270

प्रथमाध्याये द्वितीयाह्निकम्


कथालक्षणप्रकरणम्


प्रमाणतर्कसाधनोपालम्भः सिद्धाताविरुद्धः पञ्चवयवोपपन्नः
पक्षप्रतिपक्षपरिग्रहो वादः ॥ १ । २ । १ ॥


नितान्तदक्षिणश्लक्ष्णधियो गृह्णन्त्वमत्सराः ।

वाचस्पतिगिरामर्थतत्त्वानि विबुधा इव ॥

उद्देशक्रमप्राप्तं 1254वादलक्षणपरं सूत्रमवतारयितुं भाष्यम्-तिस्रः कथा भवन्तीति ।
तदयुक्तम्, बृहत्कथादीनां तिसृषु कथासु अनन्तर्भावात् । न च
सामान्यलक्षणाभिधानमन्तरेण विशेषलक्षणावसरोऽस्ति, वादादयश्च कथाविशेषा
इत्यत आह वार्त्तिककारः-तिस्रः कथा भवन्तीति । नायं कथामात्रनियमो येन
बृहत्कथादीनामकथात्वं स्यात्, अपि तु यन्नानाप्रवक्तृके विचारे वसति तद्
विचारवस्तु । विचारविषया1255 वाक्यसंदृब्धिः1256 कथेति यावत् । तस्याः कथाया1257 एष
नियमः तिस्र एवेति । तथा च नानाप्रवक्तृकविचारविषया वाक्यसंदृब्धिः कथेति
सामान्यलक्षणं पक्षप्रतिपक्षपरिग्रह इति सूत्रावयवेन सूचितमित्येतदप्यर्थादुक्तं
भवतीति द्रष्टव्यम् । यद् वस्तु विचार्यते इत्यर्थाभिधानमात्रम्, न तु विचारवस्त्वित्यस्य
विवरणम् । वादादिष्वधिकारिणः पुरुषानाह—तत्र गुर्वादिभिरिति । वादलक्षण
स्यानन्तर्ये हेतुमाह—तत्र यथोद्देशमिति ।


सूत्रमिति । सामान्यलक्षणमप्यनेन सूच्यत इत्युक्तं भवति । एकाधिकरण
स्थावित्यादि भाष्यं
प्रश्नपूर्वकं व्याचष्टे—काविति । वस्तुधर्माविति । विभजते
271 वस्तुधर्मावितीति । धर्मशब्दो विशेषे । तदनवसायाद् वस्तुनः सामान्यतोऽवसाय
उक्तो भवति । तदिदमाह—वस्तुनः सामान्येनेति । अविरुद्धावप्येवं न विचारं
प्रयोजयत इत्यर्थः । प्रमाणतर्कसाधनोपालम्भपदस्य तात्पर्यमाह—अस्येति । अनेन
तस्य विशेषणम् इत्यादि भाष्यं व्याख्यातम् । यद्यपि वितण्डायामपि पक्षप्रति
पक्षपरिग्रहोऽस्ति, तथापि प्रतिपक्षसाधनं नास्ति तस्याः 1258स्थापनाहीनत्वात् । यद्यपि
च जल्पेऽपि 1259पक्षप्रतिपक्षसाधनमस्ति, तथापि न प्रमाणमूलैरवयवैस्तर्केण च
साधनोपालम्भाविति जल्पवितण्डाभ्यां प्रमाणतर्कसाधनोपालम्भग्रहणेन
व्यवच्छेदः । यथा चैतत् तथोपरिष्टादुपपादयिष्यते ॥


आक्षिपति—कथं पुनस्तर्केणेति । समाधत्ते—न ब्रूम इति । तर्कस्येति
कर्तव्यतारूपस्य प्रमाणानुग्राहकतया प्रमाणमूला अवयवास्तर्कमूला अपि भवन्ति ।
तथा च तर्कस्यापि साधनोपालम्भहेतुभावः सिद्धो भवतीत्यर्थः । विकल्प्याक्षिपति—
साधनमुपालम्भश्चास्मिन्निति । परं प्रति हि सिद्ध्युपालब्धी विवक्षिते । न च ते
प्रमाणतर्काभ्याम्, तयोः स्वप्रतिपत्तिहेतुत्वात् । अवयवार्थस्य अवयवशब्दार्थस्ये
त्यर्थः । उभयथाभिमतत्वेऽपि करणसाधनपक्षं 1260कक्षीकृत्य तावत् समाधत्ते—न,
अन्यार्थत्वादिति ।
अन्यप्रयोजनत्वादित्यर्थः । यदा तु भावसाधनौ तदा पृच्छति—
अथैताविति । विप्रतिपन्नस्य प्रश्नः । न प्रतिपक्षविषय उपालम्भो नापि तत्साधन
विषयः, तयोर्वस्तुनोः स्वकारणादुत्पन्नयोः सदा तद्रूपत्वेन पुरुषधर्मोपालम्भाना
स्पदत्वादित्याक्षेपार्थः । समाधत्ते—एवमेतदिति । धर्मी धर्मविशिष्टः पक्षः प्रतिपक्षो
वा कर्म, तस्य विषयः । तस्य धर्मिणो वास्तवं तादृशत्वमतादृशत्वं वा, करणस्य तु
कर्मैव विषयः । तत्र च1261 कर्मकरणे समर्थे एव, नासमर्थे । अन्यविषये तु पुरुषस्ते
नियुञ्जानोऽसमर्थीकरोतीति । सोऽयं पुरुषस्यापराधो न कर्मकरणयोः । यथा आकाशे
निशातमसिं व्यापारयतः पुरुषस्यापराधो नाकाशस्य शब्दे समर्थस्य, असेर्वा
निशातस्य दारुणि समर्थस्य । तस्मादौपचारिकः साधनस्योपालम्भो न मुख्यः ।
272 मुख्यस्तु पुरुषस्यैव । वचनद्वारेण तूद्भाव्यते पुरुषस्येति । वचन उपचर्यते न तु पक्षे
पक्षद्वारेणानुद्भावनादिति सिद्धम् । यथायमर्थः सूत्रपदेभ्यो लभ्यते तथा प्रश्नपूर्वकं
दर्शयति—कथं पुनरिति ।


