312

समानानेकधर्माध्यवसायादन्यतरधर्माध्यवसायाद्वा न संशयः
॥ २ । १ । १ ॥


समाना…यः । ननु यथा लक्षणार्थः पूर्वं निरूपितः, तथा निर्बीजः पूर्वपक्ष इत्यत
आह1454तस्य यथाश्रुतीति । परीक्षासाध्यो ह्यर्थः । तत्र व्याख्यानतो लक्षणपदेभ्यः
साक्षादेव गम्यत इत्यर्थः । समानमनयोरिति साक्षात्कारं दर्शयति ।


न हि साक्षात् स्थाणुपुरुषावुपलभमानः समानं चानयोर्धर्मं कश्चित् संदिग्ध
इत्यर्थः । व्यवच्छेदात्मकत्वादिति । न निश्चयोऽनिश्चयस्य जनकः कारणानुरूपत्वात्
कार्यस्तेत्यर्थः । न समानधर्माध्यवसायादेवेति संशयलक्षणोक्तकारणमात्रोप
लक्षणपरम् । एकवृत्तित्वाच्चेति । न हि यावेवारोहपरिणाहौ स्थाणोस्तावेव
पुरुषस्येत्यर्थः ॥ १ ॥


विप्रतिपत्त्यव्यवस्थाध्यवसायाच्च ॥ २ । १ । २ ॥


विप्र…च्च ॥ २ ॥


विप्रतिपत्तौ च संप्रतिपत्तेः ॥ २ । १ । ३ ॥


विप्रतिपत्तौ च संप्रतिपत्तेरिति । न स्वरूपविरोधाद् विप्रतिपत्तिरस्तीति ॥ ३ ॥


अव्यवस्थात्मनि व्यवस्थितत्वाच्चाव्यवस्थायाः ॥ २ । १ । ४ ॥


अव्य…याः ॥ ४ ॥


  1. इत्यत पूर्वपक्षबीजम् आह J