किञ्च (।)

वदन्नकार्यलिङ्गां तां व्यभिचारेण बाध्यते ।
अनान्तरीयके चार्थे बाधितेन्यस्य का क्षतिः ॥ ४७ ॥
432

तामिच्छामकार्यलिङ्गजां कार्येतरलिङ्गामनुमेयत्वेन वदन् परो व्यभिचा
रेण बाध्यते
 । न ह्यन्योऽकार्योऽन्यं न व्यभिचरतीति नियमोस्ति । अपि च साध्य
सानित्यत्वस्यानन्तरीयकेऽर्थे आकाशगुणत्वादौ बाधितत्वेप्यन्यस्य साध्यस्य का
क्षतिः
 । न ह्यनित्यत्वमाकाशगुणत्वनान्तरीयकं येन तदभावे तदपि न स्यात् ।
कृतकत्वन्त्वनि
त्वत्यताऽव्यभिचारीति तस्मान्नानुमानमनैकान्तिकं । (४७)