सूर्यदृष्टान्तेनेति । ऋद्धिभिः सुहृदनुगृह्यत इति सिद्धोऽर्थः, किंतु तदेतदेव तासां फलमिति विशेषमभिधातुं सूर्यदृष्टान्तोपन्यासः । अत्र समृद्धताफलं सुहृत्त्वमनुग्रहत्वं चेति शब्दत एव सूर्यादिषु दृष्टान्तदार्ष्टान्तिकाभिमतेषु प्रतीयत इति ऋजुत्वमित्यर्थः ॥