साध्यदृष्टान्तधर्मविकल्पप्रभवोत्कर्षसमादिजातिषट्कप्रकरणम्


साध्यदृष्टान्तयोर्धर्मविकल्पादुभयसाध्यत्वाच्चोत्कर्षापकर्ष
वर्ण्यावर्ण्यविकल्पसाध्यसमाः ॥ ५ । १ । ४ ॥


उभयसाध्यत्वाच्च साध्यसमः । पञ्चानां जातीनां साध्यदृष्टान्तयोर्धर्मविकल्पात्
645 इत्यनेन पञ्चैव लक्षणानि सूचितानि । तानि च जातिसमाख्याभिर्मिथो विशिष्यन्ते ।
अनित्यः शब्दः कृतकत्वाद् घटवदिति प्रयुक्ते यदैवं प्रतिवादी प्रसङ्गेन प्रत्यव
तिष्ठते—यदि घटसाधर्म्यात् कृतकत्वादनित्य शब्दः, हन्तास्मादेव 2342घटसाधर्म्यात्
कृतकत्वाद् रूपादिमतापि शब्देन भवितव्यम् । न चेद् रूपादिमान्, मा भूत्तथा
अनित्योऽपि । न चास्ति विशेषहेतुः । कृतकत्वादनित्येन भवितव्यम् । न पुना
रूपादिमतेति । सोऽयं साध्यदृष्टान्तयोर्धर्मविकल्पाद् वैचित्र्याद् यत्रोत्कर्षं प्रसञ्जयति
स उत्कर्षसमः प्रतिषेधः ।


एवं तदेव साध्यदृष्टान्तयोर्धर्मवैचित्र्यमपकर्षेण विशिष्यमाणमपकर्षसमस्य
लक्षणम् ।


साध्यदृष्टान्तयोर्धर्मवैचित्र्यात् स्वरूपेण साध्यासाधनत्वप्रसङ्गजनने वर्ण्या
वर्ण्यसमौ ।


साध्यदृष्टान्तधर्मविकल्पहेतुकवर्ण्यत्वनिबन्धनं तु हेत्वाद्यवयवयोगित्वप्रसञ्जनं
साध्यसमः । अत+एवोभयसाध्यत्वादिति साध्यत्वं हेतुमाह साध्यसमस्य सूत्र
कारः । भाष्यकारो
ऽपि हेत्वाद्यवयवसामर्थयोगीति ब्रुवाणस्तत्प्रसञ्जनं साध्यसमं
मन्यते । तदेतद् वार्त्तिककृद् आह—घटो वानित्य इत्यत्र को हेतुरिति ? न च यदि
समाख्याभेदेन विशिष्यमाणं लक्षणपदं भिन्नार्थं तर्हि समाख्यापदान्येव लक्षणानि
सन्तु, कृतं लक्षणपदेनेति वाच्यम्, लक्षणपदसहितानामेव तेषां लक्ष्यभेदप्रति
पादकत्वादिति ॥ ४ ॥


