अत्रापि पूर्वं दृष्टान्तः पश्चाद्दार्ष्टान्तिकम् । किंतु यथा पूर्वत्रोदयमानः सविता सुहृत्पद्मेषु श्रियमर्पयतीति तुल्येतिवृत्तता ऋजूक्त्या शब्देनैवाभिधीयते, नैवमत्र किं तर्हि ज्वलनेतिवृत्तेन तुल्यं तत्तु तत्पुरुषाणामितिवृत्तमशाब्दं युक्तिचातुर्यात्प्रतीयते तदिदं पूर्वं च वक्रं निदर्शनम् ॥