तदीदृशं सर्वं सुन्दरमिति दर्शयति—
इत्येवमनन्तरोक्तं लक्ष्ममादिर्यस्यान्यस्यापि तज्जातीयस्य लक्ष्यजातस्य तद् [वर्णनं] न जातुचित् न कदाचिदपि सौभाग्यं शोभां जहाति त्यजत्येव । सदैव सुभगमीदृशमित्यर्थः । भिन्नलिङ्गवचनादि किञ्चिदुद्वेगकरं विपश्चितामिति कथयतिक्वचित् प्रयोगे लक्ष्ये न सर्वत्र । उद्वेगे वैमुख्यमनादरः । अस्ति, च न केवलं नास्ति । वाग्विदां शब्दहृदयज्ञानां कवीनाम् । यथेत्युदाहरति ॥
हंसीव धवलश्चन्द्र इति लिङ्गभेदः । सरांसीवामलं नभ इति वचनभेदः । भर्तृभक्तो भटः श्वेवेति हीनेन जात्यादिना अधिक उपमितः । खद्योतो ज्योतिरिङ्गणः भाति भानुवत् इत्यधिकेन हीन उपमीयत इति ॥
एवंविधं हेयमिति दर्शयति—
ईदृशम् इत्थंमूतं सद्भिः कविभिरुचितविद्वद्भिः वर्ज्यते नाद्रियते । नियतं तावदेतत् । किं कारणमिति चेत् ? अत्रेदृशस्य वर्जने कारणं तु निमित्तं पुनः किञ्चित् स्वयमेव चिन्त्यतां निरूप्यताम् । नात्रास्माकमभिनिवेशः । अयमाशयः । ईदृशमशिष्टेष्टमप्रतीतं न सौभाग्यभाजनम् । अतश्चोद्वेगकरत्वाद् वर्ज्यते । न च ते पर्यनुयोगमर्हन्ति, प्रमाणत्वात् सर्वथा तेषाम् । केवलं तत्प्रयोगमार्गः प्रकृतिसुभगोऽस्माभिरनुगम्यते । यदि पुनस्तैराद्रियेत, के वयं वर्जयितुम् ? सुभगमेव तदेदृशं तल्लक्षणत्वादिह सौभाग्यस्येति । तथा च व[क्ष्य]ते शिष्टेष्टस्तु न दुष्यतीति76 । इत्थं चैतदुद्वेजनीयम् ।
- ३.१४८↩