यदुक्तं प्रमाणतर्कसाधनोपालम्भग्रहणं वादस्य जल्पवितण्डाभ्यां विशेषणार्थ
मिति, तत्र प्रकारं पृच्छति—अथेति । प्रष्टैवाह—नन्विदमपीति । उत्तरम्—
समानमिति ।
नियममाह—प्रमाणतर्कसाधनोपालम्भ एव वादः । एवकारेण
छलादिसाधनोपालम्भत्वं वादस्य व्यवच्छिद्यते, तथा च जल्पवितण्डाभ्यां व्यव
च्छेदः । एतदुक्तं भवति, तर्कानुगृहीतप्रमाणमूला अवयवाः परमार्थतो भवन्तु मा
भूवन् वादिप्रतिवादिनोस्त्वभिप्रायो 1262भवतु प्रमाणमूला अवयवा इति । एतावतैव
प्रमाणतर्कसाधनोपालम्भता वादस्य, वीतरागकथात्वेन तत्त्वनिर्णयावसानत्वात् ।
जल्पवितण्डयोस्त्वप्रमाणमूलत्वं विदुषापि प्रतिवादिना छलादिभिः प्रत्यवस्थेयम् ।
एकान्तपराजयाद् वरं संशयोऽस्त्वितीच्छता विजिगीषुणा । यथा चास्य शास्रे
व्युत्पादनं नासदृशं यथा चैष सतामाचारः, तथा जल्पलक्षणे वक्ष्यामः1263


जल्पे निग्रहस्थानविनियोगाद् इत्यादि भाष्यम् । तदनुपपन्नम् उपा
लम्भग्रहणादेव वादेऽपि निग्रहस्थानस्य लब्धत्वादित्यत आह वार्त्तिककारः—
छलजातीति ।
असत्युपालम्भग्रहण इत्यभिप्रायः1264 । चोदयति—समस्तेति ।
यद्युपालम्भग्रहणस्य निग्रहस्थानविधानं प्रयोजनम्, हन्त भो न जल्पाद् वादस्य
विशेषः, कृतं चोत्तराम्यां पदाभ्यामित्यर्थः । परिहरति—नोत्तरयोरिति । नियमः
परिसंख्या । तदनेन कस्यचिदभ्यनुज्ञानार्थमिति भाष्यं व्याख्यातम् ।
सिद्धान्ताविरुद्ध इत्यत्र भाष्यव्याख्यानमुपन्यस्य दूषयति—सिद्धान्ताविरुद्ध
इत्यनेन किलेति । भाष्यमते
दूषिते पृष्ट्वा स्वमतेन व्याचष्टे—अथ किमिदं
पदमिति ।
पृच्छति—कस्मात् पुनरिति । उत्तरम्—गुर्वादिभिरिति । न खल्व
प्रतिभाद्युद्भावना तत्त्वप्रतिपत्तावुपयुज्यते, अधिकं तु न यद्यपि तत्त्वप्रतिपत्तिं साक्षाद्
273 व्याहन्ति, तथापि तत्प्रयोजनानुसरणे परः प्रतिपत्ता समाकुलितबुद्धिर्न तत्त्वं
प्रतिपत्तुमर्हतीत्यधिकस्यापि तत्वप्रतिपत्तिविघातहेतुत्वमिति । तत्त्वबुभुत्सुरिति
जिगीषुतां निराकरोति, न हि 1265गुर्वादिषु जिगीषासंभवः । त्रिविधं फलमिति ।
अनधिगततत्त्वावबोधः संशयनिवृत्तिरध्यवसिताभ्यनुज्ञानमिति फलानि त्रीणि ।
प्रतिद्वन्द्विनि तु न वादः, अपि तु जल्पवितण्डे । चोदयति—प्रमाणतर्केति । पारमा
र्थिकात् तर्कसहितात् प्रमाणादेकस्मिन् विषये साधनोपालम्भयोः संभवे
विरुद्धधर्मसमालिङ्गितमेकदा वस्तु प्रसज्यत इत्यर्थः । परिहरति—नैष दोष इति ।
वादेऽभिप्रायो नियम्यते वादिप्रतिवादिनोः प्रामाणिकधिया साधनोपालम्भौ ताभ्यां
प्रयोक्तव्यौ, नाप्रामाणिकधिया जल्पवितण्डयोरिव । न पुनर्वस्तु नियम्यत इति । तथा
च वादे 1266अबुद्धिपूर्वं छलादिप्रयोगे तदुद्भावनमपि संभवति, तावदेव चोद्भाव्यं
यावत्यनुद्भाविते तत्त्वप्रतिपत्तिव्याघातः, यस्मिंस्त्वनुद्भावितेऽपि न तत्त्वप्रति
पत्तेर्व्याघातः, 1267तत्प्रयुक्तमपि नोद्भावनीयम् । एतच्च पञ्चमेऽध्याये निपुण
तरमुपपादयिष्यते ।


साधनोक्तं प्रकारं दूषणेऽप्यतिदिशति—दूषणमप्येवम् । पूर्वस्मिन् प्रयोजने
स्थिते भाष्यकारः प्रयोजनान्तरमन्वाचिनोति—अवयवेष्विति । न हि पञ्चा
वयवोपपन्नत्वं1268 प्रमाणं च तदनुग्राहकं च तर्कमन्तरेण भवतीति पञ्चावयवोपपन्नत्वादेव
प्रमाणतर्कप्रतिलम्भे साधनोपालम्भयोर्व्यतिषङ्गज्ञापनायावश्यं साधनोपालम्भग्रहणं
तावत् कर्तव्यम्, अन्यथैकः 1269स्वस्थानस्थित एव शब्दस्यानित्यत्वं प्रति पञ्चावयवोपपन्नं
वाक्यं प्रयुङ्कते अपरोऽपि तादृशः शब्दनित्यतां प्रति तादृशमेव वाक्यं प्रयुङ्क्ते इति
सोऽपि वादः प्रसज्येत । साधनोपालम्भविशेषणाय च प्रमाणतर्कग्रहणं 1270कृतमिति
भावः । प्रयोजनान्तरमन्वाचिनोति—अन्तरेणापि चेति । वादः पञ्चावयवोपपन्न
इत्येकः कल्पः । प्रमाणतर्कसाधनोपालम्भ इति च द्वितीय इत्यर्थः । प्रयोजना
274 न्तरमन्वाचिनोति—छलजातीति । विनिग्रहो जल्पो मा विज्ञायि । वादगतनि
ग्रहस्थानरहितो1271 मा विज्ञायीत्यर्थः । तद्विज्ञाने कीऽदृशोऽर्थो भवतीत्यत आह—
छलजातिनिग्रहस्थानेति । वादगतो निग्रहो न जल्पे, जल्पगतश्च निग्रहो न वाद
इति स मा विज्ञायि । इष्यते हि वादगतोऽपि1272 निग्रहो जल्पे । सोऽयमिष्टोऽर्थो
ग्रन्थाधिक्यात् प्रमाणतर्कग्रहणात् लभ्यत इत्यर्थः ।


