522

ननु भावनाबलनिष्‍पन्‍ननिष्‍कल्पा विकल्पा विकल्पभ्रान्तज्ञानात्मकत्वाद् भगवतः
प्रत्यक्षप्रमाणस्वभावता साक्षादस्त्येव किमुपचाराश्रयेणेति चेददोषोयं सविकल्पज्ञा
नावस्थाश्रयेणाभिधानादित्येके । इदन्त्वत्र युक्‍तं यद्यपि यथोक्‍तप्रमाणात्मकः
सदा भगवान् तथाप्यसंव्यावहारिकोसौऽवस्थाभेदस्ततः सांव्यवहारिकप्रमाणेनोप
मीयते लोकबोधनाय अमुनैव व्यवहरन्ति मुक्‍ता न लोकोत्तरेणातद्विप (क्ष)
त्वादितरेषां । यथोक्‍तं


रूपणव्यपदेशाभ्यां लौकिके वर्त्मनि स्थितौ ।

ज्ञानं प्रत्यभिलापञ्‍च सदृशौ बालपण्डिताविति ॥

प्रमाणमविसम्वादि ज्ञानमिति । अविसम्वादित्वं ज्ञानत्वञ्‍चानूद्य प्रामाण्यं
विधीयते । एतच्‍च प्रमाणद्वयव्यापिसामान्यलक्षणं


7a यद्यपि चालम्बनमनुमानस्य भ्रान्तं प्रवृत्तिविषयस्तु वाध एवार्थः । सामान्य
विशेषाकाराभ्यां स्वलक्षणस्यैव परिच्छेदादविसम्वादित्वं तुल्यं । अर्थक्रियासमर्थ
प्रतिबद्धलिङ्गापेक्षयानुमानस्य बाह्य एव प्रवृत्तेरिति तुल्यत्वं ।


ननु चाध्यक्षानुमानाभ्यामपि प्रवृत्तस्य कदाचित्प्रतिबन्धादिसम्भवाद्विसम्वा
दोपि । तदाभासाभ्यामपि काकतालीयन्यायेन सम्वादोपि । अतः कथमेतत्प्रमाण
लक्षणं ।


न दोषः । सदैव प्रमाणाभ्यां प्रवृत्तस्य प्रतिबन्धादप्रतिबन्धादिसम्भवे नियतः
सम्वादो न त्वेवं तदाभासेऽवश्‍यम्भावी सम्वादः । प्रमाणशक्‍तिर्वा प्रामाण्यं सा च
प्रतिबन्धादावप्यस्ति प्रमाणयोर्न त्वेवं तदाभासयोरिति असाङ्कर्यमेव । द्विविधश्‍च
सम्वादो ज्ञेयधर्मो ज्ञानधर्मश्‍च । अत्रार्थमुपलभ्य प्रवृत्ताविष्‍टार्थप्राप्‍तिः सम्वादो
विषयधर्मः । अर्थसामर्थ्येन तत्सिद्धेः । तदाकारज्ञानोत्पत्तेस्त्वर्थक्रियाधिगतिर्विषयि
धर्मः सत्यपि बाह्येऽर्थे तद्व‍्यवस्थाश्रयं ज्ञानमेव तस्य स्वसम्विद्रूपतया
बाह्यप्रकाशकं स्वयंप्रकाशरूपत्वात् तदेवं विषयधर्मस्यापि सम्वादस्य सम्भवा
ज्ज्ञानग्रहणं कृतमित्येतत्कथयन्‍नाह । स पुनरर्थंपरिच्छेद्येत्यादि । स पुनस्संवादो
विषयधर्म इत्यनेन सम्बन्धः । कदा पुनरसौ भवतीत्याह । अर्थस्य विच्छिद्य
प्रवृत्ताविति । परिच्छेदः प्रमाणद्वयं । तत्तु इत्यत्रानयोः । प्रत्यासन्‍नकारणत्वमिति
सूचयति । अयन्तु भेदः प्रत्यक्षाविकल्पकत्वान्‍न निश्‍चयः किन्तु तदाभासोत्पत्तेः ।
अनुमाने तु निश्‍चय एव । यद्येवं प्रत्यक्षेणाविकल्पेन मिथ्याफलवादिनां विवेकस्य
7b कर्त्तुमशक्यत्वात्कथं ततोऽर्थं परिच्छिद्य प्रवृत्तिरिति चेद् उच्यते द्विधा
प्रत्यक्षाश्रया प्रवृत्तिराद्याभ्यासवती च । तत्र याऽद्या सार्थगता तत्राभ्याससामर्थ्याद्यथा
विषयमधिगतपाटवं सदसन्मणिरूप्यादिज्ञानवदुत्पद्यमानं यथावस्त्वेवाकारं परिच्छि