644 साधर्म्यसमः, वैधर्म्योक्ते वैधर्म्यसमः । एवं साधर्म्योक्ते हेतौ वैधर्म्यसमः । एवं
वैधर्म्योक्ते हेतौ साधर्म्यसम इति ॥ २ ॥


गोत्वाद् गोसिद्धिवत्तत्सिद्धिः ॥ ५ । १ । ३ ॥


कथं पुनरियं जातिः ? अथ प्रकरणसमोद्भावनं सम्यगुत्तरमेव कस्मात् न
भवतीत्यत आह—अनयोः साधर्म्यवैधर्म्यसमयोः उत्तरम्—गोत्वाद्…सिद्धिः ॥
भवेदेतदेवं यद्यन्वयव्यतिरेकमात्राद्धेतोर्गमकत्वं स्यात्, ततो विशेषग्रहणाभावात्
प्रकरणसमत्वं भवेत् । न त्वेवं भवति, स्वाभाविकसंबन्धभाजो गमकत्वात् ।
स्वभावसंबद्धं च कृतकत्वमनित्यत्वेन, न त्वमूर्तस्य नित्यत्वेन स्वाभाविकः
संबन्धः, बुद्धिकर्मादौ व्यभिचारात् । तस्माद् गृह्यमाणविशेषत्वान्न प्रकरणसमः ।
यथा गोत्वाद् गौः सिध्यति स्वाभाविकप्रतिबन्धात्, न तु सास्नादिसंबन्धादिति
भाष्यम् ।
सास्नादीत्यतद्गुणसंविज्ञानो बहुव्रीहिः । तेन व्यभिचारिणः शृङ्गादयो
गृह्यन्ते ।


वार्त्तिकम्—एकस्यानन्वयादेकस्याव्यावृत्तेः । एकस्य सत्त्वस्य
गवाऽनन्वयाद् अश्वादौ चाव्यभिचारादनन्वयः । एकस्य चैकशफत्वादेर्वैधर्म्यस्य
गोष्वेवाव्यावृत्तेर्महिष्यादावपि व्यावृत्तेरित्यर्थः ॥ ३ ॥


॥ इति सत्प्रतिपक्षदेशनाभासप्रकरणम् ॥

साध्यदृष्टान्तधर्मविकल्पप्रभवोत्कर्षसमादिजातिषट्कप्रकरणम्


साध्यदृष्टान्तयोर्धर्मविकल्पादुभयसाध्यत्वाच्चोत्कर्षापकर्ष
वर्ण्यावर्ण्यविकल्पसाध्यसमाः ॥ ५ । १ । ४ ॥


उभयसाध्यत्वाच्च साध्यसमः । पञ्चानां जातीनां साध्यदृष्टान्तयोर्धर्मविकल्पात्