तदेवं स्वाभिमतं वादलक्षणं व्याख्याय 1273वासुबन्धवं लक्षणं दूषयितुमुपन्य
स्यति—अपरे त्विति । स्वपक्षस्य सिद्धिः परपक्षस्य चासिद्धिः, तदर्थं वचनं वाद
इत्यर्थः । दूषयति—अत्र चेति । प्रथमं हेतुं विभजते—एताविति । पूर्वः पक्षोऽ
युक्तः, पक्ष उत्तरस्तु युक्त इत्यर्थः । एकस्य वा शब्दस्य धर्मिणोऽनेकनित्यानित्य
विशेषणाभिसंबन्धिनः पुरुषाभिसन्धिभेदात् अनेकशब्दाभिधानम्, स्वपरशब्दाभिधा
नमित्यर्थः । एतदेव चिन्त्यते किं तत्स्वीकरणमिति न तावद् भूमिधनादिष्विव
स्वोचितास्वर्थक्रियासु यथेष्टविनियोगयोग्यत्वं स्वत्वमर्जनापादितमनित्यत्वादिना
प्रतिज्ञाते शब्दादौ संभवतीत्यर्थः । चोदयति—ममेति प्रत्योत्यपत्तिकारणत्वं स्वत्वम्,
अकारणत्वमस्वत्वमिति । दूषयति—निर्दिष्ट इति । यथेष्टविनियोगयोग्यत्वमेव ममेति
प्रत्ययकारणत्वम्1274 नान्यत् । न चैतन्नित्यत्वादिना प्रतिज्ञाते शब्देऽस्ति शास्रकारस्ये
त्यर्थः । अपि चोपकारकत्वेन व्याप्तं सत्वं गोघटादिषु तथा दर्शनात्, पक्षात्
निवर्तमानमुपकारकत्वं स्वत्वमपि स्वव्याप्यं निवर्तयति वृक्षत्वमिव शिंशपा
त्वमित्याह—यच्च यस्येति । द्वितीयं कल्पम् आशङ्कते—साधनीयेति । निराकरोति
अहो शब्दार्थेति । विशेष्यपदात् अनतिरिक्तार्थं विशेषणपदमित्यर्थः । अपि चेदं
विशेषणपदं 1275विशेष्यं सामान्यतः प्रसृतं विशेषेऽवस्थापयति न वा ? अवस्थापयतीति
चेत् ? न साधनीयमात्रार्थता 1276स्वपक्षशब्दस्य, न चेद् विशेषणं व्यर्थमित्याह—
व्यवच्छेदार्थं चेदमिति । ननु च विशेष्यशब्दो विशेषणयोगात् विशेषे वर्तमानोऽपि
275 सामान्यशब्द एव, ततश्च शक्नोति समानमर्थं वक्तुमिति चोदयति—सामान्यशब्दा
अपीति ।
परिहरति—न ते सामान्यशब्दा इति । अपि च साधनीयः पक्ष इति ।
विरुद्धोपदर्शनेन स्फुटा प्रतीतिर्भवतीति अयुक्तप्रतिपादनार्थं युक्तस्याप्युपन्यास
इति । यदि न पक्षेण दूषणं संबध्यते कस्तर्हि तस्य विषय इति शङ्कते—अथ
दूषणस्येति ।
उत्तरम्—कस्यचिदिति । उत्तरदोषः जात्युद्भावनम् । आक्षिप्यन्त
इत्याक्षेपाः । के ते भावाः ? अप्रतिभाविक्षेपादयः । नैते स्वपरपक्षाभ्यां संबध्यन्ते नापि
स्थापनयेति । चोदयति—सत्यमिति । परिहरति—उपचरितेति ।
नर्ते प्रयोजनादिष्टं मुख्यशब्दार्थलङ्घनम्
इति हि गाथा भवतामित्यर्थः । अपि चोपचारश्चेत् लक्षणे 1277ततो वरमेवं क्रियतां
लक्षणं लाघवायेत्याह—यदि चेति । शङ्कते—अथेति । निराकरोति—स्वरूपत
इति । मुख्यत इत्यर्थः । चोदयति—स्थापनयापीति । परिहरति—न दोषेति । ननु न
दूषणमात्रं संबध्यते असिद्ध्यर्थमिति च दूषणमात्राभिधानम्, तत् कुतो विशेष
प्रतिलम्भ इत्यत आह—सामान्याभिधानेऽपीति । तृतीयं कल्पं दूषयितु
मुपन्यस्यति—स्वपरशब्दाविति । एतदपि 1278सूत्रान्तरविरोधेन दूषयति—न युक्तमे
तदपीति ।

ते साधनदूषणैः स्वपरशब्दाः1279 संबध्यन्ते
इति सूत्रे हि नियमेन स्वपक्षे साधनं परपक्षे दूषणमुक्तम्, तथा चोत्तरपक्षो दूषणीय
एवेति उत्तरपक्षवादिनापि दूषणीयः1280 । एवं पूर्वपक्षोऽपि साधनीय एवेति ।
उत्तरपक्षवादिनोऽपि साधनीयो न दूषणीयः स्यादित्यर्थः । अपि चायुक्तस्य पूर्वपक्षस्य1281
साधनं युक्तस्य चोत्तरपक्षस्य दूषणमिति विपरीतप्रसङ्ग इत्याह—
स्वपक्षश्चोत्तरपक्षवादिनः पूर्वपक्षात् अयुक्तपक्षात् अन्यः युक्त इत्यर्थः ।
पदार्थः
नावयवार्थः1282 । एतेन सूत्रान्तरनियमाभिधानव्याघातेनेत्यर्थः । व्याख्याता
276 निराकार्यत्वेन । षष्ठं कल्पं दूषयितुमुपन्यस्यति—एक एवायमिति । दूषयति—
युक्तमेतत् । एकस्यानेकं विशेषणम् ।


द्वितीयं हेतुमुपन्यस्तं व्याख्यातुं स्मारयति—समासेति । न केवलं विशेष्यात्
पृथक् स्वार्थो विशेषणं नावधार्यते, अपि त्वन्यस्मादपि न भिद्यते इत्याशयवानाह—
भेदाच्चेति । चोदयति—असत्यपि भेद इति । न केवलं पत्युर्विशेष्यात् सेना न
भिद्यतेऽपि तु ततोऽन्येभ्योऽपि हास्तिकाश्वीयरथपदातिभ्य इति । एवं पानकमपि न
केवलं तदङ्गेभ्यो जीरकादिभ्यः, अपि त्वन्येभ्योऽपि फलसलिलादिभ्य इति ।
परिहरति—तच्च नेति । उक्तं विस्मृत्य1283 शङ्कते—अथ मन्यसे स्वार्थ इति ।
उक्तस्मारणेन निराकरोति—तन्नेति । एतेनैव च1284 कर्मधारयबहुव्रीही अपीत्याह—
एतेनेति । अपि च स्वः पक्षो यस्य साधयितुः स तथोक्तः । तथा च साधयितृविषयं
स्यादित्याह—साधयितृविषयं चेति ।


