640
निवारितानेकनिबन्धमेघ-

पंक्तिः स्फुरन्निर्मलदिग्विशेषा ।

टीकेयमुद्द्योतकरप्रसङ्गम्

आतन्वती भाति शरद्द्वितीया ॥

परिहृतदूषणकण्टकमपहतकुनिबन्धपङ्कसम्पर्कम् ।

उद्द्योतकरगवीनां मार्गं द्योतयति टीकेयम् ॥

टीकामिमां वादमृणालदण्डां

जल्पोर्मिमालां सरसीमवाप्य ।

अद्यायमुद्द्योतकरः समर्थो

विकासितुं सूरिमनोऽम्बुजानि2334

  1. श्लोकत्रयमिदं जयसलमीरपुस्तके समुपलब्धम् ।