11
क्रियाकारकसंबन्धादृते संबन्धनं कथम् ।

राजा भर्त्ता मनुष्यस्य पदं वाक्यस्य पूरकम् ।

वृक्षस्तिष्ठति शाखासु पदं वाक्ये न किं तथा ॥

देशेऽग्निमति धूमस्य कर्त्तृत्वं भवते83र्यथा ।

तथा वाक्येऽपि किं नास्ति पदस्येति निरूप्यते84

नचानवगताकारः संबन्धो नापि85 लक्ष्यते ।

तेनास्ति सति संबन्धे षष्ठीतत्पुरुषोऽपि वा ॥

ततश्च पक्षधर्मोऽयं शब्दप्राप्तोऽन्यशब्दवत् ।

अन्वयो न च शब्दस्येत्यादि सिद्धप्रसाधनम् ॥

वाह्यार्थे नान्वयः क्वापि विनार्थं शब्द ई86क्ष्यते ।

भवे87न्नित्यविभुत्वाच्चेत् सर्वार्थेऽप्यन्वयस्तथा ॥

ततः सर्वार्थसिद्धत्वे सर्वशब्द-समागमे ।

वाच्यवाचकसंबन्ध उक्ते सा त्वपरंपरा88

व्यतिरेकोऽपि शब्दस्य नास्तीति प्रतिपादितम् ।

अन्यथा संविदानोऽपि विवक्षत्यन्यथा यतः ।

तस्मादेकान्ततो नास्ति पुं89वाक्यात् तद्धियां 90गतिः ॥

भ्रान्तस्यान्य91विवक्षायामन्यद्वाक्यं च दृश्यते ।

यथाविवक्षमित्येतत् तस्मान्नैव प्रवर्त्तते ॥

अभ्रान्तत्वे परिज्ञाते अभ्यासादे92र्विकल्पतः ।

समानसमयत्वे च विवक्षार्थः प्रतीयते ॥

लोकस्य व्यवहारोऽयमेवमेव व्यवस्थितः ।

अन्यथा सर्वमेव स्यात् प्रमाणं नेति साधितम् ॥

व्यवहारं विना नास्ति ब्रह्मलोकेऽपि जन्मभाक् ॥

इत्यर्थ93सङ्गि व्यवहारसिद्धं, शाब्दं, निजार्थेऽनुमिति प्रमाणम्

बाह्ये तु नैवास्य परं प्रमाणं यथाकथञ्चिज्जगतामिहास्था ॥

इति प्रमाणान्तर्भावे शाब्दःप्रमाणान्तर्भावे शाब्दः प्रमाणान्तर्भावः प्रथमः परिच्छेदः ॥


द्वितीयः परिच्छेदः


  1. Ms. भवते यथा । भवतं यथा ।

  2. Ms. निरूप्यतं ।

  3. Ms. संबन्धोन्नापि ।

  4. Ms. इक्ष्यते ।

  5. Ms. भवोन्नित्य° ।

  6. Ms. वात्वपरम्पग ।

  7. Ms. पुम्वाक्यात् ।

  8. Ms. धियाङ्गतिः ।

  9. Ms. भ्रान्तस्यात्य° ।

  10. Ms. अभ्यासादे विकल्पतः ।

  11. Ms. इत्यथसि ।