ननु मा भूद् यथेष्टविनियोगयोग्यार्थता स्वशब्दस्य, साधनीयार्थता तु
भविष्यति । तथा च समासोपपत्तिरिति चोदयति—ननु चेति । षष्ठीसमासपक्षोक्तं
दोषं स्मारयति—न संभवतीति । अपि च 1285पक्षात् स्वपक्षभेदे सूत्रान्तरव्याघातोऽभेदे
वा एतस्य व्याघात इत्याह—विरोधाच्चेति ।


अपि च वाक्यसमासयोः समासो ज्यायान् लाघवादित्याह—आस्तां तावदिति ।
न ह्ययं समर्थः समास
इति । सिद्ध्यसिद्ध्यर्थमित्ययं समासः स्वपरपक्षयोः प्रत्येकं
न संबन्धार्थ इत्यर्थात् कस्यचित् सिद्धिः कस्यचिदसिद्धिरित्यर्थः । परिहरति—यद्य
सामर्थ्यात् न समासः
सिद्ध्यसिद्ध्यर्थमिति । समासेऽपि तर्हीति । स्वपक्ष
परपक्षसिद्ध्यसिद्ध्यर्थमिति समासेऽपीत्यर्थः ।


एकवचनबहुवचनप्रसङ्गोऽपि नास्त्यसामर्थ्यादिति चोद्यसमाधानाभ्यां
दर्शयति—एकवचनेति । अनित्यत्वेऽपि समासविधेः समास एव विग्रहात् ज्यायानिति
चोद्यसमाधानाभ्यां दर्शयति—अनित्य इति । भवतु गौरवमेवमपि1286 को दोष इत्यत
277 आह—1287अर्थगत्यर्थं चेति । लघुनोपायेनाशुसिद्धौ गुर्वभिधानमनर्थकम् । यथाहुः,

अक्के1288 चेन्मधु विन्देत किमर्थं पर्वतं व्रजेत् ।

इष्टस्यार्थस्य संसिद्धौ को विद्वान् यत्नमाचरेत् ॥

इति अनर्थकप्रयोगश्चानपेक्षितः शिष्यैरिति तेषामशासनात् न शास्त्रं स्यात्,
तदिदमुक्तम्—शास्त्रत्वेनेति ।


सिद्ध्यसिद्ध्यर्थमित्येतदपि दूषयति1289सिद्ध्यसिद्ध्यर्थमित्येतदपि न
युक्तमिति । तन्न तावदिति । तदिति
तयोर्मध्य इत्यर्थः । अधिकरणप्रत्यायनमिति
प्राश्निकप्रत्यायनमित्यर्थः । कुतो व्याहतमित्यत आह—ये चैते इति । चो यस्मादर्थे,
अधिकरणे वर्तते पक्षस्येति व्याहतमित्यर्थः । चोदयति—नायमिति । सिद्धिर्ज्ञानं
तस्य पक्षो विषयः, आश्रयास्तु प्राश्निका इत्यर्थः । विकल्प्य दूषयति—
युक्तमेतदिति ।
न तावत् ज्ञानं पक्षविषयं प्राश्निकाधिकरणं चेति बौद्धराद्धान्ते
संभवति, ज्ञानस्यानाधारत्वात् विषयिविषयभावस्य 1290चातात्त्विकत्वात् । तस्मादन्या
सिद्धिः । तत्रेदमुपतिष्ठते—किं तर्हीति । सिद्धियोगात् सिद्धः पक्षो भवति । प्रमाण
योगस्य सिद्धिः । सैवार्थस्य 1291तथाता, तस्यास्तु प्राश्निकानां प्रतीतिर्भवति । तस्मात् न
प्राश्निकप्रतीतिः पक्षस्यासिद्धिरिति विरोधः । यस्मात् सोऽर्थस्तथा भवति तस्मात्
तथाभावादधिकरणप्रत्यायनं भवतीति द्वितीयं कल्पमाशङ्कते—अथासिद्ध इति ।
यावत् पक्षविषयं साधनं न प्रयुज्यते तावद्यद्यधिकरणप्रत्यायनं1292 ततः साधनप्रयोगात्
प्रागधिकरणप्रत्यायनमस्तीति वादवैयर्थ्यं साधनदूषणप्रयोगोऽनर्थकः । दूषणान्तर
माह—पक्षस्येति । न प्रयोजनमन्तरेणेदानीन्तनानामस्मदादीनां मुख्यार्थशब्द
स्यातिक्रमोऽवाचकपदप्रयोगेण लभ्यते इत्यर्थः । यथाहुः,


अस्मदायत्ते 1293शब्दप्रयोगे किमित्यवाचकं प्रयोक्ष्यामहे1294 इति ।

स्यादेतत् । मञ्चस्थाः क्रोशन्तीति वक्तव्ये विनापि प्रयोजनं मञ्चाः क्रोशन्ती
त्युपचारो दृष्ट इत्यत आह—अपि तु प्रमाणासंभवेनेति । प्रमाणासंभवेनापि त्विति
278 योजना । नन्विहापि विनापि प्रयोजनं प्रमाणासंभवमात्रेणोपचारो मञ्चाः क्रोशन्तीति
वद्भविष्यतीत्यत आह—1295लोकप्रयुक्तेति लोकप्रयुक्तशब्दार्थवत् । उपचारोऽपि
लौकिको न प्रयोजनाभावेन शक्योऽपवदितुं न लोकः पर्यनुयोज्यो यतः 1296इदानीन्तनस्तु
अस्मदादिप्रयोगः प्रयोजनाभावे न1297 शक्य पर्यनुयोक्तुमित्याशयेनाह—न चेदं
लौकिकमिति ।


