अत्रापि दार्ष्टान्तिकमभिधायोत्तरकालमेव दृष्टान्तो विहितस्तदिदमुत्तरं ऋजु निदर्शनम्; किंतु यथा पूर्वस्मिन् हृदये तिर्यगित्यादिभिः शब्द एव ऋजूक्त्या साधर्म्याभिधानम्, नैवमत्र तथा; अपि तु किमेतदापतितमित्युक्तिचातुर्येण विपर्ययेण च लिङ्गसंख्या यथासंख्यानाम् । तदेतदुत्तरं वक्रं च निदर्शनम् ।