48a उपमीयते । अयं नृपो विवक्षितः कश्चित् । अंशुमतः सूर्यस्य कक्षां पदवीं समताम् आरोढुमलं शक्तः । तेजसा हेतुनेति । अधिकेन हीन उपमितः । अत्यन्तभद्रतामेकान्ततेजस्वितां च प्रतीतामाश्रित्य अयमेवंविधः प्रयोगः । तथा भावनायांशोभत इत्यवसेयम् ॥