अपरे त्विति । न दूषणविषयत्वमसिद्धिर्येन न पक्षेण संबध्येत, अपि त्वज्ञानम् ।
तच्च पक्षविषयमेवेति न मुख्यार्थलङ्घनमित्यर्थः । अत्रापि पूर्वोक्तं प्रसङ्गमाह—
तद् यदीति । तस्मात् पक्षस्येतीच्छता सिद्ध्यसिद्धिज्ञानाज्ञाने पक्षधर्मावे
वाभ्युपगन्तव्ये । यतः तयोः पक्षधर्मत्वात् एतद्भवति सिद्धः पक्षोऽसिद्धश्चेति1298
अस्तु तर्ह्येवमित्यत आह—एवं सतीति । नैव1299 द्रष्ट्राधारता ज्ञानस्य विषयता च
बौद्धराद्धान्ते संभवतीति भावः । शङ्कते—अथ मा भूदिति । अस्ति खल्वालयज्ञानं
यदुपाश्रित्य षडपि प्रवृत्तिज्ञानानि जायन्ते । तस्मादालयप्रत्ययो द्रष्टा । तत्स्थे एव
सिद्ध्यसिद्धी । ननु पक्षस्य तद्विषयत्वात् तस्यापीति चेत्, कः पुनरयं विषय
भावः1300 । तत्कारणत्वमिति चेत् ? चक्षुरादीनामपि ज्ञानकारणानां विषयत्वप्रसङ्गः ।
असतश्चाकारणस्य अविषयत्वप्रसङ्गः । ज्ञानप्रकाश्यत्वं विषयत्वमिति चेत्-न,
ज्ञानेनार्थे प्रकाशाजननात् । तस्मात् ज्ञानस्य तदसमवायिनः तदविषयस्य च1301
द्रष्ट्टस्थतैवेति सिद्धम् । निराकरोति—तथापीति । पुनः शङ्कते—अथ तथातथाते
इति प्रमाणयोग इत्यर्थः । निराकरोति—तथापीति । तत्त्वं जिज्ञासुः पृच्छति—के
पुनरेते
इति । सुहृद्भावेनोत्तरमाह—वस्तुधर्माविति । यद्यपि प्रमाणयोगायोगौ
प्रमेयस्य च प्रमातुश्च साधनासंबन्धे कर्तृत्वानुपपत्तेः, तथापि प्रमेयस्य प्राधान्यात्
तत्रैवाभिधानप्रत्ययाविति प्रमेयधर्मावुच्येते व्यक्त्यव्यक्ती, न तु प्रमातृधर्माविति ।
1302सिद्ध्यसिद्ध्यर्थमिति अर्थशब्दानुपपत्तिः । कस्मात् ? विकल्पानुपपत्तेः ।
279 विकल्पमाह—अर्थशब्दः खल्विति । इह सूत्रे धननिमित्तादिवचनतार्थशब्दस्य न
संभवतीति त्रयमवशिष्यत इति त्रेधा प्रवर्तत इत्युक्तम् । साधनं साधनाभासो दूषणं
दूषणाभास इति चतुर्विधं वाक्यम् । प्रथमकल्पमपाकरोति—तन्न तावदिति । तदिति
तेषु मध्य इत्यर्थः ।


ग्रन्थान्तरे1303 युक्तायुक्तत्वेन विशेषणात् चतुर्विधवाक्यसंग्रहार्थो ह्युद्देशे अर्थशब्दो
व्याख्यातः । न च युक्तायुक्तत्वविशेषणे चतुर्विधवाक्यसंग्रहो भवति साधनाभास
संबन्धिनः पक्षस्य युक्तत्वाभावात् दूषणाभाससंबन्धिनश्च प्रतिपक्षस्या
युक्तत्वाभावादित्यर्थः । अथ न साधनादियोगोऽपि तु साध्यधर्म एव साधनानपेक्षो
युक्तायुक्तत्वमिति शङ्कते—अथ पुनरिति । निराकरोति—तथापीति । कुतो व्याघात
इत्यत आह—न हीति । यदि प्रत्यायनं सिद्धिः प्रतीतिः, तथापि सा प्रत्याय्या1304
संभवति । अथ करणम् ? तथापि कर्म करणं न संभवतीति व्याघात इत्यर्थः । द्वितीयं
कल्पमाशङ्क्य निराकरोति—अथ प्रयोजन इति । प्रयोजनं कार्यम् । तन्न कारणाभासाद्
भवितुमर्हति । न हि वह्निरिति गृहीतः खद्योतो दहति पचति वेत्यर्थः । तृतीयं
कल्पमाशङ्क्य निराकरोति—अथाभिधेय इति । ग्रन्थकारः सूत्रकारः । एवं
त्विति ।
एवं सति सिद्धिशब्दोऽसिद्धिशब्दश्च वादः स्यात् । ननु धननिमित्तादयोऽ
प्यर्थशब्दवाच्याः सन्ति, ते कस्मादिह न गृह्यन्ते इत्यत आह—तत्र सूत्रे । न
चान्योऽर्थशब्दस्य विषयः
संभवति, न हि सिद्धिर्धनं वा स्वपरपक्षयोः 1305साधनं वा
निवृत्तिर्वा संभवतीत्यर्थः । अपि च वचनविशेषणपक्षे1306 स्वशास्त्रव्याघात इत्याह—
सिद्ध्यसिद्ध्यर्थं 1307वचनं वाद इति ब्रुवाणेनेति । नैयायिकहेतुदूषणं पूर्वमिदं
सूत्रमुत्तरम् । उपसंहरति—तदेवमिति । तन्त्रं शास्त्रम् । लोकं च बाधन्त इति ।
अवाचकपदप्रयोगात् साधनदूषणाभासवादिनश्च वादित्वेन लोकसिद्धस्या
वादित्वापादनात् सिद्ध्यसिद्धिशब्दयोश्च वादत्वापादनार्थत्वादित्यर्थः ।


280

सूत्रं दूषयित्वा वृत्तिं दूषयति—यथा चेति । स्वस्य पक्षस्येति1308 स्वस्यात्मीयस्य
पक्षस्य । न हि पक्षव्यतिरेकेण पक्षाधारं साध्यं ज्ञानमन्यद् वा सिद्धिशब्दाभिधेयं
संभवति, ज्ञानस्य पुरुषाधारतया अनाधारतया वा पक्षाधारत्वानुपपत्तेः, पक्षस्य तु
भवेत् केनचित् संबन्धेन यादृशतादृशेनेत्यर्थः । ते साधनदूषणैरित्यत्र पृथगुक्ते
साधनदूषणे । युक्तायुक्तत्वाभ्यां1309 ते युक्तायुक्तत्वे । साधनदूषणैरिति । न हि कर्म
करणं भवतीत्यर्थः । अपि च युक्तायुक्तार्थाभ्यामभेदे साधनदूषणपदमनर्थकं ते
इत्यनेनैव युक्तायुक्तत्वावमर्षिणा गतार्थत्वादित्याह—युक्तायुक्तत्वशब्दाभ्यां1310
चेति । अथ न पर्यायता, अपि तु सामान्यविशेषभावः, युक्तायुक्तत्वे सामान्यम्,
साधनदूषणे च विशेष इति शङ्कते—अथ मन्यसे इति । निराकरोति—न प्रथमेति ।
उभयव्यभिचारे विशेषणविशेष्यभावे कामचारादुत्पलैरित्युक्तम् । द्वितीयं
कल्पमाशङ्क्य दूषयति—योग इति चेदिति । न खलु योगो नाम बौद्धानां
साध्यसाधनवृत्तिर्दूष्यदूषणवृत्तिर्वा कश्चिदस्तीत्यर्थः । अपि च सांवृतोऽपि योगः
साध्यसाधनज्ञानाधीननिरूपणतया नानिरूपिते साध्ये निरूपितो भवति, निरूपणं च
निर्णय इति योगनिरूपणात् प्राक् साध्यनिर्णयात् कृतं योगनिरूपणेन साध्यनिर्णयार्थेनेति ।
युक्तायुक्तत्त्वेन करणेनाधिकरणप्रत्यायन-मिति व्याघात इत्याह—साधनेनेति ।
भवति
ज्ञायते । तृतीयं कल्पमाशङ्क्य निराकरोति—अथ पदार्थस्येति । युक्तायुक्तत्वे
नाधिकरणप्रत्यायनमिति युक्तायुक्तत्वयोः करणत्वं दर्शितम्, तत् तथात्वातथात्व
पक्षे न संभवति, कर्मत्वात् । तदिदमुक्तम्—ते व्यवच्छेद्ये परिच्छेद्ये न तु
व्यवच्छेदस्य परिच्छेदस्य साधने इति ।


