शास्त्राद् गुणदोषविवेके सति को गुणस्तद्......आह—

गौर्गौः कामदुघा सम्यक्प्रयुक्ता स्मर्यते बुधैः ।
दुष्प्रयुक्ता पुनर्गोत्वं प्रयोक्तः सैव शंसति ॥६ ॥

गौर्वाक् काव्यादिस्वभावा । सम्यक् शास्त्रादिप्रभावेण स्वरूपतोऽर्थतश्च परिशुद्धा5 प्रयुक्ता कृता प्रकाशिता सती पुरुषेणेति गम्यते । काम[दुघा]......रिति वक्ष्यमाणमत्रापि सम्बन्धनीयम् । गौः सौरभेयी स्मर्यते आम्नायते बुधैराप्तैः । एवमाप्ता उपदिशन्ति, तस्मादवितथमेतत् । आप्तोपदेशस्य प्रमाणत्व[निश्चयात्][तदनुसरणत]श्चेष्टसिद्धिदर्शनात् । या वागेवं कामधेनुर्जाता सुप्रयुक्ता सती सैव नान्या । दुष्प्रयुक्ता पुनः शास्त्रविरोधात् स्वभावाश्रयवैगुण्येनोद्भाविता तु सतो गोत्वं [पशुत्वं शं]सति ख्यापयति प्रयोक्तुः पुरुषस्य । ततश्चाशास्त्रज्ञोऽयं पुरुषाकृतिः पशुरिति विदुषां हेयः स्यादित्यनर्थे पतितः । दूर एवार्थसिद्धिः । तदिह म[हद]न्तरं शास्त्र[ज्ञानेन भवति । मनुष्यत्वा]5b विशेषेऽपि शास्त्रज्ञो देव इव पूज्यते गुणानुरागिभिरितरस्तु पशुरिव दृश्यत इति ॥