द्वितीयो यथा—
अत्र हरिणीभूतेति च्वेर्ङीपश्च तुल्यरूपतायां तदुद्भेदो नास्तीत्यनुद्भेदः प्रत्ययश्लेषोऽयम् ॥
व्रणरूढिस्थानं श्यामं भवतीति लाञ्छनच्छायाभूता कीदृशी हरिणी हरिता । वर्णादनुदात्तात्तोपधात्तो नः’ इति ङीपि नादेशे च रूपम् । सेयं प्रतीयमानगुणनोत्प्रेक्षा । अहरिणरूपापि व्यवहारारूढहरिणतामापन्नेति च्विप्रत्यये च हरिणीभूते रूपम् । अत्र डीपश्च्वेर्वा न किंचिद्भेदकं निबद्धमिति निरुद्भेदः प्रत्ययश्लेषोऽयम् । हरितहरिणरूपे प्रकृती अपि संभिन्ने एव । संकरस्यादूषणत्वात् । एवं पूर्वोदाहरणेऽपि ॥
विभक्तिश्लेषो द्विधा—भिन्नजातीययोः, अभिन्नजातीययोश्च । तयोराद्यो यथा—
अत्र येनविषं निजगले, भुजगराजश्च निजगले बभ्रे, अङ्गजो देहे, जाया च दध्रे इति तिङ्सुब्विभक्त्योः लिडात्मनेपदप्रथमपुरुषैकवचनसप्तम्येकवचनान्तयोरेकरूपत्वाद्विभिन्नार्थकत्वाद्भिन्नजातीयसुप्तिङ्विभक्तिश्लेषोऽयम् ॥
निजगल इति गिरतेः कर्मणि लिटि रूपम् । येन विषं कालकूटाख्यं निगीर्णम्, निजे च गले कण्ठे भुजगराजो धृतः । देह इति दहतेस्तत्रैव [कर्मणि लिटि] रूपम् । अङ्गजः कामो येन दग्धः, निजे च देहे शरीरे जाया पार्वती धृता स जयतीति । विवरणग्रन्थः सुबोध एव ॥