17
शृङ्गादयोऽपि तैक्ष्ण्यादिभावतः सदृशात्मकाः ।

तैक्ष्ण्यमन्येन केनापि पर्यन्ते वासनैव हि ॥

कारणं सदृशत्वेन व्यवहारस्य गम्यताम् ।

तस्मादननुमानत्वं नोपमानस्य भाविकम् ॥

इति सर्वमिदं सुस्थमकारणमतः परम् ॥

इत्यनिन्द्यविधिना निरूपितं

नोपमानमनुमानतः परम् ।

एवमन्यदपि तेन गीयते

प्रज्ञया नहि स दृश्यतेऽधिकः ॥

इत्युपमानान्तर्भावो द्वितीयः परिच्छेदःउपमानान्तर्भावो द्वितीयः परिच्छेदः ॥ छ ॥


तृतीयः परिच्छेदः


प्रमाणषट्क-विज्ञातो यत्रार्थोऽनन्यथाभवन् ।

अदृष्टं कल्पयेदन्यं सार्थापत्तिरुदाहृता ॥

ननु दृष्टः152 श्रुतो वार्थ इति भाष्यकृतो वचः ।

तत्कथं दृष्टिमात्रेण सार्थापत्तिर्निरूपिता ॥

दृष्टः पञ्चभिरित्यस्माद्भेदेनोक्ता श्रुतोद्भवा ।

प्रमाणग्राहिणीत्वेन यस्मात्पूर्वविलक्षणा ॥

तत्र प्रत्यक्षतो ज्ञात्रा देहदाहेन153 शक्तिता ।

वह्नेरनुमिता154 सूर्ये भा155नात्तच्छक्तियोगिता ॥

पीनो दिवा न भुङ्क्ते156चेत्येवमादि वचः श्रुतौ ।

रात्रिभोजनविज्ञानं श्रुतार्थापत्तिरुच्यते ॥

गवयोपमिताया गोस्तज्ज्ञानग्राह्यशक्तता157

अभिधानप्रसिद्ध्यर्थमर्थापत्त्यवबोधिता158

शब्दे वाचकसामर्थ्यात् तन्नित्यत्वस्य कल्पना ।

प्रमाणाभावनिर्णीतचैत्राभावविशेषितात् ॥

गेहाच्चैत्रबहिर्भाव159सिद्धिर्या त्विह वर्ण्यते ।

  1. Ms. दृष्टश्रुतो ।

  2. Ms. ज्ञाता देहाद्देहेन ।

  3. Ms. रनुमितात् ।

  4. Ms. पाना ।

  5. Ms. नभुङ्क्तेत्येवमादि ।

  6. Ms. गोस्तज्ज्ञानग्रह्य ।

  7. Ms. मर्थाप त्रबोधिता ।

  8. Ms. गेहाश्चै बवहिर्भाव ।