596 शक्तस्य चाधिकारात् । कस्मादर्थिन इत्यत आह—कर्मविधौ अग्निहोत्रं जुहुयात्
स्वर्गकाम इत्यादौ कामसंप्रयोगश्रुतेः । न च बालकः सुखदुःखाप्तिपरिहारकामोऽपि
विवेकेन स्वर्गपुत्रपश्वन्नादि कामयत इति । शक्तस्य च प्रवृत्तीति । न ह्यशक
नीयमर्थमशक्तं प्रति वेद आप्तोपदेशरूपो विधातुमर्हति । न च बालकः शक्तोऽ
विद्वत्त्वादिना । अत+एव तिर्यग्देवर्षिपङ्गुशूद्रत्र्यार्षेयाणामनधिकारः सामर्थ्याभावात् । न
केवलं वैदिकोऽयमीदृशो व्यवहारोऽपि तु लौकिकोऽपीत्याह—न भिद्यते च
लौकिकात् ।
तद् व्याचष्टे—लौकिकस्तावदिति । उपपन्नानवद्यवादीति । उपपन्नं
प्रमाणेन अनवद्यं पुनरुक्तदोषेण अनपेक्षितमुपदेष्टव्यस्य यन्न भवति तदित्यर्थः ।
न्यायप्राप्तमिममर्थं लिङ्गदर्शनमुपोद्बलयतीत्याह—गार्हस्थ्यलिङ्गं च मन्त्रब्राह्मणं
कर्माभिवदतीति ।
गार्हस्थ्यस्य लिङ्गं पत्नी यस्मिन् कर्मणि तत् तथोक्तम् ।
पत्न्यवेक्षितमाज्यं भवति
पत्न्य उद्गायन्ति
क्षौमे वसानावग्नी आदधीयाताम्
इत्येवमादि ।


तदनेन गार्हस्थ्यात् पूर्वावस्था तावदृणानुबद्ध न भवतीत्युक्तम् । संप्रत्युत्त
रावस्थापि न ऋणानुबद्धेत्याह—यदा चार्थिनोऽधिकारस्तदा अर्थित्वस्याविपरिणामे
जरामर्यवादोपपत्तिः ।
तेन यदुक्तमृणापाकरणेन वयःपर्यवसानान्नास्ति 2202मोक्षे
निवेशस्यावसर इति अपाकृतं भवतीति । अविपरिणामपदार्थव्याख्यानं न निवर्तत
इति । तुरीयस्येत्यस्य व्याख्यानं चतुर्थस्येति । प्रायेण पञ्चसप्ततौ वत्सरेष्वतिवाहितेषु
विषयतृष्णा तनूभवति । अत्यन्तसंयोगे तु जरया ह वा एष इत्यनर्थकम् । मृत्युना
वेत्यनेनैव सिद्धेरिति शेषः । यद्युच्यते अशक्ततोपलक्षणपरमेतत् जरया ह वा मृत्युना
वेति । तेन कस्यानर्थक्यमित्यत आह—अशक्तो हि विमुच्यत इत्येतदपि नोप
पद्यते
इति ।


  1. मोक्षावसरस्तदपाकृतं भवति C