपि प्रयोजनं जल्पवितण्डयोः,
न तु लाभख्यात्यादि दृष्टम् । न हि परहितप्रवृत्तः परमकारुणिको मुनिर्दृष्टार्थं
2329परवञ्चनोपायमुपदिशतीति ।


शङ्कावार्त्तिकम्2330—व्यापकत्वादन्तःकरणस्येति । अस्य वक्षमाणोऽभि
सन्धिः । निराकरोति—नोक्तोत्तरत्वात् । सांख्यं दूषयद्भिरित्यर्थः । शङ्किता
स्वाभिसन्धिमुद्धाटयति—स्वाङ्गगतीक्षणेति । यावद्धस्तावच्छिन्ने आत्मप्रदेशे प्रयत्नो
न जायते, न तावत् तत्र कर्म । न च तत्रात्ममनःसन्निकर्षं2331 विना प्रयत्नः । न च मनस
इन्द्रियसंयोगं विनेक्षणम् । न चाणुना मनसा इन्द्रियेण हस्तेन चापर्यायेण संबन्धः ।
तस्माद् व्यापकं मन इति शङ्कार्थः । निराकरोति—न शरीरात्ममनःसंयोगयौगपद्यात्
प्रयत्नदर्शनयोर्युगपदुत्पत्तेः ।
तत्रात्मशरीरसंबन्धात् स्वाङ्गगतिरिति । पाणिचालनेच्छा
पेक्षेणात्ममनःसंयोगेन पाणिं चालयामीत्येवमाकारः प्रयत्नो 2332जन्यते । तत्प्रयत्न
वदात्ममनःसंयोगात् पाणौ क्रिया जायते । यद्यप्यात्मनः सर्वाङ्गे संयोगो न विशिष्यते
तथापीच्छाविशेषादुत्पन्नः प्रयत्नविशेषः पाणावेव कर्म करोति, नान्यत्र । प्रयत्ना
न्तरवदात्ममनःसंयोगाच्चक्षुषः प्रेरणम् । यद्यपि चानयोः प्रयत्नयोर्न युगपदुत्पादः,
तथापि तदत्यन्तसौक्ष्मात् 2333क्षणभेदो न लक्ष्यते । नन्वेकस्मिन्नात्मप्रदेशे वर्तमानः
संयोगो वा प्रयत्नो वा कथं प्रदेशान्तरेऽसंयोगिन्यप्रयत्नवति कार्यमारभते इत्यत
आह—न चात्मनः प्रदेशाः सन्तीति । परिशिष्टं तु वार्त्तिकं भाष्यव्याख्यया
व्याख्यातम् ॥ ५१ ॥


॥ इति तत्त्वज्ञानपरिपालनप्रकरणम् ॥

॥ इति श्रीवाचस्पतिमिश्रविरचितायां न्यायवार्त्तिकतात्पर्यटीकायां
चतुर्थाध्याये द्वितीयाह्निकम् ॥

॥ चतुर्थोऽध्यायः समाप्तः ॥

  1. परपांशुलोपाय° C

  2. ५. २. ३७ संबद्धमिदमिति ज्ञेयम् ।

  3. सन्निकर्षम्
    इत्यस्मात् न शरीरात्ममनः इत्यन्तम् पतितम्
    J

  4. जायते, तत्र C

  5. कालभेदः C