अपि तु किमेतदापतितमित्युक्तिचातुर्येणेति । ननु च उपरीत्यनेन व्यवधानमुपात्तं दृष्टान्तेऽपि शब्द एव प्रतिफलति तत्कथं वक्रत्वमित्यत आह—विपर्ययेणेति । घनपटलं नपुंसकम्, फणी पुमान्, दयिता चैकवचनवती, ओषधयो बहुवचनालिङिगताः । घनपटलं पूर्वं दार्ष्टान्तिकमुपक्रम्य दृष्टान्तोक्तौ न पूर्वं फणी निर्दिष्टः । ततो लिङ्गसंख्यानां विपर्ययो भवति, तदयमर्थेन शब्दत एवोपरि पर्यवस्थानं दूरत्वं च दृष्टान्तयोः प्रतीयते; शिरसि हिमवतीत्येताभ्यामन्यथाकारं बोधितत्वात् । फलतस्तु स एवार्थ इति वक्रतैवेति ।