किञ्चित्साधम्यादुपसंहारसिद्धेर्वैधर्म्यादप्रतिषेधः ॥ ५ । १ । ५ ॥


आसां षण्णां जातीनां प्रत्याख्यानम्—किञ्चि…षेधः ॥ यस्य धर्मिणः
साध्यधर्मेण स्वाभाविकसंबन्धयुक्तः2343 साधको धर्म उपपद्यते उपपन्नो भवति
646 धर्मस्तस्य साध्यधर्मस्य साधनं 2344तत्र साध्यधर्मिण्युपसंह्नियते । तथाच शब्देनेति ।
उपनयपदेनेत्यर्थः । यत् पुनरेतद्विभागजाविभागजविकल्पवन्नित्यानित्यविकल्प
इति,
तत्राह—यथोत्पत्तिधर्मकत्वमन्वयव्यतिरेकि नैवं विभागजत्वम् । अयमर्थः
विकल्पसममुत्तरं वदता हि यथा सत्युत्पत्तिमत्त्वे घटो न विभागजः, शब्दस्तु
विभागज इति व्यवस्थितो विकल्पः, एवं तस्मिन्2345 उत्पत्तिमत्त्वे सत्यपि
विभागजवच्छब्दो नित्यो भविष्यति घटस्त्वनित्य इत्युक्तम् । अत्र तावदुत्पत्तिधर्मकत्वं
यथा सत्यनित्यत्वे घटादौ दृष्टम्, आकाशादिषु चासत्यनित्यत्वे न दृष्टम्, तेनानित्यत्वेन
स्वभावप्रतिबद्धमवधारितम्, नैवमुत्पत्तिधर्मकत्वस्य विभागजत्वेनाविभागजत्वेन
वा स्वाभाविकः संबन्धो गृहीतो येनोत्पत्तिमत्किञ्चिद्विभागजं किञ्चिदविभागजं न
भवेत् । तस्माद् विकल्पसमं जात्युत्तरं वदता ह्यतिनिर्बन्धेन विभागजत्वेन शब्दस्य
नित्यत्वं वक्तव्यम् । तत्रेदमुपतिष्ठते—यथोत्पत्तिधर्मकत्वमन्वयव्यतिरेकि
अनित्यत्वं प्रति नैवं विभागजत्वं शब्दनित्यत्वं प्रत्यन्वयव्यतिरेकि, किं तर्ह्य
साधारणमित्यर्थः2346 । असाधारण्यमाह—न हि किञ्चित् शब्दादन्यद् विभागाज्जाय
मानं नित्यमनित्यं वा दृष्टम् ।
ननु विभागजो विभागोऽनित्यो दृष्ट इत्यत आह—
यथोक्तविशेषणमिति कारणमात्रविभागपूर्वकः शब्दो विभागजस्तु विभागः
कारणाकारणविभागपूर्वक इति सिद्धं कारणमात्रविभागपूर्वकत्वमसाधारण्य
मित्यर्थः ॥ ५ ॥


साध्यातिदेशाच्च दृष्टान्तोपपत्तेः ॥ ५ । १ । ६ ॥


षण्णां जातीनां प्रत्याख्यानमुक्त्वा वर्ण्यावर्ण्यसाध्यसमानामपरं
प्रत्याख्यानमाह—साध्य…पत्तेः । इति, तद् व्याचष्टे—दृष्टान्तः साध्य इति ब्रुवतेति ।
चतुर्दशविधजातिवादिनामिह दूषणमुपन्यस्यति—यत् त्वत्रोक्तं जातीनां
पौनरुक्त्यमिति ।
लक्षणभेदाभेदाभ्यां किल लक्ष्यभेदाभेदौ लक्षणं चेदमेकमिति न2347
647 षड्जातयः । तस्माद् विकल्पसमायामेवोत्कर्षसमादीनामन्तर्भाव इत्यर्थः । दूषयति—
पौनरुक्त्यम् ।
तत्तल्लक्ष्यपदसहितानि पञ्च लक्षणानि उभयसाध्यत्वाच्चेत्यनेन सह
षडिति । न केवलं लक्ष्यभेदात्, प्रयोगभेददर्शनाच्च । शङ्कते—यदि तत्तल्लक्ष्यभेदाज्
जातिभेदः, तत आनन्त्यमिति चेत् ? निराकरोति—न, अनवधारणादिति ।
लक्ष्याणामवधारणमस्त्येषामानन्त्यात्2348 । लक्षणोपग्रहेण चतुर्विंशातिर्जातय इत्यर्थः ।
लक्ष्याणां लक्षणाभेदेऽपि भेदे निदर्शनमाह—तथा हि प्रकरणसमैकेति । सुगम
मितरत् ॥ ६ ॥


॥ इति जातिषट्कप्रकरणम् ॥

  1. °साधर्म्याद्रूपा°C

  2. °संबन्धः साधको धर्मC

  3. तत्रJ

  4. एवं सतिC

  5. °रेकीति । तद्ध्यसा°C

  6. OmJ

  7. °मस्त्वेषामानन्त्यम्J