अधिकरणप्रत्यायनमिति दूषयति—अधिकरणेति । शास्त्रसंबन्धः
प्रयोजनेनेति । चोदयति—प्राश्निकप्रत्यायनादिति । कश्चित् 1311चोदकं पृच्छति
किं कारणम्1312 ? तत्प्रत्यायनादिति । चोदकस्योत्तरम्—प्रतिवादी किलेति ।
281 सिद्धान्त्याह—सन्तमप्यर्थं न प्रतिपद्यत इति । न खल्वाध्यात्मिकशक्तिसंपन्नः
समाहितः समग्रे साधनप्रयोगे 1313सति सन्तमर्थं न प्रतिपद्यत इति संभवतीत्यर्थः ।
तथाविधेनापि चेत् प्रतिपत्त्रा सोऽर्थोऽन्यथा प्रतिपन्नः, कथमसौ तथा सन्नित्यभिधीयते
इत्याह—कथं चेति । शङ्कते—अथ जिगीषुतया प्रतिपद्यमानोऽपीति । कामकारोऽ
नुज्ञा । निराकरोति—तथापीति । न प्रतिपद्यते प्रतिपद्यमान इति व्याहतम् । न
चायमनुज्ञानिषेधो न प्रतिपद्यते इति वादे वीतरागकथात्वेन1314 जिगीषाया अभावादिति
भावः । यच्च प्राश्निकप्रत्यायनादिति । अन्यदीयेन करणेनान्यः प्रतिपद्यत इति
सुभाषितम् । अन्यविषयस्येति अन्याश्रितस्येत्यर्थः । न चायं नियम इति । न वादे
प्राश्निकानामुपादानम्, दैवागतानां तु न वर्जनमित्यर्थः । वादस्य जल्पवितण्डा
भ्यामभेदमभिप्रेत्य चोदयति—यदा तु 1315नायमिति । आशयस्थितमर्थमनभ्युपगच्छन्
परिहरति—सत्यमिति । 1316स्वाभिप्रायं दर्शयति—न त्रैविध्येति । दूषयति— भवद्भिरेव
प्रतिषेधादिति । त्रैविध्यानभ्युपगमादिति दूषयति—यदपीति ।


यच्चोक्तं वृत्तौ पक्षसिद्धिविषयम्, एतदपि दूषयितुमुपन्यस्यति—
यच्चोक्तमिति । न कामतः विना प्रयोजनमिति । विनापि प्रयोजनं प्रमाणासंभवेना
पीति योजना । सूत्रोक्तं दूषणं वृत्तौ आह—तदर्थं वचन सिद्ध्यसिद्ध्यर्थ
मित्यर्थः । अधिकरणं दूषयति—अधिकरणमिति । न हि वादे1317 प्राश्निकाधारमिति ।
प्राश्निका एव तावद् वादे न सन्ति, अभ्युपेत्य उक्तमिति । शङ्कते—प्रत्यायना
धारत्वादिति ।
सिद्धिः प्रत्यायनं तदाधाराः प्राश्निकाः इत्यर्थः । निराकरोति—नेति ।
शङ्कते—तस्मिन्निति—दैवमिलिते प्राश्निके सतीत्यर्थः । निराकरोति—नेति ।
हि दैवमिलितं कारणम्, मा भूद् गर्दभोऽपि धूमस्य कारणमिति भावः । चोदयति
यदि प्राश्निका न सन्ति तद्वाद इति । तयोर्वादिप्रतिवादिनोर्वादस्य परीक्षा का कस्य
च तयोः वादस्य क्व च असौ परीक्षा ? प्राश्निकाभावे हि वादतत्परीक्षातदधिकरणा
282 नामज्ञानमित्यर्थः । परिहरति—साधनेति । वीतरागौ हि वादिप्रतिवादिनावेव
वादस्वरूपज्ञानं च तत्परीक्षां च कर्तुं शक्नुतः, तत् किमत्र प्राश्निकैः ? साधनप्रयोगः
पक्षविषयः, दूषणप्रयोगः स्थापनाविषयः इति वादस्वरूपम् । साधनदूषणतदाभासानां
परितो ज्ञानं परीक्षा । तदर्थं 1318परीक्षार्थं तस्मिन् वादेऽधिकारो वीतरागयोरेव
वादिप्रतिवादिनोः1319 । तदिदं क्वेति विप्रश्नस्योत्तरम् । तस्मात् सप्तम्यर्थोऽधिकरणार्थः
पराभिमतः प्राश्निक इति यावत् । स नास्ति वादिप्रतिवादिनोरेव वीतरागयोः
कथासमाप्तेरित्यर्थः ।


यदपि वृत्तौ चोदितं यदि सिद्ध्यसिद्ध्यर्थं वचनं वादः, ततः1320 प्राश्निक
प्रतिवादिनोः प्रियाप्रियवचसि रथ्यावादे1321 प्रसङ्ग इति तदप्यतिनिर्बीजमित्याह
यदपीति । न हि प्रियाप्रियवचसः साक्षात् पारम्पर्येण वा सिद्ध्यसिद्ध्यर्थता, नापि
साधनदूषणयुक्तायुक्तत्वविशेषणसंबन्धः । तस्मादेवंवादी नोत्तरार्हः । न ह्युन्मत्ताय
कश्चिदनुन्मत्त उत्तरमाह, ब्रुवाणो वा सोऽप्युन्मत्तः स्यात् । तदिदमुक्तम्—दत्तः
स्वहस्त
इति । पूर्वं सिद्ध्यसिद्ध्यर्थमिति, अपरं युक्तायुक्तत्वमिति, उभयोरप्यनेन
चोद्येनासंबन्धात् । यदि त्ववश्यमुत्तरं वाच्यम्, ततो वरमेवं वक्तव्यमित्याह—यदि
त्विति ।
सेयं सूक्ष्मेक्षिका परैरिह कृतेति 1322तदनुबन्धेन वार्त्तिककृतापि कृतेति ॥ १ ॥


