३. परार्थानुमानपरिच्छेदः
१. दिग्नागीयं परार्थानुमान-लक्षणम्
१. स्वदृष्टग्रहणफलम्
स्वार्थनुमानानन्तरं परार्थानुमानमुच्यते । स्वार्थानुमानपूर्व्वकत्वात्परार्थानुमानस्य ।
तत्र परार्थानुमानन्तु स्वद्ष्टार्थप्रकाशनम् । स्वेन दृष्टं स्वदृष्टम्वादिप्रतिवादिभ्यां प्रतिपाद्य
प्रतिपादकाभ्यां स्वदृष्टस्येत्यर्थः । यदि प्राश्निकास्तेषामपि तेषामधिकारात् । विप्रतिपत्ति
निरासस्तु सामर्थ्यादेव प्रसिद्धः । प्रकाश्यतेऽनेन स्वप्रतीतोर्थः परं प्रति । तच्च कायवाग्वि
ज्ञप्तिरूपं । तत्र स्वदृष्टोऽर्थस्त्ररूपं लिङ्गम् ।
ननु त्रिरूपं लिङ्गमिति च कुतः । स्वदृष्टार्थग्रहणस्य सर्व्वार्थप्रतिपादनसम्भवात् ।
ततोनुमेयस्य परोक्षरूपस्य सकलस्य प्रकाशनं परं प्रत्यनुमानं परार्थमिति प्राप्तम् ।
अत्रोच्यते ।
प्रकाशितो ह्यसावुच्यते यत्र परस्य संप्रतिपत्तिः । अत एव प्रकर्षाभिधायी प्रशब्दः ।
प्रमाणप्रतिपन्ने च परस्य संप्रतिपत्तिः । यदि चानुमेयमपि प्रमाणप्रतिपन्नं तदाऽविवाद1108 एव
त्रिरूपलिङ्गं प्रकाशनद्वारेण तु विवादास्पदीभूतानुमेयप्रतिपत्तिरिति न वचनस्य व्यर्थता ।
ततोनुमानमुदेतीति तदप्यनुमानमुपचारात् । यद्यनुमानोत्पादनाद्वचनमनुमानं प्रत्यक्षोत्पादना
त्प्रत्यक्षमपि परार्थं1109 भवेत् । नेदं चतुरस्त्रं ।
न वचनमात्रादध्यक्षं परस्योदेति ।
ननु पश्य मृगो धावतीति दृश्यते दर्शनोदयः । न । तत्राप्यनुमानस्यानन्तरत्वात् ।
तथा हि(।)
अभिमुखीभव मृगदर्शन इति नियोगवचनमेतत् । अभिमुखीभावश्च यथा मम तथा
तवापि । तत एवमभिमुखीभवने हेतूनां व्यापार इति स्मरन् प्रवर्तत इत्यनुमानमेव । ततो
नुमानात्प्रत्यक्षसम्भवमालोच्य प्रवर्त्तते । एवन्तर्हि प्रत्यक्षविषये प्रवर्तते सम्भवानुमानं स्वभाव
हेतुः । कार्यहेतुर्न वचनात्प्रकाशते३ साक्षात् (।) तथाहि ।