594 उदनेमि यथा भवति तथा भूमिं लभत इति योजना ॥ ५७ ॥


दुःखविकल्पे सुखाभिमानाच्च ॥ ४ । १ । ५८ ॥


नन्वयं यद्यप्यन्तराले सुखान्यनुभवति, तथापि तत्तद्दुःखसंभेदमाकलयन्
अनुपदिष्टोऽपि स्वयमेव 2198निर्वेत्स्यते कृतमस्य दुःखभावनोपदेशेनेत्यत आह—
दुःखवि…भिमानाच्च ॥ शास्त्रशिष्टानां विवेकिनां खलु विविधबाधनानुषङ्गाद्
अनवयवेन सुखमात्रं दुःखमेवेति विनिश्चयः । अक्षिपत्रकल्पा हि ते । तद्
यथेषीकतूलसंपर्कादप्यक्षिपत्रं2199 दूयते, न तु गात्रावयवान्तराणि, तथा मृदुचित्ततया
विवेकिनो दूयन्ते । अविवेकिनस्तु प्रणयकलहकुपितकुरङ्गशावलोचनाङ्गनालक्त
करसार्द्रपादपल्लवपातमपि शिरसि रहसि सुखमभिमन्यमाना घनपुलककञ्चुका
ञ्चिततनवः सान्द्रानन्दाश्रुप्लवननयना निवृण्वन्तीति तान् प्रत्ययमुपदेशोऽर्थवा
नित्यर्थः । जायस्व म्रियस्य चेति संधावतीति । पुनः पुनर्जायते पुनः पुनर्म्रियते,
जनित्वा म्रियते, मृत्वा जायते । तदिदं संधावनव्यापारप्रचय इत्यर्थः ।


चोदयति—यद्येवं कस्माद् दुःखं जन्मेति नोच्यत इति । यदि दुःखभावनो
पदेशो जन्मनि, एवं सत्येवकारः किमर्थ इत्यर्थः । परिहरति—जन्मविनिग्रहार्थीय
इति । जन्मविनिग्रहो जन्मनिवृत्तिः स एवार्थः । तत्र प्रवर्तत इति जन्मविनिग्रहा
र्थीयः । यथा च मत्वर्थीय इति । एतदुक्तं भवति जन्म दुःखमेवेति भावयितव्यम् । नात्र
मनागपि सुखबुद्धिः कर्तव्या । 2200अनेकानर्थपरम्परापातेनापवर्गप्रत्यूहप्रसङ्गादिति ॥ ५८ ॥


॥ दुःखपरीक्षाप्रकरणम् ॥

  1. निवर्त्स्यति° C

  2. °पात्रं J

  3. परम्परायामप° C