यथोक्तोपपन्नश्छलजातिनिग्रहस्थानसाधनोपालम्भो जल्पः ॥
१ । २ । २ ॥


उद्देशक्रमानुरोधेन वादलक्षणानन्तरं जल्पं लक्षयति—यथो—ल्पः । अत्रापि
समानजातीयाभ्यां वादवितण्डाभ्यामसमानजातीयेभ्यः प्रमाणादिभ्यो व्यवच्छेदो
सूत्रार्थः । यथोक्तोपपन्नपदार्थं व्याचष्टे—समस्तमिति । चोदयति—यथोक्तोपपन्न
283 इति न युक्तमिति । निग्रहस्थाननियमस्य
प्रमाणतर्कसाधनोपालम्भाभिप्रायनियमस्य
च जल्पेऽभावात्, भावे वा वादजल्पयोरभेदप्रसङ्गात्, वादलक्षणस्य च1323
जल्पव्यापकत्वेन व्यभिचारप्रसङ्गाद् यथोक्तोपपन्न 1324इत्येतदनुपपन्नमित्यर्थः ।
परिहरति—नैष दोष इति । उक्तमात्रमिह संभवात् योग्यतासंभवाद् गृह्यते, न
त्वनुक्तोऽर्थलभ्यो नियमः । न ह्यसौ सूत्रपदश्रवणमात्रात् प्रतीयते, अपि तु तदर्थे
प्रतीते तस्यान्यतः सिद्धौ सत्यां 1325गम्यत इति प्रमाणतर्कसाधनोपालम्भ इत्येतदतिदिश्यत
इति उक्तमात्रोपलक्षणपरम् । तेन प्रमाणतर्कसाधनोपालम्भः पञ्चावयवोपपन्नः
सिद्धान्ताविरुद्धः पक्षप्रतिपक्षपरिग्रह इत्येतस्य 1326वादपदवर्जं समस्तस्य
लक्षणस्यातिदेशः । नियमस्त्वार्थो न संबध्यत इति सिद्धम् । लक्षणमात्रस्येति
उक्तमात्रस्य, नार्थस्य नापि लक्ष्यपदस्येत्यर्थः । अत्रैव दृष्टान्तमाह—यथान्यत्र
वैशेषिकतन्त्रे । न नियमार्थे पदे
इत्युपलक्षणम्, न प्रमाणतर्कसाधनो
पालम्भपदलभ्यो1327ऽभिप्रायनियम इत्यपि द्रष्टव्यम् ।


पक्षान्तरमाह—अथ वेति । यथा गोभिर्युक्तो रथो गोरथ इति युक्तपदलोप
इति । 1328हि नियमार्थयोरिति । एतदप्युपलक्षणं पूर्ववदेव । इह वादलक्षणं पठता
भाष्यकारेण नियमोऽप्यतिदिष्ट इति मन्वानश्चोदयति—भाष्यम् इदानीमिति ।
परिहरति—न सूत्रेति । जल्पलक्षणानुकूलो यः पाठक्रमः, 1329ततोऽर्थस्वरूपमात्रं
प्रतीयते, न त्वार्थोऽर्थ इत्यर्थः । यदुपपन्नमुक्तमात्रमित्यर्थः । 1330अत्र भाष्यकारेण
छलादीनां निषेधार्थतया साधनाङ्गभावमाक्षिप्य परपक्षविघातेन स्वपक्षरक्षणादङ्ग
भाव इति दर्शितम् । तदेतद् वार्त्तिककार आक्षिपति—छलजातिनिग्रहस्थानै
रिति ।
तत् किं निग्रहस्थानान्यप्ययुक्तानि, न चैतच्छक्यमित्यत आह—छलं
तावदिति ।
छलजात्योराक्षेप्तव्ययोः1331 संपातायातानि निग्रहस्थानानीत्यभिप्रायः ।
284 भाष्योक्तं समाधिमाशङ्कते—अङ्गभाव इति चेत् इति । निराकरोति—एतदपीति
न हि सहस्रेणाप्यन्धैः पाटच्चरेभ्यो गृहं रक्ष्यत इत्यर्थः ।


एवमाक्षिप्ते पार्श्वस्थः पृच्छति—किमर्थं तर्हीति । सिद्धान्तिन उत्तरं साधनेति,
वादे तावद् यद्यपि न साधनविघातसमर्थानि, तथापि तेषां तत्त्वमविद्वान् एभिरहं1332
साधनं विहनिष्यामीत्यनया बुद्ध्या अपहृतः व्यामोहितः प्रवर्तते1333 । तस्माद् वादे
भ्रमेणोपादानमेतेषामित्यर्थः । यत्र त्वेषां तत्त्वं विद्वान् प्रवर्तते, न स वादः, किंतु जल्पो
वितण्डा वेत्याह—यत्र चैतानीति । ननु जल्पवितण्डयोः प्रयोगात् साधनमङ्गं वा
1334स्यादत आह—न पुनरिति । ननु यदि न साधनमङ्गं वा, कस्मात् तर्हि जल्प
वितण्डयोरेषां प्रयोग इत्यत आह—साधुसाधनोपादाने चेति । साधुसाधनोपादाने
च वादिना कृते परेण प्रतिवादिना जिगीषुणाकुलितबुद्धिर्द्राक् पारमार्थिकमुत्तरम
प्रतिपद्यमानश्छलादीनि प्रयुङ्क्ते । किमर्थमित्यत आह—कदाचिदिति । यथाकथञ्चित्
प्रयोगेण । तदनेन प्रकारेण तत्त्वसंरक्षणार्थत्वात् 1335नासदाचारः । न च शास्त्रकाराणां
छलादिव्युत्पादनमसदृशम्, न च 1336खटचपेटाद्यभिधानप्रसङ्गः, वाग्युद्धे1337 तेषाम्
अप्रसङ्गादिति । न बाधेति । नैकेनापरं तदैवापोद्यत इत्यर्थः । शेषं सुगमम् ॥ २ ॥


