313

तथात्यन्तसंशयस्तद्धर्मसातत्योपपत्तेः ॥ २ । १ । ५ ॥


तथात्यन्तसंशय इति तत्पदान्तरेण समानधर्मोपपत्त्यादेर्विशेषणमपश्यतः
पूर्वपक्षः ॥ ५ ॥


यथोक्ताध्यवसायादेव तद्विशेषापेक्षात् संशये नासंशयो
नात्यन्तसंशयो वा ॥ २ । १ । ६ ॥


सिद्धान्तमाह—अस्योत्तरमिति । यथो…वा ॥


यदि हि निर्विशेषणं समानधर्मोपपत्त्यादि संशयकारणमुच्येत ततः पश्चाद
करणात् पूर्वमपि न कुर्यादित्यसंशयः, पूर्वं वा करणात् पश्चादपि कुर्यादित्यत्यन्त
संशयः । न त्वसौ निर्विशेषणः संशयकारणमिति नासंशयो नात्यन्तसंशय इत्यर्थः ।
यथोहित्वेति भाष्ये यदप्युक्तमित्यर्थः ।


एतेनेति समानपदप्रयोगेण । सदृशार्थो हि समानशब्द इति पूर्वं व्याख्यातम्1455
यदप्येतत् सारूप्याभावात् अध्यवसायसंशययोः कार्यकारणयोरिति ।
विशेषानवधारणमुभयोः समानमित्यर्थः । भाष्यकारेण तु यत् सारूप्यमुक्तं तत्
तथा न बोद्धव्यम् । यदि हि कार्यकारणयोरुत्पत्तिः सारूप्यम्, तदतिव्यापकं
चाव्यापकं च नित्यानामपि कारणत्वात् । तस्मात् सारूप्यशब्दो न सारूप्यस्य
निर्देशः, अपि तु कार्यकारणधर्मान्वयव्यतिरेकपर इत्याह—कारणसद्भावाच्चेति ।
अनवधारणेनैव तत्त्वानुपलब्धेरिति प्रत्युक्तम् ।
सत्प्रतिपक्षयोरपि मिलितयोरन्यत्रा
दर्शनेनासाधारण एवान्तर्भावात् । एकैकविवक्षया तु हेत्वाभासान्तरत्वमिति
भावः । न चाव्यवस्थातः संशय इति । नासौ पृथक् कारणम्, अपि तु
समानधर्मोपपत्त्यादिपरिकरतयेत्यर्थः । यत् पुनरेतत् विप्रतिपत्ताविति । विषया

  1. १. १. २३ सूत्रीयवार्त्तिकटीके द्रष्टव्ये