पाणउडीति । पाणपदं म्लेच्छदेशीयम् । पाने कुटी शौण्डिककुटी वा । अत्रापीति । दृष्टान्तेऽपि पानकुटीज्वलनादिकं विशेषणमुपात्तम् । च च तद्दार्ष्टा-353 न्तिके संभवति शब्देन वा प्रत्याय्यते; किंतु बिम्बप्रतिबिम्बन्यायेनात्र भवति । तथा हि यथा पानकुट्यां हुतवहस्य ज्वलनं यज्ञवाटे च तथाऽव्यवस्थितचित्ततया ग्रामीणाविदग्धयुवतिप्रसक्तो भूत्वान्यत्र नागरिकासु विदग्धासु रज्यते सोऽपि न त्याज्य इत्युक्तिचातुर्यात्तुल्येतिवृत्तता गम्यतेऽतो वक्रत्वमित्याह—किंतु यथेति ॥