स प्रतिपक्षस्थापनाहीनो वितण्डा ॥ १ । २ । ३ ॥


उद्देशक्रमानुरोधेन जल्पानन्तरं वितण्डालक्षणमाह—स-ण्डा । पूर्व
वादिपक्षापेक्षया प्रतिवादिन आत्मीय एव पक्षः प्रतिपक्षः । तस्य स्थापना साधनम्,
1338तया हीनः । तदनेन जल्पाद् व्यवच्छिनत्ति । तदेतदाह भाष्यकारः—स जल्प इति ।
तयोरेकतरं प्रतिवादी आत्मीयं पक्षं न स्थापयतीति । परपक्षप्रतिषेधेनेति ।
तत्स्थापनाप्रतिषेधेनेत्यर्थः । स्यादेतत् । यथा प्रतिवादिनः पक्षो वादिपक्षापेक्षया
285 प्रतिपक्षः, एवं वादिपक्षोऽपि प्रतिवादिपक्षापेक्षया प्रतिपक्ष इत्युभयपक्षस्थापनाहीना
वितण्डेति स्यात्, 1339इत आह—वार्त्तिककारः—प्रतिपक्षस्थापनाहीन इति ।
1340द्वितीयपक्षस्थापनाहीन इति । प्रथमपक्षवादिनो हि स्थापनाया अभावे किं वैतण्डिक
आहन्ति ? न च पक्षः शक्य आहन्तुम् । तस्मात् प्रथमपक्षवादिनोऽस्ति स्थापनेति
द्वितीय एव पक्षः स्थापनाहीन इति सामर्थ्याद् युक्तमिति । अत्र चोद्यभाष्यम्—अस्तु
तर्हीति ।
स्थापनाया अभावे स्थाप्यः पक्षोऽपि1341 नास्ति । न ह्यन्यथा पक्षस्य पक्ष
त्वमिति भावः । परिहरति—यद् वै खलु तदिति । वैतण्डिकोऽपि हि वादी
पारिशेष्यात् मत्पक्षः सेत्स्यतीति बुद्ध्या स्वपक्षमस्थापयन् परपक्षस्थापनामाहन्ति ।
तस्मात् परपक्षप्रतिषेधलक्षणं वाक्यम् अस्य पक्षः परपक्षनिषेधेन पारिशेष्यात्
पक्षसिद्धिहेतुत्वादुपचारतः । तस्मादस्ति वैतण्डिकस्य पक्षः । न तु परपक्षप्रतिषेधादन्या
स्थापना । तेनास्य पक्षोऽस्ति, नास्ति च1342 पक्षस्थापना । तदिदमुक्तम्—न कञ्चिदर्थं
प्रतिज्ञाय स्थापयतीति ।
पक्षत्वं तु 1343योग्यतामात्रेण, न तु स्थाप्यमानतयेति ।


अस्तु तर्हीति भाष्यार्थमाह—वार्त्तिककारः अपरे त्विति । तस्मात्
प्रतिपक्षहीनो वितण्डेति वक्तव्यमित्यर्थः । परिहरति—अयुक्तं चैतदिति ।
तावदस्थाप्यमानस्यापि स्थापनार्हतालक्षणा पक्षता न युज्यते, तस्मात् न वैतण्डिको
दूषणादन्यत् किञ्चिदभ्युपगच्छतीति । अनभ्युपगमात् पक्षोऽस्य नास्तीति वक्तव्यम् ।
तथा च चतुर्वर्गाभ्युपगमे विरोधोऽनभ्युपगमे वा नायं लौकिको न परीक्षक इति
प्रसङ्ग इति भावः । 1344प्रतिपादयितुरयथार्थावबोधं प्रतिपत्तारं चात्मानमित्यर्थः । यस्तु
मन्यते चतुर्वर्गाभ्युपगमेऽपि दूषणमात्रं वितण्डेत्येव वक्तव्यं लाघवायेति,
तन्मतमुपन्यस्यातिप्रसङ्गापादनेन दूषयति—दूषणमात्रेति । समाख्यानिर्वचन
सामर्थ्यादेव गम्यत इत्यर्थः । उपसंहरति—तस्मादिति । तदनेनार्थतो यद् वै
खल्वित्यादि भाष्यं
व्याख्यातम् ॥ ३ ॥


॥ इति कथालक्षणप्रकरणम् ॥

286
  1. °लक्षणसूत्रंC °तारोऽस्ति K

  2. विचार वस्तु विषयाC

  3. वाक्यसंदृब्धिः
    OmJ

  4. तस्यां कथायांC

  5. साधनहीन°C

  6. पक्ष°OmJ

  7. कुक्षी°C

  8. OmC

  9. भवतिC

  10. सू. १॑२॑२

  11. इत्यर्थःC

  12. °दिभिर्जि°C

  13. बुद्धिपूर्वम्C

  14. तत्र प्र°C

  15. °पपन्नंC

  16. सुस्थान°C

  17. कर्तव्यमितिC

  18. निग्रहरहितोJ

  19. अपिOmC

  20. सौबन्धवंCVar

  21. °कारणं°C

  22. विशेष्यंOmC

  23. स्वशब्दस्यC

  24. ततोOmC

  25. सूत्रान्तरेणC

  26. °रेव स्वपरपक्षाःJ

  27. °णीयम्C

  28. पूर्वस्य पक्षस्यC

  29. °र्थ इत्यर्थःC

  30. प्रस्मृत्यC

  31. एव चOmC

  32. साक्षात्सपक्षस्य भेदेC

  33. एवम्OmC

  34. अनुगत्यर्थंC

  35. अर्केJ

  36. सिद्ध्य° दूषयतिOmJ

  37. च औम्
    छ्

  38. तथाC

  39. तावदधि°C

  40. शब्द°OmJ

  41. प्रतीक्ष्या°J

  42. लोकप्रयुक्तेतिOmC

  43. इदानीं तु नास्म°C

  44. °भावेनC

  45. °द्धः पक्षः
    C

  46. एवOmC

  47. विषयविषयिभावः K

  48. OmC

  49. सिद्ध्य°OmC

  50. °न्तरेण C

  51. प्रत्याय्यं C

  52. कारणं J

  53. विशेषपक्षे C

  54. °र्थं च C

  55. स्वस्य पक्षस्येतिOmJ

  56. °युक्तार्थाभ्यांC

  57. °युक्तशब्दाभ्यांC

  58. चोदकःC

  59. किं कारणम् ? only inJ

  60. सतिOmJ

  61. °कथात्वात्C

  62. OmJ

  63. स्वंOmC

  64. वादेOmC

  65. परीक्षार्थंOmC

  66. वादिनोःC

  67. तदाC

  68. रथ्यातथावादे K

  69. तन्निर्बन्धेनC

  70. OmC

  71. इत्ययुक्तमि°C

  72. नियम्यतेC

  73. पदलक्ष्यवर्जं
    C

  74. °लभ्येC

  75. हि only inJ

  76. यतो° K

  77. तत्रC

  78. आक्षिप्तयोःC

  79. अस्यC

  80. प्रवर्ततेOmC

  81. स्युरितिJ

  82. जल्पे सदा°K; ना°
    OmC

  83. घटपटाद्य°C; खटचपेटा=बद्धमुष्टिप्रहारः ।

  84. वाग्वादेJ

  85. यत्तया K

  86. अतः C

  87. द्वितीय° इति Om C

  88. अपि Om C

  89. तु C

  90. तद्योग्य° C

  91. अव° Om J